पाद ३ - खण्ड १६

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १३ - किम् इह उदाहरणम् ।

२ - १३ - इकः यण् अचि ।

३ - १३ - दधि अत्र मधु अत्र ।

४ - १३ - न एतत् अस्ति ।

५ - १३ - स्थाने अन्तरतमेन अपि एतत् सिद्धम् ।

६ - १३ - कुतः आन्तर्यम् ।

७ - १३ - तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः भविष्यति इति ।

८ - १३ - इदम् तर्हि ।

९ - १३ - तस्थस्थमिपाम् ताम्तम्तामः इति ।

१० - १३ - ननु च एतत् अपि स्थाने अन्तरतमेन एव सिद्धम् ।

११ - १३ - कुतः आन्तर्यम् ।

१२ - १३ - एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः भविष्यति इति ।

१३ - १३ - इदम् तर्हि तूदीशलात्रुअवर्मतीकूचवारात् ढक्छण्ढञ्यकः इति ।

१ - १६ - किमर्थम् पुनः इदम् उच्यते ।

२ - १६ - सञ्ज्ञासमासनिर्देशात् सर्वप्रसङ्गः अनुदेशस्य यथासङ्ख्यवचनम् नियमार्थम् । सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते ।

३ - १६ - सञ्ज्ञया तावत् ।

४ - १६ - परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति ।

५ - १६ - समासैः ।

६ - १६ - तूदीशलातुरवर्मतीकूचवारात् ढक्छण्ढञ्यकः इति ।

७ - १६ - सञ्ज्ञासमासनिर्देशात् सर्वप्रसङ्गः अनुदेशस्य यथासङ्ख्यवचनम् नियमार्थम् ।

८ - १६ - सर्वस्य उद्देशस्य सर्वः अनुदेशः प्राप्नोति ।

९ - १६ - इष्यते च समसङ्ख्यम् यथा स्यात् इति ।

१० - १६ - तत् च अन्तरेण यत्नम् न सिध्यति इति तत्र यथासङ्ख्यवचनम् नियमार्थम् ।

११ - १६ - एवमर्थम् इदम् उच्यते ।

१२ - १६ - किम् पुनः कारणम् सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते ।

१३ - १६ - सञ्ज्ञासमासनिर्देशः ल्पृथक् विभक्तिसञ्ज्ञ्यनुच्चारणार्थः । सञ्ज्ञया समासैः च निर्देशाः क्रियन्तेपृथक् विभक्तीः सञ्ज्ञिनः च मा उच्चिचीरम् इति ।

१४ - १६ - प्रकरणे च सर्वसम्प्रत्ययार्थः ।

१५ - १६ - प्रकरणे च सर्वेषाम् सम्प्रत्ययः यथा स्यात् ।

१६ - १६ - विदः लटः वा इति ।

१ - १३९ - किम् पुनः शब्दतः साम्ये सङ्ख्यातानुदेशः भवति आहोस्वित् अर्थतः ।

२ - १३९ - कः च अत्र विशेषः ।

३ - १३९ - सङ्ख्यासाम्यम् शब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति अनिर्देशः ।

४ - १३९ - अगमकः निर्देशः अनिर्देशः ।

५ - १३९ - परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति णलादयः बहवः परस्मैपदानाम् इति एकः शब्दः ।

६ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

७ - १३९ - डारौरसः प्रथमस्य ।

८ - १३९ - डारौरसः बहवः प्रथमस्य इति एकः शब्दः ।

९ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

१० - १३९ - एचः अयवायावः ।

११ - १३९ - अयवायावः बहवः एचः इति एकः शब्दः ।

१२ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

१३ - १३९ - अस्तु तर्हि अर्थतः ।

१४ - १३९ - अर्थतः चेत् लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः ।

१५ - १३९ - लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः भवति ।

१६ - १३९ - स्यतासीलृलुटोः ।

१७ - १३९ - स्यतासी द्वौ लृलुटोः इति अस्य त्रयः अर्थाः ।

१८ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

१९ - १३९ - नन्दिग्रहिपचादिभ्यः ल्युणिन्यचः ।

२० - १३९ - नन्द्यादयः बहवः ल्युणिन्यचः त्रयः ।

२१ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

२२ - १३९ - अरीहणादयः बहवः वुञादयः सप्तदश ।

२३ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

२४ - १३९ - सिन्धुतक्षशिलादिभ्यः अणञौ ।

२५ - १३९ - सिन्धुतक्षशिलादयः बहवः अणञौ द्वौ ।

२६ - १३९ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

२७ - १३९ - आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु ।

२८ - १३९ - आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषः भवति ।

२९ - १३९ - आत्मनेपदविधिः च न सिध्यति ।

३० - १३९ - अनुदात्तङितः आत्मनेपदम् ।

३१ - १३९ - अनुदात्तङितौ द्वौ आत्मनेपदम् इति अस्य द्वौ अर्थौ ।

३२ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

३३ - १३९ - निष्ठा ।

३४ - १३९ - रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति ।

३५ - १३९ - रेफदकारौ द्वौ निष्ठा इति अस्य द्वौ अर्थौ ।

३६ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

३७ - १३९ - सार्वधातुकद्विग्रहणेषु च दोषः भवति ।

३८ - १३९ - श्नसोः अल्लोपः श्नमस्ती द्वौ सार्वधातुकम् इति अस्य द्वौ अर्थौ ।

३९ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

४० - १३९ - एङः पूर्वत्वे प्रतिषेधः ।

४१ - १३९ - एङः पूर्वत्वे प्रतिषेधः वक्तव्यः ।

४२ - १३९ - एङः पदान्तात् अति ङसिङसोः च ।

४३ - १३९ - ङसिङसौ द्वौ एङ् इति अस्य द्वौ अर्थौ ।

४४ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

४५ - १३९ - अस्तु तर्हि शब्दतः ।

४६ - १३९ - ननु च उक्तम् सङ्ख्यासाम्यम् शब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति अनिर्देशः इति ।

४७ - १३९ - न एषः दोषाः ।

४८ - १३९ - स्थाने अन्तरतमः इति अनेन व्यवस्था भविष्यति ।

४९ - १३९ - कुतः आन्तर्यम् ।

५० - १३९ - एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः ।

५१ - १३९ - संवृतावर्णस्य संवृतावर्णः विवृतावर्णस्य विवृतावर्णः ।

५२ - १३९ - अतिप्रसङ्गः गुणवृद्धिप्रतिषेधे क्ङिति ।

५३ - १३९ - अतिप्रसङ्गः भवति गुणवृद्धिप्रतिषेधे क्ङिति ।

५४ - १३९ - गुणवृद्धी द्वे क्ङितौ द्वौ ।

५५ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

५६ - १३९ - न एषः दोषः ।

५७ - १३९ - गकारः अपि अत्र निर्दिश्यते ।

५८ - १३९ - तत् गकारग्रहणम् अपि कर्तव्यम् ।

५९ - १३९ - न कर्तव्यम् ।

६० - १३९ - क्रियते न्यासे एव ।

६१ - १३९ - ककारे गकारः चर्त्वभूतः निर्दिश्यते ।

६२ - १३९ - गिति किति ङिति इति ।

६३ - १३९ - उदि कूले रुजिवहोः ।

६४ - १३९ - उदिकूले द्वे रुजिवहौ द्वौ ।

६५ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

६६ - १३९ - न एषः दोषः ।

६७ - १३९ - न उदिः उपपदम् ।

६८ - १३९ - किम् तर्हि ।

६९ - १३९ - विशेषणम् रुजिवहोः ।

७० - १३९ - उत्पूर्वाभ्याम् रुजिवहिभ्याम् कूले उपपदे इति ।

७१ - १३९ - तच्छीलादिषु धातुत्रिग्रहणेषु ।

७२ - १३९ - तच्छीलादिषु धातुत्रिग्रहणेषु दोषः भवति ।

७३ - १३९ - विदिभिदिच्छिदेः कुरच् ।

७४ - १३९ - विदिभिदिच्छिदयः त्रयः तच्छीलादयः त्रयः ।

७५ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

७६ - १३९ - घञादिषु द्विग्रहणेषु ।

७७ - १३९ - घञादिषु द्विग्रहणेषु दोषः भवति ।

७८ - १३९ - निरभ्योः पूल्वोः ।

७९ - १३९ - निरभी द्वौ पूल्वौ द्वौ ।

८० - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

८१ - १३९ - न एषः दोषः ।

८२ - १३९ - इष्यते च अत्र सङ्ख्यातानुदेशः ॒ निष्पावः , अभिलावः इति ।

८३ - १३९ - एवम् तर्हि अकर्तरि च कारके भावे च इति द्वौ पूल्वौ च द्वौ ।

८४ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

८५ - १३९ - अवे तृ̄स्त्रोः करणाधिकरणयोः ।

८६ - १३९ - तृ̄स्त्रौ द्वौ करणाधिकरणे द्वे ।

८७ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

८८ - १३९ - कर्तृकर्मणोः च भूकृञोः ।

८९ - १३९ - कर्तृकर्मणी द्वे भूकृञौ द्वौ ।

९० - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

९१ - १३९ - अनवक्ल्̥प्त्यमर्षयोः अकिंवृत्ते अपि ।

९२ - १३९ - अनवक्ल्̥प्त्यमर्षौ द्वौ किंवृत्ताकिंवृत्ते द्वे ।

९३ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

९४ - १३९ - कृभ्वोः क्त्वाणमुलौ ।

९५ - १३९ - कृभ्वौ द्वौ क्त्वाणमुलौ द्वौ ।

९६ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

९७ - १३९ - अधीयानविदुषोः छन्दोब्राह्मणानि ।

९८ - १३९ - छन्दोब्राह्मणानि इति द्वे अधीते वेद इति च द्वौ ।

९९ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

१०० - १३९ - रोपधेतोः पथिदूतयोः ।

१०१ - १३९ - रोपधेतोः प्राचाम् तत् गच्छति पथिदूतयोः ।

१०२ - १३९ - रोपधेतौ द्वौ पथिदूतौ द्वौ ।

१०३ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

१०४ - १३९ - तत्र भवतः तस्य व्याख्यानः क्रतुयज्ञेभ्यः ।

१०५ - १३९ - तत्र भवतस्तस्यव्याख्यानौ द्वौ क्रतुयज्ञौ द्वौ ।

१०६ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

१०७ - १३९ - सङ्घादिषु अञ्प्रभृतयः षङ्घादिषु अञ्प्रभृतयः सङ्ख्यातानुदेशेन न सिध्यन्ति ।

१०८ - १३९ - न एषः दोषः ।

१०९ - १३९ - घोषग्रहणम् अत्र कर्तव्यम् ।

११० - १३९ - वेशोयशाअदेः भगात् यल्खौ ।

१११ - १३९ - वेशोयशाअदी द्वौ यल्खौ द्वौ ।

११२ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

११३ - १३९ - ङसिङसोः ख्यत्यात् परस्य ।

११४ - १३९ - ङसिङसौ द्वौ ख्यत्यौ द्वौ ।

११५ - १३९ - तत्र सङ्ख्यातानुदेशः प्राप्नोति ।

११६ - १३९ - न वा समानयोगवचनात् ।

११७ - १३९ - न वा एषः दोषः ।

११८ - १३९ - किम् कारणम् ।

११९ - १३९ - समानयोगवचनात् ।

१२० - १३९ - समानयोगे सङ्ख्यातानुदेशम् वक्ष्यामि ।

१२१ - १३९ - तस्य दोषः विदः लटः वा ।

१२२ - १३९ - तस्य एतस्य लक्षणस्य दोषः विदः लटः वा इति सङ्ख्यातानुदेशः न प्राप्नोति ।

१२३ - १३९ - ध्माधेत्टोः नाडीमुष्ट्योः च ।

१२४ - १३९ - ध्माधेत्टोः नाडीमुष्ट्योः च सङ्ख्यातानुदेशः न प्राप्नोति ।

१२५ - १३९ - खलगोरथात् इनित्रकट्यचः च ।

१२६ - १३९ - सङ्ख्यातानुदेशः न प्राप्नोति ।

१२७ - १३९ - सिन्ध्वपकराभ्याम् कन् अणञौ च ।

१२८ - १३९ - सङ्ख्यातानुदेशः न प्राप्नोति ।

१२९ - १३९ - युष्मदस्मदोः च आदेशाः ।

१३० - १३९ - युष्मदस्मदोः च आदेशाः सङ्ख्यातानुदेशेन न सिध्यन्ति ।

१३१ - १३९ - तस्मात् यस्मिन् पक्षे अल्पीयांसः दोषाः ताम् आस्थाय प्रतिविधेयम् दोषेषु ।

१३२ - १३९ - अथ वा एवम् वक्ष्यामि ।

१३३ - १३९ - यथासङ्ख्यम् अनुदेशः समानाम् स्वरितेन ।

१३४ - १३९ - ततः अधिकारः ।

१३५ - १३९ - अधिकारः च भवति स्वरितेन इति ।

१३६ - १३९ - एवम् अपि स्वरितम् दृष्ट्वा सन्देहः स्यात् ।

१३७ - १३९ - न ज्ञायते किम् अयम् समसङ्ख्यार्थः आहोस्वित् अधिकारार्थः इति ।

१३८ - १३९ - सन्देहमात्रम् एतत् भवति ।

१३९ - १३९ - सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति समसङ्ख्यार्थः इति व्याख्यास्यामः ।

१ - २९ - किमर्थम् इदम् उच्यते ।

२ - २९ - अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः ।

३ - २९ - अधिकारः क्रियते प्रतियोगम् तस्य अनिर्देशार्थः इति ।

४ - २९ - किम् इदम् प्रतियोगम् इति ।

५ - २९ - योगम् योगम् प्रति प्रतियोगम् ।

६ - २९ - योगे योगे तस्य ग्रहणम् मा कार्षम् इति ।

७ - २९ - किम् गतम् एतत् इयता सूत्रेण ।

८ - २९ - गतम् इति आह ।

९ - २९ - कुतः ।

१० - २९ - लोकतः ।

११ - २९ - तत् यथा लोके अधिकृतः असौ ग्रामे अधिकृतः असौ नगरे इति उच्यते यः यत्र व्यापारम् गच्छति ।

१२ - २९ - शब्देन च अपि अधिकृतेन कः अन्यः व्यापारः शक्यः अवगन्तुम् अन्यत् अतः योगे योगे उपस्थानात् ।


१३ - २९ - न वा निर्दिश्यमानाधिकृतत्वात् यथा लोके ।

१४ - २९ - न वा एतत् प्रयोजनम् ।

१५ - २९ - किम् कारणम् ।

१६ - २९ - निर्दिश्यमानाधिकृतत्वात् यथा लोके ।

१७ - २९ - निर्दिश्यमानम् अधिकृतम् गम्यते ।

१८ - २९ - तत् यथा ।

१९ - २९ - देवदत्ताय गौः दीयताम् यज्ञदत्ताय विष्णुमित्राय इति ।

२० - २९ - गौः इति गम्यते ।

२१ - २९ - एवम् इह अपि पदरुजविशस्पृशः घञ् सृ स्थिरे भावे ।

२२ - २९ - घञ् इति गम्यते ।

२३ - २९ - अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा ।

२४ - २९ - अन्यनिर्देशः तु लोके निवर्तकः भवति ।

२५ - २९ - तत् यथा ।

२६ - २९ - देवदत्ताय गौः दीयताम् यज्ञदत्ताय कम्बलः विष्णुमित्राय च इति ।

२७ - २९ - कम्बलः गोनिवर्तकः भवति ।

२८ - २९ - एवम् इह अपि अभिविधौ भावे इनुण् घञः निवर्तकः स्यात् ।

२९ - २९ - तस्मात् परिभाषा कर्तव्या ।

१ - ३६ - अधिकारपरिमाणाज्ञानम् तु ।

२ - ३६ - अधिकारपरिमाणाज्ञानम् तु भवति ।

३ - ३६ - न ज्ञायते कियन्तम् अवधिम् अधिकारः अनुवर्तते इति ।

४ - ३६ - अधिकारपरिमाणज्ञानार्थम् तु ।

५ - ३६ - अधिकारपरिमाणज्ञानार्थम् एव तर्हि अयम् योगः वक्तव्यः ।

६ - ३६ - अधिकारपरिमाणम् ज्ञास्यामि इति ।

७ - ३६ - कथम् पुनः स्वरितेन अधिकारः इति अनेन अधिकारपरिमाणम् शक्यम् विज्ञातुम् ।

८ - ३६ - एवम् वक्ष्यामि स्वरिते न अधिकारः इति ।

९ - ३६ - स्वरितम् दृष्ट्वा अधिकारः न भवति इति ।

१० - ३६ - केन इदानीम् अधिकारः भविष्यति ।

११ - ३६ - लौकिकः अधिकारः ।

१२ - ३६ - न अधिकारः इति चेत् उक्तम् ।

१३ - ३६ - किम् उक्तम् ।

१४ - ३६ - अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा इति ।

१५ - ३६ - अधिकारार्थम् एव तर्हि अयम् योगः वक्तव्यः ।

१६ - ३६ - ननु च उक्तम् अधिकारपरिमाणाज्ञानम् तु इति ।

१७ - ३६ - यावतिथः अल् अनुबन्धः तावतः योगान् इति वचनात् सिद्धम् ।

१८ - ३६ - यावतिथः अल् अनुबध्यते तावतः योगान् अधिकारः अनुवर्तते इति वक्तव्यम् ।

१९ - ३६ - अथ इदानीम् यत्र अल्पीयांसः अलः भूयसः च योगान् अधिकारः अनुवर्तते कथम् तत्र कर्तव्यम् ।

२० - ३६ - भूयसि प्राग्वचनम् ।

२१ - ३६ - भूयसि प्राग्वचनम् कर्तव्यम् ।

२२ - ३६ - प्राक् अमुतः इति वक्तव्यम् ।

२३ - ३६ - तत् तर्हि वक्तव्यम् ।

२४ - ३६ - न वक्तव्यम् ।

२५ - ३६ - सन्देहमात्रम् एतत् भवति ।

२६ - ३६ - सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

२७ - ३६ - प्राक् अमुतः इति व्याख्यास्यामः ।

२८ - ३६ - यदि एवम् न अर्थः अनेन ।

२९ - ३६ - केन इदानीम् अधिकारः भविष्यति ।

३० - ३६ - लौकिकः अधिकारः ।

३१ - ३६ - ननु च उक्तम् न अधिकारः इति चेत् उक्तम् ।

३२ - ३६ - किम् उक्तम् ।

३३ - ३६ - अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा ।

३४ - ३६ - सन्देहमात्रम् एतत् भवति ।

३५ - ३६ - सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

३६ - ३६ - इनुण् घञ् इति सन्देहे घञ् इति व्याख्यास्यामः ।

१ - ३३ - न तर्हि इदानीम् अयम् योगः वक्तव्यः ।

२ - ३३ - वक्तव्यः च ।

३ - ३३ - किम् प्रयोजनम् ।

४ - ३३ - स्वरितेन अधिकारगतिः यथा विज्ञायेत , अधिकम् कार्यम् , अधिकः कारः ।

५ - ३३ - अधिकारगतिः ॒ गोस्त्रियोः उपसर्जनम् इति अत्र गोटाङ्ग्रहणम् चोदितम् ।

६ - ३३ - तत् न कर्तव्यम् भवति ।

७ - ३३ - स्त्रीग्रहणम् स्वरयिष्यते ।

८ - ३३ - स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति एवम् प्रकृत्य ये प्रत्ययाः विहिताः तेषाम् ग्रहणम् विज्ञास्यते ।

९ - ३३ - तत्र स्वरितेन अधिकारगतिः भवति इति न दोषः भवति ।

१० - ३३ - अधिकम् कार्यम् ॒ अपादानम् आचार्यः किम् न्याय्यम् मन्यते ।

११ - ३३ - यत्र प्राप्य निवृत्तिः ।

१२ - ३३ - तेन इह एव स्यात् ॒ ग्रामात् आगच्छति ।

१३ - ३३ - नगरात् आगच्छति ।

१४ - ३३ - साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् ।

१५ - ३३ - स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।

१६ - ३३ - तथा अधिकरणम् आचार्यः किम् न्याय्यम् मन्यते ।

१७ - ३३ - यत्र कृत्स्नः आधारात्मा व्याप्तः भवति ।

१८ - ३३ - तेन इह एव स्यात् ॒ तिलेषु तैलम् ।

१९ - ३३ - दध्नि सर्पिः इति ।

२० - ३३ - गङ्गायाम् गावः ।

२१ - ३३ - कूपे गर्गकुलम् इति अत्र न स्यात् ।

२२ - ३३ - स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति ।

२३ - ३३ - अधिकम् कार्यम् ।

२४ - ३३ - अधिकः कारः ॒ पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति ।

२५ - ३३ - गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् नुमचिरतृज्वद्भावेभ्यः नुट् इति ।

२६ - ३३ - नुम्नुटौ स्वरयिष्येते ।

२७ - ३३ - तत्र स्वरितेन अधिकः कारः भवति इति नुम्नुटौ भविष्यतः ।

२८ - ३३ - कथम् पुनः अधिकः कारः इति अनेन पूर्वविप्रतिषेधाः शक्य न पठितुम् ।

२९ - ३३ - लोकतः ।

३० - ३३ - तत् यथा लोके अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् दुर्बलः सन् बलवद्भिः सह भारम् वहति ।

३१ - ३३ - एवम् इह अपि अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् पूर्वः सन् परम् बाधते ।

३२ - ३३ - अधिकारगतिः स्त्र्यर्था विशेषाय अधिकम् कार्यम् ।

३३ - ३३ - अथ यः अन्यः अधिकः कारः पूर्वविप्रतिषेधार्थः सः ।

१ - २४ - विकरणेभ्यः प्रतिषेधः वक्तव्यः ।

२ - २४ - चिनुतः सुनुतः लुनीतः पुनीतः ।

३ - २४ - ङितः इति आत्मनेपदम् प्राप्नोति ।

४ - २४ - न एषः दोषः ।

५ - २४ - न एवम् विज्ञायते ङकारः इत् अस्य सः अयम् ङित् ङितः इति ।

६ - २४ - कथम् तर्हि ।

७ - २४ - ङकारः एव इत् ङित् ङितः ।

८ - २४ - अथ वा उपदेशे इति वर्तते ।

९ - २४ - अथ वा उक्तम् एतत् सिद्धम् तु पूर्वस्य कार्यातिदेशात् इति ।

१० - २४ - सर्वथा चङङ्भ्याम् प्राप्नोति ।

११ - २४ - एवम् तर्हि धातोः इति वर्तते ।

१२ - २४ - क्व प्रकृतम् ।

१३ - २४ - भूवादयः धातवः इति ।

१४ - २४ - तत् वै प्रथमानिर्दिष्टम् पञ्चमीनिर्दिष्टेन च इह अर्थः ।

१५ - २४ - अर्थात् विभक्तिविपरिणामः भविष्यति ।

१६ - २४ - तत् यथा ।

१७ - २४ - उच्चानि देवदत्तस्य गृहाणि ।

१८ - २४ - आमन्त्रयस्व एनम् ।

१९ - २४ - देवदत्तम् इति गम्यते ।

२० - २४ - देवदत्तस्य गावः अश्वाः हिरण्यम् इति ।

२१ - २४ - आढ्यः वैधवेयः ।

२२ - २४ - देवदत्तः इति गम्यते ।

२३ - २४ - पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।

२४ - २४ - एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् पञ्चमीनिर्दिष्टम् भविष्यति ।

१ - ५३ - किमर्थम् पुनः इदम् उच्यते ।

२ - ५३ - आत्मनेपदवचनम् नियमार्थम् ।

३ - ५३ - नियमार्थः अयम् आरम्भः ।

४ - ५३ - किम् उच्यते नियमार्थः अयम् इति न पुनः विध्यर्थः अपि स्यात् ।

५ - ५३ - लविधानात् विहितम् ।

६ - ५३ - लविधानात् हि आत्मनेपदम् परस्मैपदम् च विहितम् ।

७ - ५३ - अस्ति प्रयोजनम् एतत् ।

८ - ५३ - किम् तर्हि इति ।

९ - ५३ - विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति ।

१० - ५३ - इदम् इह सम्प्रधार्यम् ।

११ - ५३ - विकरणाः क्रियन्ताम् नियमः इति ।

१२ - ५३ - किम् अत्र कर्तव्यम् ।

१३ - ५३ - परत्वात् विकरणाः ।

१४ - ५३ - नित्याः खलु अपि विकरणाः ।

१५ - ५३ - कृते अपि नियमे प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति ।

१६ - ५३ - नित्यत्वात् परत्वात् च विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् नियमः न प्राप्नोति ।

१७ - ५३ - न एषः दोषः ।

१८ - ५३ - अनवकाशः नियमः ।

१९ - ५३ - सावकाशः ।

२० - ५३ - कः अवकाशः ।

२१ - ५३ - ये एते लुग्विकरणाः श्लुविकरणाः लिङ्लिटौ च ।

२२ - ५३ - यदि पुनः इयम् परिभाषा विज्ञायेत ।

२३ - ५३ - किम् कृतम् भवति ।

२४ - ५३ - कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् ।

२५ - ५३ - लस्य तिबादयः भवन्ति इति उपस्थितम् इदम् भवति अनुदात्तङितः आत्मनेपदम् शेषात् कर्तरि परस्मैपदम् इति ।

२६ - ५३ - एवम् अपि इतरेतराश्रयम् भवति ।

२७ - ५३ - का इतरेतराश्रयता ।

२८ - ५३ - अभिनिर्वृत्तानाम् लस्य स्थाने तिबादीनाम् आत्मनेपदपरस्मैपदसञ्ज्ञया भवितव्यम् सञ्ज्ञया च तिबादयः भाव्यन्ते ।

२९ - ५३ - तत् इतरेतराश्रयम् भवति ।

३० - ५३ - इतरेतराश्रयाणि कार्याणि च न प्रकल्पन्ते ।

३१ - ५३ - परस्मैपदेषु तावत् न इतरेतराश्रयम् भवति ।

३२ - ५३ - परस्मैपदानुक्रमणम् न करिष्यते ।

३३ - ५३ - अवश्यम् कर्तव्यम् अनुपराभ्याम् कृञः इति एवमर्थम् ।

३४ - ५३ - ननु च एतत् अपि आत्मनेपदानुक्रमणे एव करिष्ये ।

३५ - ५३ - स्वरितञितः कर्त्रभिप्रये क्रियाफले आत्मनेपदम् भवति कर्तरि ।

३६ - ५३ - अनुपराभ्याम् कृञः न इति ।

३७ - ५३ - आत्मनेपदेषु च अपि न इतरेतराश्रयम् भवति ।

३८ - ५३ - कथम् ।

३९ - ५३ - भाविनी सञ्ज्ञा विज्ञास्यते सूत्रशाटकवत् ।

४० - ५३ - तत् यथा ॒ कः चित् कम् चित् तन्तुवायम् आह ॒ अस्य सूत्रस्य शाटकम् वय इति ।

४१ - ५३ - सः पश्यति ।

४२ - ५३ - यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः ।

४३ - ५३ - शाटकः वातव्यः इति विप्रतिषिद्धम्. भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता ।

४४ - ५३ - सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति ।

४५ - ५३ - एवम् इह अपि सः लस्य स्थाने कर्तव्यः ल्यस्य अभिनिर्वृत्तस्य आत्मनेपदम् इति एषा सञ्ज्ञा भविष्यति ।

४६ - ५३ - अथ वा पुनः अस्तु नियमः ।

४७ - ५३ - ननु च उत्कम् विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति ।

४८ - ५३ - न एषः दोषः ।

४९ - ५३ - आचार्यप्रवृत्तिः ज्ञापयति विकरणेभ्यः नियमः बलीयान् इति यत् अयम् विकरणविधौ आत्मनेपदपरस्मैपदानि आश्रयति ।

५० - ५३ - पुषादिद्युताद्ल्̥र्दितः परस्मैपदेषु आत्मनेपदेषु अन्यतरस्याम् इति ।

५१ - ५३ - न एतत् अस्ति ज्ञापकम् ।

५२ - ५३ - अभिनिर्वृत्तानि हि लस्य स्थाने आत्मनेपदानि परस्मैपदानि च ।

५३ - ५३ - यत् तर्हि अनुपसर्गात् वा इति विभाषाम् शास्ति ।

१ - १२८ - किम् पुनः अयम् प्रत्ययनियमः ॒ अनुदात्तङितः एव आत्मनेपदम् भवति , भावकर्मणोः एव आत्मनेपदम् भवति इति ।

२ - १२८ - आहोस्वित् प्रकृत्यर्थनियमः ॒ अनुदात्तङितः आत्मनेपदम् एव , भावकर्मणोः आत्मनेपदम् एव ।

३ - १२८ - कः च अत्र विशेषः ।

४ - १२८ - तत्र प्रत्ययनियमे शेषवचनम् परस्मैपदस्य अनिवृत्तत्वात् ।

५ - १२८ - तत्र प्रत्ययनियमे शेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् ।

६ - १२८ - शेषात् कर्तरि परस्मैपदम् इति ।

७ - १२८ - किम् कारणम् ।

८ - १२८ - परस्मैपदस्य अनिवृत्तत्वात् ।

९ - १२८ - प्रत्ययाः नियताः प्रकृत्यर्थौ अनियतौ ।

१० - १२८ - तत्र परस्मैपदम् प्राप्नोति ।

११ - १२८ - तत्र शेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् ।

१२ - १२८ - शेषात् एव परस्मैपदम् भवति न अन्यतः इति ।

१३ - १२८ - क्यषः आत्मनेपदवचनम् तस्य अन्यत्र नियमात् ।

१४ - १२८ - क्यषः आत्मनेपदम् वक्तव्यम् ।

१५ - १२८ - लोहितायति लोहितायते ।

१६ - १२८ - किम् पुनः कारणम् न सिध्यति ।

१७ - १२८ - तस्य अन्यत्र नियमात् ।

१८ - १२८ - तत् हि अन्यत्र नियम्यते ।

१९ - १२८ - उच्यते च न च प्राप्नोति ।

२० - १२८ - तत् वचनात् भविष्यति ।

२१ - १२८ - अस्तु तर्हि प्रकृत्यर्थनियमः ।

२२ - १२८ - प्रकृत्यर्थनियमे अन्याभावः ।

२३ - १२८ - प्रकृत्यर्थनियमे अन्येषाम् प्रत्ययानाम् अभावः ।

२४ - १२८ - अनुदात्तङितः तृजादयः न प्राप्नुवन्ति ।

२५ - १२८ - न एषः दोषः ।

२६ - १२८ - अनवकाशाः तृजादयः उच्यन्ते च ।

२७ - १२८ - ते वचनात् भविष्यन्ति ।

२८ - १२८ - सावकाशाः तृजादयः ।

२९ - १२८ - कः अवकाशः ।

३० - १२८ - परस्मैपदिनः अवकाशः ।

३१ - १२८ - तत्र अपि नियमात् न प्राप्नुवन्ति ।

३२ - १२८ - तव्यादयः तर्हि भावकर्मणोः नियमात् न प्राप्नुवन्ति ।

३३ - १२८ - तव्यादयः अपि अनवकाशाः ।

३४ - १२८ - ते वचनात् भविष्यन्ति ।

३५ - १२८ - चिण् तर्हि भावकर्मणोः नियमात् न प्राप्नोति ।

३६ - १२८ - चिण् अपि वचनात् भविष्यति ।

३७ - १२८ - घञ् तर्हि भावकर्मणोः नियमात् न प्राप्नोति ।

३८ - १२८ - तत्र अपि प्रकृतम् कर्मग्रहणम् ।

३९ - १२८ - क्व प्रकृतम् ।

४० - १२८ - अण् कर्मणि च इति ।

४१ - १२८ - तत् वै तत्र उपपदविशेषणम् अभिधेयविशेषणेन च इह अर्थः ।

४२ - १२८ - न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति ।

४३ - १२८ - न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

४४ - १२८ - न हि गोधा सर्पन्ती सर्पणात् अहिः भवति ।

४५ - १२८ - यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा ।

४६ - १२८ - शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते ।

४७ - १२८ - यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति ।

४८ - १२८ - न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति ।

४९ - १२८ - भवेत् द्रव्येषु एतत् एवम् स्यात् ।

५० - १२८ - शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति ।

५१ - १२८ - शेषवचनम् च ।

५२ - १२८ - शेषग्रहणम् च कर्तव्यम् ।

५३ - १२८ - शेषात् कर्तरि परस्मैपदम् इति ।

५४ - १२८ - किम् प्रयोजनम् ।

५५ - १२८ - शेषनियमार्थम् ।

५६ - १२८ - प्रकृतर्थौ नियतौ ।

५७ - १२८ - प्रत्ययाः अनियताः ।

५८ - १२८ - ते शेषे अपि प्राप्नुवन्ति ।

५९ - १२८ - तत्र शेषग्रहणम् कर्तव्यम् ।

६० - १२८ - शेषात् कर्तरि परस्मैपदम् एव न अन्यत् इति ।

६१ - १२८ - कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् ।

६२ - १२८ - कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् द्वितीयम् शेषग्रहणम् कर्तव्यम् ।

६३ - १२८ - शेषात् शेषे इति वक्तव्यम् ।

६४ - १२८ - इह मा भूत् ।

६५ - १२८ - भिद्यते कुशूलः स्वयम् एव इति ।

६६ - १२८ - कतरस्मिन् पक्षे अयम् दोषः ।

६७ - १२८ - प्रकृत्यर्थनियमे ।

६८ - १२८ - प्रकृत्यर्थनियमे तावत् न दोषः ।

६९ - १२८ - प्रकृत्यर्थौ नियतौ ।

७० - १२८ - प्रत्ययाः अनियताः ।

७१ - १२८ - तत्र न अर्थः कर्तृग्रहणेन कर्तृग्रहणात् च दोषः ।

७२ - १२८ - प्रत्ययनियमे तर्हि अयम् दोषः ।

७३ - १२८ - प्रत्ययाः नियताः ।

७४ - १२८ - प्रकृत्यर्थौ अनियतौ ।

७५ - १२८ - तत्र कर्तृग्रहणम् कर्तव्यम् भावकर्मणोः निवृत्त्यर्थम् ।

७६ - १२८ - कर्तृग्रहणात् च एषः दोषः ।

७७ - १२८ - प्रकृत्यर्थनियमे शेषग्रहणम् शक्यम् अकर्तुम् ।

७८ - १२८ - कथम् ।

७९ - १२८ - प्रकृतयर्थौ नियतौ ।

८० - १२८ - प्रत्ययाः अनियताः ।

८१ - १२८ - ततः वक्ष्यामि परस्मैपदम् भवति इति ।

८२ - १२८ - तत् नियमार्थम् भविष्यति ।

८३ - १२८ - यत्र परस्मैपदम् च अन्यत् च प्राप्नोति तत्र परस्मैपदम् एव भवति इति ।

८४ - १२८ - तत् तर्हि प्रत्ययनियमे द्वितीयम् शेषग्रहणम् कर्तव्यम् ।

८५ - १२८ - न कर्तव्यम् ।

८६ - १२८ - योगविभागः करिष्यते ।

८७ - १२८ - अनुदात्तङितः आत्मनेपदम् ।

८८ - १२८ - ततः भावकर्मणोः ।

८९ - १२८ - ततः कर्तरि ।

९० - १२८ - कर्तरि च आत्मनेपदम् भवति भावकर्मणोः ।

९१ - १२८ - ततः कर्क्मव्यतिहारे ।

९२ - १२८ - कर्तरि इति एव ।

९३ - १२८ - भावकर्मणोः इति निवृत्तम् ।

९४ - १२८ - यथा एव तर्हि कर्मणि कर्तरि भवति एवम् भावे अपि कर्तरि प्राप्नोति ।

९५ - १२८ - एति जीवन्तम् आनन्दः ।

९६ - १२८ - न अस्य किम् चित् रुजति इति ।

९७ - १२८ - द्वितीयः योगविभागः करिष्यते ।

९८ - १२८ - अनुदात्तङितः आत्मनेपदम् ।

९९ - १२८ - ततः भावे ।

१०० - १२८ - ततः कर्मणि ।

१०१ - १२८ - कर्मणि च आत्मनेपदम् भवति ।

१०२ - १२८ - ततः कर्तरि ।

१०३ - १२८ - कर्तरि च आत्मनेपदम् भवति ।

१०४ - १२८ - कर्मणि इति अनुवर्तते ।

१०५ - १२८ - भावे इति निवृत्तम् ।

१०६ - १२८ - ततः कर्मव्यतिहारे ।

१०७ - १२८ - कर्तरि इति एव ।

१०८ - १२८ - कर्मणि इति निवृत्तम् ।

१०९ - १२८ - एवम् अपि शेषग्रहणम् कर्तव्यम् अनुपराभ्याम् कृञः इति एवमर्थम् ।

११० - १२८ - इह मा भूत् अनुक्रियते स्वयम् एव ।

१११ - १२८ - पराक्रियते स्वयम् एव ।

११२ - १२८ - ननु च एतत् अपि योगविभागात् एव सिद्धम् ।

११३ - १२८ - न सिध्यति ।

११४ - १२८ - अनन्तरा या प्राप्तिः सा योगविभागेन शक्या बाधितुम् ।

११५ - १२८ - कुतः एतत् ।

११६ - १२८ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

११७ - १२८ - परा प्राप्तिः अप्रतिषिद्धा ।

११८ - १२८ - तया भविष्यति ।

११९ - १२८ - ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।

१२० - १२८ - न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

१२१ - १२८ - एवम् तर्हि कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते ।

१२२ - १२८ - तत् प्रकृतम् उत्तरत्र अनुवर्तिष्यते ।

१२३ - १२८ - शेषात् कर्तरि कर्तरि इति ।

१२४ - १२८ - किमर्थम् इदम् कर्तरि कर्तरि इति ।

१२५ - १२८ - कर्ता एव यः कर्ता तत्र यथा स्यात् ।

१२६ - १२८ - कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति ।

१२७ - १२८ - ततः अनुपराभ्याम् कृञः ।

१२८ - १२८ - कर्तरि कर्तरि इति एव ।

१ - २४ - क्रियाव्यतिर्हारे इति वक्तव्यम् ।

२ - २४ - कर्मव्यतिर्हारे इति उच्यमाने इह प्रसज्येत देवदत्तस्य धान्यम् व्यतिलुनन्ति इति इह च न स्यात् व्यतिलुनते व्यतिपुनते इति ।

३ - २४ - तत् तर्हि वक्तव्यम् ।

४ - २४ - न वक्तव्यम् ।

५ - २४ - क्रियाम् हि लोके कर्म इति उपचरन्ति ।

६ - २४ - काम् क्रियाम् करिष्यसि ।

७ - २४ - किम् कर्म करिष्यसि इति ।

८ - २४ - एवम् अपि कर्तव्यम् ।

९ - २४ - कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति ।

१० - २४ - क्रिया अपि कृत्रिमम् कर्म ।

११ - २४ - न सिध्यति ।

१२ - २४ - कर्तुः ईप्सिततमम् कर्म इति उच्यते ।

१३ - २४ - कथम् च क्रिया नाम क्रियेप्सिततमा स्यात् ।

१४ - २४ - क्रिया अपि क्रियेप्सिततमा भवति ।

१५ - २४ - कया क्रियया ।

१६ - २४ - सम्पश्यतिक्रियया प्रार्थयतिक्रियया अध्यवस्यतिक्रियया वा ।

१७ - २४ - इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सल्ः बुद्ध्या तावत् कम् चित् अर्थम् सम्पश्यति ।

१८ - २४ - सन्दृष्टे प्रार्थना प्रार्थिते अध्यवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावप्तिः ।

१९ - २४ - एवम् क्रिया अपि कृत्रिमम् कर्म ।

२० - २४ - एवम् अपि उभयोः कृत्रिमाकृत्रिमयोः उभयगतिः प्रसज्येत ।

२१ - २४ - तस्मात् क्रियाव्यतिहारे इति वक्तव्यम् ।

२२ - २४ - न वक्तव्यम् ।

२३ - २४ - इह कर्तरि व्यतिहारे इति इयता सिद्धम् ।

२४ - २४ - सः अयम् एवम् सिद्धे सति यत् कर्मग्रहणम् करोति तस्य एतत् प्रयोजनम् क्रियाव्यतिहारे यथा स्यात् कर्मव्यतिहारे मा भूत् इति ।

१ - २७ - अथ कर्तृग्रहणम् किमर्थम् ।

२ - २७ - कर्मव्यतिहारादिषु कर्तृग्रहणम् भावकर्मनिवृत्त्यर्थम् ।

३ - २७ - कर्मव्यतिहारादिषु कर्तृग्रहणम् क्रियते भावकर्मणोः अनेन आत्मनेपदम् मा भूत् इति ।

४ - २७ - इतरथा हि तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः ।

५ - २७ - अक्रियमाणे कर्तृग्रहणे भावकर्मणोः अपि आत्मनेपदम् प्रसज्येत ।

६ - २७ - तत्र कः दोषः ।

७ - २७ - तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः ।

८ - २७ - तत्र कः दोषः ।

९ - २७ - तत्र प्रतिषेधे भावकर्मणोः अपि अनेन आत्मनेपदस्य प्रतिषेधः प्रसज्येत ।

१० - २७ - व्यतिगम्यन्ते ग्रामाः व्यतिहन्यन्ते दस्यवः इति ।

११ - २७ - न वा अनन्तरस्य प्रतिषेधात् ।

१२ - २७ - न वा एषः दोषः ।

१३ - २७ - किम् कारणम् ।

१४ - २७ - अनन्तरस्य प्रतिषेधात् ।

१५ - २७ - अनन्तरम् यत् आत्मनेपदविधानम् तस्य प्रतिषेधात् ।

१६ - २७ - कुतः एतत् ।

१७ - २७ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

१८ - २७ - पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति ।

१९ - २७ - ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।

२० - २७ - न उत्सहते प्रतिषिद्धा सती बाधितुम् ।

२१ - २७ - उत्तरार्थम् तर्हि कर्तृग्रहणम् कर्तव्यम् ।

२२ - २७ - न कर्तव्यम् ।

२३ - २७ - क्रियते तत्र एव शेषात् कर्तरि परस्मैपदम् इति ।

२४ - २७ - द्वितीयम् कर्तृग्रहणम् कर्तव्यम् ।

२५ - २७ - किम् प्रयोजनम् ।

२६ - २७ - कर्ता एव यः कर्ता तत्र यथा स्यात् ।

२७ - २७ - कर्त च अन्यः च यः कर्ता तत्र मा भूत् इति ।

१ - ९ - प्रतिषेधे हसादीनाम् उपसङ्ख्यानम् ।

२ - ९ - प्रतिषेधे हसादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - ९ - व्यतिहसन्ति वयतिजल्पन्ति व्यतिपठन्ति ।

४ - ९ - हरिवह्योः अप्रतिषेधः ।

५ - ९ - हरिवह्योः अप्रतिषेधः भवति इति वक्तव्यम् ।

६ - ९ - सम्प्रहरन्ते राजानः ।

७ - ९ - संविवहन्ते गर्गैः इति ।

८ - ९ - न वहिः गत्यर्थः ।

९ - ९ - देशान्तरप्रापणक्रियः वहिः ।

१ - ४ - प्ररस्परोपपदात् च ।

२ - ४ - प्ररस्परोपपदात् च इति वक्तव्यम् ।

३ - ४ - परस्परस्य व्यतिलुनन्ति ।

४ - ४ - परस्परस्य व्यतिपुनन्ति ।

१ - ७ - उपसर्गग्रहणम् कर्तव्यम् ।

२ - ७ - परा जयति सेना इति ।

३ - ७ - तत् तर्हि वक्तव्यम् ।

४ - ७ - न वक्तव्यम् ।

५ - ७ - यदि अपि तावत् अयम् पराशब्दः दृष्टापचारः उपसर्गः च अनुपसर्गः च अयम् तु खलु विशब्दः अदृष्टापचारः उपसर्गः एव ।

६ - ७ - तस्य अस्य कः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः उपसर्गात् ।

७ - ७ - तत् यथा अस्य गोः द्वितीयेन अर्थः इति गौः एव उपादीयते न अश्वः न गर्दभः ।

१ - १४ - आङः दः अव्यसनक्रियस्य ।

२ - १४ - आङः दः अव्यसनक्रियस्य इति वक्तव्यम् ।

३ - १४ - इह अपि यथा स्यात् ।

४ - १४ - विपादिकाम् व्याददाति ।

५ - १४ - कूलम् व्याददाति इति ।

६ - १४ - तत् तर्हि वक्तव्यम् ।

७ - १४ - न वक्तव्यम् ।

८ - १४ - इह आङः दः अनास्ये इति इयता सिद्धम् ।

९ - १४ - सः अयम् एवम् सिद्धे सति यत् विहरणग्रहणम् करोति तस्य एतत् प्रयोजनम् आस्यविहरणसमानक्रियात् अपि यथा स्यात् ।

१० - १४ - यथाजातीयका च आस्यविहरणक्रिया तथाजातीयका अत्र अपि ।

११ - १४ - स्वाङ्गकर्मात् च ।

१२ - १४ - स्वाङ्गकर्मात् च इति वक्तव्यम् ।

१३ - १४ - इह मा भूत् ।

१४ - १४ - व्याददते पिपीलिकाः पतङ्गमुखम् इति ।

१ - ३५ - उपसर्गग्रहणम् कर्तव्यम् ।

२ - ३५ - इह मा भूत् ।

३ - ३५ - अनु क्रीडति माणवकम् ।

४ - ३५ - समः अकूजने ।

५ - ३५ - समः अकूजने इति वक्तव्यम् ।

६ - ३५ - इह मा भूत् ।

७ - ३५ - सङ्क्रीडन्ति शकटानि ।

८ - ३५ - आगमेः क्षमायाम् ।

९ - ३५ - आगमेः क्षमायाम् उपसङ्ख्यनम् कर्तव्यम् ।

१० - ३५ - आगमयस्व तावत् माणव्क ।

११ - ३५ - शिक्षेः जिज्ञासायाम् ।

१२ - ३५ - शिक्षेः जिज्ञासायाम् उपसङ्ख्यनम् कर्तव्यम् ।

१३ - ३५ - विद्यासु शिक्षते ।

१४ - ३५ - धनुषि शिक्षते ।

१५ - ३५ - किरतेः हर्षजीविकाकुलायकरणेषु ।

१६ - ३५ - किरतेः हर्षजीविकाकुलायकरणेषु उपसङ्ख्यनम् कर्तव्यम् ।

१७ - ३५ - अपस्किरते वृषभः हृष्टः ।

१८ - ३५ - अपस्किरते कुक्कुटः भक्षार्थी ।

१९ - ३५ - अपस्किरते श्वा आश्रयार्थी ।

२० - ३५ - हरतेः गतताच्छील्ये ।

२१ - ३५ - हरतेः गतताच्छील्ये उपसङ्ख्यनम् कर्तव्यम् ।

२२ - ३५ - पैतृकम् अश्वाः अनुहरन्ते ।

२३ - ३५ - मातृकम् गावः अनुहरन्ते ।

२४ - ३५ - आङि नुप्रच्छ्योः ।

२५ - ३५ - आङि नुप्रच्छ्योः उपसङ्ख्यनम् कर्तव्यम् ।

२६ - ३५ - आनुते शृगालः ।

२७ - ३५ - आपृच्छते गुरुम् ।

२८ - ३५ - आशिषि नाथः ।

२९ - ३५ - आशिषि नाथः उपसङ्ख्यनम् कर्तव्यम् ।

३० - ३५ - सर्पिषः नाथते ।

३१ - ३५ - मधुनः नाथते ।

३२ - ३५ - शपः उपलम्भने ।

३३ - ३५ - शपः उपलम्भने उपसङ्ख्यनम् कर्तव्यम् ।

३४ - ३५ - देवदत्ताय शपते ।

३५ - ३५ - यज्ञदत्ताय शपते ।

१ - ५ - आङः स्थः प्रतिज्ञाने ।

२ - ५ - आङः स्थः प्रतिज्ञाने इति वक्तव्यम् ।

३ - ५ - अस्तिम् सकारम् आतिष्ठते ।

४ - ५ - आगमौ गुणवृद्धी आतिष्ठते ।

५ - ५ - विकारौ गुणवृद्धी आतिष्ठते ।

१ - ४ - उदः ईहायाम् ।

२ - ४ - उदः ईहायाम् इति वक्तव्यम् ।

३ - ४ - इह मा भूत् ।

४ - ४ - उत्तिष्ठति सेना इति ।

१ - २२ - उपात् पूजासङ्गतकरणयोः ।

२ - २२ - उपात् पूजासङ्गतकरणयोः इति वक्तव्यम् ।

३ - २२ - आदित्यम् उपतिष्ठते ।

४ - २२ - चन्द्रमसम् उपतिष्ठते ।

५ - २२ - सङ्गतकरणे ।

६ - २२ - रथिकान् उपतिष्ठते ।

७ - २२ - अश्वारोहान् उपतिष्ठते ।

८ - २२ - बहूनाम् अपि अचित्तानाम् एकः भवति चित्तवान् ।

९ - २२ - पश्य वानरसैन्ये अस्मिन् यत् अर्कम् उपतिष्ठते ।

१० - २२ - मा एवम् मंस्थाः सचित्तः अयम् एषः अपि यथा वयम् ।

११ - २२ - एतत् अपि अस्य कापेयम् यत् अर्कम् उपतिष्ठति ।

१२ - २२ - अपरः आह ॒ उपात् देवपूजासङ्गतकरणमित्रकरणपथिषु इति वक्तव्यम् ।

१३ - २२ - सङ्गतकरणे उदाहृतम् ।

१४ - २२ - मित्रकरणे ।

१५ - २२ - रथिकान् उपतिष्ठते ।

१६ - २२ - अश्वारोहान् उपतिष्ठते ।

१७ - २२ - पथि. अयम् पन्थाः स्रुघ्नम् उपतिष्ठते ।

१८ - २२ - अयम् पन्थाः साकेतम् उपतिष्थते ।

१९ - २२ - वा लिप्सायाम् ।

२० - २२ - वा लिप्सायाम् इति वक्तव्यम् ।

२१ - २२ - भिक्षुकः ब्राह्मणकुलम् उपतिष्ठते ।

२२ - २२ - भिक्षुकः ब्राह्मणकुलम् उपतिष्ठति वा

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP