१ - ४ - समासग्रहणम् किमर्थम् ।
२ - ४ - समासग्रहणे उक्तम् ।
३ - ४ - किम् उक्तम् ।
४ - ४ - अर्थवत्समुदायानाम् समासग्रहणम् नियमार्थम् इति ।
१ - ३४ - प्रातिपदिकग्रहणम् किमर्थम् ।
२ - ३४ - नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणम् तिब्निवृत्त्यर्थम् । नपुंसकह्रस्वत्वे प्रातिपदिकग्रहणम् क्रियते तिब्निवृत्त्यर्थम् ।
३ - ३४ - तिबन्तस्य ह्रस्वत्वम् मा भूत् काण्डे कुड्ये ।
४ - ३४ - रमते ब्राह्मणकुलम् ।
५ - ३४ - अव्ययप्रतिषेधः ।
६ - ३४ - अव्ययानाम् प्रतिषेधः वक्तव्यः दोषा ब्राह्मणकुलम् दिवा ब्राह्मणकुलम् इति ।
७ - ३४ - सः तर्हि वक्तव्यः ।
८ - ३४ - न वक्तव्यः ।
९ - ३४ - न अत्र अव्ययम् नपुंसके वर्तते ।
१० - ३४ - किम् तर्हि ।
११ - ३४ - अधिकरणम् अत्र अव्ययम् नपुंसकस्य ।
१२ - ३४ - इह तर्हि प्राप्नोति काण्डीभूतम् वृषलकुलम्, कुड्यीभूतम् वृषलकुलम् इति ।
१३ - ३४ - न वा लिङ्गाभावात् ।
१४ - ३४ - न वा वक्तव्यम् ।
१५ - ३४ - किम् कारणम् ।
१६ - ३४ - लिङ्गाभावात् ।
१७ - ३४ - अलिङ्गम् अव्ययम् ।
१८ - ३४ - किम् पुनः अयम् अव्ययस्य एव परिहारः आहोस्वित् तिबन्तस्य अपि ।
१९ - ३४ - तिबन्तस्य अपि इति आह ।
२० - ३४ - कथम् ।
२१ - ३४ - अव्ययम् हि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् ।
२२ - ३४ - उच्चैः, नीचैः इति विभक्त्यर्थप्रधानम्, हिरुक् पृथक् इति क्रियाप्रधानम् ।
२३ - ३४ - तिबन्तम् च अपि किम् चित् विभक्त्यर्थप्रधानम् किम् चित् क्रियाप्रधानम् ।
२४ - ३४ - काण्डे कुड्ये इति विभक्तर्थ्यप्रधानम्, रमते ब्राह्मणकुलम् इति क्रियाप्रधानम् ।
२५ - ३४ - न च एतयोः अर्थयोः लिङ्गसङ्ख्याभ्याम् योगः अस्ति ।
२६ - ३४ - अवश्यम् च एतत् एवम् विज्ञेयम् ।
२७ - ३४ - क्रियमाणे अपि हि प्रातिपदिकग्रहणे इह प्रसज्येत काण्डे कुड्ये ।
२८ - ३४ - द्वे हि अत्र प्रातिपदिकसञ्ज्ञे अवयवस्य अपि समुदायस्य अपि ।
२९ - ३४ - गृह्यते च प्रातिपदिकाप्रातिपदिकयोः एकादेशः प्रातिपदिकग्रहणेन ।
३० - ३४ - तस्मात् उभाभ्याम् अपि वक्तव्यम् स्यात् ह्रस्वः नपुंसके यत् तस्य इति ।
३१ - ३४ - किम् च नपुंसके ।
३२ - ३४ - नपुंसकम् यस्य गुणः ।
३३ - ३४ - कस्य च नपुंसकम् गुणः ।
३४ - ३४ - प्रातिपदिकस्य ।
१ - ६ - यञेकादेशदीर्घैत्त्वेषु प्रतिषेधः ।
२ - ६ - यञेकादेशदीर्घैत्त्वेषु प्रतिषेधः वक्तव्यः युगवरत्राय युगवरत्रार्थम्, युगवरत्रेभ्यः ।
३ - ६ - यञेकादेशदीर्घैत्त्वेषु बहिरङ्गलक्षणत्वात् सिद्धम् ।
४ - ६ - बहिरङ्गाः एते विधयः ।
५ - ६ - अन्तरङ्गम् ह्रस्वत्वम् ।
६ - ६ - असिद्धम् बहिरङ्गम् अन्तरङ्गे
१ - १० - उपसर्जनह्रस्वत्वे च ।
२ - १० - उपसर्जनह्रस्वत्वे च ।
३ - १० - किम् ।
४ - १० - यञेकादेशदीर्घैत्त्वेषु प्रतिषेधः वक्तव्यः अतिखट्वाय अतिखट्वार्थम् अतिखट्वेभ्यः ।
५ - १० - उपसर्जनह्रस्वत्वे च ।
६ - १० - किम् ।
७ - १० - बहिरङ्गलक्षणत्वात् सिद्धम् इति एव ।
८ - १० - बहिरङ्गाः एते विधयः ।
९ - १० - अन्तरङ्गम् ह्रस्वत्वम् ।
१० - १० - असिद्धम् बहिरङ्गम् अन्तरङ्गे
१ - ७० - गोटाङ्ग्रहणम् कृन्निवृत्त्यर्थम् ।
२ - ७० - गोटाङ्ग्रहणम् कर्तव्यम् ।
३ - ७० - किम् इदम् टाङ् इति ।
४ - ७० - प्रत्याहारग्रहणम् ।
५ - ७० - क्व सन्निविष्टानाम् प्रत्याहारः ।
६ - ७० - टापः प्रभृति आ ष्यङः ङकारात् ।
७ - ७० - किम् प्रयोजनम् ।
८ - ७० - कृन्निवृत्त्यर्थम् ।
९ - ७० - कृत्स्त्रियाः धातुस्त्रियाः च ह्रस्वत्वम् मा भूत् इति अतितन्त्रीः, अतिश्रीः, अतिलक्ष्मीः इति ।
१० - ७० - तत् तर्हि वक्तव्यम् ।
११ - ७० - न वक्तव्यम् ।
१२ - ७० - स्त्रीग्रहणम् स्वर्यते ।
१३ - ७० - तत्र स्वरितेन अधिकारगतिः भवति ।
१४ - ७० - स्त्रियाम् इति एवम् प्रकृत्य ये विहिताः तेषाम् ग्रहणम् विज्ञास्यते ।
१५ - ७० - स्वरितेन अधिकारगतिः भवति इति न दोषः भवति ।
१६ - ७० - यदि एवम् प्रत्ययग्रहणम् इदम् भवति ।
१७ - ७० - तत्र प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति इह न प्राप्नोति अतिराजकुमारिः, अतिसेनानीकुमारिः इति ।
१८ - ७० - अस्त्रीप्रत्ययेन इति एवम् तत् ।
१९ - ७० - ईयसः बहुव्रीहौ पुंवद्वचनम् ।
२० - ७० - ईयसः बहुव्रीहौ पुंवद्भावः वक्तव्यः ।
२१ - ७० - बह्व्यः श्रेयस्यः अस्य बहुश्रेयसी विद्यमानश्रेयसी ।
२२ - ७० - पूर्वपदस्य च प्रतिषेधः गोसमासनिवृत्त्यर्थम् ।
२३ - ७० - पूर्वपदस्य च प्रतिषेधः वक्तव्यः ।
२४ - ७० - किम् प्रयोजनम् ।
२५ - ७० - गोसमासनिवृत्त्यर्थम् ।
२६ - ७० - गोनिवृत्त्यर्थम् समासनिवृत्त्यर्थम् च ।
२७ - ७० - गोनिवृत्त्यर्थम् तावत् गोकुलम्, गोक्षीरम्, गोपालकः इति ।
२८ - ७० - समासनिवृत्त्यर्थम् राजकुमारीपुत्रः, सेनानीकुमारीपुत्रः इति ।
२९ - ७० - किम् उच्यते समासनिवृत्त्यर्थम् इति न पुनः असमासः अपि किम् चित् पूर्वपदम् यदर्थः प्रतिषेधः स्यात् ।
३० - ७० - स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च अन्तरेण समासम् स्त्र्यन्तम् प्रातिपदिकम् उपसर्जनम् अस्ति ।
३१ - ७० - ननु च इदम् अस्ति खट्वापादः, मालापादः इति ।
३२ - ७० - एकादेशे कृते अन्तादिवद्भावात् प्राप्नोति ।
३३ - ७० - उभयतः आश्रये न अन्तादिवत् ।
३४ - ७० - गोनिवृत्त्यर्थेन तावत् न अर्थः ।
३५ - ७० - गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते न च एतत् गोन्तम् ।
३६ - ७० - ननु च एतत् अपि व्यपदेशिवद्भावेन गोन्तम् ।
३७ - ७० - व्यपदेशिवद्भावः अप्रातिपदिकेन ।
३८ - ७० - समासनिवृत्त्यर्थेन च अपि न अर्थः ।
३९ - ७० - स्त्र्यन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति इति उच्यते ।
४० - ७० - प्रधानम् उपसर्जनम् इति च सम्बन्धिशब्दौ एतौ ।
४१ - ७० - तत्र सम्बन्धात् एतत् गन्तव्यम् यम् प्रति यत् अप्रधानम् तस्य चेत् सः अन्तः भवति इति ।
४२ - ७० - अवश्यम् च एतत् एवम् विज्ञेयम् ।
४३ - ७० - उच्यमाने अपि हि प्रतिषेधे इह प्रसज्येत पञ्च कुमार्यः प्रियाः अस्य पञ्चकुमारीप्रियः, दशकुमारीप्रियः इति ।
४४ - ७० - कपि च ।
४५ - ७० - कपि च प्रतिषेधः वक्तव्यः बहुकुमारीकः, बहुवृषलीकः ।
४६ - ७० - द्वन्द्वे च ।
४७ - ७० - द्वन्द्वे च प्रतिषेधः वक्तव्यः कुक्कुटमयूर्यौ ।
४८ - ७० - उक्तम् वा ।
४९ - ७० - किम् उक्तम् ।
५० - ७० - कपि तावत् उक्तम् न कपि इति प्रतिषेधः इति ।
५१ - ७० - न एतत् अस्ति उक्तम् ।
५२ - ७० - के अणः इति या ह्रस्वप्राप्तिः तस्याः प्रतिषेधः ।
५३ - ७० - कुतः एतत् ।
५४ - ७० - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।
५५ - ७० - अवश्यम् च एतत् एवम् विज्ञेयम् ।
५६ - ७० - यः हि मन्यते या च यावतीच ह्रस्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः इति इह अपि तस्य प्रतिषेधः प्रसज्येत प्रियम् ग्रामणि ब्राह्मणकुलम् अस्य प्रियग्रामणिकः ।
५७ - ७० - इदम् तर्हि उक्तम् कपि कृते अनन्त्यत्वात् ह्रस्वत्वम् न भविष्यति ।
५८ - ७० - इदम् इह सम्प्रधार्यम् कप् क्रियताम् ह्रस्वत्वम् इति ।
५९ - ७० - किम् अत्र कर्तव्यम् ।
६० - ७० - परत्वात् कप् ।
६१ - ७० - अन्तरङ्गम् ह्रस्वत्वम् ।
६२ - ७० - अन्तरङ्गतरः कप् ।
६३ - ७० - ननु च अयम् कप् समासान्तः इचि उच्यते ।
६४ - ७० - तादर्थ्यात् ताच्छब्द्यम् भविष्यति ।
६५ - ७० - येषाम् पदानाम् समासः न तावत् तेषाम् अन्यत् भवति ।
६६ - ७० - कपम् तावत् प्रतीक्षते ।
६७ - ७० - द्वन्द्वे अपि उक्तम् ।
६८ - ७० - किम् उक्तम् ।
६९ - ७० - परवत् लिङ्गम् इति शब्दशब्दार्थौ इति ।
७० - ७० - तत्र औपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणम् भविष्यति ।
१ - १८ - तद्धितलुकि अवन्त्यादीनाम् प्रतिषेधः ।
२ - १८ - तद्धितलुकि अवन्त्यादीनाम् प्रतिषेधः वक्तव्यः अवन्ती कुन्ती कुरूः ।
३ - १८ - तद्धितलुकि अवन्त्यादीनाम् अप्रतिषेधः अलुक्परत्वात् ।
४ - १८ - तद्धितलुकि अवन्त्यादीनाम् अप्रतिषेधः ।
५ - १८ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।
६ - १८ - लुक् कस्मात् न भवति ।
७ - १८ - अलुक्परत्वात् ।
८ - १८ - लुकि इति उच्यते ।
९ - १८ - न च अत्र लुकम् पश्यामः ।
१० - १८ - लुकि इति न एषा परसप्तमी शक्या विज्ञातुम् ।
११ - १८ - न हि लुका पौर्वापर्यम् अस्ति ।
१२ - १८ - का तर्हि ।
१३ - १८ - सत्सप्तमी लुकि सति इति ।
१४ - १८ - सत्सप्तमी चेत् प्राप्नोति ।
१५ - १८ - एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति ।
१६ - १८ - किम् ।
१७ - १८ - उपसर्जनस्य इति वर्तते ।
१८ - १८ - न च जातिः उपसर्जनम् ।
१ - २० - इत् गोण्याः न इति वक्तव्यम् । गोण्याः न इति एव वक्तव्यम् ।
२ - २० - न अर्थः इत्त्वेन ।
३ - २० - का रूपसिद्धिः पञ्चगोणिः, दशगोणिः ।
४ - २० - ह्रस्वता हि विधीयते ।
५ - २० - ह्रस्वत्वम् अत्र विधीयते गोस्त्रियोः उपसर्जनस्य इति ।
६ - २० - इति वा वचने तावत् ।
७ - २० - इत् इति वा उच्येत न इति वा कः नु अत्र विशेषः ।
८ - २० - मात्रार्थम् वा कृतम् भवेत् । अथ वा मात्रार्थम् इदम् वक्तव्यम् गोणीमात्रम् इदम् गोणिः ।
९ - २० - अपरः आह गोण्याः इत्त्वम् प्रकरणात् ।
१० - २० - अशिष्यम् गोण्याः इत्त्वम् ।
११ - २० - किम् कारणम् ।
१२ - २० - प्रकरणात् ।
१३ - २० - प्रकृतम् ह्रस्वत्वम् ।
१४ - २० - ह्रस्वः इति वर्तते ।
१५ - २० - ननु सूच्याः ।
१६ - २० - सूच्याद्यर्थम् अथ अपि वा ।
१७ - २० - सूच्याद्यर्थम् इदम् द्रष्टव्यम् पञ्चसूचिः, दशसूचीः ।
१८ - २० - इत् गोण्याः न इति वक्तव्यम् ह्रस्वता हि विधीयते । इति वा वचने तावत् ।
१९ - २० - मात्रार्थम् वा कृतम् भवेत् ॥ गोण्याः इत्त्वम् प्रकरणात् ।
२० - २० - सूच्याद्यर्थम् अथ अपि वा ।
१ - २१ - व्यक्तिवचने इति किमर्थम् ।
२ - २१ - शिरीषाणाम् अदूरभवः ग्रामः शिरीषाः ।
३ - २१ - तस्य ग्रामस्य वनम् शिरीषवनम् ।
४ - २१ - किम् च स्यात् ।
५ - २१ - विभाषा ओषधिवनस्पतिभ्यः इति णत्वम् प्रसज्येत ।
६ - २१ - अपरः आह कटुबदर्याः अदूरभवः ग्रामः कटुबदरी ।
७ - २१ - षष्ठी युक्तवद्भावेन मा भूत् इति ।
८ - २१ - अथ व्यक्तिवचने इति अपि उच्यमाने कस्मात् एव अत्र न भवति ।
९ - २१ - षष्ठी अपि हि वचनम् ।
१० - २१ - न इदम् पारिभाषिकस्य वचनस्य ग्रहणम् ।
११ - २१ - किम् तर्हि ।
१२ - २१ - अन्वर्थग्रहणम् उच्यते वचनम् इति ।
१३ - २१ - एवम् अपि षष्ठी प्राप्नोति ।
१४ - २१ - षष्ठी अपि हि उच्यते ।
१५ - २१ - लुपा उक्तत्वात् तस्य अर्थस्य द्वितीयस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।
१६ - २१ - आतिदेशिकी तर्हि प्राप्नोति ।
१७ - २१ - एवम् तर्हि प्राक् अपि वृत्तेः युक्तम् वृत्तम् च अपि । इह यावता युक्तम् वक्तुः च कामचारः प्राक् वृत्तेः लिङ्गसङ्ख्ये ये ।
१८ - २१ - प्राक् अपि वृत्तेः युक्तम् वनस्पतिभिः नगरम् वृत्तम् च अपि युक्तम् वनस्पतिभिः नगरम् ।
१९ - २१ - वृत्ते च युक्तवद्भावः विधीयते ।
२० - २१ - कामचारः च प्रयोक्तुः प्राक् वृत्तेः ये लिङ्गसङ्ख्ये ते अतिदेष्टुम् वृत्तस्य वा ये लिङ्गसङ्ख्ये ।
२१ - २१ - यावता कार्मचारः वृत्तस्य ये लिङ्गसङ्ख्ये ते अतिदिश्येते न प्राक् वृत्तेः ये ।
१ - २२ - किमर्थम् पुनः इदम् उच्यते ।
२ - २२ - अन्यत्र अभिधेयव्यक्तिवचनभावात् लुपि युक्तवदनुदेशः ।
३ - २२ - अन्यत्र अभिधेयवत् लिङ्गवचनानि भवन्ति ।
४ - २२ - क्व अन्यत्र ।
५ - २२ - लुकि लवणः सुपः, लवणा यवागुः, लवणम् शाकम् इति ।
६ - २२ - अन्यत्र अभिधेयवत् लिङ्गवचनानि भवन्ति लुकि. इह अपि अन्यत्र अभिधेयवत् लिङ्गवचनानि प्राप्नुवन्ति ।
७ - २२ - इष्यन्ते च अभिधानवत् स्युः इति ।
८ - २२ - तत् च अन्तरेण यत्नम् न सिध्यति इति लुपि युक्तवदनुदेशः ।
९ - २२ - एवमर्थम् इदम् उच्यते ।
१० - २२ - अस्ति प्रयोजनम् एतत् ।
११ - २२ - किम् तर्हि इति ।
१२ - २२ - लुपः अदर्शनसञ्ज्ञित्वात् अर्थगतिः न उपपद्यते ।
१३ - २२ - लुप् नाम इयम् अदर्शनस्य सञ्ज्ञा क्रियते ।
१४ - २२ - न च अदर्शनस्य लिङ्गसङ्ख्ये शक्येते अतिदेष्टुम् ।
१५ - २२ - लुपः अदर्शनसञ्ज्ञित्वात् अर्थगतिः न उपपद्यते ।
१६ - २२ - न वा अदर्शनस्य अशक्यत्वात् अर्थगतिः साहचर्यात् ।
१७ - २२ - न वा एषः दोषः ।
१८ - २२ - किम् कारणम् ।
१९ - २२ - अदर्शनस्य अशक्यत्वात् ।
२० - २२ - अदर्शनस्य लिङ्गसङ्ख्ये अशक्ये अतिदेष्टुम् इति कृत्वा अदर्शनसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात् ।
२१ - २२ - योगाभावात् च अन्यस्य ।
२२ - २२ - अदर्शनेन च योगः न अस्ति इति कृत्वा अदर्शनसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात्
१ - ७ - समासे उत्तरपदस्य बहुवचनस्य लुपः ।
२ - ७ - समासे उत्तरपदस्य बहुवचनस्य लुपः युक्तवद्भावः वक्तव्यः मधुरापञ्चालाः ।
३ - ७ - किम् प्रयोजनम् ।
४ - ७ - नियमार्थम् ।
५ - ७ - समासे उत्तरपदस्य एव ।
६ - ७ - क्व मा भूत् ।
७ - ७ - पञ्चालमधुरे इति ।
१ - ९ - कथम् इदम् विज्ञायते जातिः यत् विशेषणम् इति आहोस्वित् जातेः यानि विशेषणानि इति ।
२ - ९ - किम् च अतः ।
३ - ९ - यदि विज्ञायते जातिः यत् विशेषणम् इति सिद्धम् पञ्चालाः जनपदः इति ।
४ - ९ - सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति न सिध्यति ।
५ - ९ - अथ विज्ञायते जातेः यानि विशेषणानि इति सिद्धम् सुभिक्षः सम्पन्नपानीयः बहुमाल्यफलः इति ।
६ - ९ - पञ्चालाः जनपदः इति न सिध्यति ।
७ - ९ - एवम् तर्हि न एवम् विज्ञायते जातिः यत् विशेषणम् इति न अपि जातेः यानि विशेषणानि इति ।
८ - ९ - कथम् तर्हि ।
९ - ९ - विशेषणानाम् युक्तवद्भावः भवति आ जातिप्रयोगात् ।
१ - १७ - किमर्थम् पुनः इदम् उच्यते ।
२ - १७ - विशेषणानाम् वचनम् जातिनिवृत्त्यर्थम् ।
३ - १७ - जातिनिवृत्त्यर्थः अयम् आरम्भः ।
४ - १७ - किम् उच्यते जातिनिवृत्त्यर्थः इति न पुनः विशेषणानाम् अपि युक्तवद्भावः यथा स्यात् इति ।
५ - १७ - समानाधिकरणत्वात् सिद्धम् ।
६ - १७ - समानाधिकरणत्वात् विशेषणानाम् युक्तवद्भावः भविष्यति ।
७ - १७ - यदि एवम् न अर्थः अनेन ।
८ - १७ - लुपः अन्यत्र अपि जातेः युक्तवद्भावः न भवति ।
९ - १७ - क्व अन्यत्र ।
१० - १७ - बदरी सूक्ष्मकण्टका मधुरा वृक्षः इति ।
११ - १७ - किम् पुनः कारणम् अन्यत्र अपि जातेः युक्तवद्भावः न भवति ।
१२ - १७ - आविष्टलिङ्गा जातिः यत् लिङ्गम् उपादाय प्रवर्तते उत्पत्तिप्रभृति आ विनाशात् न तत् लिङ्गम् जहाति ।
१३ - १७ - न तर्हि इदानीम् अयम् योगः वक्तव्यः ।
१४ - १७ - वक्तव्यः च ।
१५ - १७ - किम् प्रयोजनम् ।
१६ - १७ - इदम् तत्र तत्र उच्यते गुणवचनानाम् शब्दानाम् आश्रयतः लिङ्गवचनानि भवन्ति इति ।
१७ - १७ - तत् अनेन क्रियते
१ - ५ - हरीतक्यादिषु व्यक्तिः । हरीतक्यादिषु व्यक्तिः भवति युक्तवद्भावेन हरीतक्याः फलानि हरीतक्यः फलानि ।
२ - ५ - खलतिकादिषु वचनम् ।
३ - ५ - खलतिकादिषु वचनम् भवति युक्तवद्भावेन खलतिकस्य पर्वतस्य अदूरभवानि वनानि खलतिकम् वनानि ।
४ - ५ - मनुष्यलुपि प्रतिषेधः ।
५ - ५ - मनुष्यलुपि प्रतिषेधः वक्तव्यः चञ्चा अभिरूपः, वध्रिका दर्शनीयः ।
१ - ३ - किम् याः एताः कृत्रिमाः टिघुभादिसञ्ज्ञाः तत्प्रामाण्यात् अशिष्यम् ।
२ - ३ - न इति आह ।
३ - ३ - सञ्ज्ञानम् सञ्ज्ञा ।
१ - ५३ - इदम् अयुक्तम् वर्तते ।
२ - ५३ - किम् अत्र अयुक्तम् ।
३ - ५३ - बहवः ते अर्थाः ।
४ - ५३ - तत्र युक्तम् बहुवचनम् ।
५ - ५३ - तत् यत् एकवचने शासितव्ये बहुवचनम् शिष्यते एतत् अयुक्तम् ।
६ - ५३ - बहुषु एकवचनम् इति नाम वक्तव्यम् ।
७ - ५३ - अतः उत्तरम् पठति जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् । जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् भविष्यति ।
८ - ५३ - यत् तत् व्रीहौ व्रीहित्वम् यवे यवत्वम् गार्ग्ये गार्ग्यत्वम् तत् एकम् तच् च विवक्षितम् ।
९ - ५३ - तस्य एकत्वात् एकवचनम् एव प्राप्नोति ।
१० - ५३ - इष्यते च बहुवचनम् स्यात् इति ।
११ - ५३ - तत् च अन्तरेण यत्नम् न सिध्यति इति जात्याख्यायम् एकस्मिन् बहुवचनम् ।
१२ - ५३ - एवमर्थम् इदम् उच्यते ।
१३ - ५३ - अस्ति प्रयोजनम् एतत् ।
१४ - ५३ - किम् तर्हि इति ।
१५ - ५३ - तत्र एकवचनादेशे उक्तम् ।
१६ - ५३ - किम् उक्तम् ।
१७ - ५३ - व्रीहिभ्यः आगतः इति अत्र घेः ङिति इति गुणः प्राप्नोति इति ।
१८ - ५३ - न एषः दोषः ।
१९ - ५३ - अर्थातिदेशात् सिद्धम् । अर्थातिदेशः अयम् ।
२० - ५३ - न इदम् पारिभाषिकस्य वचनस्य ग्रहणम् ।
२१ - ५३ - किम् तर्हि ।
२२ - ५३ - अन्वर्थग्रहणम् उच्यते वचनम् ।
२३ - ५३ - बहूनाम् अर्थानाम् वचनम् बहुवचनम् इति ।
२४ - ५३ - यावत् ब्रूयात् एकः अर्थः बहुवत् भवति इति तावत् एकस्मिन् बहुवचनम् इति ।
२५ - ५३ - सङ्ख्याप्रयोगे प्रतिषेधः । सङ्ख्याप्रयोगे प्रतिषेधः वक्तव्यः ।
२६ - ५३ - एकः व्रीहिः सम्पन्नः सुभिक्षम् करोति ।
२७ - ५३ - अस्मदः नामयुवप्रत्यययोः च । अस्मदः नामप्रयोगे युवप्रत्ययप्रयोगे च प्रतिषेधः वक्तव्यः ।
२८ - ५३ - नामप्रयोगे अहम् देवदत्तः ब्रवीमि ।
२९ - ५३ - अहम् यज्ञदत्तः ब्रवीमि ।
३० - ५३ - युवप्रत्ययप्रयोगे अहं गार्ग्यायणः ब्रवीमि ।
३१ - ५३ - अहम् वात्स्यायनः ब्रवीमि ।
३२ - ५३ - युवग्रहणेन नार्थः ।
३३ - ५३ - अस्मदः नामप्रत्ययप्रयोगे न इति एव ।
३४ - ५३ - इदम् अपि सिद्धम् भवति अहम् गार्ग्यः ब्रवीमि ।
३५ - ५३ - अहम् वात्स्यः ब्रवीमि ।
३६ - ५३ - अपरः आह अस्मदः सविशेषणस्य प्रयोगे न इति एव ।
३७ - ५३ - इदम् अपि सिद्धम् भवति अहम् पटुः ब्रवीमि ।
३८ - ५३ - अहम् पण्डितः ब्रवीमि ।
३९ - ५३ - अशिष्यम् वा बहुवत् पृथक्त्त्वाभिधानात् ।
४० - ५३ - अशिष्यः वा बहुवद्भावः ।
४१ - ५३ - किम् कारणम् ।
४२ - ५३ - पृथक्त्वाभिधानात् ।
४३ - ५३ - पृथक्त्वेन हि द्रव्याणि अभिधीयन्ते ।
४४ - ५३ - बहवः ते अर्थाः ।
४५ - ५३ - तत्र युक्तम् बहुवचनम् ।
४६ - ५३ - किम् उच्यते पृथक्त्वाभिधानात् इति यावता इदानीम् एव उक्तम् जात्याख्यायाम् सामान्याभिधानात् ऐकार्थ्यम् इति ।
४७ - ५३ - जातिशब्देन हि द्रव्याभिधानम् । जातिशब्देन हि द्रव्यम् अपि अभिधीयते जातिः अपि ।
४८ - ५३ - कथम् पुनः ज्ञायते जातिशब्देन द्रव्यम् अपि अभिधीयते इति ।
४९ - ५३ - एवम् हि कः चित् महति गोमण्डले गोपालकम् आसीनम् पृच्छति अस्ति अत्र काम् चिद् गाम् पश्यसि इति ।
५० - ५३ - सः पश्यति पश्यति च अयम् गाः पृच्छति च काम् चिद् अत्र गाम् पश्यसि इति ।
५१ - ५३ - नूनम् अस्य द्रव्यम् विवक्षितम् इति ।
५२ - ५३ - तत् यदा द्रव्याभिधानम् तदा बहुवचनम् भविष्यति ।
५३ - ५३ - यदा सामान्याभिधानम् तदा एकवचनम् भविष्यति ।
१ - ९ - अयम् अपि योगः शक्यः अवक्तुम् ।
२ - ९ - कथम् अहम् ब्रवीमि, आवाम् ब्रूवः, वयम् ब्रूमः ।
३ - ९ - इमानि इन्द्रियाणि कदा चित् स्वातन्त्र्येण विवक्षितानि भवन्ति ।
४ - ९ - तत् यथा इदम् मे अक्षि सुष्ठु पश्यति ।
५ - ९ - अयम् मे कर्णः सुष्ठु शृणोति इति ।
६ - ९ - कदा चित् पारतन्त्र्येण अनेन अक्ष्णा सुष्ठु पश्यामि ।
७ - ९ - अनेन कर्णेन सुष्ठु शृणोमि इति ।
८ - ९ - तत् यदा स्वातन्त्र्येण विवक्षा तदा बहुवचनम् भविष्यति ।
९ - ९ - यदा पारतन्त्र्येण तदा एकवचनद्विवचने भविष्यतः ।
१ - ६ - अयम् अपि योगः शक्यः अवक्तुम् ।
२ - ६ - कथम् उदिते पूर्वे फल्गुन्यौ, उदिताः पूर्वाः फल्गुन्यः, उदिते पूर्वे प्रोष्ठपदे, उदिताः पूर्वाः प्रोष्ठपदाः ।
३ - ६ - फल्गुनीसम्पीपगते चन्द्रमसि फल्गुनीशब्दः वर्तते ।
४ - ६ - बहवः ते अर्थाः ।
५ - ६ - तत्र युक्तम् बहुवचनम् ।
६ - ६ - यदा तयोः एव अभिधानम् तदा द्विवचनम् भविष्यति ।
१ - ४ - इमौ अपि योगौ शक्यौ अवक्तुम् ।
२ - ४ - कथम् ।
३ - ४ - पुनर्वसुविशाखयोः सुपाम् सुलुक्पूर्वसवर्ण इति सिद्धम् ।
४ - ४ - पुनर्वसुविशाखयोः सुपाम् सुलुक्पूर्वसवर्ण इति एव सिद्धम्
१ - २४ - तिष्यपुनर्वस्वोः इति किमर्थम् ।
२ - २४ - कृत्तिकारोहिण्यः ।
३ - २४ - नक्षत्र इति किमर्थम् ।
४ - २४ - तिष्यः च माणवकः पुनर्वसू मणवकौ तिष्यपुनर्वसवः ।
५ - २४ - अथ नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणम् किमर्थम् ।
६ - २४ - अयम् तिष्यपुनर्वसुशब्दः अस्ति एव ज्योतिषि वर्तते ।
७ - २४ - अस्ति च कालवाची ।
८ - २४ - तत् यथा बहवः तिष्यपुनर्वसवः अतिक्रान्ताः ।
९ - २४ - कतरेण तिष्येण गतः इति ।
१० - २४ - तत् यः ज्योतिषि वर्तते तस्य इदम् ग्रहणम् ।
११ - २४ - अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्रग्रहणस्य एतत् प्रयोजनम् विदेशस्थम् अपि तिष्यपुनर्वस्वोः कार्यम् तत् अपि नक्षत्रस्य एव यथा स्यात् तिष्यपुष्ययोः नक्षत्राणि यलोपः वक्तव्यः इति नक्षत्रग्रहणम् न कर्तव्यम् भवति ।
१२ - २४)
अथ वा अथ वा नक्षत्रे इति वर्तमाने पुनः नक्षत्र ग्रहणस्य एतत् प्रयोजनम् तिष्यपुनर्वसुपर्यायवाचिनाम् अपि यथा स्यात् पुष्यपुनर्वसू सिध्यपुनर्वसू ।
१३ - २४)
अथ द्वन्द्वे इति किमर्थम् ।
१४ - २४)
यः तिष्यः तौ पुनर्वसू येषाम् ते इमे तिष्यपुनर्वसवः उन्मुग्धाः ।
१५ - २४)
बहुवचनस्य इति किमर्थम् ।
१६ - २४)
उदितम् तिष्यपुनर्वसू ।
१७ - २४)
कथम् च अत्र एकवचनम् ।
१८ - २४)
जातिद्वन्द्वः एकवत् भवति इति ।
१९ - २४)
अप्राणिनाम् इति प्रतिषेधः प्राप्नोति ।
२० - २४)
एवम् तर्हि सिद्धे सति यत् बहुवचनग्रहणम् करोति तत् ज्ञापयति आचार्यः सर्वः द्वन्द्वः विभाषा एकवत् भवति इति ।
२१ - २४)
किम् एतस्य ज्ञापने प्रयोजनम् ।
२२ - २४)
बाभ्रवशालङ्कायनम् बाभ्रवशालङ्कायनाः इति एतत् सिद्धम् भवति ।
२३ - २४)
अथ वा न अत्र भवन्तः प्राणिनाः ।
२४ - २४)
प्राणाः एव अत्र भवन्तः ।