पाद २ - खण्ड १२

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ३७ - समाहारः स्वरितः इति उच्यते ।

२ - ३७ - कस्य समाहारः स्वरितसञ्ज्ञः भवति ।

३ - ३७ - अचोः इति आह ।

४ - ३७ - समाहारः अचोः चेत् न अभावात् ।

५ - ३७ - समाहारः अचोः चेत् तत् न ।

६ - ३७ - किम् कारणम् ।

७ - ३७ - अभावात् ।

८ - ३७ - न हि अचोः समाहारः अस्ति ।

९ - ३७ - ननु अयम् अस्ति गाङ्गेनूपे इति ।

१० - ३७ - न एषः अचोः समाहारः ।

११ - ३७ - अन्यः अयम् उदात्तानुदात्तयोः स्थाने एकः आदिश्यते ।

१२ - ३७ - एवम् तर्हि गुणयोः ।

१३ - ३७ - गुणयोः चेत् न अच्प्रकरणात् ।

१४ - ३७ - गुणयोः समहारः इति चेत् तत् न ।

१५ - ३७ - किम् कारणम् ।

१६ - ३७ - अच्प्रकरणात् ।

१७ - ३७ - अच् इति वर्तते ।

१८ - ३७ - सिद्धम् तु अच्समुदायस्य अभावात् तद्गुणे सम्प्रत्ययः ।

१९ - ३७ - सिद्धम् एतत् ।

२० - ३७ - कथम् ।

२१ - ३७ - अच्समुदायः न अस्ति इति कृत्वा तद्गुणस्य अचः समाहारगुणस्य सम्प्रत्ययः भविष्यति ।

२२ - ३७ - कथम् पुनः समाहारः इति अनेन अच् शक्यः प्रतिनिर्देष्टुम् ।

२३ - ३७ - मतुब्लोपः अत्र द्रष्टव्यः ।

२४ - ३७ - तत् यथा पुष्पकाः एषाम् ते पुष्पकाः, कालकाः एषाम् ते कालकाः इति एवम् समाहारवान् समाहारः ।

२५ - ३७ - अथ वा अकारः मत्वर्थीयः ।

२६ - ३७ - तत् यथा तुन्दः, घाटः इति ।

२७ - ३७ - यदि एवम् त्रैस्वर्यम् न प्रकल्पते ।

२८ - ३७ - तत्र कः दोषः ।

२९ - ३७ - त्रैस्वर्यम् अधीमहे इति एतत् न उपपद्यते ।

३० - ३७ - न एतत् गुणापेक्षम् ।

३१ - ३७ - किम् तर्हि ।

३२ - ३७ - अजपेक्षम् ।

३३ - ३७ - त्रैस्वर्यम् अधीमहे त्रिप्रकारैः अज्भिः अधीमहे कैः चित् उदात्तगुणैः कैः चित् अनुदात्तगुणैः कैः चित् उभयगुणैः ।

३४ - ३७ - तत् यथा शुक्लगुणः शुक्लः कृष्णगुणः कृष्णः ।

३५ - ३७ - यः इदानीम् उभयगुणः सः तृतीयाम् आख्याम् लभते कल्माषः इति वा सारङ्गः इति वा ।

३६ - ३७ - एवम् इह अपि उदात्तगुणः उदात्तः अनुदात्तगुणः अनुदात्तः ।

३७ - ३७ - यः इदानीम् उभयवान् स तृतीयाम् आख्याम् लभते स्वरितः इति ।

१ - ३४ - अर्धह्रस्वम् इति उच्यते ।

२ - ३४ - तत्र दीर्घप्लुतयोः न प्राप्नोति ।

३ - ३४ - कन्या शक्तिके३ शक्तिके ।

४ - ३४ - न एषः दोषः ।

५ - ३४ - मात्रचः अत्र लोपः द्रष्टव्यः ।

६ - ३४ - अर्धह्रस्वमात्रम् अर्धह्रस्वम् इति ।

७ - ३४ - किमर्थम् इदम् उच्यते ।

८ - ३४ - आमिश्रीभूतम् इव इदम् भवति ।

९ - ३४ - तत् यथा क्षीरोदके सम्पृक्ते आमिश्रीभूतत्वात् न ज्ञायते कियत् क्षीरम् कियत् उदकम् कस्मिन् अवकाशे क्षीरम् कस्मिन् अवकाशे उदकम् इति ।

१० - ३४ - एवम् इह अपि आमिश्रीभूतत्वात् न ज्ञायते कियत् उदात्तम् कियत् अनुदात्तम् कस्मिन् अवकाशे उदात्तम् कस्मिन् अवकाशे अनुदात्तम् इति ।

११ - ३४ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे इयत् उदात्तम् इयत् अनुदात्तम् अस्मिन् अवकाशे उदात्तम् अस्मिन् अवकाशे अनुदात्तम् इति ।

१२ - ३४ - यदि अयम् एवम् सुहृत् किम् अन्यानि अपि एवञ्जातीयकानि न उपदिशति ।

१३ - ३४ - कानि पुनः तानि ।

१४ - ३४ - स्थानकरणानुप्रदानानि ।

१५ - ३४ - व्याकरणम् नाम इयम् उत्तरा विद्या ।

१६ - ३४ - सः असौ छन्दःशास्त्रेषु अभिविनीतः उपलब्ध्या अवगन्तुम् उत्सहते ।

१७ - ३४ - यदि एवम् न अर्थः अनेन ।

१८ - ३४ - इदम् अपि उपलब्ध्या गमिष्यति ।

१९ - ३४ - सञ्ज्ञाकरणम् तर्हि इदम् तस्य स्वरितस्य आदितः अर्धह्रस्वम् उदात्तसञ्ज्ञम् इति ।

२० - ३४ - किम् कृतम् भवति ।

२१ - ३४ - त्रिः उदात्तप्रदेशेषु स्वरितग्रहणम् न कर्तव्यम् भवति उदात्तस्वरितपरस्य सन्नतरः, उदात्तस्वरितयोः यणः स्वरितः अनुदात्तस्य न उदात्तस्वरितोदयम् इति ।

२२ - ३४ - सञ्ज्ञाकरणम् हि नाम यतः न लघीयः ।

२३ - ३४ - कुतः एतत् ।

२४ - ३४ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

२५ - ३४ - लघीयः च त्रिः उदात्तप्रदेशेषु स्वरितग्रहणम् न पुनः सञ्ज्ञाकरणम् ।

२६ - ३४ - त्रिः उदात्तप्रदेशेषु स्वरितग्रहणे नव अक्षराणि सञ्ज्ञाकरणे पुनः एकादश ।

२७ - ३४ - एवम् तर्हि उभयम् अनेन क्रियते अन्वाख्यानम् च सञ्ज्ञा च ।

२८ - ३४ - कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।

२९ - ३४ - लभ्यम् इति आह ।

३० - ३४ - कथम् ।

३१ - ३४ - अन्वर्थग्रहणम् विज्ञास्यते तस्य स्वरितस्य आदितः अर्धह्रस्व्रम् उदात्तसञ्ज्ञम् भवति इति ।

३२ - ३४ - ऊर्ध्वम् आत्तम् इति च अतः उदात्तम् ।

३३ - ३४ - यदि तर्हि सञ्ज्ञाकरणम् उदात्तादेः यत् उच्यते तत् स्वरितादेः अपि प्राप्नोति ।

३४ - ३४ - अन्वाख्यानम् एव तर्हि इदम् मन्दबुद्धेः ।

१ - २९ - स्वरितस्यार्धह्रस्वोदात्तात् आ उदात्तस्वरितपरस्यसन्नतरात् ऊर्ध्वम् उदात्तादनुदात्तस्यस्वरितात् कार्यम् स्वरितात् इति सिद्ध्यर्थम् ।

२ - २९ - स्वरितस्यार्धह्रस्वोदात्तात् आ उदात्तस्वरितपरस्यसन्नतरः इति एतस्मात् सूत्रात् इदम् सूत्रकाण्डम् ऊर्ध्वम् उदात्तात् अनुदात्तस्य स्वरितः इति अतः कार्यम् ।

३ - २९ - किम् प्रयोजनम् ।

४ - २९ - स्वरितात् इति सिद्ध्यर्थम् ।

५ - २९ - स्वरितात् इति सिद्धिः यथा स्यात् ।

६ - २९ - स्वरितात् संहितायाम् अनुदात्तानाम् इति इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि ।

७ - २९ - क्व तर्हि स्यात् ।

८ - २९ - यः सिद्धः स्वरितः कार्यम् देवदत्तयज्ञदत्तौ ।

९ - २९ - स्वरितोदात्तार्थम् च ।

१० - २९ - स्वरितोदात्तार्थम् च तत्र एव कर्तव्यम् ।

११ - २९ - न सुब्रह्मण्यायाम् स्वरितस्य तु उदात्तः इन्द्र अगच्छ ।

१२ - २९ - क्व तर्हि स्यात् ।

१३ - २९ - यः सिद्धः स्वरितः सुब्रह्मण्योम् इन्द्र अगच्छ ।

१४ - २९ - स्वरितोदात्तात् च अस्वरितार्थम् ।

१५ - २९ - स्वरितोदात्तात् च अस्वरितार्थम् तत्र एव कर्तव्यम् ।

१६ - २९ - इन्द्र अगच्छ हरिवः अगच्छ ।

१७ - २९ - स्वरितपरसन्नतरार्थम् च ।

१८ - २९ - स्वरितपरसन्नतरार्थम् च तत्र एव कर्तव्यम् ।

१९ - २९ - उदात्तस्वरितपरस्य सन्नतरः मणवक जटिलकाध्यापक न्यङ् ।

२० - २९ - क्व तर्हि स्यात् ।

२१ - २९ - यः सिद्धः स्वरितः मणवक जटिलकाभिरूपक क्व ।

२२ - २९ - तत् तर्हि वक्तव्यम् ।

२३ - २९ - न वक्तव्यम् ।

२४ - २९ - देवब्रह्मणोः अनुदात्तवचनम् ज्ञापकम् स्वरितात् इति सिद्धत्वस्य ।

२५ - २९ - देवब्रह्मणोः अनुदात्तवचनम् ज्ञापकम् सिद्धः इह स्वरितः इति ।

२६ - २९ - यदि एतत् ज्ञाप्यते स्वरितोदात्तपरस्य अनुदात्तस्य स्वरितत्वम् प्राप्नोति ।

२७ - २९ - न ब्रूमः देवब्रह्मणोः अनुदात्तवचनम् ज्ञापकम् सिद्धः इह स्वरितः इति ।

२८ - २९ - किम् तर्हि ।

२९ - २९ - परम् एतत् काण्डम् इति ।

१ - ५ - किम् इदम् पारिभाषिक्याः सम्बुद्धेः ग्रहणम् एकवचनम् सम्बुद्धिः आहोस्वित् अन्वर्थग्रहणम् सम्बोधनम् सम्बुद्धिः इति ।

२ - ५ - किम् च अतः ।

३ - ५ - यदि पारिभाषिक्याः देवाः ब्रह्माणः इति अत्र न प्राप्नोति ।

४ - ५ - अथ अन्वर्थग्रहणम् न दोषः ।

५ - ५ - यथा न दोषः तथा अस्तु ।

१ - ३० - किम् पुनः इयम् एकश्रुतिः उदात्ता आहोस्वित् अनुदात्ता ।

२ - ३० - न उदात्ता ।

३ - ३० - कथम् ज्ञायते ।

४ - ३० - यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह ।

५ - ३० - कथम् कृत्वा ज्ञापकम् ।

६ - ३० - अतन्त्रम् तरनिर्देशः ।

७ - ३० - यावत् उच्चैः तावत् उच्चैस्तराम् इति ।

८ - ३० - यदि तर्हि न उदात्ता अनुदात्ता ।

९ - ३० - अनुदात्ता च न ।

१० - ३० - कथम् ज्ञायते ।

११ - ३० - यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह ।

१२ - ३० - कथम् कृत्वा ज्ञापकम् ।

१३ - ३० - अतन्त्रम् तरनिर्देशः ।

१४ - ३० - यावत् सन्नः तावत् सन्नतरः इति ।

१५ - ३० - सा एषा ज्ञापकाभ्याम् उदात्तानुदात्तयोः मध्यम् एकश्रुतिः अन्तरालम् ह्रियते ।

१६ - ३० - अपरः आह किम् पुनः इयम् एकश्रुतिः उदात्ता उत अनुदात्ता ।

१७ - ३० - उदात्ता ।

१८ - ३० - कथम् ज्ञायते ।

१९ - ३० - यत् अयम् उच्चैस्तराम् वा वषट्कारः इति आह ।

२० - ३० - कथम् कृत्वा ज्ञापकम् ।

२१ - ३० - तन्त्रम् तरनिर्देशः ।

२२ - ३० - उच्चैः दृष्ट्वा उच्चैस्तराम् इति एतत् भवति ।

२३ - ३० - यदि तर्हि उदात्ता न अनुदात्ता ।

२४ - ३० - अनुदात्ता च ।

२५ - ३० - कथम् ज्ञायते ।

२६ - ३० - यत् अयम् उदात्तस्वरितपरस्य सन्नतरः इति आह ।

२७ - ३० - कथम् कृत्वा ज्ञापकम् ।

२८ - ३० - तन्त्रम् तरनिर्देशः ।

२९ - ३० - सन्नम् दृष्ट्वा सन्नतरः इति एतत् भवति ।

३० - ३० - ते एते तन्त्रे तरनिर्देशे सप्त स्वराः भवन्ति उदात्तः, उदात्ततरः, अनुदात्तः, अनुदात्तरः, स्वरितः, स्वरिते यः उदात्तः सः अन्येन विशिष्तः, एकश्रुतिः सप्तमः ।

१ - २३ - सुब्रह्मण्यायम् ओकारः उदात्तः ।

२ - २३ - सुब्रह्मण्यायम् ओकारः उदात्तः भवति सुब्रह्मण्योम् ।

३ - २३ - आकारः आख्याते परादिः च ।

४ - २३ - आकारः आख्याते परादिः च उदात्तः भवति इन्द्र अगच्छ ।

५ - २३ - हरिवः अगच्छ ।

६ - २३ - वाक्यादौ च द्वे द्वे ।

७ - २३ - वाक्यादौ च द्वे द्वे उदात्ते भवतः इन्द्र अगच्छ ।

८ - २३ - हरिवः अगच्छ ।

९ - २३ - मघवन्वर्जम् । अगच्छ मघवन् ।

१० - २३ - सुत्यापराणाम् अन्तः ।

११ - २३ - सुत्यापराणाम् अन्तः उदात्तः भवति द्व्यहे सुत्यम् ।

१२ - २३ - त्र्यहे सुत्यम् ।

१३ - २३ - असौ इति अन्तः ।

१४ - २३ - असौ इति अन्तः उदात्तः भवति गार्ग्यः यजते ।

१५ - २३ - वात्स्यः यजते ।

१६ - २३ - अमुष्य इति अन्तः । अमुष्य इति अन्तः दाक्षेः पित यजते ।

१७ - २३ - स्यान्तस्य उपोत्तमम् च ।

१८ - २३ - स्यान्तस्य उपोत्तमम् उदात्तम् भवति अन्तः च ।

१९ - २३ - गार्ग्यस्य पित यजते ।

२० - २३ - वात्स्यस्य पित यजते ।

२१ - २३ - वा नामधेयस्य ।

२२ - २३ - वा नामधेयस्य स्यान्तस्य उपोत्तमम् उदात्तम् भवति देवदत्तस्य पित यजते ।

२३ - २३ - देवदत्तस्य पित यजते ।

१ - ३ - देवब्रह्मणोः अनुदात्तत्वम् एके ।

२ - ३ - देवब्रह्मणोः अनुदात्तत्वम् एके इच्छन्ति देवाः ब्रह्माणः ।

३ - ३ - देवाः ब्रह्माणः ।

१ - ३१ - स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यवचनम् ।

२ - ३१ - स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यम् वक्तव्यम् अग्निवेश्यः पचति ।

३ - ३१ - किम् पुनः कारणम् न सिध्यति ।

४ - ३१ - बहुवचनेन निर्देशः क्रियते ।

५ - ३१ - तेन बहूनाम् ऐकश्रुत्यम् स्यात् द्व्येकयोः न स्यात् ।

६ - ३१ - न एषः दोषः ।

७ - ३१ - न अत्र निर्देशः तन्त्रम् ।

८ - ३१ - कथम् पुनः तेन एव निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।

९ - ३१ - तत्कारी च भवान् तद्द्वेषी च ।

१० - ३१ - नान्तरीयकत्वात् अत्र बहुवचनेन निर्देशः क्रियते अवश्यम् कया चित् विभक्त्या केन चित् वचनेन निर्देशः कर्तव्यः इति ।

११ - ३१ - तत् यथा कः चित् अन्नार्थी शालिकलापम् सपलालम् सतुषम् आहरति नान्तयीयकत्वात् ।

१२ - ३१ - सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।

१३ - ३१ - तथा कः चित् मांसार्थी मत्स्यान् सकण्टकान् सशकलान् आहरति नान्तयीयकत्वात् ।

१४ - ३१ - सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।

१५ - ३१ - एवम् इह अपि नान्तरीयकत्वात् बहुवचनेन निर्देशः क्रियते ।

१६ - ३१ - अविशेषेण ऐकश्रुत्यम् ।

१७ - ३१ - अविशेषेण ऐकश्रुत्यम् इति चेत् व्यवहितानाम् अप्रसिद्धिः ।

१८ - ३१ - अविशेषेण ऐकश्रुत्यम् इति चेत् व्यवहितानाम् ऐकश्रुत्यम् न प्राप्नोति इमम् मे गङ्गे यमुने सरस्वति शुतुद्रि ।

१९ - ३१ - अनेकम् अपि इति तु वचनात् सिद्धम् ।

२० - ३१ - अनेकम् अपि एकम् अपि स्वरितात् परम् संहितायाम् एकश्रुति भवति इति वक्तव्यम् ।

२१ - ३१ - सिध्यति ।

२२ - ३१ - सूत्रम् तर्हि भिद्यते ।

२३ - ३१ - यथान्यासम् एव अस्तु ।

२४ - ३१ - ननु च उक्तम् स्वरितात् संहितायाम् अनुदात्तानाम् इति चेत् द्व्येकयोः ऐकश्रुत्यवचनम् ।

२५ - ३१ - अविशेषेण ऐकश्रुत्यम् व्यवहितानाम् अप्रसिद्धिः इति ।

२६ - ३१ - न एषः दोषः ।

२७ - ३१ - कथम् ।

२८ - ३१ - एकशेषनिर्देशः अयम् अनुदात्तस्य च अनुदात्तयोः च अनुदात्तानाम् च अनुदात्तानाम् इति ।

२९ - ३१ - एवम् अपि षट्प्रभृतीनाम् एव प्राप्नोति ।

३० - ३१ - षट्प्रभृतिषु एकशेषः परिसमाप्यते ।

३१ - ३१ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति द्व्येकयोः अपि भविष्यति ।

१ - ५३ - अपृक्तसञ्ज्ञायाम् हल्ग्रहणम् स्वादिलोपे हलः अग्रहणार्थम् ।

२ - ५३ - अपृक्तसञ्ज्ञायाम् हल्ग्रहणम् कर्तव्यम् ।

३ - ५३ - एकहल् प्रत्ययः अपृक्तसञ्ज्ञः भवति इति वक्तव्यम् ।

४ - ५३ - किम् प्रयोजनम् ।

५ - ५३ - स्वादिलोपे हलः अग्रहणार्थम् ।

६ - ५३ - स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् भवति हल्ङ्याब्भ्यः दीर्घात् सुतिसि अपृक्तम् हल् इति अपृक्तस्य इति एव सिद्धम् ।

७ - ५३ - अणिञोः लुगर्थम् अल्ग्रहणम् ।

८ - ५३ - अणिञोः लुगर्थम् अल्ग्रहणम् कर्तव्यम् ।

९ - ५३ - किम् प्रयोजनम् ।

१० - ५३ - अणिञोः लुकि ग्रहणम् न कर्तव्यम् भवति ण्यक्षत्रियार्षञितः यूनि लुक् अणिञोः इति अपृक्तस्य इति एव सिद्धम् ।

११ - ५३ - अणिञोः लुगर्थम् इति चेत् णे अतिप्रसङ्गः ।

१२ - ५३ - अणिञोः लुगर्थम् इति चेत् णे अतिप्रसङ्गः भवति ।

१३ - ५३ - इह अपि प्राप्नोति फाण्टाहृतेः अपत्यम् माणवकः प्ःाण्टाहृतः इति ।

१४ - ५३ - णवचनसामार्थ्यात् न भविष्यति ।

१५ - ५३ - वचनप्रामाण्यात् इति चेत् फग्निवृत्त्यर्थम् वचनम् ।

१६ - ५३ - वचनप्रामाण्यात् इति चेत् फग्निवृत्त्यर्थम् एतत् स्यात् फक् अतः मा भूत् इति ।

१७ - ५३ - पैलादिषु वचनात् सिद्धम् ।

१८ - ५३ - यदि एतावत् प्रयोजनम् स्यात् पैलादिषु एव पाठम् कुर्वीत ।

१९ - ५३ - तत्र पाठात् अन्येषाम् अपि फकः निवृत्तिः भवति ।

२० - ५३ - एवम् सिद्धे सति यत् अयम् णम् शास्ति तत् ज्ञापयति आचार्यः न अस्य लुक् भवति इति ।

२१ - ५३ - तानि एतानि त्रीणि ग्रहणानि भवन्ति ।

२२ - ५३ - अपृक्तसञ्ज्ञायाम् हल्ग्रहणम् कर्तव्यम् ।

२३ - ५३ - स्वादिलोपे हलः ग्रहणम् न कर्तव्यम् ।

२४ - ५३ - अणिञोः लुकि ग्रहणम् कर्तव्यम् ।

२५ - ५३ - अल्ग्रहणे अपि वै क्रियमाणे तानि एव त्रीणि ग्रहणानि भवन्ति ।

२६ - ५३ - अपृक्तसञ्ज्ञायाम् अल्ग्रहणम् कर्तव्यम् ।

२७ - ५३ - स्वादिलोपे हलः ग्रहणम् कर्तव्यम् ।

२८ - ५३ - अणिञोः लुकि ग्रहणम् न कर्तव्यम् भवति ।

२९ - ५३ - अपृक्तग्रहणम् कर्तव्यम् ।

३० - ५३ - तत्र न अस्ति लाघवकृतः विशेषः ।

३१ - ५३ - अयम् अस्ति विशेषः अल्ग्रहणे क्रियमाणे एकग्रहणम् न करिष्यते ।

३२ - ५३ - कस्मात् न भवति दर्विः, जागृविः ।

३३ - ५३ - अल् एव यः प्रत्ययः ।

३४ - ५३ - किम् वक्तव्यम् एतत् ।

३५ - ५३ - न हि ।

३६ - ५३ - कथम् अनुच्यमानम् गंस्यते ।

३७ - ५३ - अल्ग्रहणसामर्थ्यात् ।

३८ - ५३ - यदि यः अल् च अन्यः च तत्र स्यात् अल्ग्रहणम् अनर्थकम् स्यात् ।

३९ - ५३ - हल्ग्रहणे अपि क्रियमाणे एकग्रहणम् न करिष्यते ।

४० - ५३ - कस्मात् न भवति दर्विः जागृविः ।

४१ - ५३ - हल् एव यः प्रत्ययः ।

४२ - ५३ - किम् वक्तव्यम् एतत् ।

४३ - ५३ - न हि ।

४४ - ५३ - कथम् अनुच्यमानम् गंस्यते ।

४५ - ५३ - हल्ग्रहणसामर्थ्यात् ।

४६ - ५३ - यदि यः हल् च अन्यः च तत्र स्यात् हल्ग्रहणम् अनर्थकम् स्यात् ।

४७ - ५३ - अस्ति अन्यत् हल्ग्रहणस्य प्रयोजनम् ।

४८ - ५३ - किम् ।

४९ - ५३ - हलन्तस्य यथा स्यात् अलन्तस्य मा भूत् इति ।

५० - ५३ - एवम् तर्हि सिद्धे सति यत् अल्ग्रहणे क्रियमाणे एकग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र वर्णग्रहणे जातिग्रहणम् भवति इति ।

५१ - ५३ - किम् एतस्य ज्ञापने प्रयोजनम् ।

५२ - ५३ - दम्भेः हल्ग्रहणस्य जातिवाचकत्वात् सिद्धम् इति उक्तम् ।

५३ - ५३ - तत् उपपन्नम् भवति ।

१ - १५ - तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वात् अप्रसिद्धिः ।

२ - १५ - तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासस्य एकार्थत्वात् सञ्ज्ञायाः अप्रसिद्धिः ।

३ - १५ - एकः अयम् अर्थः तत्पुरुषः नाम अनेकार्थाश्रयम् च सामानाधिकरण्यम् ।

४ - १५ - सिद्धम् तु पदसामानाधिकरण्यात् ।

५ - १५ - सिद्धम् एतत् ।

६ - १५ - कथम् ।

७ - १५ - तत्पुरुषः समानाधिकरणपदः कर्मधारयसञ्ज्ञः भवति इति वक्तव्यम् ।

८ - १५ - सिध्यति ।

९ - १५ - सूत्रम् तर्हि भिद्यते ।

१० - १५ - यथान्यासम् एव अस्तु ।

११ - १५ - ननु च उक्तम् तत्पुरुषः समानाधिकरणः कर्मधारयः इति चेत् समासैकार्थत्वात् अप्रसिद्धिः इति ।

१२ - १५ - न एषः दोषः ।

१३ - १५ - अयम् तत्पुरुषः अस्ति प्राथमकल्पिकः यस्मिन् ऐकपद्यम् ऐकस्वर्यम् एकविभक्तिकत्वम् च ।

१४ - १५ - अस्ति तादर्थ्यात् ताच्छब्द्यम् ॑ तत्पुरुषार्थानि पदानि तत्पुरुषः इति ।

१५ - १५ - तत् यः तादर्थ्यात् ताच्छब्द्यम् तस्य इह ग्रहणम् ।

१ - ११ - प्रथमानिर्दिष्टम् समासे उपसजनम् इति चेत् अनिर्देशात् प्रथमायाः समासे सञ्ज्ञाप्रसिद्धिः ।प्रथमानिर्दिष्टम् समासे उपसजनम् इति चेत् अनिर्देशात् प्रथमायाः समासे सञ्ज्ञायाः अप्रसिद्धिः ।

२ - ११ - न हि कष्टादीनाम् समासे प्रथमाम् पश्यामः ।

३ - ११ - सिद्धम् तु समासविधाने वचनात् ।

४ - ११ - सिद्धम् एतत् ।

५ - ११ - कथम् ।

६ - ११ - समासविधाने प्रथमानिर्दिष्टम् उपसर्जनसञ्ज्ञम् भवति इति वक्तव्यम् ।

७ - ११ - तत् तर्हि वक्तव्यम् ।

८ - ११ - न वा तादर्थ्यात् ताच्छब्द्यम् ।

९ - ११ - न वा वक्तव्यम् ।

१० - ११ - किम् कारणम् ।

११ - ११ - तादर्थ्यात् ताच्छब्द्यम् भवति. समासार्थम् शास्त्रम् समासः इति ।

१ - ३१ - यस्य विधौ प्रथमानिर्देशः ततः अन्यत्र अपि उपसर्जनसञ्ज्ञाप्रसङ्गः ।

२ - ३१ - यस्य विधौ प्रथमानिर्देशः क्रियते ततः अन्यत्र अपि तस्य उपसर्जनसञ्ज्ञा प्राप्नोति रज्ञः कुमारीम् राजकुमारीम् श्रितः ।

३ - ३१ - श्रितादिसमासे द्वितीयान्तम् प्रथमानिर्दिष्टम् ।

४ - ३१ - तस्य षष्ठीसमासे अपि उपसर्जनसञ्ज्ञा प्राप्नोति ।

५ - ३१ - सिद्धम् तु यस्य विधौ तम् प्रति इति वचनात् ।

६ - ३१ - सिद्धम् एतत् ।

७ - ३१ - कथम् ।

८ - ३१ - यस्य विधौ यत् प्रथमानिर्दिष्टम् तम् प्रति तत् उपसर्जनसञ्ज्ञम् भवति इति वक्तव्यम् ।

९ - ३१ - तत् तर्हि वक्तव्यम् ।

१० - ३१ - न वक्तव्यम् ।

११ - ३१ - उपसर्जनम् इति महती सञ्ज्ञा क्रियते ।

१२ - ३१ - सञ्ज्ञा च नाम यतः न लघीयः ।

१३ - ३१ - कुतः एतत् ।

१४ - ३१ - लघ्वर्थम् हि सञ्ज्ञाकरणम् ।

१५ - ३१ - तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।

१६ - ३१ - अप्रधानम् उपसर्जनम् इति ।

१७ - ३१ - प्रधानम् उपसर्जनम् इति च सम्बन्धिशब्दौ एतौ ।

१८ - ३१ - तत्र सम्बन्धात् एतत् गन्तव्यम् यम् प्रति यत् अप्रधानम् तम् प्रति तत् उपसर्जनस्ञ्ज्ञम् भवति इति ।

१९ - ३१ - अथ यत्र द्वे षष्ठ्यन्ते कस्मात् तत्र प्रधानस्य उपसर्जनसञ्ज्ञा न भवति राज्ञः पुरुषस्य राजपुरुषस्य इति ।

२० - ३१ - षष्ठ्यन्तयोः उपसर्जनत्वे उक्तम् ।

२१ - ३१ - किम् उक्तम् ।

२२ - ३१ - षष्ठ्यन्तयोः समासे अर्थाभेदात् प्रधानस्य अपूर्वनिपातः इति ।

२३ - ३१ - एवम् न च इदम् अकृतम् भवेत् उप्सर्जनम् पूर्वम् इति अर्थः च अभिन्नः इति कृत्वा प्रधानस्य पूर्वनिपातः न भविष्यति ।

२४ - ३१ - यदि अपि तावत् एतत् उपसर्जनकार्यम् परिहृतम् इदम् अपरम् प्राप्नोति ।

२५ - ३१ - राज्ञः कुमार्याः राजकुमार्याः ।

२६ - ३१ - गोस्त्रियोः उपसर्जनस्य इति ह्रस्वत्वम् प्राप्नोति ।

२७ - ३१ - उक्तम् वा ।

२८ - ३१ - किम् उक्तम् ।

२९ - ३१ - परवत् लिङ्गम् इति शब्दशब्दार्थौ इति ।

३० - ३१ - तत्र औपदेशिकस्य ह्रस्वत्वम् ।

३१ - ३१ - आतिदेशिकस्य श्रवणम् भविष्यति ।

१ - १५ - द्वितीयादीनाम् अपि अनेन उपसर्जनसञ्ज्ञा प्राप्नोति ।

२ - १५ - तत्र कः दोषः ।

३ - १५ - तत्र अपूर्वनिपाते इति प्रतिषेधः प्रसज्येत ।

४ - १५ - न अप्रतिषेधात् ।

५ - १५ - न अयम् प्रसज्यप्रतिषेधः पूर्वनिपाते न इति ।

६ - १५ - किम् तर्हि ।

७ - १५ - पर्युदासः अयम् यत् अन्यत् पूर्वनिपातात् इति ।

८ - १५ - पूर्वनिपाते अव्यापारः ।

९ - १५ - यदि केन चित् प्राप्नोति तेन भविष्यति ।

१० - १५ - पूर्वेण च प्राप्नोति ।

११ - १५ - तेन भविष्यति ।

१२ - १५ - अप्राप्तेः वा ।

१३ - १५ - अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते ।

१४ - १५ - कुतः एतत् ।

१५ - १५ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति

१ - ८ - एकविभक्तौ अषष्ठ्यन्तवचनम् ।

२ - ८ - एकविभक्तौ अषष्ठ्यन्तानाम् इति वक्तव्यम् ।

३ - ८ - इह मा भूत् अर्धम् पिप्पल्याः अर्धपिप्पली इति ।

४ - ८ - उक्तम् वा ।

५ - ८ - किम् उक्तम् ।

६ - ८ - परवत् लिङ्गम् इति शब्दशर्दार्थौ इति ।

७ - ८ - तत्र औपदेशिकस्य ह्रस्वत्वम् ।

८ - ८ - आतिदेशिकस्य श्रवणम् भविष्यति ।

१ - ७ - कानि पुनः अस्य योगस्य प्रयोजनानि ।

२ - ७ - प्रयोजनम् द्विगुप्राप्तापन्नालम्पूर्वोपसर्गाः क्तार्थे ।

३ - ७ - द्विगुः पञ्चभिः गोभिः क्रीतः पञ्चगुः ।

४ - ७ - प्राप्तापन्न प्राप्तः जिविकाम् प्राप्तजीविकः ।

५ - ७ - आपन्नः जीविकाम् आपन्नजीविकः ।

६ - ७ - अलम्पूर्व अलम् कुमार्यै अलङ्कुमारिः ।

७ - ७ - उपसर्गाः क्तार्थे निष्कौशाम्बिः निर्वाराणसिः ।

१ - १५ - अर्थवत् इति व्यपदेशाय वर्णानाम् च मा भूत् इति ।

२ - १५ - किम् च स्यात् ।

३ - १५ - वनम्, धनम् इति नलोपः प्रातिपदिकान्तस्य इति नलोपः प्रसज्येत ।

४ - १५ - अधातुः इति किमर्थम् ।

५ - १५ - अहन् वृत्रम् इति ।

६ - १५ - अधातुः इति शक्यम् अकर्तुम् ।

७ - १५ - कस्मात् न भवति अहन् वृत्रम् इति ।

८ - १५ - आचार्यप्रवृत्तिः ज्ञापयति न धातोः प्रातिपदिकसञ्ज्ञा भवति इति यत् अयम् सुपः धातुप्रातिपदिकयोः इति धातुग्रहणम् करोति ।

९ - १५ - न एतत् अस्ति ज्ञापकम् ।

१० - १५ - प्रतिषिद्धार्थम् एतत् स्यात् अपि काकः श्येनायते इति ।

११ - १५ - अप्रत्ययः इति किमर्थम् ।

१२ - १५ - काण्डे कुड्ये ।

१३ - १५ - अप्रत्ययः इति शक्यम् अकर्तुम् ।

१४ - १५ - कस्मात् न भवति काण्डे कुड्ये इति ।

१५ - १५ - कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।

१ - ६६ - अर्थवति अनेकपदप्रसङ्गः ।

२ - ६६ - अर्थवति प्रातिपदिकसञ्ज्ञायाम् अनेकस्य अपि पदस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति दश दाडिमानि षट् अपूपाः कुण्डम् अजाजिनम् पललपिण्डः अधोरुकम् एतत् कुमार्याः स्फैयकृतस्य पिता प्रतिशीनः इति ।

३ - ६६ - समुदायः अनर्थकः ।

४ - ६६ - समुदायः अनर्थकः इति चेत् अवयवार्थवत्त्वात् समुदायार्थवत्त्वम् यथा लोके ।

५ - ६६ - समुदायः अनर्थकः इति चेत् अवयवैः अर्थवद्भिः समुदायाः अपि अर्थवन्तः भवन्ति यथा लोके ।

६ - ६६ - तत् यथा लोके आढ्यम् इदम् नगरम्, गोमत् इदम् नगरम् इति उच्यते न च तत्र सर्वे आढ्याः भवन्ति सर्वे वा गोमन्तः ।

७ - ६६ - यथा लोके इति उच्यते लोके च अवयवाः एव अर्थवन्तः न समुदायः ।

८ - ६६ - आतः च अवयवाः एव अर्थवन्तः न समुदायः ।

९ - ६६ - यस्य हि तत् द्रव्यम् भवति सः तेन कार्यम् करोति यस्य च गावः सन्ति सः तासाम् क्षीरम् घृतम् च उपभुङ्क्ते ।

१० - ६६ - अन्यैः एतत् द्रष्टुम् अपि अशक्यम् ।

११ - ६६ - का तर्हि इयम् वाचोयुक्तिः आढ्यम् इदम् नगरम्, गोमत् इदम् इति ।

१२ - ६६ - एषा एषा वाचोयुक्तिः इह तावत् आढ्यम् इदम् नगरम् इति अकारः मत्वर्थीयः आढ्याः अस्मिन् सन्ति इति तत् इदम् आढ्यम् इति ।

१३ - ६६ - गोमत् इदम् इति मत्वन्तात् मत्वर्थीयः लुप्यते ।

१४ - ६६ - एवम् अपि वाक्यप्रतिषेधः अर्थवत्त्वात् ।

१५ - ६६ - वाक्यस्य प्रातिपदिकस्ञ्ज्ञायाः प्रतिषेधः वक्तव्यः देवदत्त गाम् अभ्याज शुक्लाम् ।

१६ - ६६ - देवदत्त गाम् अभ्याज कृष्णाम् इति ।

१७ - ६६ - किम् कारणम् ।

१८ - ६६ - अर्थवत्त्वात् ।

१९ - ६६ - अर्थवत् हि एतत् वाक्यम् भवति ।

२० - ६६ - न वै पदार्थात् अन्यस्य अर्थस्य उपलब्धिः भवति वाक्ये ।

२१ - ६६ - पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् पदार्थाभिसम्बन्धस्य उपलब्धिः ।

२२ - ६६ - पदार्थात् अन्यस्य अनुपलब्धिः इति चेत् एवम् उच्यते पदार्थाभिसम्बन्धस्य उपलब्धिः भवति वाक्ये ।

२३ - ६६ - इह देवदत्त इति उक्ते कर्ता निर्दिष्टः कर्म क्रियागुणौ च अनिर्दिष्टौ ।

२४ - ६६ - गाम् इति उक्ते कर्म निर्दिष्टम् कर्ता क्रियागुणौ च अनिर्दिष्टौ ।

२५ - ६६ - अभ्याज इति उक्ते क्रिया निर्दिष्टा कर्तृकर्मणी गुणः च अनिर्दिष्टः ।

२६ - ६६ - शुक्लाम् इति उक्ते गुणः निर्दिष्टः कर्तृकर्मणी क्रिया च अनिर्दिष्टा ।

२७ - ६६ - इह इदानीम् देवदत्त गाम् अभ्याज शुक्लाम् इति उक्ते सर्वम् निर्दिष्टम् भवति देवदत्तः एव कर्ता न अन्यः ।

२८ - ६६ - गौः एव कर्म न अन्यत् ।

२९ - ६६ - अभ्याजिः एव क्रिया न अन्या ।

३० - ६६ - शुक्लाम् एव न कृष्णाम् इति ।

३१ - ६६ - एतेषाम् पदानाम् सामान्ये वर्तमानानाम् यद्विशेषे अवस्थानम् सः वाक्यार्थः ।

३२ - ६६ - तस्मात् प्रतिषेधः ।

३३ - ६६ - तस्मात् प्रतिषेधः वक्तव्यः ।

३४ - ६६ - न वक्तव्यः ।

३५ - ६६ - अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् ।

३६ - ६६ - अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् भविष्यति समासः एव अर्थवताम् समुदायायानाम् प्रातिपदिकसञ्ज्ञः भवति न अन्यः इति ।

३७ - ६६ - यदि नियमः क्रियते प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा न प्राप्नोति बहुपटवः, उच्चकैः इति ।

३८ - ६६ - किम् पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते ।

३९ - ६६ - प्रातिपदिकात् इति स्वाद्युत्पत्तिः यथा स्यात् ।

४० - ६६ - न एषः दोषः ।

४१ - ६६ - यथा एव अत्र अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न भवति एवम् लुक् अपि न भविष्यति ।

४२ - ६६ - तत्र या एव अन्तर्वर्तिनी विभक्तिः तस्याः एव श्रवणम् भविष्यति ।

४३ - ६६ - न एवम् शक्यम् ।

४४ - ६६ - स्वरे हि दोषः स्यात् ।

४५ - ६६ - बहुपटवः इति एवम् स्वरः प्रसज्येत बहुपटवः इति च इष्यते ।

४६ - ६६ - पठिष्यति हि आचार्यः चितः सप्रकृतेः बह्वकजर्थम् इति ।

४७ - ६६ - तस्याम् पुनः लुप्तायम् या अन्या विभक्तिः उत्पद्यते तस्याः प्रकृत्यनेकदेशत्वात् अन्तोदात्तत्वम् न भविष्यति ।

४८ - ६६ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति प्रकृतिप्रत्ययसमुदायस्य प्रातिपदिकसञ्ज्ञा इति यत् अयम् अप्रययः इति प्रतिषेधम् शास्ति ।

४९ - ६६ - सः च तदन्तप्रतिषेधः ।

५० - ६६ - सः तर्हि ज्ञापकार्थः प्रत्ययप्रतिषेधः वक्तव्यः ।

५१ - ६६ - ननु च अयम् प्राप्त्यर्थः अपि वक्तव्यः ।

५२ - ६६ - न अर्थः प्राप्त्यर्थेन ।

५३ - ६६ - कृत्तद्धितग्रहणम् नियमार्थम् भविष्यति कृत्तद्धितान्तस्य एव प्रत्ययान्तस्य प्रातिपदिकसञ्ज्ञा भविष्यति न अन्यस्य प्रत्ययान्तस्य इति ।

५४ - ६६ - सः एषः अनन्यार्थः प्रत्ययप्रतिषेधः वक्तव्यः प्रकृतिप्रत्ययसमुदायस्य वा प्रातिपदिकसञ्ज्ञा वक्तव्या ।

५५ - ६६ - उभयम् न वक्तव्यम् ।

५६ - ६६ - तुल्यजातीयस्य नियमः ।

५७ - ६६ - कः च तुल्यजातीयः ।

५८ - ६६ - यथाजातीयकानाम् समासः ।

५९ - ६६ - कथञ्जातीयकानाम् समासः ।

६० - ६६ - सुबन्तानाम् ।

६१ - ६६ - सुप्तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति ।

६२ - ६६ - सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा आरभ्यते जहि कर्मणा बहुलम् आभीक्ष्ण्ये कर्तारम् च अभिदधाति इति ।

६३ - ६६ - तत् नियमार्थम् भविष्यति एतस्य एव सुप्तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।

६४ - ६६ - तिङ्समुदायस्य तर्हि प्रातिपदिकसञ्ज्ञा प्राप्नोति ।

६५ - ६६ - तिङ्समुदायस्य अपि प्रातिपदिकसञ्ज्ञा आरभ्यते आख्यातम् आख्यातेन क्रियासातत्ये इति ।

६६ - ६६ - तत् नियमार्थम् भविष्यति एतस्य एव तिङ्समुदायस्य प्रातिपदिकसञ्ज्ञा भवति न अन्यस्य इति ।

१ - ४० - अर्थवत्ता न उपपद्यते केवलेन अवचनात् ।

२ - ४० - अर्थवत्ता न उपपद्यते वृक्षशब्दस्य ।

३ - ४० - किम् कारणम् ।

४ - ४० - केवलेन अवचनात् ।

५ - ४० - न केवलेन वृक्षशब्देन अर्थः गम्यते ।

६ - ४० - केन तर्हि ।

७ - ४० - सप्रत्ययकेन ।

८ - ४० - न वा प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः ।

९ - ४० - न वा एषः दोषः ।

१० - ४० - किम् कारणम् ।

११ - ४० - प्रत्ययेन नित्यसम्बन्धात् ।

१२ - ४० - नित्यसम्बन्धौ एतौ अर्थौ प्रकृतिः प्रत्ययः इति ।

१३ - ४० - प्रत्ययेन नित्यसम्बन्धात् केवलस्य अप्रयोगः न भविष्यति ।

१४ - ४० - अन्यत् भवान् पृष्टः अन्यत् आचष्टे ।

१५ - ४० - आम्रान् पृष्टः कोविदारान् आचष्टे ।

१६ - ४० - अर्थवत्ता न उपपद्यते केवलेन अवचनात् इति भवान् अस्माभिः चोदितः केवलस्य अप्रयोगे हेतुम् आह ।

१७ - ४० - एवम् च किल नाम कृत्वा चोद्यते समुदायस्य अर्थे प्रयोगात् अवयवानाम् अप्रसिद्धिः इति ।

१८ - ४० - सिद्धम् तु अन्वयव्यतिरेकाभ्याम् ।

१९ - ४० - सिद्धम् एतत् ।

२० - ४० - कथम् ।

२१ - ४० - अन्वयात् व्यतिरेकात् च ।

२२ - ४० - कः असौ अन्वयः व्यतिरेकः वा ।

२३ - ४० - इह वृक्षः इति उक्ते कः चित् शब्दः श्रूयते वृक्षशब्दः अकारान्तः सकारान्तः च प्रत्ययः ।

२४ - ४० - अर्थः अपि कः चित् गम्यते मूलस्कन्धफलपलाशवान् एकत्वम् च ।

२५ - ४० - वृक्षौ इति उक्ते कः चित् शब्दः हीयते कः चित् उपजायते कः चित् अन्वयी सकारः हीयते, औकारः उपजायते वृक्षशब्दः अकारान्तः अन्वयी ।

२६ - ४० - अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी एकत्वम् हीयते द्वित्वम् उपजायते मूलस्कन्धफलपलाशवान् अन्वयी ।

२७ - ४० - ते मन्यामहे यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते ।

२८ - ४० - यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते ।

२९ - ४० - यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी. विषमः उपन्यासः ।

३० - ४० - बहवः हि शब्दाः एकार्थाः भवन्ति ।

३१ - ४० - तत् यथा इन्द्रः शक्रः पुरुहूतः पुरन्दरः, कन्दुः कोष्ठः कुशूलः इति ।

३२ - ४० - एकः च शब्दः बह्वर्थः ।

३३ - ४० - तत् यथा अक्षाः पादाः माषाः इति ।

३४ - ४० - अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति ।

३५ - ४० - न ब्रूमः अर्थवत्ता न सिध्यति इति ।वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव ।

३६ - ४० - तत्र कुतः एतत् अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा ।

३७ - ४० - सामान्यशब्दाः एते एवम् स्युः ।

३८ - ४० - सामान्यशब्दाः च न अन्तरेण विशेषम् प्रकरणम् वा विशेषेषु अवतिष्ठन्ते ।

३९ - ४० - यतः तु नियोगतः वृक्षः इति उक्ते स्वभावतः कस्मिन् चिद् अर्थे प्रतीतिः उपजायते अतः मन्यामहे न इमे सामान्यशब्दाः इति ।

४० - ४० - न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे ।

१ - २३ - किम् पुनः इमे वर्णाः अर्थवन्तः आहोस्वित् अनर्थकाः ।

२ - २३ - वर्णस्य अर्थवदनर्थकत्वे उक्तम् ।

३ - २३ - किम् उक्तम् ।

४ - २३ - अर्थवन्तः वर्णाः धातुप्रातिपदिकप्रत्ययनिपातानाम् एकवर्णानाम् अर्थदर्शनात् ।

५ - २३ - वर्णव्यत्यये च अर्थान्तरगमनात् ।

६ - २३ - वर्णानुपलब्धौ च अनर्थगतेः ।

७ - २३ - सङ्घातार्थवत्त्वात् च ।

८ - २३ - सङ्घातस्य ऐकार्थ्यात् सुबभावः वर्णात् ।

९ - २३ - अनर्थकाः तु प्रतिवर्णम् अर्थानुपलब्धेः ।

१० - २३ - वर्णव्यत्ययापायोपजनविकारेषु अर्थदर्शनात् इति ।

११ - २३ - तत्र इदम् अपरिहृतम् सङ्घातार्थवत्त्वात् च इति ।

१२ - २३ - तस्य परिहारः ।

१३ - २३ - सङ्घातार्थवत्त्वात् च इति चेत् दृष्टः हिअतदर्थेन गुणेन गुणिनः अर्थभावः ।

१४ - २३ - सङ्घातार्थवत्त्वात् च इति चेत् दृश्यते हि पुनः अतदर्थेन गुणेन गुणिनः अर्थभावः ।

१५ - २३ - तत् यथा ।

१६ - २३ - एकः तन्तुः त्वक्त्राणे असमर्थः तत्समुदायः च कम्बलः समर्थः ।

१७ - २३ - एकः तण्डुलः क्षुत्प्रतिघाते असमर्थः तत्समुदायः च वर्धतिकम् समर्थः ।

१८ - २३ - एकः च बल्वजः बन्धने असमर्थः तत्समुदायः च रज्जुः समर्था भवति ।

१९ - २३ - विषमः उपन्यासः ।

२० - २३ - भवति हि तत्र या च यावती च अर्थमात्रा ।

२१ - २३ - भवति हि किम् चित् प्रति एकः तन्तुः त्वक्त्राणे समर्थः एकः च तण्डुलः क्षुत्प्रतिघाते समर्थः एकः च बल्वजः बन्धने समर्थः ।

२२ - २३ - इमे पुनः वर्णाः अत्यन्ताय एव अनर्थकाः ।

२३ - २३ - यथा तर्हि रथाङ्गानि विहृतानि प्रत्येकम् व्रजिक्रियाम् प्रति असमर्थानि भवन्ति तत्समुदायः च रथः समर्थः एवम् एषाम् वर्णानाम् समुदायाः अर्थवन्तः अवयवाः अनर्थकाः इति ।

१ - २१ - निपातस्य अनर्थकस्य प्रातिपदिकत्वम् ।

२ - २१ - निपातस्य अनर्थकस्य प्रातिपदिकसञ्ज्ञा वक्तव्या ।

३ - २१ - खञ्जति निखञ्जति लम्बते प्रलम्बते ।

४ - २१ - किम् पुनः अत्र प्रातिपदिकसञ्ज्ञया प्रार्थ्यते ।

५ - २१ - प्रातिपदिकात् इति स्वाद्युत्पत्तिः, सुबन्तम् पदम् इति पदसञ्ज्ञा, पदस्य पदात् इति निघातः यथा स्यात् ।

६ - २१ - न एतत् अस्ति प्रयोजनम् ।

७ - २१ - सत्याम् अपि प्रातिपदिकसञ्ज्ञायाम् स्वाद्युत्पत्तिः न प्राप्नोति ।

८ - २१ - किम् कारणम् ।

९ - २१ - न हि प्रातिपदिकसञ्ज्ञायाम् एव स्वाद्युत्पत्तिः प्रतिबद्धा ।

१० - २१ - किम् तर्हि ।

११ - २१ - एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एषाम् एकत्वादयः सन्ति ।

१२ - २१ - न एषः दोषः ।

१३ - २१ - अविशेषेण उत्पद्यन्ते ।

१४ - २१ - उत्पन्नानाम् नियमः क्रियते ।

१५ - २१ - अथ वा प्रकृतार्थान् अपेक्ष्य नियमः ।

१६ - २१ - के च प्रकृताः ।

१७ - २१ - एकत्वादयः ।

१८ - २१ - एकस्मिन् एव अर्थे एकवचनम् न द्वयोः न बहुषु ।

१९ - २१ - द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु ।

२० - २१ - बहुषु एव अर्थेषु बहुवचनम् न एकस्मिन् न द्वयोः इति ।

२१ - २१ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति अनर्थकानाम् अपि एतेषाम् भवति अर्थवत्कृतम् इति यत् अयम् अधिपरी अनर्थकौ इति अनर्थकयोः गत्युपसर्गसञ्जाबाधिकाम् कर्मप्रवचनीयसञ्ज्ञाम् शास्ति

१ - ३४ - किम् पुनः अयम् पर्युदासः यत् अन्यत् प्रत्ययात् आहोस्वित् प्रसज्य अयम् प्रतिषेधः प्रत्ययः न इति ।

२ - ३४ - कः च अत्र विशेषः ।

३ - ३४ - अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः अन्तवत्त्वात् ।

४ - ३४ - अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः वक्तव्यः काण्डे कुड्ये ।

५ - ३४ - किम् कारणम् ।

६ - ३४ - अन्तवत्त्वात् ।

७ - ३४ - तिबतिपोः एकादेशः अतिपः अन्तवत् स्यात् ।

८ - ३४ - अस्ति अन्यत् तिपः इति कृत्वा प्रातिपदिकसञ्ज्ञा प्राप्नोति ।

९ - ३४ - अस्तु तर्हि प्रसज्यप्रतिषेधः प्रत्ययः न इति ।

१० - ३४ - न प्रत्ययः इति चेत् ऊङेकादेशे प्रतिषेधः आदिवत्त्वात् ।

११ - ३४ - न प्रत्ययः इति चेत् ऊङेकादेशे प्रतिषेधः प्राप्नोति ब्रह्मबन्धूः ।

१२ - ३४ - किम् कारणम् ।

१३ - ३४ - आदिवत्त्वात् ।

१४ - ३४ - प्रत्ययाप्रत्यययोः प्रत्ययस्य आदिवत् स्यात् ।

१५ - ३४ - तत्र प्रत्ययः न इति प्रतिषेधः प्राप्नोति ।

१६ - ३४ - न एषः दोषः ।

१७ - ३४ - आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते ऊङन्तात् स्वादयः इति यत् अयम् न ऊङ्धात्वोः इति विभक्तिस्वरस्य प्रतिषेधम् शाश्ति ।

१८ - ३४ - अथ वा द्वे हि अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि ।

१९ - ३४ - तत्र अवयवस्य या प्रातिपदिकसञ्ज्ञा तया अन्तवद्भावात् स्वाद्युत्पत्तिः भविष्यति ।

२० - ३४ - सुब्लोपे च प्रत्ययलक्षणत्वात् ।

२१ - ३४ - सुब्लोपे च प्रत्ययलक्षणेन प्रतिषेधः प्राप्नोति राजा तक्षा ।

२२ - ३४ - प्रत्ययलक्षणेन प्रत्ययः न इति प्रतिषेधः प्राप्नोति ।

२३ - ३४ - न एषः दोषः ।

२४ - ३४ - आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन प्रतिषेधः भवति इति यत् अयम् न ङिसम्बुद्ध्योः इति प्रतिषेधम् शास्ति ।

२५ - ३४ - अथ वा पुनः अस्तु पर्युदासः ।

२६ - ३४ - ननु च उक्तम् अप्रत्ययः इति चेत् तिबेकादेशे प्रतिषेधः अन्तवत्त्वात् इति ।

२७ - ३४ - प्रसज्यप्रतिषेधे अपि एषः दोषः ।

२८ - ३४ - द्वे हि अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि ।

२९ - ३४ - गृह्यते च प्रातिपदिकाप्रातिपदिकयोः एकादेशः प्रातिपदिकग्रहणेन ।

३० - ३४ - तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् ह्रस्वः नपुंसके यत् तस्य इति ।

३१ - ३४ - किम् च नपुंसके ।

३२ - ३४ - नपुंसकम् यस्य गुणः ।

३३ - ३४ - कस्य च नपुंसकम् गुणः ।

३४ - ३४ - प्रातिपदिकस्य ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP