पाद ३ - खण्ड १७
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - १९ - अकर्मकात् इति एव ।
२ - १९ - उत् तपति सुवर्णम् सुवर्णकारः ।
३ - १९ - स्वाङ्गकर्मकात् च ।
४ - १९ - स्वाङ्गकर्मकात् च इति वक्तव्यम् ।
५ - १९ - उत्तपते पाणी ।
६ - १९ - वितपते पाणी ।
७ - १९ - उत्तपते पृष्ठम् ।
८ - १९ - वितपते पृष्ठम् ।
९ - १९ - अथ उद्भिभ्याम् इति अत्र किम् प्रत्युदाह्रियते ।
१० - १९ - निष्टप्यते इति ।
११ - १९ - किम् पुनः कारणम् आत्मनेपदम् एव उदाह्रियते न परस्मैपदम् प्रत्युदाहार्यम् स्यात् ।
१२ - १९ - तपिः अयम् अकर्मकः ।
१३ - १९ - अकर्मकाः च अपि सोपसर्गाः सकर्मकाः भवन्ति ।
१४ - १९ - न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति ।
१५ - १९ - यत् उच्यते न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति इति अन्तरेण अपि कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति ।
१६ - १९ - तत् यथा ।
१७ - १९ - नदीवहति इति अकर्मकः ।
१८ - १९ - भारम् वहति इति सकर्मकः ।
१९ - १९ - तस्मात् निष्टपति इति प्रत्युदाहर्तव्यम् ।
१ - ७ - अकर्मकात् इति एव ।
२ - ७ - आयच्छति रज्जुम् कूपात् ।
३ - ७ - आहन्ति वृषलम् पादेन ।
४ - ७ - स्वाङ्गकर्मकात् च ।
५ - ७ - स्वाङ्गकर्मकात् च इति वक्तव्यम् ।
६ - ७ - आयच्छते पाणी ।
७ - ७ - आहते उदरम् इति ।
१ - १५ - समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपसङ्ख्यानम् ।
२ - १५ - समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपसङ्ख्यानम् कर्तव्यम् ।
३ - १५ - संवित्ते सम्पृच्छते संस्वरते ।
४ - १५ - अर्तिश्रुदृशिभ्यः च ।
५ - १५ - अर्तिश्रुदृशिभ्यः च इति वक्तव्यम् ।
६ - १५ - म समृत मा समृषाताम् मा समृषत ।
७ - १५ - अर्ति ।
८ - १५ - श्रु ।
९ - १५ - संश्र्णुते ।
१० - १५ - दृशि ।
११ - १५ - सम्पश्यते ।
१२ - १५ - उपसर्गात् अस्यत्यूह्योः वावचनम् ।
१३ - १५ - उपसर्गात् अस्त्यूह्योः वा इति वक्तव्यम् ।
१४ - १५ - निरस्यति निरस्यते ।
१५ - १५ - समूहति समूहते ।
१ - ३ - ज्योतिषाम् उद्गमने. ज्योतिषाम् उद्गमने इति वक्तव्यम् ।
२ - ३ - इह मा भूत् ।
३ - ३ - आक्रामति धूमः हर्म्यतलम् इति ।
१ - १९ - व्यक्तवाचाम् इति किमर्थम् ।
२ - १९ - वरतनु सम्प्रवदन्ति कुक्कुटाः ।
३ - १९ - व्यक्तवाचाम् इति उच्यमाने अपि अत्र प्राप्नोति ।
४ - १९ - एते अपि हि व्यक्तवाचः ।
५ - १९ - आतः च व्यक्तवाचः कुक्कुटेन उदिते उच्यते कुक्कुटः वदति इति ।
६ - १९ - एवम् तर्हि व्यक्तवाचाम् इति उच्यते ।
७ - १९ - सर्वे एव हि व्यक्तवाचः ।
८ - १९ - तत्र प्रकर्षगतिः विज्ञास्यते ।
९ - १९ - साधीयः ये व्यक्तवाचः इति ।
१० - १९ - के च साधीयः ।
११ - १९ - येषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते ।
१२ - १९ - न च एतेषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते ।
१३ - १९ - एतेषाम् अपि वाचि अकारादयः वर्णाः व्यज्यन्ते ।
१४ - १९ - आतः च व्यज्यन्ते एवम् हि आहुः कुक्कुटाः कुक्कुट् इति ।
१५ - १९ - न एवम् ते आहुः ।
१६ - १९ - अनुकरणम् एतत् तेषाम् ।
१७ - १९ - अथ वा न एवम् विज्ञायते व्यक्ता वाक् येषाम् ते इमे व्यक्तवाचः इति ।
१८ - १९ - कथम् तर्हि ।
१९ - १९ - व्यक्ता वाचि वर्णाः येषाम् ते इमे व्यक्तवाचः इति ।
१ - ६ - अवाद् ग्रः गिरतेः ।
२ - ६ - अवाद् ग्रः इति अत्र गिरतेः इति वक्तव्यम् ।
३ - ६ - गृणातेः मा भूत् ।
४ - ६ - तत् तर्हि वक्तव्यम् ।
५ - ६ - न वक्तव्यम् प्रयोगाभावात् ।
६ - ६ - अवात् ग्रः इति उच्यते न च आपूर्वस्य गृणातेः प्रयोगः अस्ति ।
१ - ८ - तृतीयायुक्तात् इति किमर्थम् ।
२ - ८ - उभौ लोकौ चञ्चरसि इमम् च अमुम् च देवल ।
३ - ८ - तृतीयायुक्तात् इति उच्यमाने अपि अत्र प्राप्नोति ।
४ - ८ - अत्र अपि हि तृतीयया योगः ।
५ - ८ - एवम् तर्हि तृतीयायुक्तात् इति उच्यते सर्वत्र च तृतीयया योगः ।
६ - ८ - तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यत्र तृतीयया योगः इति ।
७ - ८ - क्व च साधीयः ।
८ - ८ - यत्र तृतीयया योगः श्रूयते ।
१ - ११ - सा चेत् तृतीया चतुर्थ्यर्थे इति उच्यते ।
२ - ११ - कथम् नाम तृतीया चतुर्थ्यर्थे स्यात् ।
३ - ११ - एवम् तर्हि अशिष्टव्यवहारे अनेन तृतीया च विधीयते आत्मनेपदम् च ।
४ - ११ - दास्या सम्प्रयच्छते ।
५ - ११ - वृषल्या सम्प्रच्छते ।
६ - ११ - यः हि शिष्टव्यवहारः ब्राह्मणीभ्यः सम्प्रयच्छति इति एव तत्र भवितव्यम् ।
७ - ११ - यदि एवम् न अर्थः अनेन योगेन ।
८ - ११ - केन इदानीम् तृतीया भविष्यति आत्मनेपदम् च ।
९ - ११ - सहयुक्ते तृतीया स्यात् व्यतिहारे तङः विधिः ।
१० - ११ - सहयुक्ते अप्रधाने इति एव तृतीया भविष्यति ।
११ - ११ - कर्तरि कर्मव्यतिहारे इति आत्मनेपदम् ।
१ - ६ - इह कस्मात् न भवति ।
२ - ६ - स्वम् शाटकान्तम् उपयच्छति इति ।
३ - ६ - अस्वम् यदा स्वम् करोति तदा भवितव्यम् ।
४ - ६ - यदि एवम् स्वीकरणे इति प्राप्नोति ।
५ - ६ - विचित्राः तद्धितवृत्तयः ।
६ - ६ - न अतः तद्धितः उत्पद्यते ।
१ - १६ - अनोः ज्ञः प्रतिषेधे सकर्मकवचनम् ।
२ - १६ - अनोः ज्ञः प्रतिषेधे सकर्मकग्रहणम् कर्तव्यम् ।
३ - १६ - इह म भूत् ।
४ - १६ - औषधस्य अनुजिज्ञासते इति ।
५ - १६ - न वा अकर्मकस्य उत्तरेण विधानात् ।
६ - १६ - न वा कर्तव्यम् ।
७ - १६ - किम् कारणम् ।
८ - १६ - अकर्मकस्य उत्तरेण विधानात् ।
९ - १६ - अकर्मकात् जनातेः उत्तरेण योगेन आत्मनेपदम् विधीयते पूर्ववत् सनः इति ।
१० - १६ - प्रतिषेधः पूर्वस्य च ।
११ - १६ - पूर्वस्य च अयम् प्रतिषेधः ।
१२ - १६ - सः च सकर्मकार्थः आरम्भः ।
१३ - १६ - कथम् पुनः ज्ञायते पूर्वय्स अयम् प्रतिषेधः इति ।
१४ - १६ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।
१५ - १६ - कथम् पुनः ज्ञायते सकर्मकार्थः आरम्भः इति ।
१६ - १६ - अकर्मकात् जानातेः सनः आत्मनेपदवचने प्रयोजनम् न अस्ति इति कृत्वा सकर्मकार्थः विज्ञायते ।
१ - ३६ - शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदाभावः ।
२ - ३६ - शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदस्य अभावः ।
३ - ३६ - शीयते शीयेते शीयन्ते ।
४ - ३६ - किम् च भोः शदेः शित् परस्मैपदेषु इति उच्यते ।
५ - ३६ - न खलु परस्मैपदेषु इति उच्यते परस्मैपदेषु तु विज्ञायते ।
६ - ३६ - कथम् अनुदात्तङितः आत्मनेपदम् भावकर्मणोः आत्मनेपदम् इति एतौ द्वौ योगौ उक्त्वा शेषात् कर्तरि परस्मैपदम् उच्यते ।
७ - ३६ - एवम् न च परस्मैपदेषु उच्यते परस्मैपदेषु च विज्ञायते ।
८ - ३६ - कः पुनः अर्हति एतौ द्वौ योगौ उक्त्वा शेषात् कर्तरि परस्मैपदम् वक्तुम् ।
९ - ३६ - किम् तर्हि ।
१० - ३६ - अविशेषेण सर्वम् आत्मनेपदप्रकरणम् अनुक्रम्य शेषात् कर्तरि परस्मैपदम् इति उच्यते ।
११ - ३६ - एवम् अपि परस्मैपदाश्रयः भवति ।
१२ - ३६ - कथम् ।
१३ - ३६ - इदम् तावद् अयम् प्रष्टव्यः ।
१४ - ३६ - यदि इदम् न उच्येत किम् इह स्यात् इति ।
१५ - ३६ - परस्मैपदम् इति आह ।
१६ - ३६ - परस्मैपदम् इति चेत् परस्मैपदाश्रयः भवति ।
१७ - ३६ - सिद्धम् तु लडादीनाम् आत्मनेपदवचनम् ।
१८ - ३६ - सिद्धम् एतत् ।
१९ - ३६ - कथम् ।
२० - ३६ - शदेः लडादीनाम् आत्मनेपदम् भवति इति वक्तव्यम् ।
२१ - ३६ - सिध्यति ।
२२ - ३६ - सूत्रम् तर्हि भिद्यते ।
२३ - ३६ - यथान्यासम् एव अस्तु ।
२४ - ३६ - ननु च उक्तम् शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदाभावः इति ।
२५ - ३६ - न एषः दोषः ।
२६ - ३६ - शितः इति न एषा पञ्चमी ।
२७ - ३६ - का तर्हि ।
२८ - ३६ - सम्बन्धषष्ठी ।
२९ - ३६ - शितः यः शदिः ।
३० - ३६ - कः च शितः शदिः ।
३१ - ३६ - प्रकृतिः ।
३२ - ३६ - शदेः शित्प्रकृतेः इति ।
३३ - ३६ - अथ वा आह अयम् शदेः शितः इति न च शदिः शित् अस्ति ।
३४ - ३६ - ते एवम् विज्ञास्यामः शदेः शिद्विषयात् इति ।
३५ - ३६ - अथ वा यदि अपि तावत् एतत् अन्यत्र भवति विकरणेभ्यः नियमः बलीयान् इति इह एतत् न अस्ति ।
३६ - ३६ - विकरणः हि इह आश्रीयते शितः इति ।
१ - ६७ - उपसर्गपूर्वनियमे अड्व्यवाये उपसङ्ख्यानम् ।
२ - ६७ - उपसर्गपूर्वस्य नियमे अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् ।
३ - ६७ - न्यविशत व्यक्रीणीत ।
४ - ६७ - किम् पुनः कारणात् न सिध्यति ।
५ - ६७ - अटा व्यवहितत्वात् ।
६ - ६७ - ननु च अयम् अट् धातुभक्तः धातुग्रहणेन ग्रहीष्यते ।
७ - ६७ - न सिध्यति ।
८ - ६७ - अङ्गस्य हि अट् उच्यते विकरणान्तम् च अङ्गम् ।
९ - ६७ - सः असौ सङ्घातभक्तः न शक्यः धातुग्रहणेन ग्रहीतुम् ।
१० - ६७ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ॒ अट् क्रियताम् विकरणः इति ।
११ - ६७ - किम् अत्र कर्तव्यम् ।
१२ - ६७ - परत्वात् अट् आगमः ।
१३ - ६७ - नित्याः विकरणाः ।
१४ - ६७ - कृते अपि अटि प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति ।
१५ - ६७ - अट् अपि नित्यः ।
१६ - ६७ - कृतेषु अपि विकरणेषु प्राप्नोति अकृतेषु अपि प्राप्नोति ।
१७ - ६७ - अनित्यः अट् ।
१८ - ६७ - अन्यस्य कृतेषु विकरणेषु प्राप्नोति अन्यस्य अकृतेषु ।
१९ - ६७ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
२० - ६७ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।
२१ - ६७ - अट् क्रियताम् लादेशः इति ।
२२ - ६७ - किम् अत्र कर्तव्यम् ।
२३ - ६७ - परत्वात् अट् आगमः ।
२४ - ६७ - नित्यः लादेशः ।
२५ - ६७ - कृते अपि अटि प्राप्नोति अकृते अपि प्राप्नोति ।
२६ - ६७ - नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः भविष्यति ।
२७ - ६७ - नित्यत्वात् लादेशस्य आत्मनेपदे अट् आगमः इति चेत् अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः ।
२८ - ६७ - नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः इति चेत् एवम् उच्यते ।
२९ - ६७ - अट् अपि नित्यनिमित्तः ।
३० - ६७ - कृते अपि लदेशे प्राप्नोति अकृते अपि प्राप्नोति ।
३१ - ६७ - अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः ।
३२ - ६७ - तस्मात् उपसङ्ख्यानम् ।
३३ - ६७ - तस्मात् उपसङ्ख्यानम् कर्तव्यम् ।
३४ - ६७ - न कर्तव्यम् ।
३५ - ६७ - अन्तरङ्गः तर्हि लादेशः ।
३६ - ६७ - न एतत् विवदामहे अन्तरङ्गः न अन्तरङ्गः इति ।
३७ - ६७ - अस्तु अयम् नित्यः अन्तरङ्गः च ।
३८ - ६७ - अत्र खलु लादेशे कृते त्रीणि कार्याणि युगपत् प्राप्नुवन्ति ॒ विकरणाः अट् आगमः नियमः इति ।
३९ - ६७ - तत् यदि सर्वतः नियमः लभ्येत कृतम् स्यात् ।
४० - ६७ - तत् तु न लभ्यम् ।
४१ - ६७ - अथ अपि विकरणात् अट् इति अट् लभ्येत एवम् अपि कृतम् स्यात् ।
४२ - ६७ - तत् तु न लभ्यम् ।
४३ - ६७ - किम् कारणम् ।
४४ - ६७ - आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः , तरन्ति इति एवमर्थम् ।
४५ - ६७ - अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् ।
४६ - ६७ - तत्र हि आटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति ।
४७ - ६७ - ननु च ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति ।
४८ - ६७ - पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति ।
४९ - ६७ - न एषः दोषः ।
५० - ६७ - यत् तावत् उच्यते आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः तरन्ति इति एवमर्थम् इति ।
५१ - ६७ - भवेत् सिद्धम् यत्र विकरणाः नित्याः आङ्गम् अनित्यम् तत्र आङ्गात् पूर्वम् विकरणाः स्युः ।
५२ - ६७ - यत्र तु खलु उभयम् नित्यम् परत्वात् तत्र आङ्गम् तावत् भवति ।
५३ - ६७ - यत् अपि उच्यते अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् इति ।
५४ - ६७ - अस्तु अत्र आट् ।
५५ - ६७ - आटि कृते साट्कस्य ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति ।
५६ - ६७ - ननु च उक्तम् पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति ।
५७ - ६७ - न एषः दोषः ।
५८ - ६७ - चक्रकेषु इष्टतः व्यवस्था ।
५९ - ६७ - अथ वा नेः इति न एषा पञ्चमी ।
६० - ६७ - का तर्हि ।
६१ - ६७ - विशेषणषष्ठी ।
६२ - ६७ - नेः यः विशिः ।
६३ - ६७ - कः च नेः विशिः ।
६४ - ६७ - विशेष्यः ।
६५ - ६७ - व्यवहितः च अपि शक्यते विशेषयितुम् ।
६६ - ६७ - अथ वा निः अपि पदम् विशिः अपि पदम् ।पदविधिः च समर्थामाम् ।
६७ - ६७ - व्यवहिते अपि सामर्थ्यम् भवति ।
१ - २२ - किम् इदम् पूर्वग्रहणम् सनपेक्षम् ।
२ - २२ - प्राक् सनः येभ्यः आत्मनेपद्म् उक्तम् तेभ्यः सनन्तेभ्यः अपि भवति इति ।
३ - २२ - आहोस्वित् योगापेक्षम् ।
४ - २२ - प्राक् एतस्मात् योगात् येभ्यः आत्मनेपदम् उक्तम् तेभ्यः सनन्तेभ्यः आत्मनेपदम् भवति इति ।
५ - २२ - किम् च अतः ।
६ - २२ - यदि सनपेक्षम् निमित्तम् अविशेषितम् भवति ।
७ - २२ - पूर्ववत् सनः न ज्ञायते किमन्तात् भवितव्यम् ।
८ - २२ - अथ योगापेक्षम् उत्तरत्र विधिः न प्रकल्पते ।
९ - २२ - बुभुक्षते उपयुयुक्षते इति ।
१० - २२ - यथा इच्छसि तथा अस्तु ।
११ - २२ - अस्तु तावत् सनपेक्षम् ।
१२ - २२ - ननु च उक्तम् निमित्तम् अविशेषितम् भवति ।
१३ - २२ - निमित्तम् च विशेषितम् ।
१४ - २२ - कथम् ।
१५ - २२ - सनम् एव अत्र निमित्तत्वेन अपेक्षिष्यामहे ।
१६ - २२ - पूर्ववत् सनः आत्मनेपदम् भवति ।
१७ - २२ - कुतः सनः इति ।
१८ - २२ - अथ वा पुनः अस्तु योगापेक्षम् ।
१९ - २२ - ननु च उक्तम् उत्तरत्र विधिः न प्रकल्पते ।
२० - २२ - विधिः च प्रक्ल्̥प्तः ।
२१ - २२ - कथम् ।
२२ - २२ - उत्तरत्र अपि पूर्ववत् सनः इति एव अनुवर्तिष्यते ।
१ - ५० - किमर्थम् पुनः इदम् उच्यते ।
२ - ५० - पूर्ववत् सनः इति शदिम्रियत्यर्थम् ।
३ - ५० - शदिम्रियत्यर्थः अयम् आरम्भः ।
४ - ५० - शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् मा भूत् इति ।
५ - ५० - इतरथा हि ताभ्याम् सनन्ताभ्याम् आत्मनेपदप्रतिषेधः ।
६ - ५० - इतरथा हि अनुच्यमाने अस्मिन् ताभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः वक्तव्यः स्यात् ।
७ - ५० - शिशित्सति मुमूर्षति ।
८ - ५० - कथम् पुनः पूर्ववत् सनः इति अनेन शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः शक्यः विज्ञातुम् ।
९ - ५० - वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् ।
१० - ५० - तत् यथा ॒ उशीनरवत् मद्रेषु यवाः ।
११ - ५० - सन्ति न सन्ति इति ।
१२ - ५० - मातृवत् अस्याः कलाः ।
१३ - ५० - सन्ति न सन्ति ।
१४ - ५० - एवम् इह अपि पूर्ववत् भवति न भवति इति ।
१५ - ५० - न भवति इति वाक्यशेषम् समर्थयिष्यामहे ।
१६ - ५० - यथा पूर्वयोगयोः सनन्ताभ्याम् आत्मनेपदम् न भवति एवम् इह अपि शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् न भवति इति ।
१७ - ५० - यदि तर्हि शदिम्रियत्यर्थः अयम् आरम्भः विधिः न प्रकल्पते ।
१८ - ५० - आसिसिषते शिशयिषते ।
१९ - ५० - अथ विध्यर्थः शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति ।
२० - ५० - यथा इच्छसि तथा अस्तु ।
२१ - ५० - अस्तु तावत् प्रतिषेधार्थः ।
२२ - ५० - ननु च उक्तम् विधिः न प्रकल्पते इति ।
२३ - ५० - विधिः च प्रक्ल्̥प्तः ।
२४ - ५० - कथम् ।
२५ - ५० - एतत् एव ज्ञापयति सनन्तात् आत्मनेपदम् भवति इति यत् अयम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधम् शास्ति ।
२६ - ५० - अथ वा पुनः अस्तु विध्यर्थः ।
२७ - ५० - ननु च उक्तम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति इति ।
२८ - ५० - न एषः दोषः ।
२९ - ५० - प्रकृतम् सनः न इति अनुवर्तिष्यते ।
३० - ५० - क्व प्रकृतम् ।
३१ - ५० - ज्ञाश्रुस्मृदृशाम् सनः न अनोः ज्ञः ।
३२ - ५० - सकर्मकात् सनः न ।
३३ - ५० - प्रत्याङ्भ्याम् श्रुवः सनः न ।
३४ - ५० - शदेः शितः सनः न ।
३५ - ५० - म्रियतेः लुङ्लिङोः च सनः न इति ।
३६ - ५० - इह इदानीम् पूर्ववत् सनः इति सनः इति वर्तते न इति निवृत्तम् ।
३७ - ५० - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् निमित्तम् अविशेषितम् भवति इति ।
३८ - ५० - न एव वा पुनः अत्र शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति ।
३९ - ५० - किम् कारणम् ।
४० - ५० - शदेः शितः इति उच्यते न च शदिः एव आत्मनेपदस्य निमित्तम् ।
४१ - ५० - किम् तर्हि ।
४२ - ५० - शित् अपि निमित्तम् ।
४३ - ५० - अथ अपि शदिः एव शित्परः तु निमित्तम् ।
४४ - ५० - न च अयम् सन्परः शित्परः भवति ।
४५ - ५० - यत्र तर्हि शित् न आश्रीयते म्रियतेः लुङ्लिङोः च इति ।
४६ - ५० - अत्र अपि न म्रियतिः एव आत्मनेपदस्य निमित्तम् ।
४७ - ५० - किम् तर्हि ।
४८ - ५० - लुङ्लिङौ अपि निमित्तम् ।
४९ - ५० - अथ अपि म्रियतिः एव लुङ्लिङ्परः तु निमित्तम् ।
५० - ५० - न च अयम् सन्परः लुङ्लिङ्परः भवति ।
१ - २७ - किम् पुनः पूर्वस्य यत् आत्मनेपददर्शनम् तत् सनन्तस्य अपि अतिदिश्यते ।
२ - २७ - एवम् भवितुम् अर्हति ।
३ - २७ - पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः ।
४ - २७ - पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः ।
५ - २७ - गुपादीनाम् न प्राप्नोति ।
६ - २७ - जुगुप्सते मीमांसते इति ।
७ - २७ - न हि एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः ।
८ - २७ - सिद्धम् तु पूर्वस्य लिङ्गातिदेशात् ।
९ - २७ - सिद्धम् एतत् ।
१० - २७ - कथम् ।
११ - २७ - पूर्वस्य यत् आत्मनेपदलिङ्गम् तत् सनन्तस्य अपि अतिदिश्यते ।
१२ - २७ - कृञादिषु तु लिङ्गप्रतिषेधः ।
१३ - २७ - कृञादिषु तु लिङ्गप्रतिषेधः वक्तव्यः ।
१४ - २७ - अनुचिकीर्षति पराचिकीर्षति इति ।
१५ - २७ - अस्तु तर्हि प्राक् सनः येभ्यः आत्मनेपदम् दृष्टम् तेभ्यः सनन्तेभ्यः अपि बह्वति इति ।
१६ - २७ - ननु च उक्तम् पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः इति ।
१७ - २७ - न एषः दोषः ।
१८ - २७ - अनुबन्धकरणसामर्थ्यात् भविष्यति ।
१९ - २७ - अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।
२० - २७ - तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।
२१ - २७ - यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसायति इति अत्र अपि प्राप्नोति ।
२२ - २७ - न एषः दोषः ।
२३ - २७ - अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति ।
२४ - २७ - यम् समुदायम् यः अवयवः न व्यभिचरति ।
२५ - २७ - सनम् च न व्यभिचरति ।
२६ - २७ - णिचम् पुनः व्यभिचरति ।
२७ - २७ - तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य ।
१ - २१ - प्रत्ययग्रहणम् णिजर्थम् ।
२ - २१ - प्रत्ययस्य ग्रहणम् कर्तव्यम् ।
३ - २१ - पूर्ववत् प्रत्ययात् इति वक्तव्यम् ।
४ - २१ - किम् प्रयोजनम् ।
५ - २१ - णिजर्थम् ।
६ - २१ - णिजन्तात् अपि यथा स्यात् इति ।
७ - २१ - आकुस्मयते विकुस्मयते हृणीयते महीयते इति. तत्र कः दोषः ।
८ - २१ - तत्र हेतुमण्णिचः प्रतिषेधः ।
९ - २१ - तत्र हेतुमण्णिचः प्रतिषेधः वक्तव्यः ।
१० - २१ - आसयति शाययति ।
११ - २१ - सूत्रम् च भिद्यते ।
१२ - २१ - यथान्यासम् एव अस्तु ।
१३ - २१ - कथम् आकुस्मयते विकुस्मयते हृणीयते महीयते इति. अनुबन्धकरणसामर्थ्यात् भविष्यति ।
१४ - २१ - अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।
१५ - २१ - तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति ।
१६ - २१ - यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति हृणीययति महीययति अत्र अपि प्राप्नोति ।
१७ - २१ - अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति ।
१८ - २१ - यम् समुदायम् यः अवयवः न व्यभिचरति ।
१९ - २१ - यकम् च न व्यभिचरति ।
२० - २१ - णिचम् तु व्यभिचरति ।
२१ - २१ - तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य ।
१ - २३ - कृञ्ग्रहणम् किमर्थम् ।
२ - २३ - इह मा भूत् ।
३ - २३ - ईहामास ईहामासतुः ईहामासुः ।
४ - २३ - कथम् च अत्र अस्तेः अनुप्रयोगः भवति ।
५ - २३ - प्रत्याहारग्रहणम् तत्र विज्ञायते ।
६ - २३ - कथम् पुनः ज्ञायते तत्र प्रत्याहारग्रहणम् इति ।
७ - २३ - इह कृञ्ग्रहणात् ।
८ - २३ - इह कस्मात् प्रत्याहारग्रहणम् न भवति ।
९ - २३ - इह एव कृञ्ग्रहणात् ।
१० - २३ - अथ इह कस्मात् न भवति ।
११ - २३ - उदुम्भाम् चकार उदुब्जाम् चकार ।
१२ - २३ - ननु च आम्प्रत्ययवत् इति उच्यते न च अत्र आम्प्रत्ययात् आत्मनेपदम् पश्यामः ।
१३ - २३ - न ब्रूमः अनेन इति ।
१४ - २३ - किम् तर्हि ।
१५ - २३ - स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति ।
१६ - २३ - न एषः दोषः ।
१७ - २३ - इह नियमार्थम् भविष्यति ।
१८ - २३ - आम्प्रत्ययवत् एव इति ।
१९ - २३ - यदि नियमार्थम् विधिः न प्रकल्पते ।
२० - २३ - ईहाम् चक्रे ऊहाम् चक्रे इति ।
२१ - २३ - विधिः च प्रक्ल्̥प्तः ।
२२ - २३ - कथम् पूर्ववत् इति वर्तते ।
२३ - २३ - आम्प्रत्ययवत् पूर्ववत् च इति ।
१ - ४ - स्वराद्युपसृष्टात् इति वक्तव्यम् ।
२ - ४ - उद्युङ्क्ते अनुयुङ्क्ते ।
३ - ४ - अपरः आह ॒ स्वराद्यन्तोपसृष्टात् इति वक्तयम् ।
४ - ४ - प्रयुङ्क्ते नियुङ्क्ते निनियुङ्क्ते ।
१ - ४ - किमर्थम् विदेशस्थस्य ग्रहणम् क्रियते न समः गमादिषु एव उच्येत ।
२ - ४ - समः क्ष्णुवः सकर्मकार्थम् ।
३ - ४ - सकर्मकार्थः अयम् आरम्भः ।
४ - ४ - अकर्मकात् इति हि तत्र अनुवर्तते
१ - ७ - अनवनकौटिल्ययोः इति वक्तव्यम् ।
२ - ७ - इह अपि यथा स्यात् ।
३ - ७ - प्रभुजति वाससी निभुजति जानुशिरसी इति ।
४ - ७ - तत् तर्हि वक्तव्यम् ।
५ - ७ - न वक्तव्यम् ।
६ - ७ - यस्य भुजेः अवनम् अनवनम् च अर्थः तस्य ग्रहणम् ।
७ - ७ - न च अस्य भुजेः अवनम् अनवनम् च अर्थः
१ - ५९ - णेः आत्मनेपदविधाने अण्यन्तस्य कर्मणः तत्र उपलब्धिः णेः आत्मनेपदविधाने अण्यन्तस्य यत् कर्म यदा ण्यन्ते तत् एव कर्म भवति तदा आत्मनेपदम् भवति इति वक्तव्यम् ।
२ - ५९ - इतरथा हि सर्वप्रसङ्गः ।
३ - ५९ - इतरथा हि सर्वत्र प्रसङ्गः स्यात् ।
४ - ५९ - इह अपि प्रसज्येत ॒ आरोहन्ति हस्तिनम् हस्तिपकाः ।
५ - ५९ - आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् ।
६ - ५९ - तत् तर्हि वक्तव्यम् ।
७ - ५९ - न वक्तव्यम् ।
८ - ५९ - कस्मात् न भवति ॒ आरोहन्ति हस्तिनम् हस्तिपकाः ।
९ - ५९ - आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् इति ।
१० - ५९ - एवम् वक्ष्यामि ।
११ - ५९ - णेः आत्मनेपदम् भवति ।
१२ - ५९ - ततः अणौ यत् कर्म णौ चेत् ।
१३ - ५९ - अण्यन्ते यत् कर्म णौ यदि तत् एव कर्म भवति ।
१४ - ५९ - ततः सः कर्ता ।
१५ - ५९ - कर्ता चेत् सः भवति णौ इति ।
१६ - ५९ - यदि एवम् कर्मकार्यम् भवति ।
१७ - ५९ - तत्र कर्मकर्तृत्वात् सिद्धम् ।
१८ - ५९ - कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् वचनम् ।
१९ - ५९ - कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् इदम् वक्तव्यम् ।
२० - ५९ - कर्मापदिष्टौ यक्चिणौ मा भूताम् इति ।
२१ - ५९ - न वा यक्चिणोः प्रतिषेधात् ।
२२ - ५९ - न वा एषः दोषः ।
२३ - ५९ - किम् कारणम् ।
२४ - ५९ - यक्चिणोः प्रतिषेधात् ।
२५ - ५९ - प्रतिषिध्येते अत्र यक्चिणौ ।
२६ - ५९ - यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति ।
२७ - ५९ - यः तर्हि न हेतुमण्णिच् तदर्थम् इदम् वक्तव्यम् ।
२८ - ५९ - तस्य कर्मापदिष्टौ यक्चिणौ मा भूताम् इति ॒ उत्पुच्छयते पुच्छम् स्वयम् एव ।
२९ - ५९ - उदपुप्पुच्छत पुच्छम् स्वयम् एव ।
३० - ५९ - अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन ॒ यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उप्सङ्ख्यानम् इति ।
३१ - ५९ - सः च अवश्यम् प्रतिषेधः आश्रयितव्यः ।
३२ - ५९ - इतरथा हि यत्र नियमः ततः अन्यत्र प्रतिषेधः ।
३३ - ५९ - अनुच्यमाने हि एतस्मिन् यत्र नियमः ततः अन्यत्र तेन यक्चिणोः प्रतिषेधः वक्तव्यः स्यात् ।
३४ - ५९ - गणयति गणम् गोपालकः ।
३५ - ५९ - गणयति गणः स्वयम् एव ।
३६ - ५९ - आत्मनेपदस्य च ।
३७ - ५९ - आत्मनेपदस्य च प्रतिषेधः वक्तव्यः ॒ गणयति गणः स्वयम् एव ।
३८ - ५९ - आत्मनेपदप्रतिषेधार्थम् तु ।
३९ - ५९ - आत्मनेपदप्रतिषेधार्थम् इदम् वक्तव्यम् ।
४० - ५९ - गणयति गणः स्वयम् एव ।
४१ - ५९ - इष्यते एव अत्र आत्मनेपदम् ।
४२ - ५९ - किम् इष्यते एव आहोस्वित् प्राप्नोति अपि ।
४३ - ५९ - इष्यते च प्राप्नोति च ।
४४ - ५९ - कथम् ।
४५ - ५९ - अणौ इत् कस्य इदम् णेः ग्रहणम् ।
४६ - ५९ - यमात् णेः प्राक् कर्म कर्ता वा विद्यते ।
४७ - ५९ - न च एतस्मात् णेः प्राक् कर्म कर्ता वा विद्यते ।
४८ - ५९ - इदम् तर्हि प्रयोजनम् ॒ अनाध्याने इति वक्ष्यामि इति ।
४९ - ५९ - इह मा भूत् ।
५० - ५९ - स्मरति वनगुल्मस्य कोकिलः ।
५१ - ५९ - स्मरयति एनम् वनगुल्मः स्वयम् एव ।
५२ - ५९ - एतत् अपि न अस्ति प्रयोजनम् ।
५३ - ५९ - कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् भवन्ति कर्तृस्थभावकः च अयम् ।
५४ - ५९ - एवम् तर्हि सिद्धे सति यत् अनाध्याने इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् आत्मनेपदम् इति ।
५५ - ५९ - किम् एतस्य ज्ञापने प्रयोजनम् ।
५६ - ५९ - पश्यन्ति भृत्याः राजानम् ।
५७ - ५९ - दर्शयते भृत्यान् राजा ।
५८ - ५९ - दर्शयते भृत्यैः राजा ।
५९ - ५९ - अत्र आत्मनेपदम् सिद्धम् भवति ।
१ - १४ - आत्मनः कर्मत्वे प्रतिषेधः ।
२ - १४ - आत्मनः कर्मत्वे प्रतिषेधः वक्तव्यः ।
३ - १४ - हन्ति आत्मानम् ।
४ - १४ - घातयति आत्मा इति ।
५ - १४ - सः तर्हि वक्तव्यः ।
६ - १४ - न वा ण्यन्ते अन्यस्य कर्तृत्वात् ।
७ - १४ - न वा वक्तव्यः ।
८ - १४ - किम् कारणम् ।
९ - १४ - ण्यन्ते अन्यस्य कर्तृत्वात् ।
१० - १४ - अन्यत् अत्र अण्यन्ते कर्म अन्यः ण्यन्तस्य कर्ता ।
११ - १४ - कथम् ।
१२ - १४ - द्वौ आत्मनौ अन्तरात्मा शरीरात्मा च ।
१३ - १४ - अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति ।
१४ - १४ - शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःखे अनुभवति इति ।
१ - ३० - स्वरितञितः इति किमर्थम् ।
२ - ३० - याति वाति द्राति प्साति ।
३ - ३० - स्वरितञितः इति शक्यम् अकर्तुम् ।
४ - ३० - कस्मात् न भवति याति वाति द्राति प्साति इति ।
५ - ३० - कर्त्रभिप्राये क्रियाफले इति उच्यते सर्वेषाम् च कर्त्रभिप्रायम् क्रियाफलम् अस्ति ।
६ - ३० - ते एवम् विज्ञास्यामः ।
७ - ३० - येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति तेभ्यः आत्मनेपदम् भवति इति ।
८ - ३० - न च एतेषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति ।
९ - ३० - तथाजातीयकाः खलु आचार्येण स्वरितञितः पठिताः येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति ।
१० - ३० - अथ अभिप्रायग्रहणम् किमर्थम् ।
११ - ३० - स्वरितञितः कर्त्राये क्रियाफले इति इयति उच्यमाने यम् एव सम्प्रति एति क्रियाफलम् तत्र एव स्यात् ।
१२ - ३० - लूञ् लुनीते पूञ् पुनीते ।
१३ - ३० - इह न स्यात् ।
१४ - ३० - यज् यजते वप् वपते ।
१५ - ३० - अभिप्रयग्रहणे पुनः क्रियमाणे न दोषः भवति ।
१६ - ३० - अभिः आभिमुख्ये वर्तते प्र आदिकर्मणि ।
१७ - ३० - तेन यम् च अभिप्रैति यम् च अभिप्रैष्यति यम् च अभिप्रागात् तत्र सर्वत्र आभिमुख्यमात्रे सिद्धम् भवति ।
१८ - ३० - कर्त्रभिप्राये क्रियाफले इति किमर्थम् ।
१९ - ३० - पचन्ति भक्तकाराः ।
२० - ३० - कुर्वन्ति कर्मकाराः ।
२१ - ३० - यजन्ति याजकाः ।
२२ - ३० - कर्त्रभिप्राये क्रियाफले इति उच्यमाने अपि अत्र प्राप्नोति ।
२३ - ३० - अत्र अपि हि क्रियाफलम् कर्तारम् अभिप्रैति ।
२४ - ३० - याजकाः यजन्ति गाः लप्स्यामहे इति ।
२५ - ३० - कर्मकराः कुर्वन्ति पादिकम् अहः लप्स्यामहे इति ।
२६ - ३० - एवम् तर्हि कर्त्रभिप्रये क्रियाफले इति उच्यते सर्वत्र च कर्तारम् क्रियाफलम् अभिप्रैति ।
२७ - ३० - तत्र प्रकर्षगतिः विज्ञास्यते ।
२८ - ३० - साधीयः यत्र कर्तारम् क्रियाफलम् अभिप्रैति इति ।
२९ - ३० - न च अन्तरेण यजिम् यजिफलम् वपिम् व वपिफलम् लभन्ते ।
३० - ३० - याजकाः पुनः अन्तरेण अपि यजिम् गाः लभन्ते भृतकाः च पादिकम् इति ।
१ - २९ - शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः ।
२ - २९ - शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः वक्तव्यः ।
३ - २९ - भिद्यते कुशूलः स्वयम् एव ।
४ - २९ - छिद्यते रज्जुः स्वयम् एव ।
५ - २९ - एवम् तर्हि शेषे इति वक्ष्यामि ।
६ - २९ - सप्तम्या चेत् प्रकृतेः । सप्तम्या चेत् प्रकृतेः प्रतिषेधः वक्तव्यः ।
७ - २९ - आस्ते शेते च्यवन्ते प्लवन्ते ।
८ - २९ - सिद्धम् तु उभयनिर्देशात् ।
९ - २९ - सिद्धम् एतत् ।
१० - २९ - कथम् ।
११ - २९ - उभयनिर्देशः कर्तव्यः ।
१२ - २९ - शेषात् शेषे इति वक्तव्यम् ।
१३ - २९ - कर्तृग्रहणम् इदानीम् किमर्थम् स्यात् ।
१४ - २९ - कर्तृग्रहणम् अनुपराद्यर्थम् ।
१५ - २९ - अनुपराद्यर्थम् एतत् स्यात् ।
१६ - २९ - इह मा भूत् ।
१७ - २९ - अनुक्रियते स्वयम् एव ।
१८ - २९ - पराक्रियते स्वयम् एव इति ।
१९ - २९ - सिध्यति ।
२० - २९ - सुत्रम् तर्हि भिद्यते ।
२१ - २९ - यथान्यासम् एव अस्तु ।
२२ - २९ - ननु च उक्तम् शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः इति ।
२३ - २९ - न एषः दोषः ।
२४ - २९ - कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते ।
२५ - २९ - तत् प्रकृतम् इह अनुवर्तिष्यते ।
२६ - २९ - शेषात् कर्तरि कर्तरि इति ।
२७ - २९ - किम् इदम् कर्तरि कर्तरि इति ।
२८ - २९ - कर्ता एव यः कर्ता तत्र यथा स्यात् ।
२९ - २९ - कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति ।
१ - ३१ - किमर्थम् इदम् उच्यते ।
२ - ३१ - परस्मैपदप्रतिषेधात् कृञादिषु विधानम् ।
३ - ३१ - परस्मैपदप्रतिषेधात् कृञादिषु परस्मैपदम् विधीयते ।
४ - ३१ - प्रतिषिध्यते तत्र परस्मैपदम् स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति ।
५ - ३१ - अस्ति प्रयोजनम् एतत् ।
६ - ३१ - किम् तर्हि इति ।
७ - ३१ - तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् ।
८ - ३१ - तत्र आत्मनेपदस्य प्रतिषेधः वक्तव्यः ।
९ - ३१ - किम् कारणम् ।
१० - ३१ - अप्रतिषिद्धत्वात् ।
११ - ३१ - न हि आत्मनेपदम् प्रतिषिध्यते ।
१२ - ३१ - किम् तर्हि ।
१३ - ३१ - परस्मैपदम् अनेन विधीयते ।
१४ - ३१ - न वा द्युतादिभ्यः वावचनात् ।
१५ - ३१ - न वा एषः दोषः ।
१६ - ३१ - किम् कारणम् ।
१७ - ३१ - द्युतादिभ्यः वावचनात् ।
१८ - ३१ - यत् अयम् द्युतादिभ्यः वावचनम् करोति तत् ज्ञापयति आचार्यः न परस्मैपदविषये आत्मनेपदम् भवति इति ।
१९ - ३१ - आत्मनेपदनियमे वा प्रतिषेधः ।
२० - ३१ - आत्मनेपदनियमे वा प्रतिषेधः वक्तव्यः ।
२१ - ३१ - स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति कर्तरि ।
२२ - ३१ - अनुपराभ्याम् कृञः न इति ।
२३ - ३१ - सिध्यति ।
२४ - ३१ - सूत्रम् तर्हि भिद्यते ।
२५ - ३१ - यथान्यासम् एव अस्तु ।
२६ - ३१ - ननु च उक्तम् तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् इति ।
२७ - ३१ - परिहृतम् एतत् न वा द्युतादिभ्यः वावचनात् ।
२८ - ३१ - अथ वा इदम् तावत् अयम् प्रष्टव्यः ।
२९ - ३१ - स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति परस्मैपदम् कस्मात् न भवति ।
३० - ३१ - आत्मनेपदेन बाध्यते ।
३१ - ३१ - यथा एव तर्हि आत्मनेपदेन परस्मैपदम् बाध्यते एवम् परस्मैपदेन आत्मनेपदम् बाधिष्यते ।
१ - २ - बुधादिषु ये अकर्मकाः तेषाम् ग्रहणम् किमर्थम् ।
२ - २ - सकर्मकार्थम् अचित्तवत्कर्तृकार्थम् वा ।
१ - २३ - अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् ।
२ - २३ - अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदम् वक्तव्यम् ।
३ - २३ - इह अपि यथा स्यात् ॒ चेतयमाणम् प्रयोजयति चेतयति इति ।
४ - २३ - यदि तर्हि अत्र अपि इष्यते अणिग्रहणम् इदानीम् किमर्थम् स्यात् ।
५ - २३ - अकर्मकग्रहणम् अण्यन्तविशेषणम् यथा विज्ञायेत ।
६ - २३ - अथ अक्रियमाणे अणिग्रहणम् कस्य अकर्मक्ग्रहणम् विशेषणम् स्यात् ।
७ - २३ - णेः इति वर्तते ।
८ - २३ - ण्यन्तविशेषणम् ।
९ - २३ - तत्र कः दोषः ।
१० - २३ - इह एव स्यात् ॒ चेतयमानम् प्रयोजयति चेतयति इति ।
११ - २३ - इह न स्यात् ॒ आसयति शाययति इति ।
१२ - २३ - सिद्धम् तु अतस्मिन् णौ इति वचनात् ।
१३ - २३ - सिद्धम् एतत् ।
१४ - २३ - कथम् ।
१५ - २३ - अतस्मिन् णौ यः अकर्मकः तत्र इति वक्तव्यम् ।
१६ - २३ - सिध्यति ।
१७ - २३ - सूत्रम् तर्हि भिद्यते ।
१८ - २३ - यथान्यासम् एव अस्तु ।
१९ - २३ - ननु च उक्तम् अणव् अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् इति ।
२० - २३ - न एषः दोषः ।
२१ - २३ - अणौ इति कस्य इदम् णेः ग्रहणम् ।
२२ - २३ - यस्माण् णेः प्राक् कर्म कर्ता वा विद्यते ।
२३ - २३ - न च एतस्माण् णेअः प्राक् कर्म कर्ता वा विद्यते ।
१ - ३ - पादिषु धेटः उपसङ्ख्यानम् ।
२ - ३ - पादिषु धेटः उपसङ्ख्यानम् कर्तव्यम् ।
३ - ३ - धापयते शिशुमेक समीची ।
१ - ५ - किमर्थः चकारः ।
२ - ५ - स्यसनोः इति एतत् अनुकृष्यते ।
३ - ५ - यदि तर्हि न अन्तरेण चकारम् अनुङ्र्त्तिः भवति द्युद्भ्यः लुङि इति अत्र अपि चकारः कर्तव्यः विभाषा इति अनुकर्षणार्थः ।
४ - ५ - अथ इदानीम् अन्तरेण अपि चकारम् अनुवृत्तिः भवति इह अपि न अर्थः चकारेण ।
५ - ५ - एवम् सर्वे चकाराः प्रत्याख्यायन्ते.
१ - १७ - किमर्थम् इदम् उच्यते ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP