प्रकीर्ण-काण्डः - सर्ग ३

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ वधेन संख्ये पिशिताऽशनानां क्षत्राऽन्तकस्या ऽभिभवेन चैव
१-२ आढ्यंभविष्णुर् यशसा कुमारः प्रियंभविष्णुर् न स यस्य नाऽऽसीत्.
२-१ ततः सुचेतीकृत-पौर-भृत्यो "राज्ये ऽभिषेक्ष्ये सुतमित्य-नीचैः
२-२ आघोषयन् भूमि-पतिः समस्तं भूयोऽपि लोकं सुमनीचकार.
३-१ आदिक्षदादीप्त-कृशानु-कल्पं सिंहासनं तस्य स-पाद-पीठम्
३-२ सन्तप्त-चामीकर-वल्गु-वज्रं विभाग-विन्यस्त-महार्घ-रत्नम्.
४-१ प्रास्थापयत् पूग-कृतान् स्व-पोषं पृष्टान् प्रयत्नाद् दृढ-गात्र-बन्धान्
४-२ स-भर्म-कुम्भान् पुरुषान् समन्तात् पत्काषिणस् तीर्थ-जलाऽर्थमाशु.
५-१ उक्षान् प्रचक्रुर् नगरस्य मार्गान्, ध्वजान् बबन्धुर्, मुमुचुः ख-धूपान्,
५-२ दिशश्च पुष्पैश्चकरुर् विचित्रै- रर्थेषु राज्ञा निपुणा नियुक्ताः
६-१ मातामहाऽऽवासमुपेयिवांसं मोहाद-पृष्ट्वा भरतं तदानीम्
६-२ तत् केकयी सोढुम-शक्नुवाना ववार रामस्य वन-प्रयाणम्.
७-१ कर्णे-जपैराहित-राज्य-लोभा स्त्रैणेन नीता विकृतिं लघिम्ना
७-२ राम-प्रवासे व्यमृशन् न दोषं जनाऽपवादं स-नरेन्द्र-मृत्युम्
८-१ वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः संगिरमाण एव
८-२ तया ऽवजज्ञे, भरताऽभिशेको विषाद-शङ्कुश्च मतौ निचख्ने.
९-१ ततः प्रविव्राजयिषुः कुमार- मादिक्षदस्या ऽभिगमं वनाय
९-२ सौमित्रि-सीताऽनुचरस्य राजा सुमन्त्र-नेत्रेण रथेन शोचन्.
१०-१ केचिन् निनिन्दुर् नृपम-प्रशान्तं, विचुक्रुशुः केचन साऽस्रमुच्चैः,
१०-२ ऊचुस् तथा ऽन्ये भरतस्य मायां, धिक् केकयीमित्यपरो जगाद.
११-१ "गतो वनं श्वो भवितेति रामः," शोकेन देहे जनता ऽतिमात्रम्,
११-२ धीरास् तु तत्र च्युत-मन्यवो ऽन्ये दधुः कुमाराऽनुगमे मनांसि.
१२-१ प्रस्थास्यमानावुपसेदुषस् तौ शोशुच्यमानानिदमूचतुस् तान्,
१२-२ "किं शोचतेहा ऽभ्युदये बता ऽस्मान् नियोग-लाभेन पितुः कृताऽर्थान्,
१३-१ असृष्ट यो, यश्च भयेष्वरक्षीद्, यः सर्वदा ऽस्मानपुषत् स्व-पोषम्,
१३-२ महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः,
१४-१ विद्युत्-प्रणाशं स वरं प्रनष्टो, यद्वोर्ध्व-शोषं तृण-वद् विशुष्कः,
१४-२ अर्थे दुरापे किमुत प्रवासे न शासने ऽवास्थित यो गुरूणाम्.
१५-१ पौरा ! निवर्तध्वमिति न्यगादीत्, "तातस्य शोकाऽपनुदा भवेत,
१५-२ मा दर्शताऽन्यं भरतं च मत्तो," निवर्तयेत्याह रथं स्म सूतम्
१६-१ ज्ञात्वेङ्गितैर् गत्वरतां जनाना- मेकां शयित्वा रजनीं स-पौरः
१६-२ रक्षन् वने-वास-कृताद् भयात् तान् प्रातश् छलेना ऽपजगाम रामः
१७-१ अस्राक्षुरस्रं करुणं रुवन्तो, मुहुर्मुहुर् न्यश्वसिषुः कपोष्णम्,
१७-२ हा राम ! हा कष्टमिति ब्रुन्वतः पराङ्-मुखैस् ते न्यवृतन् मनोभिः
१८-१ सूतो ऽपि गङ्गा-सलिलैः पवित्वा सहाऽऽश्वमात्मानमनल्प-मन्युः
१८-२ स-सीतयो राघवयोरधीयन् श्वसन् कदुष्णं पुरमाविवेश.
१९-१ प्रतीय सा पूर् ददृशे जनेन द्यौर् भानु-शीतांशु-विनाकृतेव
१९-२ राजन्य-नक्षत्र-समन्विता ऽपि शोकाऽन्धकार-क्षत-सर्व-चेष्टा.
२०-१ विलोक्य रामेण विना सुमन्त्र- मच्योष्ट सत्वान् नृ-पतिश् च्युताऽऽशः
२०-२ मधूनि नैषीद् व्यलिपन् न गन्धैर्, मनो-रमे न व्यवसिष्ट वस्त्रे.
२१-१ आसिष्ट नैकत्र शुचा, व्यरंसीत् कृताऽकृतेभ्यः क्षिति-पाल-भाग्-भ्यः,
२१-२ स चन्दनोशीर-मृणाल-दिग्धः शोका-ग्निना ऽगाद् द्यु-निवास-भूयम्.
२२-१ विचुक्रुशुर् भूमि-पतेर् महिष्यः, केशांल् लुलुञ्चुः, स्व-वपूंषि जघ्नुः,
२२-२ विभूषणान्युन्मुमुचुः, क्षमाया पेतुर्, बभञ्जुर् वलयानि चैव.
२३-१ ताः सान्त्वयन्ती भरत-प्रतीक्षा तं बन्धु-ता न्यक्षिपदाशु तैले,
२३-२ दूतांश्च राजाऽऽत्मजमानिनीषून् प्रास्थापयन् मन्त्रि-मतेन यूनः.
२४-१ "सुप्तो नभस्तः पतितं निरीक्षां- चक्रे विवस्वन्तमधः स्फुरन्तम्,"
२४-२ आख्यद् वसन् मातृ-कुले सखिभ्यः पश्यन् प्रमादं भरतो ऽपि राज्ञः.
२५-१ अशिश्रवन्नात्ययिकं तमेत्य दूता यदा ऽर्थं प्रयियासयन्तः,
२५-२ आंहिष्ट जाताऽञ्जिहिषस् तदा ऽसा- वुत्कण्ठमानो भरतो गुरूणाम्.
२६-१ बन्धूनशाङ्किष्ट समाकुलुत्वा- दासेदुषः स्नेह-वशादपायम्,
२६-२ गोमायु-सारङ्ग-गणाश् च सम्यङ् ना ऽयासिषुर्, भीममरासिषुश्च.
२७-१ स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघ-जन्यम्,
२७-२ आकर्णयामास न वेद-नादान्, न चोपलेभे वणिजां पणाऽयान्.
२८-१ चक्रन्दुरुच्चैर् नृ-पतिं समेत्य तं मातरो ऽभ्यर्णमुपागताऽस्राः,
२८-२ पुरोहिताऽमात्य-मुखाश् च योधा विवृद्ध-मन्यु-प्रतिपूर्ण-मन्या.
२९-१ दिदृक्षमाणः परितः स-सीतं रामं यदा नैक्षत लक्ष्मणं च,
२९-२ रोरुद्यमानः स तदाऽभ्यपृच्छद्, यथावदाख्यन्नथ वृत्तमस्मै.
३०-१ आबद्ध-भीम-भ्रुकुटी-विभङ्गः शेश्वीयमानाऽरुण-रौद्र-नेत्रः
३०-२ उच्चैरुपालब्ध स केकयीं च, शोके मुहुश् चाविरतं न्यमाङ्क्षीत्.
३१-१ नृपाऽऽत्मजौ चिक्लिशतुः स-सीतौ, ममार राजा, वि-धवा भवत्यः,
३१-२ शोच्या वयं, भूर-नृपा, लघुत्वं केकय्युपज्ञं बत बह्वनर्थम्.
३२-१ नैतन् मतं मत्कमिति ब्रुवाणः सहस्र-शो ऽसौ शपथानशप्यत्
३२-२ उद्वाश्यमानः पितरं स-रामं लुठ्यन् स-शोको भुवि रोरुदा-वान्.
३३-१ तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात्
३३-२ अन्त्याऽऽहुतिं हावयितुं स-विप्राश् चिचीषयन्तोऽध्वर-पात्र-जातम्.
३४-१ उदक्षिपन् पट्ट-दुकूल-केतू- नवादयन् वेणु-मृदङ्ग-कांस्यम्,
३४-२ कम्बूंश् च तारानधमन् समन्तात्, तथाऽऽनयन् कुङ्कुम-चन्दनानि.
३५-१ श्रोत्राऽक्षि-नासा-वदनं स-रुक्मं कृत्वाऽजिने प्राक्-शिरसं निधाय
३५-२ सञ्चित्य पात्राणि यथा-विधान- मृत्विग् जुहाव ज्वलितं चिताऽग्निम्
३६-१ कृतेषु पिण्डोदक-सञ्चयेषु, हित्वाऽभिषेकं प्रकृतं प्रजाभिः
३६-२ प्रत्यानिनीषुर् विनयेन रामं प्रायादरण्यं भरतः स-पौरः.
३७-१ शीघ्रायमाणैः ककुभोऽश्नुवानैर् जनैर-पन्थानमुपेत्य सृप्तैः
३७-२ शोकाद-भूषैरपि भूश् चकासा- ञ्चकार नागेन्द्र-रथाऽश्व-मिश्रैः.
३८-१ उच्चिक्यिरे पुष्प-फलं वनानि, सस्नुः पित् न् पिप्रियुरापगासु,
३८-२ आरेटुरित्वा पुलिनान्यशङ्कं, छायां समाश्रित्य विशश्रमुश्च.
३९-१ संप्राप्य तीरं तमसाऽऽपगाया गङ्गाऽम्बु-सम्पर्क-विशुद्धि-भाजः
३९-२ विगाहितुं यामुनमब्मु पुण्यं ययुर् निरुद्ध-श्रमवृत्तयस् ते.
४०-१ ईयुर् भरद्वाज-मुनेर् निकेतं, यस्मिन् विशश्राम समेत्य रामः
४०-२ च्युताऽशनायः फलवद्-विभूत्या व्य्स्यन्नुदन्यां शिशिरैः पयोभिः.
४१-१ वाचं-यमान् स्थण्डिल-शायिनश् च युयुक्षमाणाननिशं मुमुक्षून्
४१-२ अध्यापयन्तं विनयात् प्रणेमुः पद्गा भरद्वाज-मुनिः स-शिष्यं.
४२-१ आतिथ्यमेभ्यः परिनिर्विवप्सोः कल्प-द्रुमा योग-बलेन फेलुः,
४२-२ धाम-प्रथिम्नो म्रदिमाऽन्वितानि वासांसि च द्राघिम-वन्त्युदूहुः
४३-१ आज्ञां प्रतीषुर्, विनयादुपास्थुर्, जगुः सरागं, ननृतुः स-हावम्,
४३-२ स-विभ्रमं नेमुरुदारमुचुस् तिलोत्तमाऽऽद्या वनिताश्च तस्मिन्.
४४-१ वस्त्राऽन्न-पानं शयनं च नाना कृत्वाऽवकाशे रुचि-संप्रक्लॄॠप्तम्
४४-२ तान् प्रीति-मानाह मुनिस् ततः स्म "निवध्वमाध्वं, पिबताऽत्त शेध्वम्.
४५-१ ते भुक्तवन्तः सु-सुखं वसित्वा वासांस्युषित्वा रजनीं प्रभाते
४५-२ द्रुतं समध्वा रथ-वाजि-नागैर् मन्दाकिनीं रम्य-वनां समीयुः.
४६-१ वैखानसेभ्यः श्रुत-राम-वार्तास् ततो विशिञ्जान-पतक्त्रि-सङ्घम्
४६-२ अभ्रं-लिहाऽग्रं रवि-मार्ग-भङ्गम् आनंहिरे ऽद्रिं प्रति चित्र-कूटम्.
४७-१ दृष्ट्वोर्णुवानान् ककुभो बलौघान् वितत्य शार्ङ्गं कवचं पिनह्य
४७-२ तस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षि-भ्रुवमुज्जिहानः
४८-१ शुक्लोत्तरासङ्ग-भृतो वि-शस्त्रान् पादैः शनैरापततः प्र-मन्यून्
४८-२ औहिष्ट तान् वीत-विरुद्ध-बुद्धीन् विवन्दिषून् दाशरथिः स्व-वर्ग्यान्
४९-१ स-मूल-काषं चकषू रुदन्तो रामाऽन्तिकं बृंहित-मन्यु-वेगाः
४९-२ आवेदयन्तः क्षिति-पालमुच्चैः- कारं मृतं राम-वियोग-शोकात्
५०-१ चिरं रुदित्वा करुणं स-शब्दं गोत्राऽभिधायं सरितं समेत्य
५०-२ मध्ये-जलाद् राघव-लक्ष्मणाभ्यां प्रत्तं जलं द्व्यञ्जलमन्तिकेऽपाम्.
५१-१ "अरण्य-याने सु-करे पिता मा प्रायुङ्क्त, राज्ये बत दुष्-करे त्वाम्,
५१-२ मा गाः शुचं वीर !, भरं वहा ऽमुम्," आभाषि रामेण वचः कनीयान्.
५२-१ "कृती श्रुती वृद्ध-मतेषु धीमांस् त्वं पैतृकं चेद् वचनं न कुर्याः,
५२-२ विच्छिद्यमाने ऽपि कुले परस्य पुंसः कथं स्यादिह पुत्र-काम्या.
५३-१ अस्माकमुक्तं बहु मन्यसे चेद्, यदीशिषे त्वं न मयि स्थिते च,
५३-२ जिह्रेष्य-तिष्ठन् यदि तात-वाक्ये, जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्."
५४-१ "वृद्धौरसां राज्य-धुरां प्रवोढुं कथं कनीयानहमुत्सहेय,
५४-२ मा मां प्रयुक्थाः कुल-कीर्ति-लोपे," प्राह स्म रामं भरतोऽपि धर्य्मम्.
५५-१ "ऊर्जस्-वलं हस्ति-तुरङ्गमेतद्, अमूनि रत्नानि च राज-भाञ्जि,
५५-२ राजन्यकं चैतदहं क्षितीन्द्रस् त्वयि स्थिते स्यामिति शान्तमैतत्."
५६-१ इति निगदितवन्तं राघवस् तं जगाद "व्रज भरत ! गृहीत्वा पादुके त्वं मदीये,
५६-२ च्युत-निखिल-विशङ्कः पूज्यमानो जनौघैः सकल-भुवन-राज्यं कारया ऽस्मन्-मतेन"

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP