पाद ४ - खण्ड १९
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - १०४ - यू इति किमर्थम् ।
२ - १०४ - खट्वा माला ।
३ - १०४ - किम् च स्यात् ।
४ - १०४ - खट्वाबन्धुः मालाबन्धुः ।
५ - १०४ - नदी बन्धुनि इति एषः स्वरः प्रसज्येत ।
६ - १०४ - इह च बहुखट्वकः इति नद्यृतः च इति नित्यः कप् प्रसज्येत ।
७ - १०४ - न एषः दोषः ।
८ - १०४ - आचार्यप्रवृत्तिः ज्ञापयति न आपः नदीसञ्ज्ञा भवति इति यत् अयम् ङेः आम् नद्याम्नीभ्यः इति पृथक् आब्ग्रहणम् करोति ।
९ - १०४ - इह तर्हि मात्रे मातुः इति आट् नद्याः इति आट् प्रसज्येत ।
१० - १०४ - किम् पुनः इदम् दीर्घयोः ग्रहणम् आहोस्विद् ह्रस्वयोः ।
११ - १०४ - किम् चातः ।
१२ - १०४ - यदि दीर्घयोः ग्रहणम् यू इति निर्देशः न उपपद्यते ।
१३ - १०४ - दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते ।
१४ - १०४ - उत्तरत्र च विशेषणम् न प्रकल्पेत यू ह्रस्वौ इति ।
१५ - १०४ - यदि यू न ह्रस्वौ ।
१६ - १०४ - अथ ह्रस्वौ न यू ।
१७ - १०४ - यू ह्रस्वौ चेति विप्रतिषिद्धम् ।
१८ - १०४ - अथ ह्रस्वयोः हे शकटे अत्र अपि प्रसज्येत ।
१९ - १०४ - न एषः दोषः ।
२० - १०४ - अवश्यम् अत्र विभाषा नदीसञ्ज्ञा एषितव्या ।
२१ - १०४ - उभयम् हि इष्यते ॒ हे शकटि हे शकटे इति ।
२२ - १०४ - इह तर्हि शकटिबन्धुः इति नदी बन्धुनि इति एषः स्वरः प्रसज्येत ।
२३ - १०४ - इह च बहुशकटिः इति नद्यृतः चेति नित्यः कप् प्रसज्येत ।
२४ - १०४ - न एषः दोषः ।
२५ - १०४ - ङिति ह्रस्वः च इति अयम् नियमार्थः भविष्यति ।
२६ - १०४ - ङिति एव यू ह्रस्वौ नदीसञ्ज्ञौ भवतः न न्यत्र इति ।
२७ - १०४ - कैमर्थक्यात् नियमः भवति ।
२८ - १०४ - विधेयम् न अस्ति इति कृत्वा ।
२९ - १०४ - इह च अस्ति विधेयम् ।
३० - १०४ - किम् ।
३१ - १०४ - नित्या नदीसञ्ज्ञा प्राप्ता सा विभाषा विधेया ।
३२ - १०४ - तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।
३३ - १०४ - अथ अयम् नित्यः योगः स्यात् प्रकल्पेत नियमः ।
३४ - १०४ - बाढम् प्रकल्पेत ।
३५ - १०४ - नित्यः तर्थि भविष्यति । तत् कथम् ।
३६ - १०४ - योगविभागः करिष्यते ।
३७ - १०४ - इदम् अस्ति ।
३८ - १०४ - यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि ।
३९ - १०४ - ततः ङिति ।
४० - १०४ - ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः ।
४१ - १०४ - ततः ह्रस्वौ ।
४२ - १०४ - ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।
४३ - १०४ - इयङुवङ्स्थानौ वा न इति च निवृत्तम् ।
४४ - १०४ - यदि एवम् शकटये अत्र गुणः न प्राप्नोति ।
४५ - १०४ - द्वितीयः योगविभागः करिष्यते ।
४६ - १०४ - शेषग्रहणम् न करिष्यते ।
४७ - १०४ - कथम् ।
४८ - १०४ - इदम् अस्ति ।
४९ - १०४ - यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि ।
५० - १०४ - ततः ङिति ।
५१ - १०४ - ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः ।
५२ - १०४ - ततः ह्रस्वौ ।
५३ - १०४ - ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।
५४ - १०४ - ततः ह्रस्वौ ।
५५ - १०४ - ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः ।
५६ - १०४ - इयङुवङ्स्थानौ वा न इति च निवृत्तम् ।
५७ - १०४ - ततः घि ।
५८ - १०४ - घिसञ्ज्ञौ च भवतः स्त्र्याख्यौ यू ह्रस्वौ ङिति ।
५९ - १०४ - ततः असखि ।
६० - १०४ - सखिवर्जितौ च यू ह्रस्वौ घिसञ्ज्ञौ भवतः ।
६१ - १०४ - स्त्र्याख्यौ ङिति इति च निवृत्तम् ।
६२ - १०४ - यदि तर्हि शेषग्रहणम् न क्रियते न अर्थः एकेन अपि योगविभागेन ।
६३ - १०४ - अविशेषेण नदीसञ्ज्ञा उत्सर्गः ।
६४ - १०४ - तस्याः ह्रस्वयोः घिसञ्ज्ञा बाधिका ।
६५ - १०४ - तस्याम् नित्यायाम् प्राप्तायाम् ङिति विभाषा आरभ्यते ।
६६ - १०४ - अथ वा पुनः अस्तु दीर्घयोः ।
६७ - १०४ - ननु च उक्तम् निर्देशः न उपपद्यते ।
६८ - १०४ - दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते ।
६९ - १०४ - वा छन्दसि इति एवम् भविष्यति ।
७० - १०४ - छन्दसि इति उच्यते न च इदम् छन्दः ।
७१ - १०४ - छन्दोवत् सूत्राणि भवन्ति इति ।
७२ - १०४ - यत् अपि उच्यते उत्तरत्र विशेषेणम् न प्रकल्पेत यू ह्रस्वौ इति ।
७३ - १०४ - यदि यू न ह्रस्वौ अथ ह्रस्वौ न यू ।
७४ - १०४ - यू ह्रस्वौ इति विप्रतिषिद्धम् इति ।
७५ - १०४ - न एतत् विप्रतिषिद्धम् ।
७६ - १०४ - आह अयम् यू ह्रस्वौ इति ।
७७ - १०४ - यदि यू न ह्रस्वौ ।
७८ - १०४ - अथ ह्रस्वौ न यू ।
७९ - १०४ - ते एवम् विज्ञास्यामः य्वोः यौ ह्रस्वौ इति ।
८० - १०४ - कौ च य्वोः ह्रस्वौ ।
८१ - १०४ - सवर्णौ ।
८२ - १०४ - अथ स्त्र्याख्यौ इति कः अयम् शब्दः ।
८३ - १०४ - स्त्रियम् आचक्षाते स्त्र्याख्यौ ।
८४ - १०४ - यदि एवम् स्त्र्याख्यायौ इति प्राप्नोति ।
८५ - १०४ - अनुपसर्गे हि कः विधीयते ।
८६ - १०४ - न तर्हि इदानीम् इदम् भवति यस्मिन् दश सहस्राणि पुत्रे जाते गवाम् ददौ ।
८७ - १०४ - ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् उञ्छेन जीवति ।
८८ - १०४ - छन्दोवत् कवयः कुर्वन्ति ।
८९ - १०४ - न हि एषा इष्टिः ।
९० - १०४ - एवम् तर्हि कर्मसाधनः भविष्यति ॒ स्त्रियाम् आख्यायेते स्त्र्याख्यौ ।
९१ - १०४ - यदि कर्मसाधनः कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति ।
९२ - १०४ - तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै ।
९३ - १०४ - एवम् तर्हि बहुव्रीहिः भविष्यति ।
९४ - १०४ - स्त्रियाम् आख्या अनयोः स्त्र्याख्यौ ।
९५ - १०४ - एवम् अपि कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति ।
९६ - १०४ - तन्त्र्यै लक्ष्म्यै श्रियै भ्रुवै ।
९७ - १०४ - एवम् तर्हि विच् भविष्यति ।
९८ - १०४ - अथ वा पुनः अस्तु कः एव ।
९९ - १०४ - स्त्रियम् आचक्षाते स्त्र्याख्यौ इति ।
१०० - १०४ - ननु च उक्तम् स्त्र्याख्यायौ इति प्राप्नोति ।
१०१ - १०४ - अनुपसर्गे हि कः विधीयते ।
१०२ - १०४ - मूलविभुजादिपाठात् कः भविष्यति ।
१०३ - १०४ - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् यस्मिन् दश सहस्राणि पुत्रे जाते गवाम् ददौ ।
१०४ - १०४ - ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् उञ्छेन जीवति ।
१ - ५८ - अथ आख्याग्रहणम् किमर्थम् ।
२ - ५८ - नदीसञ्ज्ञायाम् आख्याग्रहणम् स्त्रीविषयार्थम् । नदीसञ्ज्ञायाम् आख्याग्रहणम् स्त्रीविषयार्थम् ।
३ - ५८ - स्त्रीविषयौ एव यौ नित्यम् तयोः एव नदीसञ्ज्ञा यथा स्यात् ।
४ - ५८ - इह मा भूत् ग्रामण्ये सेनान्ये स्त्रियै इति ।
५ - ५८ - प्रथमलिङ्गग्रहणम् च ।
६ - ५८ - प्रथमलिङ्गग्रहणम् च कर्तव्यम् ।
७ - ५८ - प्रथमलिङ्गे यौ स्त्र्याखौ इति वक्तव्यम् ।
८ - ५८ - किम् प्रयोजनम् ।
९ - ५८ - प्रयोजनम् क्विब्लुप्समासाः । कुमार्यै ब्राह्मणाय ।
१० - ५८ - लुप् ।
११ - ५८ - खरकुट्यै ब्राह्मणाय ।
१२ - ५८ - अतितन्त्र्यै ब्राह्मणाय अतिलक्ष्म्यै ब्राह्मणाय ।
१३ - ५८ - तत् तर्हि वक्तव्यम् ।
१४ - ५८ - न वक्तव्यम् ।
१५ - ५८ - अवयवस्त्रीविषयत्वात् सिद्धम् ।
१६ - ५८ - अवयवः अत्र स्त्रीविषयः तदाश्रया नदीसञ्ज्ञा भविष्यति ।
१७ - ५८ - अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इयङुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः अवयवस्य इयङुवङ्स्थानत्वात् ।
१८ - ५८ - अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इयङुवङ्स्थानप्रतिषेधे यण्स्थानयोः अपि य्वोः प्रतिषेधः प्रसज्येत ।
१९ - ५८ - आध्यै प्रध्यै ब्राह्मण्यै ।
२० - ५८ - किम् कारणम् ।
२१ - ५८ - अवयवस्य इयङुवङ्स्थानत्वात् ।
२२ - ५८ - अवयवः अत्र इयङुवङ्स्थानः ।
२३ - ५८ - सिद्धम् त्वङ्गरूपग्रहणात् यस्य अङ्गस्य इयुवौ तत्प्रतिषेधात् ।
२४ - ५८ - सिद्धम् एतत् ।
२५ - ५८ - कथम् ।
२६ - ५८ - अङ्गरूपम् गृह्यते ।
२७ - ५८ - यस्य अङ्गस्य इयुवौ भवतः तस्य इदम् ग्रहणम् ।
२८ - ५८ - न च एतस्य अङ्गस्य इयुवौ भवतः ।
२९ - ५८ - ह्रस्वेयुव्स्थानप्रवृत्तौ च स्त्रीवचने ।
३० - ५८ - ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् ।
३१ - ५८ - शकट्यै अतिशकट्यै ब्रामणाण्यै ।
३२ - ५८ - क्व मा भूत् ।
३३ - ५८ - शकटये अतिशकटये ब्राह्मणाय ।
३४ - ५८ - धेन्वै अतिधेन्वै ब्राह्मण्यै ।
३५ - ५८ - क्व मा भूत् ।
३६ - ५८ - धेनवे अतिधेनवे ब्राह्मणाय ।
३७ - ५८ - श्रियै अतिश्रियै ब्राह्मण्यै ।
३८ - ५८ - क्व मा भूत् ।
३९ - ५८ - श्रिये अतिश्रिये ब्राह्मणाय ।
४० - ५८ - भ्रुवै अतिभ्रुवै ब्राह्मण्यै ।
४१ - ५८ - क्व मा भूत् ।
४२ - ५८ - भ्रुवे अतिभ्रुवे ब्राह्मणाय ।
४३ - ५८ - अपरः आह ॒ ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ अपि स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् ॒ शकट्यै , अतिशकट्यै ब्रामणाण्यै ।
४४ - ५८ - क्व मा भूत् ।
४५ - ५८ - शकटये अतिशकटये ब्राह्मणाय ।
४६ - ५८ - धेन्वै अतिधेन्वै ब्राह्मण्यै ।
४७ - ५८ - क्व मा भूत् ।
४८ - ५८ - धेनवे अतिधेनवे ब्राह्मणाय ।
४९ - ५८ - श्रियै अतिश्रियै ब्राह्मण्यै ।
५० - ५८ - क्व मा भूत् ।
५१ - ५८ - श्रिये अतिश्रिये ब्राह्मणाय ।
५२ - ५८ - भ्रुवै अतिभ्रुवै ब्राह्मण्यै ।
५३ - ५८ - क्व मा भूत् ।
५४ - ५८ - भ्रुवे अतिभ्रुवे ब्राह्मणाय ।
५५ - ५८ - किमर्थम् पुनः इदम् उच्यते ।
५६ - ५८ - प्रथमलिङ्गग्रहणम् चोदितम् ।
५७ - ५८ - तत् द्वेष्यम् विजानीयात् ॒ सर्वम् एतत् विकल्पते इति ।
५८ - ५८ - तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव इति ।
१ - ३७ - योगविभागः कर्तव्यः ।
२ - ३७ - षष्थीयुक्तः छन्दसि ।
३ - ३७ - षष्थीयुक्तः पतिशब्दः छन्दसि घिसञ्ज्ञः भवति ।
४ - ३७ - ततः वा ।
५ - ३७ - वा छन्दसि सर्वे विधयो भवति ।
६ - ३७ - सुपाम् व्यत्ययः ।
७ - ३७ - तिङाम् व्यत्ययः ।
८ - ३७ - वर्णव्यत्ययः ।
९ - ३७ - लिङ्गव्यत्ययः ।
१० - ३७ - कालव्यत्ययः ।
११ - ३७ - पुरुषव्यत्ययः ।
१२ - ३७ - आत्मनेपदव्यत्ययः ।
१३ - ३७ - परस्मैपदव्यत्ययः ।
१४ - ३७ - सुपाम् व्यत्ययः ।
१५ - ३७ - युक्त मात असीत् धुरि दक्षिणायाः ।
१६ - ३७ - दक्षिणायाम् इति प्राप्ते ।
१७ - ३७ - तिङाम् व्यत्ययः ।
१८ - ३७ - चषलम् ये अश्वयूपय तक्षति ।
१९ - ३७ - तक्षन्ति इति प्राप्ते ।
२० - ३७ - वर्णव्यत्ययः ।
२१ - ३७ - त्रिष्टुभौजः शुभितम् उग्रवीरम् ।
२२ - ३७ - सुहितमिति प्राप्ते ।
२३ - ३७ - लिङ्गव्यत्ययः ।
२४ - ३७ - मधोः गृह्णाति मधोः तृप्ताः इव आसते ।
२५ - ३७ - मधुनः इति प्राप्ते ।
२६ - ३७ - कालव्यत्ययः ।
२७ - ३७ - श्वः अग्नीन् आधास्यमानेन श्वः सोमेन यक्षमाणेन ।
२८ - ३७ - श्वः आधाता श्वः यष्टा इति प्राप्ते ।
२९ - ३७ - पुरुषव्यत्ययः ।
३० - ३७ - अधा सः वीरैः दशभिः वियूयाः ।
३१ - ३७ - वियूयात् इति प्राप्ते ।
३२ - ३७ - आत्मनेपदव्यत्ययः ।
३३ - ३७ - ब्रह्मचारिणम् इच्छते ।
३४ - ३७ - इच्छति इति प्राप्ते ।
३५ - ३७ - परस्मैपदव्यत्ययः ।
३६ - ३७ - प्रतीपम् अन्यः ऊर्मिः युध्यति । अन्वीपम् अन्यः ऊर्मिः युध्यति ।
३७ - ३७ - युध्यते इति प्राप्ते ।
१ - ६१ - यस्मात् इति व्यपदेशाय ।
२ - ६१ - अथ प्रत्ययग्रहणम् किमर्थम् ।
३ - ६१ - यस्मात् विधिः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने स्त्री इयती स्त्रीयति इति अत्र अपि प्रसज्येत ।
४ - ६१ - प्रत्ययग्रहणे पुनः क्रियमाणे न दोषः भवति ।
५ - ६१ - अथ विधिग्रहणम् किमर्थम् ।
६ - ६१ - यस्मात् प्रत्ययः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने दधि अधुना मधु अधुना अत्रापि प्रसज्येत ।
७ - ६१ - विधिग्रहणेण पुनः क्रियमाणे न दोषः भवति ।
८ - ६१ - तत् एतत् प्रत्ययग्रहणेन विधिग्रहणेन च समुदितेन क्रियते सन्नियोगः ।
९ - ६१ - यस्मात् यः प्रत्ययः विधीयते तदादि तस्मिन् अङ्गसञ्ज्ञम् भवति इति ।
१० - ६१ - अथ तदादिग्रहणम् किमर्थम् ।
११ - ६१ - अङ्गसञ्ज्ञायाम् तदादिवचनम् स्यादिनुमर्थम् । अङ्गसञ्ज्ञायाम् तदादिग्रहणम् क्रियते स्याद्यर्थम् नुमर्थम् च ।
१२ - ६१ - स्याद्यर्थम् तावत् ।
१३ - ६१ - करिष्यावः करिष्यामः ।
१४ - ६१ - नुमर्थम् ।
१५ - ६१ - कुण्डानि वनानि ।
१६ - ६१ - मित्सुटोः उपसम्ख्यानम् ।
१७ - ६१ - मित्वतः सुड्वतः च पसम्ख्यानम् कर्तव्यम् ।
१८ - ६१ - मित्वतः ।
१९ - ६१ - भिनत्ति छिनत्ति अभिनत् अच्छिनत् ।
२० - ६१ - सुड्वतः ।
२१ - ६१ - सञ्चरकस्तु सञ्चस्करुः ।
२२ - ६१ - किम् पुनः कारणम् न सिध्यति ।
२३ - ६१ - सुटः बहिरङ्गत्वात् ।
२४ - ६१ - बहिरङ्गः सुट् ।
२५ - ६१ - अन्तरङ्गः गुणः ।
२६ - ६१ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
२७ - ६१ - वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधग्रहणम् कृञर्थम् ।
२८ - ६१ - यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन ।
२९ - ६१ - इह अपि सस्वरतुः सस्वरुः इति संयोगोपधस्य इति एव सिद्धम् ।
३० - ६१ - भवेत् एवमर्थेन न अर्थः ।
३१ - ६१ - इदम् तु न सिध्यति सञ्चकरतुः सञ्चस्करुः ।
३२ - ६१ - किम् पुनः कारणम् न सिध्यति ।
३३ - ६१ - इह तस्य वा ग्रहणम् भवति तदादेः वा न चेदम् तत् न अपि तदादि ।
३४ - ६१ - सिद्धम् तु तदाद्यादिवचनात् ।
३५ - ६१ - सिद्धम् एतत् ।
३६ - ६१ - कथम् ।
३७ - ६१ - तदाद्यादि अङ्गसञ्ज्ञम् भवति इति वक्तव्यम् ।
३८ - ६१ - किम् इदम् तदाद्यादि इति ।
३९ - ६१ - तस्य आदिः तदादिः , तदादिः आदिः यस्य तदिदम् तदाद्यादि इति ।
४० - ६१ - सः तर्हि तथा निर्देशः कर्तव्यः ।
४१ - ६१ - न कर्तव्यः ।
४२ - ६१ - उत्तरपदलोपः अत्र द्रष्टव्यः ।
४३ - ६१ - तत् यथा ॒ उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः , एवम् तदाद्यादि तदादि इति ।
४४ - ६१ - तदेकदेशविज्ञानात् वा सिद्धम् । तदेकदेशविज्ञानात् वा सिद्धम् एतत् ।
४५ - ६१ - तदेकदेशभूतम् तद्ग्रहणेन गृह्यते. तद् यथा ।
४६ - ६१ - गङ्गा यमुना देवदत्ता इति ।
४७ - ६१ - अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते ।
४८ - ६१ - तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते ।
४९ - ६१ - विषमः उपन्यासः ।
५० - ६१ - इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च ।
५१ - ६१ - पञ्च सप्त इति ॒ एकेन अपि अपाये न भवन्ति ।
५२ - ६१ - द्रोणः खारी आढकम् इति ॒ नैवा अधिके भवन्ति न च न्यूने ।
५३ - ६१ - के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च ।
५४ - ६१ - तैलम् घृतम् इति ॒ खार्याम् अपि भवन्ति द्रोणे अपि ।
५५ - ६१ - शुक्लः नीलः कृष्णः इति ॒ हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये ।
५६ - ६१ - अङ्गसञ्ज्ञा च अपि अक्तपरिमाणानाम् क्रियते ।
५७ - ६१ - सा केन अधिकस्य स्यात् ।
५८ - ६१ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः प्रतिषेधम् शास्ति ।
५९ - ६१ - कथम् कृत्वा ज्ञापकम् ।
६० - ६१ - इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गो यत् सककारयोः स्यात् ।
६१ - ६१ - पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति ततः सककारयोः प्रतिषेधम् शास्ति ।
१ - ४५ - अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् ।
२ - ४५ - प्रत्ययग्रहणम् पदादौ अप्रसङ्गार्थम् ।
३ - ४५ - प्रत्ययग्रहणम् क्रियते पदादौ अङ्गसञ्ज्ञा मा भूत् इति ।
४ - ४५ - किम् च स्यात् ।
५ - ४५ - स्त्र्यर्थम् , श्र्यर्थम् , भ्वर्थम् ॒ अङ्गस्य इति इयङुवङौ स्याताम् ।
६ - ४५ - परिमाणार्थम् च ।
७ - ४५ - परिमाणार्थम् च द्वितीयम् प्रत्ययग्रहणम् क्रियते ।
८ - ४५ - यस्मात् प्रत्ययविधिः तदादि अङ्गम् इति इयति उच्यमाने दाशतयस्य अपि अङ्गसञ्ज्ञा प्रसज्येत ।
९ - ४५ - तत् तर्हि कर्तव्यम् ।
१० - ४५ - न कर्तव्यम् ।
११ - ४५ - केन इदानीम् अङ्गकार्यम् भविष्यति ।
१२ - ४५ - प्रत्यये इति प्रकृत्य अङ्गकार्यम् अध्येष्ये ।
१३ - ४५ - प्रत्यये इति प्रकृत्य अङ्गकार्यम् अधीषे प्राकरोत् उपैहिष्ट उपसर्गात् पूर्वौ अडाटौ प्राप्नुतः ।
१४ - ४५ - सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः तदादितदन्तविज्ञानात् ।
१५ - ४५ - सिद्धम् एतत् ।
१६ - ४५ - कथम् ।
१७ - ४५ - प्रत्ययग्रहणे यस्मात् सः प्रत्ययः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एषा परिभाषा कर्तव्या ।
१८ - ४५ - कः पुनः अत्र विशेषः एषा परिभाषा क्रियेत प्रत्ययग्रहणम् वा ।
१९ - ४५ - अवश्यम् एषा परिभाषा कर्तव्या ।
२० - ४५ - बहूनि एतस्याः परिभाषायाः प्रयोजनानि ।
२१ - ४५ - प्रयोजनम् धातुप्रातिपदिकप्रत्ययसमासतद्धितविधिस्वराः ।
२२ - ४५ - धातु ।
२३ - ४५ - देवदत्तः चिकीर्षति ।
२४ - ४५ - सङ्घातस्य धातुसञ्ज्ञा प्राप्नोति ।
२५ - ४५ - प्रातिपदिक ।
२६ - ४५ - देवदत्त्ः गार्ग्यः ।
२७ - ४५ - सङ्घातस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति ।
२८ - ४५ - प्रत्यय ।
२९ - ४५ - महान्तम् पुत्रम् इच्छति ।
३० - ४५ - सम्घातात् प्रत्ययोत्पत्तिः प्राप्नोति ।
३१ - ४५ - समास ।
३२ - ४५ - ऋद्धस्य राज्ञः पुरुषः ।
३३ - ४५ - सम्घातस्य समाससञ्ज्ञा प्राप्नोति ।
३४ - ४५ - तद्धितविधि ।
३५ - ४५ - देवदत्तः गार्ग्यायणः ।
३६ - ४५ - सम्घातात् तद्धितोत्पत्तिः प्राप्नोति ।
३७ - ४५ - स्वर ।
३८ - ४५ - देवदत्तः गार्ग्यः ।
३९ - ४५ - सम्घात्स्य ञ्नित्यादिः नित्यम् इति आद्युदात्तत्वम् प्राप्नोति ।
४० - ४५ - प्रत्ययग्रहणे यस्मात् स तदादेः तदन्तस्य ग्रहणम् भवति इति न दोषः भवति ।
४१ - ४५ - सा तर्हि एषा परिभाषा कर्तव्या ।
४२ - ४५ - न कर्तव्या ।
४३ - ४५ - एवम् वक्ष्यामि ॒ यस्मात् प्रत्ययविधिः तदादि प्रत्यये गृह्यमाणे गृह्यते ।
४४ - ४५ - ततः अङ्गम् ।
४५ - ४५ - अङ्गसञ्ज्ञम् च भवति यस्मा त्प्रत्ययविधिः तदादि प्रत्यये ।
१ - १९ - यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः न प्राप्नोति ।
२ - १९ - एवम् तर्हि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उक्त्वा ततः वक्ष्यामि ॒ कृद्ग्रहणे गतिकारकपूर्वस्य अपि ।
३ - १९ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति ति एषा परिभाषा कर्तव्या ।
४ - १९ - कानि एतस्याः परिभाषायाः प्रयोजनानि ।
५ - १९ - प्रयोजनम् समासतद्धितविधिस्वराः ।
६ - १९ - समास ।
७ - १९ - अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः सिद्धः भवति ।
८ - १९ - समास ।
९ - १९ - तद्धितविधि ।
१० - १९ - साङ्कूटिनम् व्यावक्रोशी ।
११ - १९ - सम्घातात् तद्धितोपत्तिः सिद्धा भवति ।
१२ - १९ - तद्धितविधि ।
१३ - १९ - स्वर ।
१४ - १९ - दूरात् आगतः दूरादागतः इति ।
१५ - १९ - अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एषः स्वरः सिद्धः भवति ।
१६ - १९ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति न दोषः भवति ।
१७ - १९ - सा तर्हि एषा परिभाषा कर्तव्या ।
१८ - १९ - न कर्तव्या ।
१९ - १९ - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाष इति यत् अयम् गतिः अनन्तरः इति अनन्तरग्रहणम् करोति ।
१ - २१ - अन्तग्रहणम् किमर्थम् न सुप्तिङ् पदम् इति एव उच्यते ।
२ - २१ - केन इदानीम् तदन्तानाम् भविष्यति ।
३ - २१ - तदन्तविधिना ।
४ - २१ - अतः उत्तरम् पठति ।
५ - २१ - पदसञ्ज्ञायाम् अन्तवचनम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् ।
६ - २१ - पदसञ्ज्ञायाम् अन्तग्रहणम् क्रियते ज्ञापकार्थम् ।
७ - २१ - किम् ज्ञाप्यम् ।
८ - २१ - एतत् ज्ञापयति आचार्यः अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिः न भवति इति ।
९ - २१ - किम् एतस्य ज्ञापने प्रयोजनम् ।
१० - २१ - तरप्तमौ घः ।
११ - २१ - तरप्तमबन्तस्य घसञ्ज्ञा न भवति ।
१२ - २१ - किम् च स्यात् ।
१३ - २१ - कुमारी गौरितरा ।
१४ - २१ - घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत ।
१५ - २१ - यदि एतत् ज्ञाप्यते सनाद्यन्ताः धातवः इति अन्तग्रहणम् कर्तव्यम् ।
१६ - २१ - कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् ।
१७ - २१ - इदम् तृतीयम् ज्ञापकार्थम् ।
१८ - २१ - द्वे तावत् क्रियेते न्यासे एव ।
१९ - २१ - यत् अपि उच्यते कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् इति ।
२० - २१ - न कर्तव्यम् ।
२१ - २१ - अर्थवत् इति वर्तते कृत्तद्धान्तम् च एव अर्थवत् न केवलाः कृतः तद्धिताः वा ।
१ - ५ - किमर्थम् इदम् उच्यते न सुबन्तम् पदम् इति एव सिद्धम् ।
२ - ५ - नियमार्थः अयमारम्भः ।
३ - ५ - नान्तमेव क्ये पदसञ्ज्ञम् भवति न अन्यत् ।
४ - ५ - क्व मा भूत् ।
५ - ५ - वाच्यति स्रुच्यति
१ - २५ - असर्वनामस्थाने इति उच्यते ।
२ - २५ - तत्र ते राजा तक्षा असर्वनामस्थाने इति पदसञ्ज्ञायाः प्रतिषेधः प्रसज्येत ।
३ - २५ - न अप्रतिषेधात् ।
४ - २५ - न अयम् प्रसज्यप्रतिषेधः सर्वनामस्थाने न इति ।
५ - २५ - किम् तर्हि ।
६ - २५ - पर्युदासः अयम् यत् अन्यत् सर्वनामस्थानात् इति ।
७ - २५ - सर्वनामस्थाने अव्यापारः ।
८ - २५ - यदि केन चित्प्राप्नोति तेन भविष्यति ।
९ - २५ - पूर्वेण च प्राप्नोति ।
१० - २५ - अप्राप्तेः वा ।
११ - २५ - अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते ।
१२ - २५ - कुतः एतत् ।
१३ - २५ - अन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।
१४ - २५ - पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति ।
१५ - २५ - ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते ।
१६ - २५ - न उत्सहते प्रतिषिद्धा सती बाधितुम् ।
१७ - २५ - अथ वा योगविभागः करिष्यते ।
१८ - २५ - स्वादिषु पूर्वम् पदसञ्ज्ञम् भवति ।
१९ - २५ - ततः सर्वनामस्थाने अयचिपूर्वम् पदसञ्ज्ञम् भवति ।
२० - २५ - ततो भम् ।
२१ - २५ - भसञ्ज्ञम् च भवति यजादौ असर्वनामस्थाने इति ।
२२ - २५ - यदि तर्हि सौ अपि पदम् भवति एचः प्लुतविकारे पदान्तग्रहणम् चोदितम् इह मा भूत् भद्रम् करोषि गौः इति तस्मिन् क्रियमाणे अपि प्राप्नोति ।
२३ - २५ - वाक्यपदयोः अन्त्यस्य इति एवम् तत् ।
२४ - २५ - भुवद्वद्भ्यः धारयद्भ्यः एतयोः पदसञ्ज्ञा वक्तव्या ।
२५ - २५ - भुवद्वद्भ्यः धारयद्वद्भ्यः ।
१ - १८ - भसञ्ज्ञायाम् उत्तरपदलोपे षषः प्रतिषेधः ।
२ - १८ - भसञ्ज्ञायाम् उत्तरपदलोपे षषः प्रतिषेधः वक्तव्यः ।
३ - १८ - अनुकम्पितः षडड्गुलिः षडिकः ।
४ - १८ - सिद्धम् अचः स्थानिवत्त्वात् ।
५ - १८ - सिद्धम् एतत् ।
६ - १८ - कथम् ।
७ - १८ - अचः स्थानिवद्भावात् भसञ्ज्ञा न भविष्यति ।
८ - १८ - इह अपि तर्हि प्राप्नोति ।
९ - १८ - वागाशीर्दत्तः वाचिकः इति ।
१० - १८ - वक्ष्यति एतत् ॒ सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् इति ।
११ - १८ - इह अपि तर्हि प्राप्नोति षडड्गुलिः षडिकः इति ।
१२ - १८ - वक्ष्यति एतत् ॒ षषः ठाजादिवचनात् सिद्धम् इति ।
१३ - १८ - नभोङ्गिरोमनुषाम् वति उपसम्ख्यानम् ।
१४ - १८ - नभोङ्गिरोमनुषाम् वति उपसम्ख्यानम् कर्तव्यम् ।
१५ - १८ - नभस्वत् अङ्गिरस्वत् मनुष्वत् ।
१६ - १८ - वृषण् वस्वश्वयोः ।
१७ - १८ - वृषण् इति एतस्य वस्वशयोः भसञ्ज्ञा वक्तव्या ।
१८ - १८ - वृषण्वसुः वृषणश्वस्य यत् शिरः वृषणश्वस्य मेने ।
१ - ९ - अर्थग्रहणम् किमर्थम् न तसौ मतौ इति एव उच्येत ।
२ - ९ - तसौ मतौ इति इयति उच्यमाने इहैव स्यात् पयस्वान् यशस्वान् ।
३ - ९ - इह न स्यात् पयस्वी यशस्वी ।
४ - ९ - अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धम् भवति यः च न्यः तेन समानार्थः तस्मिन् च ।
५ - ९ - यदि अर्थग्रहणम् क्रियते पयस्वान् यशस्वान् अत्र न प्राप्नोति ।
६ - ९ - किम् कारणम् ।
७ - ९ - न हि मतुप् मत्वर्थे वर्तते ।
८ - ९ - मतुप् अपि मत्वर्थे वर्तते ।
९ - ९ - तत् यथा देवदत्तशालायाम् ब्राह्मणा आनीयन्ताम् इति उक्ते यदि देवदत्तः पि ब्राह्मणः भवति सः अपि आनीयते ।
(पा-१,४.२०; अकि-१,३२०.२३; रो-२,३६७; १ - २ - उभयसञ्ज्ञान्यपि इति वक्तव्यम् ।
(पा-१,४.२०; अकि-१,३२०.२३; रो-२,३६७; २ - २ - सः सुष्ठुभा सः ऋक्वता गणेन ।
१ - ६० - बहुषु बहुवचनम् इति उच्यते ।
२ - ६० - केषु बहुषु ।
३ - ६० - अर्थेषु ।
४ - ६० - यदि एवम् वृक्षः प्लक्षः अत्र अपि प्राप्नोति ।
५ - ६० - बहवः ते अर्थाः मूलम् स्कन्धः फलम् पलाशम् इति ।
६ - ६० - एवम् तर्हि एकवचनम् द्विवचनम् बहुवचनमिति शब्दसञ्ज्ञाः एताः ।
७ - ६० - येषु अर्थेषु स्वादयः विधीयन्ते तेषु बहुषु ।
८ - ६० - केषु च अर्थेषु स्वादयः विधीयन्ते ।
९ - ६० - कर्मादिषु ।
१० - ६० - न वै कर्मादयः विभक्त्यर्थाः ।
११ - ६० - के तर्हि ।
१२ - ६० - एकत्वादयः ।
१३ - ६० - एकत्वादिषु अपि वै विभक्यर्थेषु अवश्यम् कर्मादयः निमित्तत्वेन उपादेयाः ।
१४ - ६० - कर्मणः एकत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति ।
१५ - ६० - सः तर्हि तथा निर्देशः कर्तव्यः ।
१६ - ६० - न हि अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।
१७ - ६० - इह च ॒ इति एके मन्यन्ते , तत् एके मन्यन्ते इति परत्वात् एकवचनम् प्राप्नोति ।
१८ - ६० - बहुषु बहुवचनम् इति एषः योगः परः करिष्यते ।
१९ - ६० - सूत्रविपर्यासः कृतः भवति ।
२० - ६० - इह च ॒ बहुः ओदनः , बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति ।
२१ - ६० - न एषः दोषः ।
२२ - ६० - यत् तावत् उच्यते न हि अन्तरेण भावप्रययम् गुणप्रधानः भवति निर्देशः इति तन् न ।
२३ - ६० - अन्तरेण अपि भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।
२४ - ६० - कथम् ।
२५ - ६० - इह कदा चित् गुणः गुणिविशेषकः भवति ।
२६ - ६० - तत् यथा पटः शुक्लः इति ।
२७ - ६० - कदा चित् च गुणिना गुणः व्य्पदिश्यते ।
२८ - ६० - पठस्य शुक्लः इति ।
२९ - ६० - तत् यदा तावत् गुणः गुणिविशेषकः भवति पटः शुक्लः इति तदा सामानाधिकरण्यम् गुणगुणिनोः ।
३० - ६० - तदा न अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः ।
३१ - ६० - यदा तु गुणिना गुणः व्यपदिश्यते पटस्य शुक्लः इति स्वप्रधानः तदा गुणः भवति ।
३२ - ६० - तदा द्रव्ये षष्ठी ।
३३ - ६० - तदा अन्तरेण भावप्रत्ययम् गुअणप्रधानः भवति निर्देशः ।
३४ - ६० - न च इह वयम् एकत्वादिभिः कर्मादीन् विशेषयिष्यामः ।
३५ - ६० - किम् तर्हि ।
३६ - ६० - कर्मादिभिः एकत्वादीन् विशेषयिष्यामः ।
३७ - ६० - कथम् ।
३८ - ६० - एकस्मिन् एकवचनम् ।
३९ - ६० - कस्यैकस्मिन् ।
४० - ६० - कर्मणः ।
४१ - ६० - द्वयोः द्विवचनम् ।
४२ - ६० - कयोः द्वयोः ।
४३ - ६० - कर्मणोः ।
४४ - ६० - बहुषु बहुवचनम् ।
४५ - ६० - केषाम् बहुषु ।
४६ - ६० - कर्मणाम् इति ।
४७ - ६० - कथम् बहुषु बहुवचनमिति ।
४८ - ६० - एतत् एव ज्ञापयति आचार्यः नानाधिकरणवाची यः बहुशब्दः तस्य इदम् ग्रहणम् न वैपुल्यवाचिनः इति ।
४९ - ६० - किम् एतस्य ज्ञापने प्रयोजनम् ।
५० - ६० - यत् उक्तम् बहुः ओदनः बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति इति स दोषः न भवति ।
५१ - ६० - यत् अप्युच्यते इति एके मन्यन्ते तत् एके मन्यन्त इति परत्वात् एकवचनम् प्राप्नोति इति न एषः दोषः ।
५२ - ६० - एकशब्दः अयम् बह्वर्थः ।
५३ - ६० - अस्ति एव सम्ख्यावाची ।
५४ - ६० - तत् यथा एकः द्वौ बहवः इति ।
५५ - ६० - अस्ति असहायवाची ।
५६ - ६० - तत् यथा एकाग्नयः एकहलानि एकाकिभिः क्षुद्रकैः जितम् इति ।
५७ - ६० - अस्ति अन्यार्थे वर्तते ।
५८ - ६० - तत् यथा सधमादः द्युम्नः एकाः ताः ।
५९ - ६० - अन्याः इति अर्थः ।
६० - ६० - तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः ।
१ - ३७ - किमर्थम् पुनः इदम् उच्यते ।
२ - ३७ - सुप्तिङाम् अविशेषविधानात् दृष्तविप्रयोगत्वात् च नियमार्थम् वचनम् । सुपः अविशेषेण प्रातिपदिकमात्रात् विधीयन्ते ।
३ - ३७ - तिङः अविशेषेण धातुमात्रात् विधीयन्ते ।
४ - ३७ - तत्र एतत् स्यात् यदि अप्यविशेषेण विधीयन्ते न एव विप्रयोगः लक्ष्यते इति ।
५ - ३७ - दृष्टविप्रयोगत्वात् च ।
६ - ३७ - दृश्यते खलु अपि विप्रयोगः ।
७ - ३७ - तद्यथा ॒ अक्षीणि मे दर्शनीयानि , पादाः मे सुकुमाराः इति ।
८ - ३७ - सुप्तिङोः अविशेषविधानात् दृष्टविप्रयोगत्वात् च व्यतिकरः प्राप्नोति ।
९ - ३७ - इष्यते च अव्यतिकरः स्यात् इति ।
१० - ३७ - तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् ।
११ - ३७ - एवमर्थम् इदम् उच्यते ।
१२ - ३७ - अथ एतस्मिन् नियमार्थे सति किम् पुनः अयम् प्रत्ययनियमः ॒ एकस्मिन् एव एकवचनम् , द्वयोः एव द्विवचनम् , बहुषु एव बहुवचनम् इति ।
१३ - ३७ - आहोस्वित् अर्थनियमः ॒ एकस्मिन् एकवचनम् एव , द्वयोः द्विवचनम् एव , बहुषु बहुवचनम् एव इति ।
१४ - ३७ - कः च अत्र विशेषः ।
१५ - ३७ - तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञाभावः असुबन्तत्वात् ।
१६ - ३७ - तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञा न प्राप्नोति ।
१७ - ३७ - उच्चैः नीचैः इति ।
१८ - ३७ - किम् कारणम् ।
१९ - ३७ - असुबन्तत्वात् ।
२० - ३७ - अर्थनियमे सिद्धम् ।
२१ - ३७ - अर्थनियमे सिद्धम् भवति ।
२२ - ३७ - अस्तु अर्थनियमः ।
२३ - ३७ - अथ वा पुनः अस्तु प्रत्ययनियमः ।
२४ - ३७ - ननु च उक्तम् ॒ तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञाभावः असुबन्तत्वात् इति ।
२५ - ३७ - न एषः दोषः ।
२६ - ३७ - सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च ।
२७ - ३७ - तथा तिङाम् ।
२८ - ३७ - प्रसिद्धः नियमः तत्र ।
२९ - ३७ - प्रसिद्धः तत्र नियमः ।
३० - ३७ - नियमः प्रकृतेषु वा ।
३१ - ३७ - अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।
३२ - ३७ - के च प्रकृताः ।
३३ - ३७ - एकत्वादयः ।
३४ - ३७ - एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु ।
३५ - ३७ - द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु ।
३६ - ३७ - बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति ।
३७ - ३७ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आप्सुपः इति अव्ययात् लुकम् शास्ति ।
१ - ४९ - किम् इदम् कारके इति ।
२ - ४९ - सञ्ज्ञानिर्देशः ।
३ - ४९ - किम् वक्तव्यम् एतत् ।
४ - ४९ - न हि ।
५ - ४९ - कथम् अनुच्यमानम् गंस्यते ।
६ - ४९ - इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः शब्दाः तैः निर्देशाः क्रियन्ते पशुः अपत्यम् देवता इति याः वा एताः कृत्रिमाः टिघुघभसञ्ज्ञाः ताभिः ।
७ - ४९ - न च अयम् लोके ध्रुवादीनाम् प्रतीतपदार्थकः शब्दः न खलु अपि कृत्रिमा सञ्ज्ञा अन्यत्र अविधानात् ।
८ - ४९ - सञ्ज्ञाधिकारः च अयम् ।
९ - ४९ - तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः ।
१० - ४९ - कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः ।
११ - ४९ - कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः कर्तव्यः ।
१२ - ४९ - साधकम् निर्वर्तकम् कारकसञ्ज्ञम् भवति इति वक्तव्यम् ।
१३ - ४९ - इतरथा हि अनिष्टप्रसङ्गः ग्रामस्य समीपात् आगच्छति इति अकारकस्य । इतरथा हि अनिष्टम् प्रसज्येत ।
१४ - ४९ - अकारकस्य अपि अपादादनसञ्ज्ञा प्रसज्येत ।
१५ - ४९ - क्व ।
१६ - ४९ - ग्रामस्य समीपात् आगच्छति इति ।
१७ - ४९ - न एषः दोषः ।
१८ - ४९ - न अत्र ग्रामः अपाययुक्तः ।
१९ - ४९ - किम् तर्हि ।
२० - ४९ - समीपम् ।
२१ - ४९ - यदा च ग्रामः अपाययुक्तः भवति भवति तदा अपादानसञ्ज्ञा ।
२२ - ४९ - तत् यथा ग्रामात् आगच्छति इति ।
२३ - ४९ - कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।
२४ - ४९ - कर्मसञ्ज्ञा च प्राप्नोति अकथितस्य. क्व ।
२५ - ४९ - ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।
२६ - ४९ - न एषः दोषः ।
२७ - ४९ - अयम् अकथितशब्दः अस्ति एव सङ्कीर्तिते वर्तते ।
२८ - ४९ - तत् यथा कः चित् कम् चित् सञ्चक्ष्य आह असौ अत्र अकथितः ।
२९ - ४९ - असंकीर्तितः इति गम्यते ।
३० - ४९ - अस्ति अप्राधान्ये वर्तते ।
३१ - ४९ - तत् यथा अकथितः असौ ग्रामे अकथितः असौ नगरे इति उच्यते यः यत्र अप्रधानः भवति ।
३२ - ४९ - तत् यदा अप्राधान्ये अकथित्शब्दः वर्तते तदा एषः दोषः कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।
३३ - ४९ - अपादानम् च वृक्षस्य पर्णम् पतति इति ।
३४ - ४९ - अपादानसञ्ज्ञा च प्राप्नोति ।
३५ - ४९ - क्व ।
३६ - ४९ - वृक्षस्य पर्णम् पतति ।
३७ - ४९ - कुड्यस्य पिण्डः पतति इति ।
३८ - ४९ - ना वा अपायस्याविवक्षितत्वात् ।
३९ - ४९ - न वा एषः दोषः ।
४० - ४९ - किम् कारणम् ।
४१ - ४९ - अपायस्य अविवक्षितत्वात् ।
४२ - ४९ - न अत्र अपायः विवक्षितः ।
४३ - ४९ - किम् तर्हि ।
४४ - ४९ - सम्बन्धः ।
४५ - ४९ - यदा च अपायः विवक्षितः भवति भवति तदा अपादानसञ्ज्ञा ।
४६ - ४९ - तत् यथा ।
४७ - ४९ - वृक्षात् पर्णम् पतति इति ।
४८ - ४९ - सम्बन्धस्तु तदा न विवक्षितः भवति ।
४९ - ४९ - न ज्ञायते कङ्कस्य वा कुररस्य वा इति ।
१ - ९३ - अयम् तर्हि दोषः कर्मसञ्ज्ञाप्रसङ्गः च अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति ।
२ - ९३ - न एषः दोषः ।
३ - ९३ - कारकः इति महती सञ्ज्ञा क्रियते ।
४ - ९३ - सञ्ज्ञा च नाम यतः न लघीयः ।
५ - ९३ - कुतः एतत् ।
६ - ९३ - लघ्वर्थम् हि सञ्ज्ञाकारणम् ।
७ - ९३ - तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।
८ - ९३ - करोति इति कारकम् इति ।
९ - ९३ - अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दानुपपत्तिः । अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दः न उपपद्यते ।
१० - ९३ - करणम् कारकम् अधिकरणम् कारकम् इति ।
११ - ९३ - सिद्धम् तु प्रतिकारकम् क्रियाभेदात् पचादीनाम् करणाधिकरणयोः कर्तृभावः ।
१२ - ९३ - सिद्धः करणाधिकरणयोः कर्तृभावः ।
१३ - ९३ - कुतः ।
१४ - ९३ - प्रतिकारकम् क्रियाभेदात् पचादीनाम् ।
१५ - ९३ - पचादीनाम् हि प्रतिकारकम् क्रिया भिद्यते ।
१६ - ९३ - किम् इदम् प्रतिकारकम् इति ।
१७ - ९३ - कारकम् कारकम् प्रति प्रतिकारकम् ।
१८ - ९३ - कः असौ प्रतिकारकम् क्रियाभेदः पचादीनाम् ।
१९ - ९३ - अधिश्रयणोदकासेचनतण्डुलावपनैधोपदकर्षणिक्रियाः प्रधानस्य कर्तुः पाकः ।
२० - ९३ - अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादिक्रियाः कुर्वन् एव देवदत्तः पचति इति उच्यते ।
२१ - ९३ - तत्र तदा पचिः वर्तते ।
२२ - ९३ - एषः प्रधानकर्तुः पाकः ।
२३ - ९३ - एतत् प्रधानकर्तुः कर्तृत्वम् ।
२४ - ९३ - द्रोणम् पचति आढकम् पचति ति सम्भवनक्रिया धारणक्रिया च अधिकरणस्य पाकः ।
२५ - ९३ - द्रोणम् पचति आढकम् पचति इति सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली पचति इति उचत्ये ।
२६ - ९३ - तत्र तदा पचिः वर्तते ।
२७ - ९३ - एषः धिकरणस्य पाकः ।
२८ - ९३ - एतत् अधिकरणस्य कर्तृत्वम् ।
२९ - ९३ - एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति ज्वल्वनक्रिया करणस्य पाकः ।
३० - ९३ - एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति कुर्वन्ति काष्ठानि पचन्ति इति उच्यन्ते ।
३१ - ९३ - तत्र तदा पचिः वर्तते ।
३२ - ९३ - एषः करणस्य पाकः ।एतत् करणस्य कर्तृत्वम् ।
३३ - ९३ - उद्यमननिपातनानि कर्तुः छिदिक्रिया ।
३४ - ९३ - उद्यमननिपातनानि कुर्वन् देवदत्तः छिनत्ति इति उच्यते ।
३५ - ९३ - तत्र तदा छिदिः वर्तते ।
३६ - ९३ - एषः प्रधानकर्तुः छेदः ।
३७ - ९३ - एतत् प्रधानकर्तुः कर्तृत्वम् ।
३८ - ९३ - यत् तत् न तृणेन तत्परशोः छेदनम् । यत् तत् समाने उद्यमने निपातने च परशुना छिद्यते न तृणेन तत् परशोः छेदनम् ।
३९ - ९३ - अवश्यम् च एतत् एवम् विज्ञेयम् ।
४० - ९३ - इतरथा हि असितृणयोः छेदने अविशेषः स्यात् ।
४१ - ९३ - यः हि मन्यत उद्यमननिपातनात् एव एतत् भवति छिनत्ति इति असितृणयोः छेदने न तस्य विशेषः स्यात् ।
४२ - ९३ - यत् असिना छिद्यते तृणेन अपि तत् छिद्येत ।
४३ - ९३ - अपादानादीनाम् तु अप्रसिद्धिः ।
४४ - ९३ - अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः ।
४५ - ९३ - यथा हि भवता करणाधिकरणयोः कर्तृत्वम् निर्दर्शितम् न तथा अपादानादीनाम् कर्तृत्वम् निदर्श्यते ।
४६ - ९३ - न वा स्वतन्त्रपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा ।
४७ - ९३ - न वा एषः दोषः ।
४८ - ९३ - किम् कारणम् ।
४९ - ९३ - स्वतन्त्रपरतन्त्रत्वात् ।
५० - ९३ - सर्वत्र एव अत्र स्वातन्त्र्यम् पारतन्त्र्यम् च विवक्षितम् ।
५१ - ९३ - तयोः पर्यायेण वचनम् ।
५२ - ९३ - तयोः स्वातन्त्र्यपारतन्त्र्ययोः पर्यायेण वचनम् भविष्यति ।
५३ - ९३ - वचनाश्रया च सञ्ज्ञा भविष्यति ।
५४ - ९३ - तत् यथा ।
५५ - ९३ - बलाहकात् विद्योतते ।
५६ - ९३ - बलाहके विद्योतते ।
५७ - ९३ - बलाहकः विद्योतते इति ।
५८ - ९३ - किम् तर्हि उच्यते अपादानादीनाम् तु अप्रसिद्धिः इति ।
५९ - ९३ - एवम् तर्हि न ब्रूमः अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः इति ।
६० - ९३ - पर्याप्तम् करणाधिकरणयोः कर्तृत्वम् निदर्शितम् अपादानीनाम् कर्तृत्वनिर्दर्शनाय ।
६१ - ९३ - पर्याप्तः ह्येकः पुलाकः स्थाल्याः निर्दर्शनाय ।
६२ - ९३ - किम् तर्हि ।
६३ - ९३ - सञ्ज्ञायाः अप्रसिद्धिः ।
६४ - ९३ - यावता सर्वत्र एव अत्र स्वातन्त्र्यम् विद्यते पारतन्त्र्यम् च तत्र परत्वात् कर्तृसञ्ज्ञा एव प्राप्नोति ।
६५ - ९३ - अत्र अपि न वा स्वतन्त्र्यपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा इति एव ।
६६ - ९३ - यथा पुनः इदम् स्थाल्याः स्वातन्त्र्यम् निदर्शितम् सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली स्वतन्त्रा इति क्व इदानीम् परतन्त्रा स्यात् ।
६७ - ९३ - यत् तत् प्रक्षालनम् परिवर्तनम् वा ।
६८ - ९३ - न वै एवमर्थम् स्थाली उपादियते प्रक्षालनम् परिवर्तनम् च करिष्यामि इति ।
६९ - ९३ - कथम् तर्हि ।
७० - ९३ - सम्भवनक्रियाम् धारणक्रियाम् च करिष्यति इति ।
७१ - ९३ - तत्र च सौ स्वतन्त्रा ।
७२ - ९३ - क्व इदानीम् परतन्त्रा ।
७३ - ९३ - एवम् तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा ।
७४ - ९३ - ननु च भोः कर्तृस्थे अपि वै यत्ने कथ्यमाने स्थाली सम्भवनक्रियाम् धारणक्रियाम् च करोति ।
७५ - ९३ - तत्र असौ स्वतन्त्रा ।
७६ - ९३ - क्व इदानीम् परतन्त्रा ।
७७ - ९३ - एवम् तर्हि प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा ।
७८ - ९३ - तत् यथा अमात्यादीनाम् राज्ञा सह समवाये पारतन्त्र्यम् व्यवाये स्वातन्त्र्यम् ।
७९ - ९३ - किम् पुनः प्रधानम् ।
८० - ९३ - कर्ता ।कथम् पुनः ज्ञायते कर्ता प्रधानम् इति ।
८१ - ९३ - यत् सर्वेषु साधनेषु सम्निहितेषु कर्ता प्रवर्तयिता भवति ।
८२ - ९३ - ननु च भोः प्रधानेन अपि वै समवाये स्थाल्याः अनेनार्थः अधिकरणम् कारकम् इति ।
८३ - ९३ - न हि कारकम् इति अनेन अधिकरणत्वम् उक्तम् अधिकरणमिति वा कारकत्वम् ।
८४ - ९३ - उभौ च अन्योन्यविशेषकौ भवतः ।
८५ - ९३ - कथम् ।
८६ - ९३ - एकद्रव्यसमवायित्वात् ।
८७ - ९३ - तत् यथा गार्ग्यः देवदत्तः इति ।
८८ - ९३ - न हि गार्ग्यः इति अनेन देवदत्तत्वम् उक्तम् देवदत्तः इति अनेन वा गार्ग्यत्वम् ।
८९ - ९३ - उभौ च अन्योन्यविशेषकौ भवतः एकद्रव्यसमवायित्वात् ।
९० - ९३ - एवम् तर्हि सामान्यभूता क्रिया वर्तते तस्याः निर्वर्तकम् कारकम् ।
९१ - ९३ - अथ वा यावत् ब्रूयात् क्रियायामिति तावत् कारके इति ।
९२ - ९३ - एवम् च कृत्वा निर्देशः उपपन्नः भवति कारके इति ।
९३ - ९३ - इतरथा हि कारकेषु इति ब्रूयात् ।
१ - ५७ - ध्रुवम् इति किमर्थम् ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP