अर्थशास्त्रम् अध्याय ०७ - भाग ८

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


८.०१
यातव्यो_अभियास्यमानः संधि.कारणम् आदातु.कामो विहन्तु.कामो वा सामवायिकानाम् अन्यतमं लाभ.द्वैगुण्येन पणेत ॥

८.०२
पणमानः क्षय.व्यय.प्रवास.प्रत्यवाय.पर.उपकार.शरीर.आबाधांश् च_अस्य वर्णयेत् ॥

८.०३
प्रतिपन्नम् अर्थेन योजयेत् ॥

८.०४
वैरं वा परैर् ग्राहयित्वा विसंवादयेत् ॥

८.०५
दुरारब्ध.कर्माणं भूयः क्षय.व्ययाभ्यां योक्तु.कामः स्व्.आरब्धां वा यात्रा.सिद्धिं विघातयितु.कामो मूले यात्रायां वा प्रहर्तु.कामो यातव्य.संहितः पुनर् याचितु.कामः प्रत्युत्पन्न.अर्थ.कृच्छ्रस् तस्मिन्न् अविश्वस्तो वा तदात्वे लाभम् अल्पम् इच्छेत्, आयत्यां प्रभूतम् ॥

८.०६
मित्र.उपकारम् अमित्र.उपघातम् अर्थ.अनुबन्धम् अवेक्षमाणः पूर्व.उपकारकं कारयितु.कामो भूयस् तदात्वे महान्तं लाभम् उत्सृज्य_आयत्याम् अल्पम् इच्छेत् ॥

८.०७
दूष्य.अमित्राभ्यां मूल.हरेण वा ज्यायसा विगृहीतं त्रातु.कामस् तथा.विधम् उपकारं कारयितु.कामः सम्बन्ध.अवेक्षी वा तदात्वे च_आयत्यां च लाभं न प्रतिगृह्णीयात् ॥

८.०८
कृत.संधिर् अतिक्रमितु.कामः परस्य प्रकृति.कर्शनं मित्र.अमित्र.संधि.विश्लेषणं वा कर्तु.कामः पर.अभियोगात्_शङ्कमानो लाभम् अप्राप्तम् अधिकं वा याचेत ॥

८.०९
तम् इतरस् तदात्वे च_आयत्यां च क्रमम् अवेक्षेत ॥

८.१०
तेन पूर्वे व्याख्याताः ॥

८.११
अरि.विजिगीष्वोस् तु स्वं स्वं मित्रम् अनुगृह्णतोः शक्य.कल्य.भव्य.आरम्भि.स्थिर.कर्म.अनुरक्त.प्रकृतिभ्यो विशेषः ॥

८.१२
शक्य.आरम्भी विषह्यं कर्म_आरभते, कल्य.आरम्भी निर्दोषम्, भव्य.आरम्भी कल्याण.उदयम् ॥

८.१३
स्थिर.कर्मा न_असमाप्य कर्म_उपरमते ॥

८.१४
अनुरक्त.प्रकृतिः सुसहायत्वाद् अल्पेन_अप्य् अनुग्रहेण कार्यं साधयति ॥

८.१५
त एते कृत.अर्थाः सुखेन प्रभूतं च_उपकुर्वन्ति ॥

८.१६
अतः प्रतिलोमा न_अनुग्राह्याः ॥

८.१७
तयोर् एक.पुरुष.अनुग्रहे यो मित्रं मित्र.तरं वा_अनुगृह्णाति सो_अतिसंधत्ते ॥

८.१८
मित्राद् आत्म.वृद्धिं हि प्राप्नोति, क्षय.व्यय.प्रवास.पर.उपकारान् इतरः ॥

८.१९
कृत.अर्थश् च शत्रुर् वैगुण्यम् एति ॥

८.२०
मध्यमं त्व् अनुगृह्णतोर् यो मध्यमं मित्रं मित्रतरं वा_अनुगृह्णाति सो_अतिसंधत्ते ॥

८.२१
मित्राद् आत्म.वृद्धिं हि प्राप्नोति, क्षय.व्यय.प्रवास.पर.उपकारान् इतरः ॥

८.२२
मध्यमश् चेद् अनुगृहीतो विगुणः स्याद् अमित्रो_अतिसंधत्ते ॥

८.२३
कृत.प्रयासं हि मध्यम.अमित्रम् अपसृतम् एक.अर्थ.उपगतं प्राप्नोति ॥

८.२४
तेन_उदासीन.अनुग्रहो व्याख्यातः ॥

८.२५
मध्यम.उदासीनयोर् बल.अंश.दाने यः शूरं कृत.अस्त्रं दुःख.सहम् अनुरक्तं वा दण्डं ददाति सो_अतिसंधीयते ॥

८.२६
विपरीतो_अतिसंधत्ते ॥

८.२७
यत्र तु दण्डः प्रहितस् तं वा च_अर्थम् अन्यांश् च साधयति तत्र मौल.भृत.श्रेणी.मित्र.अटवी.बलानाम् अन्यतमम् उपलब्ध.देश.कालं दण्डं दद्यात्, अमित्र.अटवी.बलं वा व्यवहित.देश.कालम् ॥

८.२८
यं तु मन्येत "कृत.अर्थो मे दण्डं गृह्णीयाद्, अमित्र.अटव्य्.अभूम्य्.अनृतुषु वा वासयेद्, अफलं वा कुर्याद्" इति, दण्ड.व्यासङ्ग.अपदेशेन न_एनम् अनुगृह्णीयात् ॥

८.२९
एवम् अवश्यं त्व् अनुग्रहीतव्ये तत्.काल.सहम् अस्मै दण्डं दद्यात् ॥

८.३०
आ.समाप्तेश् च_एनं वासयेद् योधयेच् च बल.व्यसनेभ्यश् च रक्षेत् ॥

८.३१
कृत.अर्थाच् च स.अपदेशम् अपस्रावयेत् ॥

८.३२
दूष्य.अमित्र.अटवी.दण्डं वा_अस्मै दद्यात् ॥

८.३३
यातव्येन वा संधाय_एनम् अतिसंदध्यात् ॥

८.३४
समे हि लाभे संधिः स्याद् विषमे विक्रमो मतः ॥

८.३४
सम.हीन.विशिष्टानाम् इत्य् उक्ताः संधि.विक्रमाः ॥

(मित्र.हिरण्य.भूमि.कर्म.संधयः, तत्र मित्र.संधिः हिरण्य.संधिश् च)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP