प्रकीर्ण-काण्डः - सर्ग ५

`भट्टिकाव्यं' हे संस्कृत भाषेतील एक उत्कृष्ट काव्य आहे.


१-१ निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम्
१-२ उत्पतिष्णू सहिष्णू च चेरतुः खर-दूषणौ.
२-१ तौ खड्ग-मुसल-प्रास-चक्र-बाण-गदा-करौ
२-२ अकार्ष्टामायुध-च्छायं रजः-सन्तमसे रणे.
३-१ अथ तीक्ष्णाऽऽयसैर् बानैरधि-मर्म रघूत्तमौ
३-२ व्याधं व्याधम-मूढौ तौ यम-साच्-चक्रतुर् द्विषौ.
४-१ हत-बन्धुर् जगामा ऽसौ ततः शूर्प-णखा वनात्
४-२ पारे-समुद्रं लङ्कायां वसन्तं रावणां पतिम्.
५-१ संप्राप्य राक्षस-सभं चक्रन्द क्रोध-विह्वला,
५-२ नाम-ग्राममरोदीत् सा भ्रातरौ रावणाऽन्तिके.
६-१ "दण्डकानध्यवात्तां यौ वीर ! रक्षः-प्रकाण्डकौ,
६-२ नृभ्यां संख्येऽकृशातां तौ स-भृत्यौ भूमि-वर्ध्नौ.
७-१ विग्रहस् तव शक्रेण बृहस्पति-पुरोधसा
७-२ सार्धं कुमार-सेनान्या, शून्यश् चाऽसीति को नयः
८-१ यद्यहं नाथ ! ना ऽयास्यं वि-नासा हत-बान्धवा,
८-२ ना ऽज्ञास्यस् त्वमिदं सर्वं प्रमाद्यंश् चार-दुर्-बलः.
९-१ करिष्यमाणं विज्ञेयं कार्यं, किं नु कृतं परैः,
९-२ अपकारे कृते ऽप्यज्ञो विजिगीषुर् न वा भवान्.
१०-१ वृतस् त्वं पात्रे-समितैः खट्वाऽऽरूढः प्रमाद-वान्
१०-२ पान-शौण्डः श्रियं नेता ना ऽत्यन्तीन-त्वमुन्मनाः
११-१ अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान्
११-२ अत्तुं महेन्द्रियं भागमेति दुश्च्यवनो ऽधुना,
१२-१ आमिक्षीयं दधि-क्षीरं पुरोडाश्यं तथौषधम्
१२-२ हविर् हैयङ्गवीनं च नाऽप्युपघ्नन्ति राक्षसाः
१३-१ युव-जानिर् धनुश्-पाणिर् भूमि-ष्ठः ख-विचारिणः
१३-२ रामो यज्ञ-द्रुहो हन्ति काल-कल्प-शिलीमुखः
१४-१ मांसान्योष्ठाऽवलोप्यानि साधनीयानि देवताः
१४-२ अश्नन्ति, रामाद् रक्षांसि बिभ्यश्रुवते दिशः
१५-१ कुरु बुद्धिं कुशाऽग्रियामनुकामीन-तां त्यज,
१५-२ लक्ष्मीं परम्परीणां त्वं पुत्र-पौत्रीण-तां नय.
१६-१ सहाय-वन्त उद्युक्ता बहवो निपुणाश् च याम्
१६-२ श्रियमाशासते, लोलां तां हस्ते-कृत्य मा श्वसीः
१७-१ लक्ष्मीः पुं-योगमाशंसुः कुलटेव कुतूहलात्
१७-२ अन्तिके ऽपि स्थिता पत्युश् छलेनाऽन्यं निरीक्षते.
१८-१ योषिद्-वृन्दारिका तस्य दयिता हंस-गामिनी
१८-२ दूर्वा-काण्डमिव श्यामा न्यग्रोध-परिमण्डला.
१९-१ नाऽऽस्यं पश्यति यस् तस्या, निंस्ते दन्त-च्छदं न वा,
१९-२ संशृणोति न चोक्तानि, मिथ्याऽऽसौ निहितेन्द्रियः.
२०-१ सारो ऽसाविन्द्रियाऽर्थानां, यस्या ऽसौ तस्य नन्दथुः,
२०-२ तल्पे कान्ताऽन्तरैः सार्धं मन्ये ऽहं धिङ् निमज्जथुम्.
२१-१ न तं पश्यामि, यस्या ऽसौ भवेन् नोदेजया मतेः
२१-२ त्रैलोक्येनाऽपि विन्दस् त्वं तां क्रीत्वा सुकृती भव.
२२-१ नैवेन्द्राणी, न रुद्राणी, न मानवी न रोहिणी,
२२-२ वरुणानी न, ना ऽग्नायी तस्याः सीमन्तिनी समा."
२३-१ प्रत्यूचे राक्षसेन्द्रस् ताम् "आश्वसिहि, बिभेषि किम्,
२३-२ त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्यहम्.
२४-१ मामुपास्त दिदृक्षा-वान् याष्टीक-व्याहतो हरिः
२४-२ आज्ञा-लाभोन्मुखो दूरात् काक्षेणा ऽनादरेक्षितः
२५-१ विरुग्णो-दग्र-घाराऽग्नः कुलिशो मम वक्षसि
२५-२ अ-भिन्नं शत-धा ऽऽत्मानं मन्यते बलिनं बली.
२६-१ कृत्वा लङ्काद्रुमाऽऽलानमहमैरावतं गजम्
२६-२ बन्धने ऽनुपयोगि-त्वान् नतं तृण-वदत्यजम्.
२७-१ आहोपुरुषिकां पश्य मम, सद्-रत्न-कान्ति-भिः
२७-२ ध्वस्ताऽन्धकारे ऽपि पुरे पूर्णेन्दोः सन्निधिः सदा.
२८-१ हृत-रत्नश् च्युतोद्योगो रक्षोभ्यः कर-दो दिवि
२८-२ पूतक्रतायीमभ्येति स-त्रपः किं न गोत्र-भित्.
२९-१ अ-तुल्य-महसा सार्धं रामेण मम विग्रहः
२९-२ त्रपा-करस्, तथाप्येष यतिष्ये तद्-विनिग्रहे."
३०-१ उत्पत्य खं दश-ग्रीवो मनो-यायी शिताऽस्त्र-भृत्
३०-२ समुद्र-सविधाऽऽवासं मारीचं प्रति चक्रमे.
३१-१ सम्पत्य तत्-सनीडे-सौ तं वृत्तान्तमषिष्रवत्,
३१-२ त्रस्नुनाऽथ श्रुताऽर्थेन तेनाऽगादि दशाऽऽननः.
३२-१ "अन्तर्धत्स्व रघु-व्याघ्रात् तस्मात् त्वं राक्षसेश्वर !,
३२-२ यो रण्ने दुरुपस्थानो हस्त-रोधं दधद् धनुः,
३३-१ भवन्तं कार्तवीर्यो यो हीन-सन्धिमचीकरत्,
३३-२ जिगाय तस्य हन्तारं स रामः सार्वलौकिकम्.
३४-१ यमाऽऽस्य-दृश्वरी तस्य ताडका वेत्ति विक्रमम्.
३४-२ शूरं-मन्यो रणाच् चाऽहं निरस्तः सिंह-नर्दिना.
३५-१ न त्वं तेना ऽन्वभाविष्ठा, ना ऽन्वभावि त्वया ऽप्यसौ,
३५-२ अनुभूतो मया चा ऽसौ, तेन चा ऽन्वभविष्यहम्,
३६-१ अध्यङ् शस्त्र-भृतां रामो, न्यञ्चस् तं प्राप्य मद्-विधाः,
३६-२ स कन्या-शुल्कमभनङ् मिथिलायां मखे धनुः
३७-१ सं-वित्तः सह-युध्वानौ तच्-छक्तिं खर-दूषणौ,
३७-२ यज्वानश् च स-सुत्वानो, यानगोपीन् मखेषु सः.
३८-१ सुख-जातः सुरा-पीतो नृ-जग्धो माल्य-धारयः
३८-२ अधि-लङ्कं स्त्रियो दीव्य, मा ऽऽरब्धा बलि-विग्रहम्."
३९-१ तंभीतं-कारमाक्रुश्य रावणः प्रत्यभाषत
३९-२ "यात-यामं विजितवान् स रामं यदि, किं ततः
४०-१ अघानि ताडका तेन लज्जा-भय-विभूषणा,
४०-२ स्त्री-जने यदि तच् छ्लाघ्यं, धिग् लोकं क्षुद्र-मानसम्.
४१-१ यद् गेहे-नर्दिनमसौ शरैर् भीरुमभाययत्
४१-२ कु-ब्रह्म-यज्ञ-के रामो भवन्तं, पौरुषं न तत्.
४२-१ चिर-कालोषितं जीर्णं कीट-निष्कुषितं धनुः
४२-२ किं चित्रं यदि रामेण भग्नं क्षत्रिय-काऽन्तिके.
४३-१ वन-तापस-के वीरौ विपक्षे गलिताऽऽदरौ
४३-२ किं चित्रं यदि साऽवज्ञौ मम्रतुः खर-दूषणौ.
४४-१ त्वं च भीरुः सु-दुर्बुद्धे ! नित्यं शरण-काम्यसि,
४४-२ गुणांश् चाऽपह्नुषेऽस्माकं, स्तौषि शत्रूंश् च नः सदा.
४५-१ शीर्षच्-छेद्यमतोऽहं त्वा करोमि क्षिति-वर्धनम्,
४५-२ कारयिष्यामि वा कृत्यं विजिघृक्षुर् वनौकसौ.
४६-१ तमुद्यत-निषाताऽसिं प्रत्युवाच जिजीविषुः
४६-२ मारीचो ऽनुनयंस् त्रासाद् "अभ्यमित्र्यो भवामि ते.
४७-१ हरामि राम-सौमित्री मृगो भूत्वा मृग-द्युवौ,
४७-२ उद्योगमभ्यमित्रीणो यथेष्टं त्वं च सं-तनु."
४८-१ ततश् चित्रीयमाणो ऽसौ हेम-रत्न-मयो मृगः
४८-२ यथामुखीनः सीतायाः पुप्लुवे बहु लोभयन्.
४९-१ तेना ऽदुद्यूषयद् रामं मृगेण मृग-लोचना
४९-२ मैथिली विपुलोरस्कं प्रावुवूर्षुर् मृगाऽजिनम्.
५०-१ योग-क्षेम-करं कृत्वा सीताया लक्ष्मणं ततः
५०-२ मृगस्याऽनुपदी रामो जगाम गज-विक्रमः
५१-१ स्थायं स्थायं क्वचिद् यान्तं क्रान्त्वा क्रान्त्वा स्थितं क्वचित्
५१-२ वीक्षमाणो मृगं रामश् चित्र-वृत्तिं विसिष्मिये.
५२-१ चिरं क्लिशित्वा मर्मा-विद् रामो विलुभित-प्लवम्
५२-२ शब्दायमानमव्यात्सीत् भय-दं क्षणदा-चरम्.
५३-१ श्रुत्वा विस्फूर्जथु-प्रख्यं निनादं परिदेविनी
५३-२ मत्वा कष्ट-श्रितं रामं सौमित्रिं गन्तुमैजिहत्.
५४-१ "एष प्रावृषि-जाऽम्भो-द- नादी भ्राता विरौति ते,
५४-२ ज्ञातेयं कुरु सौमित्रे ! भयात् त्रायस्व राघवम्."
५५-१ "राम-संघुषितं नैतन्, मृगस्यैव विवञ्चिषोः
५५-२ राम-स्वनित-सङ्काशः स्वान्", इत्यवदत् स ताम्.
५६-१ "आप्यान-स्कन्ध-कण्ठांऽसं रुषितं सहितुं रणे
५६-२ प्रोर्णुवन्तं दिशो बाणैः काकुत्स्थं भीरु ! कः क्षमः
५७-१ देहं बिभ्नक्षुर-स्त्राऽग्नौ मृगः प्राणैर् दिदेविषन्
५७-२ ज्या-घृष्ट-कठिनाऽङ्गुष्ठं राममायान् मुमूर्षया.
५८-१ शत्रून् भीषयमाणं तं रामं विस्मापयेत कः,
५८-२ मा स्म भैषीस्, त्वया ऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः"
५९-१ "यायास् त्वमिति कामो मे, गन्तुमुत्सहसे न च,
५९-२ इच्छुः कामयितुं त्वं माम्", इत्यसौ जगदे तया.
६०-१ मृषोद्यं प्रवदन्तीं तां सत्य-वद्यो रघूत्तमः
६०-२ निरगात् "शत्रु-हस्तं त्वं यास्यसी"ति शपन् वशी.
६१-१ गते तस्मिन्, जल-शुचिः शुद्ध-दन् रावणः शिखी
६१-२ जञ्जपूको ऽक्ष-माला-वान् धारयो मृदलाबुनः
६२-१ कमण्डलु-कपालेन शिरसा च मृजा-वता
६२-२ संवस्त्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्ड-वान्
६३-१ अधीयन्नात्म-विद् विद्यां धारयन् मस्करि-व्रतम्
६३-२ वदन् बह्वङ्गुलि-स्फोटं भ्रू-क्षेपं च विलोकयन्
६४-१ संदिदर्शयिषुः साम निजुह्नूषुः क्षपाट-ताम्
६४-२ चंक्रमा-वान् समागत्य सीतामूचे"सुखाभव."
६५-१ सायं-तनीं तिथि-प्रण्यः पङ्कजानां दिवा-तनीम्
६५-२ कान्तिं कान्त्या सदा-तन्या ह्रेपयन्ती शुचि-स्मिता.
६६-१ का त्वमेकाकिनी भीरु ! निरन्वय-जने वने,
६६-२ क्षुध्यन्तो ऽप्यघसन् व्यालास् त्वाम-पालां कथं न वा.
६७-१ हृदयं-गम-मूर्तिस् त्वं सुभगं-भावुकं वनम्
६७-२ कुर्वाणा भीममप्येतद् वदा ऽभ्यैः केन हेतुना.
६८-१ सुकृतं प्रिय-कारी त्वं कं हरस्युपतिष्ठसे,
६८-२ पुण्य-कृच् चाटु-कारस् ते किङ्करः सुरतेषु कः.
६९-१ परि-पर्युदधे रूपमा-द्यु-लोकाच् च दुर्-लभम्.
६९-२ भावत्कं दृष्टवत्स्वेतदस्मास्वधि सु-जीवितम्.
७०-१ आपीत-मधुका भृङ्गैः सुदिवेवाऽरविन्दिनी
७०-२ सत्-परिमल-लक्ष्मीका ना ऽ-पुंस्काऽसीति मे मतिः.
७१-१ मिथ्यैव श्रीः श्रियं-मन्या, श्रीमन्-मन्यो मृषा हरिः,
७१-२ साक्षात्-कृत्याऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः
७२-१ नोदकण्ठिष्यता ऽत्यर्थं, त्वामैक्षिष्यत चेत् स्मरः,
७२-२ खेलायन्ननिशं नापि सजूः-कृत्य रतिं वसेत्,
७३-१ वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का,
७३-२ कान्तिं नाऽभिमनायेत को वा स्थाणु-समो ऽपि ते.
७४-१ दुःखायते जनः सर्वाह्, स एवैकः सुखायते,
७४-२ यस्योत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके.
७५-१ कः।
पण्डितायमानस् त्वा- मादायाऽऽमिष-सन्निभाम्
७५-२ त्रस्यन् वैरायमाणेभ्यः शून्यमन्ववसद् वनम्."
७६-१ ओजायमाना तस्या ऽर्ध्यं प्रणीय जनकाऽऽत्मजा
७६-२ उवाच दशमूर्धानं साऽऽदरा गद्गदं वचः
७७-१ "महा-कुलीन ऐक्ष्वाके वंशे दाशरथिर् मम
७७-२ पितुः प्रियं-करो भर्ता क्षेमं-कारस् तपस्विनाम्.
७८-१ निहन्ता वैर-काराणां सतां बहु-करः सदा
७८-२ पारश्वधिक-रामस्य शक्तेरन्त-करो रणे
७९-१ अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा
७९-२ पितुर् नियोगाद् राज-त्वं हित्वा योऽभ्यागमद् वनम्
८०-१ पितत्रि-क्रोष्टु-जुष्टानि रक्षांसि भय-दे वने
८०-२ यस्य बाण-निकृत्तानि श्रेणी-भूतानि शेरते.
८१-१ दीव्यमानं शितान् बाणानस्यमानं महा-गदाः
८१-२ निघ्नानं शात्रवान् रामं कथं त्वं नाऽवगच्छसि.
८२-१ भ्रातरि न्यस्य यातो मां मृगाविन् मृगयामसौ,
८२-२ एषितुं प्रेषितो यातो मया तस्या ऽनु-जो वनम्
८३-१ अथा ऽऽयस्यन् कषायाऽक्षः स्यन्न-स्वेद-कणोल्बणः
८३-२ संदर्षिताऽऽन्तराकूतस् तामवादीद् दशाननः,
८४-१ "कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम्
८४-२ को नग्न-मुषित-प्रख्यं बहु मन्येत राघवम्.
८५-१ राक्षसान् बटु-यज्ञेषु पिण्डी-शूरान् निरस्तवान्
८५-२ यद्यसौ कूप-माण्डूकि ! तवैतावति कः स्मयः
८६-१ मत्-पराक्रम-संक्षिप्त-राज्य-भोग-परिच्छदः
८६-२ युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः
८७-१ निर्-लङ्को विमदः स्वामी धनानां हृत-पुष्पकः
८७-२ अध्यास्ते ऽन्तर्-गिरं यस्मात्, कस् तन् ना ऽवैति कारणम्.
८८-१ भिन्न-नौक इव ध्यायन् मत्-तो बिभ्यद् यमः स्वयम्
८८-२ कृष्णि-मानं दधानेन मुखेना ऽऽस्ते निरुद्यतिः
८९-१ समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी
८९-२ रत्न-पारायणं नाम्ना लङ्केति मम मैथिलि !
९०-१ आवासे सिक्त-संमृष्टे गन्धैस् त्वं लिप्त-वासिता
९०-२ आर्पितोरु-सुगन्धि-स्रक् तस्यां वस मया सह.
९१-१ संगच्छ पौंस्नि ! स्त्रैणं मां युवानं तरुणी शुभे !
९१-२ राघवः प्रोष्य-पापीयान्, जहीहि तम-किं-चनम्.
९२-१ अश्नीत-पिबतीयन्ती प्रसिता स्मर-कर्मणि
९२-२ वशे-कृत्य दश-ग्रीवं मोदस्व वर-मन्दिरे.
९३-१ मा स्म भूर् ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव,
९३-२ उद्भासिनी च भूत्वा मे वक्षःसंमार्दिनी भव."
९४-१ तां प्रातिकूलिकीं मत्वा जिहीर्षुर् भीम-विग्रहः
९४-२ बाहूपपीडमाश्लिष्य जगाहे द्यां निशा-चरः
९५-१ त्रस्यन्तीं तां समादाय यतो रात्रिं-चराऽऽलयम्
९५-२ तूष्णीं-भूय भयादासांचक्रिरे मृगपक्षिणः
९६-१ उच्चै रारस्यमानां तां कृपणां राम-लक्ष्मणौ
९६-२ जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन्.
इति प्रकीर्ण-काण्डः प्रथमः समाप्तः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP