प्रकीर्ण-काण्डः - सर्ग १

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ अभून् नृपो विबुध-सखः परं-तपः श्रुताऽन्वितो दश-रथ इत्युदाहृतः,
१-२ गुणैर् वरं भुवन-हितच्-छलेन यं सना-तनः पितरमुपागमत् स्वयम्.
२-१ सोऽध्यैष्ट वेदांस्, त्रि-दशानयष्ट, पित् न्पारीत्, सममंस्त बन्धून्,
२-२ व्यजेष्ट षड्-वर्गमरंस्त नीतौ, स-मूल-घातं न्यवधीदरींश् च.
३-१ वसूनि तोयं घन-वद् व्यकारीत्, सहाऽऽसनं गोत्र-भिदाऽध्यवात्सीत्,
३-२ न त्र्यम्बकादन्यमुपास्थिताऽसौ, यशांसि सर्वेषु-भृतां निरास्तत्.
४-१ पुण्यो महा-ब्रह्म-समूह-जुष्टः संतर्पणो नाक-सदां वरेण्यः
४-२ जज्वाल लोक-स्थितये स राजा यथाऽध्वरे वह्निरभिप्रणीतः.
५-१ स पुण्य-कीर्तिः शत-मन्यु-कल्पो महेन्द्र-लोक-प्रतिमां समृद्ध्या
५-२ अध्यास्त सर्वर्तु-सुखामयोध्या- मध्यासितां ब्रह्मभिरिद्ध-बोधैः.
६-१ निर्माण-दक्षस्य समीहितेषु सीमेव पद्माऽऽसन-कौशलस्य
६-२ ऊर्ध्व-स्फुरद्-रत्न-गभस्तिभिर् या स्थिताऽवहस्येव पुरं मघोनः.
७-१ सद्-रत्न-मुक्ता-फल-वज्र-भाञ्जि विचित्र-धातूनि स-काननानि
७-२ स्त्रीभिर् युतान्यप्सरसामिवौघैर् मेरोः शिरांसीव गृहाणि यस्याम्.
८-१ अन्तर्-निविष्टोज्ज्वल-रत्न-भासो गवाक्ष-जालैरभिनिष्पतन्त्यः
८-२ हिमाऽद्रि-टङ्कादिव भान्ति यस्यां गङ्गाऽम्बु-पात-प्रतिमा गृहेभ्यः
९-१ धर्म्यासु कामाऽर्थ-यशस्-करीषु मतासु लोकेऽधिगतासु काले
९-२ विद्यासु विद्वानिव सोऽभिरेमे पत्नीषु राजा तिसृषूत्तमासु.
१०-१ पुत्रीयता तेन वराऽङ्गनाभि- रानायि विद्वान् क्रतुषु क्रियावान्
१०-२ विपक्त्रिम-ज्ञान-गतिर् मनस्वी मान्यो मुनिः स्वां पुरमृष्य शृङ्गः
११-१ ऐहिष्ट तं कारयितुं कृताऽऽत्मा क्रतुं नृपः पुत्र-फलं मुनीन्द्रम्,
११-२ ज्ञानाऽऽशयस् तस्य ततो व्यतानीत् स कर्मठः कर्म सुताऽनुबन्धम्.
१२-१ रक्षांसि वेदीं परितो निरास्थ- दङ्गान्ययाक्षीद्भितः प्रधानम्,
१२-२ शेषाण्यहौषीत् सुत-संपदे च, वरं वरेण्यो नृपतेरमार्गीत्.
१३-१ निष्टां गते दक्त्रिम-सभय-तोषे विहित्रिमे कर्मणि राज-पत्न्यः
१३-२ प्राशुर् हुतोच्छिष्टमुदार-वंश्यास् तिस्रः प्रसोतुं चतुरः सु-पुत्रान्.
१४-१ कौसल्ययाऽसावि सुखेन रामः प्राक्, केकयी-तो भरतस् ततोऽभूत्,
१४-२ प्रासोष्ट शत्रु-घ्नमुदार-चेष्ट- मेका सुमित्रा सह लक्ष्मणेन.
१५-१ आर्चीद् द्वि-जातीन् परमाऽर्थ-विन्दा- नुदेजयान् भूत-गणान् न्यषेधीत्,
१५-२ विद्वानुपानेष्ट च तान् स्व-काले यतिर् वशिष्टो यमिनां वरिष्ठः.
१६-१ वेदोऽङ्गवांस्तौरखिलोऽध्यगायि शस्त्राण्युपायंसत जित्वराणि,
१६-२ ते भिन्न-वृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः,
१७-१ ततो-भ्यगाद् गाधि-सुतः क्षितीन्द्रं रक्षोभिरभ्याहत-कर्म-वृत्तिः
१७-२ रामं वरीतुं परिरक्षणा-र्थं, राजाऽऽजिहत् तं मधुपर्क-पाणिः.
१८-१ ऐषीः पुनर्-जन्म-जयाय यत् त्वं, रूपाऽऽदि-बोधान् न्यवृतच् च यत् ते,
१८-२ तत्त्वान्यबुद्धाः प्रतिनूनि येन, ध्यानं नृपस् तच्छिवमित्यवादीत्.
१९-१ आख्यन् मुनिस् तस्य शिवं समाधेर्, विघ्नन्ति रक्षांसि वने क्रतूंश्च,
१९-२ तानि द्विषद्-वीर्य-निराकरिष्णुस् तृणेढु रामः सह लक्ष्मणेन.
२०-१ स शुश्रुवांस्तद्-वचनं मुमोह राजाऽसहिष्णुः सुत-विप्रयोगम्,
२०-२ अहंयुनाऽथ क्षिति-पः शुभंयु- रूचे वचस् तापस-कुञ्जरेण.
२१-१ मया त्वमाप्थाः शरणं भयेषु, वयं त्वयाऽप्याप्स्महि धर्म-वृद्ध्यै,
२१-२ क्षत्रं द्विज-त्वं च परस्पराऽर्थं, शङ्कां कृथा मा, प्रहिणु-स्व-सूनुम्.
२२-१ घानिष्यते तेन महान् विपक्षः, स्थायिष्यते येन रणे पुरस्तात्,
२२-२ मा मां महाऽऽत्मन् परिभूर्-योग्ये न मद्-विधो न्यस्यति भारमग्र्यम्.
२३-१ क्रुध्यन् कुलं धक्ष्यति विप्र-वह्निर्, यास्यन् सुतस् तप्स्यति मां स-मन्युम्,
२३-२ इत्थं नृपः पूर्वमवालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य.
२४-१ आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे पुनराश्रमाय,
२४-२ तं पृष्ठ-तः प्रष्ठमियाय नम्रो हिंस्रेषु-दीप्ताऽऽप्त-धनुः कुमारः.
२५-१ प्रयास्यतः पुण्य-वनाय जिष्णो- रामस्य रोचिष्णु-मुखस्य घृष्णुः
२५-२ त्रै-मातुरः कृत्स्न-जिताऽस्त्र-शस्त्रः सध्र्यङ् रतः श्रेयसि लक्ष्मणोऽभूत्.
२६-१ इषु-मति रघु-सिंहे दन्दशूकाञ् जिघांसौ धनुररिभिर-सह्यं मुष्टि-पीडं दधाने
२६-२ व्रजति, पुर-तरुण्यो बद्ध-चित्राऽङ्गुलित्रे कथमपि गुरु-शोकान् मा रुदन् माङ्गलिक्यः
२७-१ अथ जगदुरनीचै-राशिषस् तस्य विप्रास्, तुमुल-कल-निनादं तूर्यमाजघ्नुरन्ये,
२७-२ अभिमत-फल-शंसी चारु पुस्फोर बाहुस्, तरुषु चुकुवुरुच्चैः पक्षिणश् चाऽनुकूलाः.

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP