पाद ४ - खण्ड २१

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ८ - कृभ्वस्तियोगे इति वक्तव्यम् ।

२ - ८ - इह एव यथा स्यात् ।

३ - ८ - ऊरीकृत्य ऊरीभूय ।

४ - ८ - इह मा भूत् ।

५ - ८ - ऊरी पक्त्वा ।

६ - ८ - तत् तर्हि वक्तव्यम् ।

७ - ८ - न वक्तव्यम् ।

८ - ८ - क्रियायोगे इति अनुवर्तते न च अन्यया क्रियया ऊर्यादिच्विडाचाम् योगः अस्ति ।

१ - १३ - कथम् इदम् विज्ञायते ।

२ - १३ - इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति आहोस्वित् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति ।

३ - १३ - किम् च अतः ।

४ - १३ - यदि विज्ञायत इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति खाट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति ।

५ - १३ - अथ इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति श्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति ।

६ - १३ - अस्तु तावत् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति ।

७ - १३ - ननु च उक्तम् श्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति इति ।

८ - १३ - न एषः दोषः ।

९ - १३ - इदम् तावत् अयम् प्रष्टव्यः ।

१० - १३ - अथ इह ते प्राक् धातोः इति कथम् गतिमात्रस्य पूर्वप्रयोग्ः भवति ।

११ - १३ - उपोद्धरति इति ।

१२ - १३ - गत्याकृतिः प्रतिनिर्दिश्यते ।

१३ - १३ - इह अपि तर्हि अनुकरणाकृतिः निर्दिश्यते ।

१ - ९ - किमर्थम् इदम् उच्यते ।

२ - ९ - अनुकरणस्य इतिकरणपरत्वप्रतिषेधः अनिष्टशब्दनिवृत्त्यर्थः ।

३ - ९ - अनुकरणस्य इतिकरणपरत्वप्रतिषेधः उच्यते ।

४ - ९ - किम् प्रयोजनम् ।

५ - ९ - अनिष्टशब्दनिवृत्त्यर्थः ।

६ - ९ - अनिष्ठशब्दता मा भूत् इति ।

७ - ९ - इदम् विचारयिष्यति तेप्राग्धातुवचनम् प्रयोगनियमार्थम् वा स्यात् सञ्ज्ञानियमार्थम् वा इति ।

८ - ९ - तत् यदा प्रयोगनियमार्थम् तदा अनिष्ठशब्दनिवृत्त्यर्थम् इदम् वक्तव्यम् ।

९ - ९ - यदा हि सञ्ज्ञानियमार्थम् तदा न दोषः भवति ।

१ - १४ - इदम् अतिबहु क्रियते आदरे अनादरे सत् असत् इति ।

२ - १४ - आदारे सत् इति एव सिद्धम् ।

३ - १४ - कथम् असत्कृत्य इति ।

४ - १४ - तदन्तिविधिना भविष्यति ।

५ - १४ - केन इदानीम् अनादरे भविष्यति ।

६ - १४ - नञा आदरप्रतिषेधम् विज्ञास्यामः ।

७ - १४ - नादरे अनादरे इति ।

८ - १४ - न एवम् शक्यम् ।

९ - १४ - आदरप्रसङ्गे एव हि स्यात् ।

१० - १४ - अनादरप्रसङ्गे न स्यात् ।

११ - १४ - अनादरग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयम् विज्ञायते ।

१२ - १४ - अविद्यमानादरे अनादरे इति ।

१३ - १४ - तस्मात् अनादरग्रहणम् कर्तव्यम् ।

१४ - १४ - असतः तु तदन्तविधिना सिद्धम् ।

१ - १० - अन्तःशब्दस्य आङ्किविधिसमासणत्वेषु पसङ्ख्यानम् ।

२ - १० - अन्तःशब्दस्य आङ्किविधिसमासणत्वेषु पसङ्ख्यानम् कर्तव्यम् ।

३ - १० - अङ् ।

४ - १० - अन्तर्धा ।

५ - १० - किविधिः ।

६ - १० - अन्तर्धिः ।

७ - १० - समासः ।

८ - १० - अन्तर्हत्य ।

९ - १० - णत्वम् ।

१० - १० - अन्तर्हण्यात् गोभ्यो गाः ।

१ - २३ - साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् ।

२ - २३ - साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् कर्तव्यम् ।

३ - २३ - असाक्षात्साक्षात्कृत्वा साक्षात्कृत्य ।

४ - २३ - यदा हि साक्षात् एव किम् चित् क्रियते तदा मा भूत् इति ।

५ - २३ - मकारान्तत्वम् च गतिसञ्ज्ञासन्नियुक्तम् ।

६ - २३ - मकारान्तत्वम् च गतिसञ्ज्ञासन्नियोगेन वक्तव्यम् ।

७ - २३ - लवणङ्कृत्य ।

८ - २३ - तत्र च्विप्रतिषेधः ।

९ - २३ - तत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः ।

१० - २३ - लवणीकृत्य ।

११ - २३ - न वा पूर्वेण कृतत्वात् ण वा वक्तव्यम् ।

१२ - २३ - किम् कारणम् ।

१३ - २३ - पूर्वेण कृतत्वात् ।

१४ - २३ - अस्तु अनेन विभाषा ।

१५ - २३ - पूर्वेण नित्यः भविष्यति ।

१६ - २३ - इदम् तर्हि प्रयोजनम् ।

१७ - २३ - मकारान्तत्वम् च गतिसञ्ज्ञासन्नियुक्तम् इति उक्तम् ।

१८ - २३ - तत् च्व्यन्तस्य मा भूत् इति ।

१९ - २३ - एतत् अपि न अस्ति प्रयोजनम् ।

२० - २३ - लवणशब्दस्य अयम् विभाषा लवणम्शब्द आदेशः क्रियते ।

२१ - २३ - यदि च लवणी शब्दस्य अपि विभाषा लवणम्शब्दः आदेशः भवति न किम् चिद् दुष्यति ।

२२ - २३ - त्रैशब्द्यम् च ह साध्यम् ।

२३ - २३ - । तच्च एवम् सति सिद्धम् भवति इति ।

१ - ४३ - किमिदम् प्राग्धातुवचनम् प्रयोगनियमार्थम् ॒ एते प्राक् एव धातोः प्रयोक्तव्याः ।

२ - ४३ - आहोस्वित् सञ्ज्ञानियमार्थम् ॒ एते प्राक् च अक्प्राक् च प्रयोक्तव्याः , प्राक् प्रयुज्यमानानाम् गतिसञ्ज्ञा भवति इति ।

३ - ४३ - कः च अत्र विशेषः ।

४ - ४३ - प्राग्धातुवचनम् प्रयोगनियमार्थम् इति चेत् अनुकरणस्य इतिकरणपरप्रतिषेधः अनिष्टशब्दनिवृत्त्यर्थः ।

५ - ४३ - प्राग्धातुवचनम् प्रयोगनियमार्थम् इति चेत् अनुकरणस्य इतिकरणपरप्रतिषेधः वक्तव्यः ।

६ - ४३ - किम् प्रयोजनम् ।

७ - ४३ - अनिष्टशब्दनिवृत्त्यर्थः ।

८ - ४३ - अनिष्टशबता मा भूत् इति ।

९ - ४३ - छन्दसि परव्यवहितवचनम् च ।

१० - ४३ - छन्दसि परे अपि व्यवहिताः च इति वक्तव्यम् ।

११ - ४३ - सञ्ज्ञानियमे सिद्धम् ।

१२ - ४३ - सञ्ज्ञानियमे सिद्धम् एतत् भवति ।

१३ - ४३ - अस्तु तर्हि सञ्ज्ञानियमः ।

१४ - ४३ - उभयोः अनर्थकम् वचनम् अनिष्टादर्शनात् ।

१५ - ४३ - उभयोः अपि पक्षयोः वचनमनर्थकम् ।

१६ - ४३ - किम् कारणम् ।

१७ - ४३ - अनिष्टादर्शनात् ।

१८ - ४३ - न हि कः चित्प्रपचति इति प्रयोक्तव्ये पचतिप्र इति प्रयुङ्क्ते ।

१९ - ४३ - यदि च अनिष्टम् दृश्येत ततः यत्नार्हम् स्यात् ।

२० - ४३ - उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् ।

२१ - ४३ - उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् एतत् वक्तव्यम् ।

२२ - ४३ - ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् ।

२३ - ४३ - अत्र गतेः प्राक् धातोः प्रयोगः यथा स्यात् ।

२४ - ४३ - यदि उपसर्जनसन्निपाते पूर्वपरव्यवस्थार्थम् इदम् उच्यते सुकटम्कराणि वीरणान् इ इति अत्र गतेः प्राक् धातोः प्रयोगः प्राप्नोति ।

२५ - ४३ - आचार्यप्रवृत्तिः ज्ञापयति न अत्र गतेः प्राक्प्रयोगः भवति इति यत् अयम् ईषद्दुःसुषु कृच्छ्राकृच्छार्थेषु खल् इति खकारम् अनुबन्धम् करोति ।

२६ - ४३ - कथम् कृत्वा ज्ञापकम् ।

२७ - ४३ - खित्करणे एतत् प्रयोजनम् खिति इति मुम् यथा स्यात् इति ।

२८ - ४३ - यदि च अत्र गतेः प्राक्प्रयोगः स्यात् खित्करणम् अनर्थकम् स्यात् ।

२९ - ४३ - अस्तु अत्र मुम् ।

३० - ४३ - अनव्ययस्य इति प्रतिषेधः भविष्यति ।

३१ - ४३ - पश्यति तु आचार्यः न अत्र गतेः प्राक् धतोः प्रयोगः भवति इति ततः खकारम् अनुबन्धम् करोति ।

३२ - ४३ - न एतत् अस्ति ज्ञापकम् ।

३३ - ४३ - यदि अपि अत्र गतेः प्राक्प्रयोगः स्यात् स्यातेवात्र मुमागमः ।

३४ - ४३ - कथम् ।

३५ - ४३ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति ।

३६ - ४३ - तस्मात् न अर्थः एवमर्थेन प्राग्धातुवचनेन ।

३७ - ४३ - कथम् ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् ।

३८ - ४३ - न एषः दोषः ।

३९ - ४३ - न एषः उदिः उपपदम् ।

४० - ४३ - किम् तर्हि ।

४१ - ४३ - विशेषणम् ।

४२ - ४३ - उदि कूले रुजिवहोः ।

४३ - ४३ - उत्पूर्वाभ्याम् रुजिवहिभ्याम् कूले उपपदे इति ।

१ - ७ - किमर्थम् महती सञ्ज्ञा क्रियते ।

२ - ७ - अन्वर्थसञ्ज्ञा यथा विज्ञायेत ।

३ - ७ - कर्म प्रोक्तवन्तः कर्मप्रवचनीयाः इति ।

४ - ७ - के पुनः कर्म प्रोक्तवन्तः ।

५ - ७ - ये सम्प्रति क्रियाम् न आहुः ।

६ - ७ - के च सम्प्रति क्रियाम् न आहुः ।

७ - ७ - ये अप्रयुज्यमानस्य क्रियाम् आहुः ते कर्मप्रवचनीयाः ।

१ - ४५ - किमर्थम् इदम् उच्यते ।

२ - ४५ - कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् ।

३ - ४५ - गत्युपसर्गसञ्ज्ञे मा भूताम् इति ।

४ - ४५ - किम् च स्यात् ।

५ - ४५ - शाकल्यस्य सम्हिताम् अनु प्रावर्षत् ॒ गतिः गतौ इति निघातः प्रसज्येत ।

६ - ४५ - यदि एवम् वेः अपि कर्मप्रवचनीयसञ्ज्ञा वक्तव्या ।

७ - ४५ - वेः अपि निघातः न इष्यते ॒ प्रादेशम् प्रादेशम् विपरिलिखति ।

८ - ४५ - अस्ति अत्र विशेषः ।

९ - ४५ - न अत्र वेः लिखिम् प्रति क्रियायोगः ।

१० - ४५ - किम् तर्हि ।

११ - ४५ - अप्रयुज्यमानम् ।

१२ - ४५ - प्रादेशम् प्रादेशम् विमाय परिलिखति इति ।

१३ - ४५ - यदि एवम् अनोः अपि कर्मप्रवचनीयसञ्ज्ञया न अर्थः ।

१४ - ४५ - अनोः अपि हि न वृषिम् प्रति क्रियायोगः ।

१५ - ४५ - किम् तर्हि अप्रयुज्यमानम् ।

१६ - ४५ - शाकल्येन सुकृताम् सम्हिताम् अनुविशम्य देवः प्रावर्षत् ।

१७ - ४५ - इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति ।

१८ - ४५ - अतः उत्तरम् पठति ।

१९ - ४५ - अनुर्लक्षणेवचनानर्थक्यम् सामान्यकृतत्वात् ।

२० - ४५ - अनुर्लक्षणेवचनार्थक्यम् ।

२१ - ४५ - किम् कारणम् ।

२२ - ४५ - सामान्यकृतत्वात् ।

२३ - ४५ - सामान्येन एव अत्र कर्मप्रवचनीयसञ्ज्ञा भविष्यति लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः इति ।

२४ - ४५ - हेत्वर्थम् तु वचनम् ।

२५ - ४५ - हेत्वर्थम् इदम् वक्तव्यम् ।

२६ - ४५ - हेतुः शाकल्यस्य सम्हिता वर्षस्य न लक्षणम् ।

२७ - ४५ - किम् वक्तव्यम् एतत् ।

२८ - ४५ - न हि ।

२९ - ४५ - कथम् अनुच्यमानम् गंस्यते ।

३० - ४५ - लक्षणम् हि नाम सः भवति येन पुनः पुनः लक्ष्यते न यः सकृदपि निमित्तत्वाय कल्पते ।

३१ - ४५ - सकृत् च असौ शाकल्येन सुकृताम् सम्हिताम् अनुशिम्य देवः प्रावर्षत् ।

३२ - ४५ - सः तर्हि तथा ।

३३ - ४५ - निर्देशः कर्तव्यः अनुः हेतौ इति ।

३४ - ४५ - अथ इदानीम् लक्षणेन हेतुः अपि व्याप्तः न अर्थः अनेन ।

३५ - ४५ - लक्षणेन हेतुः अपि व्याप्तः ।

३६ - ४५ - न हि अवश्यम् तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते ।

३७ - ४५ - किम् तर्हि ।

३८ - ४५ - यत् सकृत् अपि निमित्त्वाय कल्पते तत् अपि लक्षणम् भवति ।

३९ - ४५ - तत् यथा अपि भवान् कमण्डुलपाणिम् छात्रम् अद्रक्षीत् इति ।

४० - ४५ - सकृत् आसौ कमण्डलुपाणिः छात्रः दृष्टः तस्य तत् एव लक्षणम् भवति ।

४१ - ४५ - तत् एव तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति ।

४२ - ४५ - एतत् अपि न अस्ति प्रयोजनम् ।

४३ - ४५ - सिद्धा अत्र द्वितीया कर्मप्रवचनीययुक्ते इति एव ।

४४ - ४५ - न सिध्यति ।

४५ - ४५ - परत्वात् हेतुत्वाश्रया तृतीया प्राप्नोति ।

१ - ६ - आङ् मर्यादाभिविध्योः इति वक्तव्यम् ।

२ - ६ - इह अपि यथा स्यात् आकुमारम् यशः पाणिनेः इति ।

३ - ६ - तत् तर्हि वक्तव्यम् ।

४ - ६ - न वक्तव्यम् ।

५ - ६ - मर्यादावचने इति एव सिद्धम् ।

६ - ६ - एषा अस्य यशसः मर्यादा ।

१ - १० - कस्य लक्षणदयः अर्थाः निर्दिश्यन्ते ।

२ - १० - वृक्षादीनाम् ।

३ - १० - किमर्थम् पुनः इदम् उच्यते ।

४ - १० - कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् ।

५ - १० - गत्युपसर्गसञ्ज्ञे मा भूताम् इति ।

६ - १० - न एतत् अस्ति प्रयोजनम् ।

७ - १० - यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च वृक्षादीन् प्रति क्रियायोगः ।

८ - १० - इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति ।

९ - १० - वृक्षम् प्रति विद्योतते ।

१० - १० - वृक्षमनु विद्योतते इति ।

१ - २४ - किमर्थम् अधिपर्योः अनर्थकयोः कर्मप्रवचनीयसञ्ज्ञा उच्यते ।

२ - २४ - कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् ।

३ - २४ - गत्युपसर्गसञ्ज्ञे मा भूताम् इति ।

४ - २४ - न एतत् अस्ति प्रयोजनम् ।

५ - २४ - यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः अनर्थकौ च इमौ ।

६ - २४ - इदम् तर्हि प्रयोजनम् पञ्चमी यथा स्यात् पञ्चमी अपाङ्परिभिः इति ।

७ - २४ - कुतः पर्यागम्यत इति ।

८ - २४ - सिद्धा अत्र पञ्चमी अपादाने इति एव ।

९ - २४ - आतः च अपादानपञ्चमी एषा ।

१० - २४ - यत्र अपि अधिशब्देन योगे पञ्चमी न विधीयते तत्र अपि श्रूयते ।

११ - २४ - कुतः अध्यागम्यत इति ।

१२ - २४ - एवम् तर्हि सिद्धे सति यत् अनर्थकयोः गत्युपसर्गसञ्ज्ञाबाधिकाम् कर्मप्रवचनीयसञ्ज्ञाम् शास्ति तत् ज्ञापयति आचार्यः अनर्थकानाम् अपि एषाम् भवति अर्थवत्कृतम् इति ।

१३ - २४ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१४ - २४ - निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् ।

१५ - २४ - तत् न वक्तव्यम् भवति ।

१६ - २४ - अथ वा न एव इमौ अनर्थकौ ।

१७ - २४ - किम् तर्हि अनर्थकौ इति उच्यते ।

१८ - २४ - अनर्थान्तर्वाचिनौ अनर्थकौ ।

१९ - २४ - धातुना उक्ताम् क्रियाम् आहतुः ।

२० - २४ - तद् अविशिष्टम् भवति यथा शङ्खे पयः ।

२१ - २४ - यदि एवम् धातुना उक्तत्वात् तस्यार्थस्य उपसर्गप्रयोगो न प्राप्नोति उक्तार्थानाम् अप्रयोगः इति ।

२२ - २४ - उक्तार्थानामपि प्रयोगः दृश्यते ।

२३ - २४ - तत् यथा अपूपौ द्वौ आनय ।

२४ - २४ - ब्राह्मणौ द्वौ अनय इति ।

१ - १५ - इह कस्मात् न भवति ।

२ - १५ - सर्पिषः अपि स्यात् ।

३ - १५ - गोमूत्रस्य अपि स्यात् ।

४ - १५ - किम् च स्यात् ।

५ - १५ - द्वितीया अपि प्रसज्येत कर्मप्रवचनीययुक्ते द्वितीया इति ।

६ - १५ - न एषः दोषः ।

७ - १५ - न इमे अप्यर्थाः निर्दिश्यन्ते ।

८ - १५ - किम् तर्हि ।

९ - १५ - परपदार्थाः इमे निर्दिश्यन्ते ।

१० - १५ - एतेषु अर्थेषु यत् पदम् वर्तते तत् प्रति अपिः कर्मप्रवचनीयसञ्ज्ञः भवति इति ।

११ - १५ - अथ वा यत् अत्र कर्मप्रवचनीययुक्तम् न अदः प्रयुज्यते ।

१२ - १५ - किम् पुनः तत् ।

१३ - १५ - बिन्दुः ।

१४ - १५ - बिन्दोः तर्हि कस्मात् न भवति ।

१५ - १५ - उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति इति ।

१ - ६ - अधिरीश्वरवचने उक्तम् ।

२ - ६ - किम् उक्तम् ।

३ - ६ - यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अवचनात् सिद्धम् ।

४ - ६ - प्रथमानुपपत्तिः तु ।

५ - ६ - स्ववचनात् सिद्धम् इति ।

६ - ६ - अधिः स्वम् प्रति कर्मप्रवचनीयसञ्ज्ञः भवति इति वक्तव्यम् ।

१ - १३ - लादेशे परस्मैपदग्रहणम् पुरुषबाधितत्वात् ।

२ - १३ - लादेशे परस्मैपदग्रहणम् कर्तव्यम् ।

३ - १३ - किम् कारणम् ।

४ - १३ - पुरुषबाधितत्वात् ।

५ - १३ - इह वचने हि सञ्ज्ञाबाधनम् ।

६ - १३ - इह हि क्रियमाणे अनवकाशा पुरुषसञ्ज्ञा परस्मैपदसञ्ज्ञाम् बाधेत ।

७ - १३ - परस्मैपदसञ्ज्ञा अपि अनवकाशा ।

८ - १३ - सा वचनात् भविष्यति ।

९ - १३ - सावकाशा परसमैपदसञ्ज्ञा ।

१० - १३ - कः वकाशः ।

११ - १३ - शतृक्क्वसू अवकाशः ।

१२ - १३ - सिचि वृद्धौ तु परस्मैपदग्रहणम् ज्ञापकम् पुरुषाबाधकत्वस्य ।

१३ - १३ - यत् अयम् सिचि वृद्धिः परस्मैपदेषु इति परस्मैपदग्रहणम् करोति तत् ज्ञापयति आचार्यः न पुरुषसञ्ज्ञा परस्मैपदसञ्ज्ञाम् बाधते इति ।

१ - ३८ - प्रथममध्यमोत्तमसञ्ज्ञायाम् आत्मनेपदग्रहणम् समसङ्ख्यार्थम् । प्रथममध्यमोत्तमसञ्ज्ञायाम् आत्मनेपदग्रहणम् कर्तव्यम् ।

२ - ३८ - आत्मनेपदानाम् च प्रथममध्यमोत्तमसञ्ज्ञाः भवन्ति इति वक्तव्यम् ।

३ - ३८ - किम् प्रयोजनम् ।

४ - ३८ - समसङ्ख्यार्थम् ।

५ - ३८ - सङ्ख्यातानुदेशः यथा स्यात् ।

६ - ३८ - अक्रियमाणे हि आत्मनेपदग्रहणे तिस्रः सञ्ज्ञाः षट् सञ्ज्ञिनः ।

७ - ३८ - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

८ - ३८ - क्रियमाणे अपि च आत्मनेपदग्रहणे आनुपूर्व्यवचनम् च ।

९ - ३८ - आनुपूर्व्यवचनम् च कर्तव्यम् ।

१० - ३८ - अक्रियमणे हि कस्य चित् एव त्रिकस्य प्रथमसञ्ज्ञा स्यात् कस्य चित् एव मध्यमसञ्ज्ञा कस्य चित् एव उत्तमसञ्ज्ञा ।

११ - ३८ - न वैकशेषनिर्देशात् ।

१२ - ३८ - यत् तावत् उच्यते आत्मनेपदग्रहणम् कर्तव्यम् समसङ्ख्यार्थम् इति ।

१३ - ३८ - तत् न कर्तव्यम् ।

१४ - ३८ - सञ्ज्ञाः अपि षत् एव निर्दिश्यन्ते ।

१५ - ३८ - कथम् ।

१६ - ३८ - एकशेषनिर्देसात् ।

१७ - ३८ - एकशेषनिर्देशः अयम् ।

१८ - ३८ - अथ एतस्मिन् एकशेषनिर्देशे सति किम् अयम् कृतैकशेषाणाम् द्वन्द्वः ।

१९ - ३८ - प्रथमः च प्रथमः च प्रथमौ मध्यमः च मध्यमः च मध्यमौ उत्तमः च उत्तमः च उत्तमौ प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमाः इति ।

२० - ३८ - आहोस्वित् कृतद्वन्द्वानाम् एकशेषः ।

२१ - ३८ - प्रथमौ च मध्यमः च उत्तमः च प्रथममध्यमोत्तमाः ।

२२ - ३८ - प्रथममध्यमोत्त्तमाः च प्रथममध्यमोत्तमाः च प्रथममध्यमोत्तमाः इति ।

२३ - ३८ - किम् च अतः ।

२४ - ३८ - यदि कृतैकेशेषाणाम् द्वन्द्वः प्रथममध्यमयोः प्रथमसञ्ज्ञा प्राप्नोति ।

२५ - ३८ - उत्तमप्रथमयोः मध्यमसञ्ज्ञा प्राप्नोति ।

२६ - ३८ - मध्यमोत्तमयोः उत्तमसञ्ज्ञा प्राप्नोति ।

२७ - ३८ - अथ कृतद्वन्द्वानामेकशेषो न दोषः भवति ।

२८ - ३८ - यथा न दोषः तथा अस्तु ।

२९ - ३८ - किम् पुनः अत्र न्याय्यम् ।

३० - ३८ - उभयम् इति आह ।

३१ - ३८ - उभयम् हि दृश्यते ।

३२ - ३८ - तत् यथा ।

३३ - ३८ - बहु शक्तिकिटकम् बहूनि शक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठराणि ।

३४ - ३८ - यत् अपि उच्यते क्रियमाणे अपि आत्मनेपदग्रहणे आनुर्पूर्व्यवचनम् कर्तव्यम् इति ।

३५ - ३८ - न कर्तव्यम् ।

३६ - ३८ - लोकतः एतत् सिद्धम् ।

३७ - ३८ - तत् यथा लोके विहव्यस्य द्वाभ्याम् द्वाभ्याम् अग्निः उप्स्थेयः इति ।

३८ - ३८ - न च उच्यते आनुपूर्व्येण इति आनुपूर्व्येण च उपस्थीयत इति ।

१ - १७ - त्रीणि त्रीणि इति अनुवर्तते उताहो न ।

२ - १७ - किम् च अतः ।

३ - १७ - यदि अनुवर्तते अष्ठनः आ विभक्तौ इति आत्वम् न प्राप्नोति ।

४ - १७ - अथ निवृत्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति ।

५ - १७ - यथा इच्छसि तथा अस्तु ।

६ - १७ - अस्तु तावत् अनुवर्तते इति ।

७ - १७ - ननु च उक्तम् अष्ठन आ विभक्तौ इति आत्वम् न प्राप्नोति इति ।

८ - १७ - वचनात् भविष्यति ।

९ - १७ - अथ वा पुनः अस्तु निवृत्तम् ।

१० - १७ - ननु च उक्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति इति ।

११ - १७ - न एषः दोषः ।

१२ - १७ - अचि इति अनुवर्तते ।

१३ - १७ - न चाजादी प्रथमौ प्रत्ययौ स्तः ।

१४ - १७ - ननु च एवम् विज्ञायते अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति ।

१५ - १७ - यत् तर्हि तस्मात् शसः नः पुम्सि इति अनुक्रान्तम् पूर्वसवर्णदीर्घम् प्रतिनिर्दिशति तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति ।

१६ - १७ - अथ वा वचनग्रहणम् एव कुर्यात् ।

१७ - १७ - औजसोः पूर्वसवर्णः इति ।

१ - १०० - किमर्थम् इदम् उच्यते ।

२ - १०० - युष्मदस्मच्छेषवचनम् नियमार्थम् ।

३ - १०० - नियमार्थः अयम् आरम्भः ।

४ - १०० - अथ एतस्मिन् नियमार्थे विज्ञायमाने किम् अयम् उपपदनियमः युष्मदि मध्यमः एव अस्मदि उत्तमः एव आहोस्वित् पुरुषनियमः युष्मदि एव मध्यमः अस्मदि एव उत्तमः इति ।

५ - १०० - किम् च अतः ।

६ - १०० - यदि पुरुषनियमः शेषग्रहणम् कर्तव्यम् शेषे प्रथमः इति ।

७ - १०० - किम् कारणम् ।

८ - १०० - मध्यमोत्तमौ नियतौ युष्मदस्मदी अनियते ।

९ - १०० - तत्र प्रथमः अपि प्राप्नोति ।

१० - १०० - तत्र शेषग्रहणम् कर्तव्यम् प्रथमनियमार्थम् ।

११ - १०० - शेषे एव प्रथमः भवति न अन्यत्र इति ।

१२ - १०० - अथ अपि उपपदनियमः एवम् अपि शेषग्रहणम् कर्तव्यम् शेषे प्रथमः इति ।

१३ - १०० - युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ शेषे अपि प्राप्नुतः ।

१४ - १०० - तत्र शेषग्रहणम् कर्तव्यम् शेषनियमार्थम् ।

१५ - १०० - शेषे प्रथमः एव भवति न अन्यः इति ।

१६ - १०० - उपपदनियमे शेषग्रहणम् शक्यम् अकर्तुम् ।

१७ - १०० - कथम् ।

१८ - १०० - युष्मदस्मदी नियते मध्यमोत्तमौ अनियतौ तौ शेषे अपि प्राप्नुतः ।

१९ - १०० - ततः वक्ष्यामि प्रथमः भवति इति ।

२० - १०० - तत् नियमार्थम् भविष्यति ।

२१ - १०० - यत्र प्रथमः च अन्यः च प्राप्नोति तत्र प्रथमः भवति इति ।

२२ - १०० - तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् ।

२३ - १०० - तत्र युष्मदस्मदन्येषु प्रथमस्य प्रतिषेधः वक्तव्यः ।

२४ - १०० - त्वम् च देवदत्तः च पचथः ।

२५ - १०० - अहम् च देवदत्तः च पचावः ।

२६ - १०० - किम् कारणम् ।

२७ - १०० - शेषत्वात् ।

२८ - १०० - शेषे प्रथमः इति प्रथमः प्राप्नोति ।

२९ - १०० - सिद्धम् तु युष्मदस्मदोः प्रतिषेधात् ।

३० - १०० - सिद्धम् एतत् ।

३१ - १०० - कथम् ।

३२ - १०० - युष्मदस्मदोः प्रतिषेधात् ।

३३ - १०० - शेषे प्रथम्ः युष्मदस्मदोः न इति वक्तव्यम् ।

३४ - १०० - युष्मदि मध्यमात् अस्मदि उत्तमः प्रतिषेधेन ।

३५ - १०० - युष्मदि मध्यमात् अस्मदि उत्तमः इति एतत् भवति विप्रतिषेधेन ।

३६ - १०० - युष्मदि मध्यमः इति अस्य अवकाशः त्वम् पचसि ।

३७ - १०० - अस्मदि उत्तमः इति अस्य अवकाशः अहम् पचामि ।

३८ - १०० - इह उभयम् प्राप्नोति त्वम् च अहम् च पचावः ।

३९ - १०० - अस्मदि उत्तमः इति एतत् भवति विर्प्रतिषेधेन ।

४० - १०० - सः तर्हि विप्रतिषेधः वक्त्वयः ।

४१ - १०० - न वक्तव्यः ।

४२ - १०० - त्यदादीनाम् यत् यत् परम् तत् तत् शिष्यते इति एवम् अस्मदः शेषः भविष्यति ।

४३ - १०० - तत्र अस्मदि उत्तमः इति एव सिद्धम् ।

४४ - १०० - अनेकशेषभावार्थम् तु । अनेकशेषभावार्थम् तु सः विप्रतिषेधः वक्तव्यः ।

४५ - १०० - यदा च एकशेषः न ।

४६ - १०० - कदा च एकशेषः न ।

४७ - १०० - सहविवक्षायाम् एकशेषः ।

४८ - १०० - यदा न सहविवक्षा तद एकशेषः न अस्ति ।

४९ - १०० - न वा युष्मदस्मदोः अनेकशेषभावात् तदधिकरणानाम् अपि अनेकशेषभावात् अविप्रतिषेधः ।

५० - १०० - न वा अर्थः विप्रतिषेधेन ।

५१ - १०० - किम् कारणम् ।

५२ - १०० - युष्मदस्मदोः अनेकशेषभावात् तदधिकरणानाम् अपि युष्मदस्मदधिकरणानाम् अपि एकशेषेन न भवितव्यम् ।

५३ - १०० - त्वम् च अहम् च पचसि पचामि च इति ।

५४ - १०० - क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनम् अनुमानम् उत्तरत्र अनेकशेषभावस्य ।

५५ - १०० - क्रियापृथक्त्वे च द्रव्यपृथक्त्वम् दृश्यते ।

५६ - १०० - तत् यथा पचसि पचामि च त्वम् च अहम् च इति ।

५७ - १०० - तत् अनुमानम् उत्तरयोः अपि क्रिययोः एकशेषः न भवति इति ।

५८ - १०० - एवम् च कृत्वा सः पि अदोषः भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् इति ।

५९ - १०० - तत्र अपि हि एवम् भवितव्यम् त्वम् च देवदत्तः च पचसि पचति च ।

६० - १०० - अहम् च देवदत्तः च पचामि पचति च इति ।

६१ - १०० - यत् तावत् उच्यते न वा युष्मदस्मदोः अनेकशेषभावात् तदधिकरणानाम् अपि अनेकशेषभावात् अविप्रतिषेधः इति ।

६२ - १०० - दृश्यते हि युष्मदस्मदोः चानेकशेषः तदधिकरणानाम् च एकशेषः ।

६३ - १०० - तत् यथा त्वम् च अहम् च वृत्त्रहन् उभौ सम्प्रयुज्यावहै इति ।

६४ - १०० - यत् अपि उच्यते क्रियापृथक्त्वे च द्रव्यपृथक्त्वदर्शनम् अनुमानम् उत्तरत्र अनेकशेषभावस्य इति ।

६५ - १०० - क्रियापृथक्त्वे खलु अपि द्रव्यैकशेषः भवति इति दृश्यते ।

६६ - १०० - तत् यथा अक्षाः भज्यन्ताम् भक्ष्यन्ताम् दीव्यन्ताम् इति ।

६७ - १०० - एवम् च कृत्वा सः अपि दोषो भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् इति ।

६८ - १०० - न एषः दोषः ।

६९ - १०० - परिहृतम् एतत् सिद्धम् तु युष्मदस्मदोः प्रतिषेधात् इति ।

७० - १०० - सः तर्हि प्रतिषेधः वक्तव्यः ।

७१ - १०० - न वक्तव्यः ।

७२ - १०० - शेषे प्रथमः विधीयते ।

७३ - १०० - न हि शेषः च अन्यः च शेषग्रहणेन गृह्यते ।

७४ - १०० - भवेत् प्रथमः न स्यान् ।

७५ - १०० - मध्यमोत्तमौ अपि न प्राप्नुतः ।

७६ - १०० - किम् कारणम् ।

७७ - १०० - युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते ।

७८ - १०० - न च युष्मदस्मदी अन्यः च युष्मदस्मद्ग्रहणेन गृह्यते ।

७९ - १०० - यत् अत्र युष्मत् यत् च अस्मत् तत्तदाश्रयौ मध्यमोत्तमौ भविष्यतः ।

८० - १०० - यथा एव तर्हि यत् अत्र युष्मत् यत् च स्मत् तदाश्रयौ मध्यमोत्तमौ भवतः एवम् यः अत्र शेषः तदाश्रयः प्रथमः प्राप्नोति ।

८१ - १०० - एवम् तर्हि शेषे उपपदे प्रथमः विधीयते ।

८२ - १०० - उपोच्चारि पदम् उपपदम् ।

८३ - १०० - यत् च अत्र उपोच्चारि न सः शेषः यः च शेषः न तत् उपोच्चारि ।

८४ - १०० - भवेत् प्रथमः न स्यात् ।

८५ - १०० - मध्यमोत्तमौ अपि न प्राप्नुतः ।

८६ - १०० - किम् कारणम् ।

८७ - १०० - युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ उच्येते ।

८८ - १०० - उपोच्चारि पदम् उपपदम् ।

८९ - १०० - यत् च अत्र उपोच्चारि न ते युष्मदस्मदी ये च युष्मदस्मदी न तत् उपोच्चारि ।

९० - १०० - एवम् तर्हि शेषेण सामानाधिकरण्ये प्रथमः विधीयते ।

९१ - १०० - न च अत्र शेषेण एव सामानाधिकरण्यम् ।

९२ - १०० - भवेत् प्रथमः न स्यात् ।

९३ - १०० - मध्यमोत्तमौ अपि न प्राप्नुतः ।

९४ - १०० - किम् कारणम् ।

९५ - १०० - युष्मदस्मद्भ्याम् सामानाधिकरण्ये मध्यमोत्तमौ उच्येते न च अत्र युष्मदस्मद्भ्याम् एव सामानाधिकरण्यम् ।

९६ - १०० - एवम् तर्हि त्यदादीनि सर्वैः नित्यम् इति एवम् अत्र युष्मदस्मदोः शेषः भविष्यति ।

९७ - १०० - तत्र युष्मदि मध्यमः अस्मदि उत्तमः इति एव सिद्धम् ।

९८ - १०० - न सिध्यति ।

९९ - १०० - स्थानिनि अपि इति प्रथमः प्राप्नोति ।

१०० - १०० - त्यदादीनाम् खलु अपि यत् यत् परम् तत् तत् शिष्यते इति यदा भवतः शेषः तदा प्रथमः प्राप्नोति

१ - ३० - युष्मदि मध्यमः अस्मदि उत्तमः इति एव उच्यते. तौ इह न प्राप्नुतः ॒ परमत्वम् पचसि ।

२ - ३० - परमाहम् पचामि इति ।

३ - ३० - तदन्तविधिना भविष्यति ।

४ - ३० - इह अपि तर्हि तदन्तविधिना प्राप्नुतः ॒ अतित्वम् पचति ।

५ - ३० - अत्यहम् पचति इति ।

६ - ३० - ये च अपि एते समानाधिकरणवृत्तयः तद्धिताः तत्र च मध्यमोत्तमौ न प्राप्नुतः ॒ त्वत्तरः पचसि मत्तरः पचामि इति ।

७ - ३० - त्वद्रूपः पचसि मद्रूपः पचामि इति ।

८ - ३० - त्वत्कल्पः पचसि ।

९ - ३० - मत्कल्पः पचामि इति. एवम् तर्हि युष्मद्वति अस्मद्वति इति एवम् भविष्यति ।

१० - ३० - इह अपि तर्हि प्राप्नुतः ॒ अतित्वम् पचति ।

११ - ३० - अत्यहम् पचति इति ।

१२ - ३० - एवम् तर्हि युष्मदि साधने अस्मदि साधने इति एवम् भविष्यति ।

१३ - ३० - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् तत्र युष्मदस्मदन्येषु प्रथमप्रतिषेधः शेषत्वात् इति ।

१४ - ३० - अथ वा प्रथमः उत्सर्गः करिष्यते ।

१५ - ३० - तस्य युष्मदस्मदोः उपपदयोः मध्यमोत्तमौ अपवादौ भविष्यतः ।

१६ - ३० - तत्र युष्मद्गन्धः च अस्मद्गन्धः च अस्ति इति कृत्वा मध्यमोत्तमौ भविष्यतः ।

१७ - ३० - अथ इह कथम् भवितव्यम् ।

१८ - ३० - अत्वम् त्वम् सम्पद्यते त्वद्भवति मद्भवति इति ।

१९ - ३० - आहोस्वित् त्वद्भवसि मद्भवामि इति ।

२० - ३० - त्वद्भवति मद्भवति इति एवम् भवितव्यम् ।

२१ - ३० - मध्यमोत्तमौ कस्मात् न भवतः ।

२२ - ३० - गौणमुख्ययोः मुख्ये सम्प्रत्ययः भवति ।

२३ - ३० - तत् यथा ।

२४ - ३० - गौः अनुबन्ध्यः अजः अग्नीष्होमीयः इति न बाहीकः अनुबध्यते ।

२५ - ३० - कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः ।

२६ - ३० - गौः तिष्ठति ।

२७ - ३० - गाम् आनय इति ।

२८ - ३० - अर्थाश्रये एतत् एवम् भवति ।

२९ - ३० - यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति ।

३० - ३० - शब्दाश्रये च वृद्ध्यात्त्वे ।

१ - ५३ - परः सन्निकर्षः सम्हिता चेत् अद्रुतायाम् असंहितम् । परः सन्निकर्षः संहिता चेत् अद्रुतायाम् वृत्तौ संहितासञ्ज्ञा न प्राप्नोति ।

२ - ५३ - द्रुतायाम् एव हि परः सन्निकर्षो वर्णानाम् न अद्रुतायाम् ।

३ - ५३ - तुल्यः सम्निकर्षः ।

४ - ५३ - तुल्यः सम्निकर्षः वर्णानाम् द्रुतमध्यमविलिम्बितासु वृत्तिषु ।

५ - ५३ - किङ्कृतः तर्थि विशेषः ।

६ - ५३ - वर्णकालभूयस्त्वम् तु । वर्णानाम् तु कालभूयस्त्वम् ।

७ - ५३ - तत् यथा ।

८ - ५३ - हस्तिमशकयोः तुल्यः सन्निकर्षः प्राणिभूयस्त्वम् तु ।

९ - ५३ - यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलिम्बितयोः उपसङ्ख्यानम् कालभेदात् ।

१० - ५३ - द्रुतायाम् तपरकरणे मध्यमविलिम्बितयोः उपसङ्ख्यानम् कर्तव्यम् ।

११ - ५३ - किम् कारणम् ।

१२ - ५३ - कालभेदात् ।

१३ - ५३ - ये द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् ये मध्यमायाम् वृत्तौ वर्णाः त्रिभागाधिकास्ते विलिम्बितायाम् ।

१४ - ५३ - उक्तम् वा ।

१५ - ५३ - किम् उक्तम् ।

१६ - ५३ - सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते इति ।

१७ - ५३ - अथ वा शब्दाविरामः संहिता इति एतत् लक्षणम् करिष्यते ।

१८ - ५३ - शब्दाविरामे प्रतिवर्णम् अवसानम् ।

१९ - ५३ - शब्दाविरामे प्रतिवर्णम् अवसानसञ्ज्ञा प्राप्नोति ।

२० - ५३ - किम् इदम् प्रतिवर्णम् इति ।

२१ - ५३ - वर्णम् वर्णम् प्रति प्रतिवर्णम् ।

२२ - ५३ - येन एव यत्नेन एकः वर्णः उच्च्यार्यते विच्छिन्ने वर्णे उपसंहृत्य तम् अन्यम् उपादाय द्वितीयः प्रयुज्यते तथा तृतीयः तथा चतुर्थः ।

२३ - ५३ - एवम् तर्हि अनवकाशा संहितासञ्ज्ञा अवसानसञ्ज्ञाम् बाधिष्यते ।

२४ - ५३ - अथ वा अवसानसञ्ज्ञायाम् प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यः विरामः इति ।

२५ - ५३ - कः च साधीयः ।

२६ - ५३ - यः शब्दार्थयोः विरामः ।

२७ - ५३ - अथ वा ह्रादाविरामः संहा इति एतत् लक्षणम् करिष्यते ।

२८ - ५३ - ह्रादाविरामे स्पर्शाघोषसंयोगे असन्निधानात् असंहितम् ।

२९ - ५३ - ह्रादाविरामे स्पर्शानाम् अघोषाणाम् संयोगे असम्निधानात् संहितासञ्ज्ञा न प्राप्नोति ।

३० - ५३ - कुक्कुटः पिप्पका पित्तम् इति ।

३१ - ५३ - किम् उच्यते संयोगे इति ।

३२ - ५३ - अथ यत्र एकः पचति इति एकः पूर्वपरयोः ह्रादेन प्रच्छाद्यते ।

३३ - ५३ - तद् यथा ।

३४ - ५३ - द्वयोः रक्तयोः वस्त्रयोः मध्ये शुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते ।

३५ - ५३ - बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते ।

३६ - ५३ - एकेन तुल्यः सन्निधिः ।

३७ - ५३ - यथा एकः वर्णः ह्रादेन प्रच्छाद्यते एवम् अनेकः अपि ।

३८ - ५३ - अथ वा पौर्वापर्यम् अकालव्यपेतम् संहिता इति एतत् लक्षणम् करिष्यते. पौर्वापर्यम् अकालव्यपेतम् संहिता चेत् पूर्वापराभावात् असंहितम् । पौर्वापर्यम् अकालव्यपेतम् संहिता चेत् पूर्वापराभावात् संहितासञ्ज्ञा न प्राप्नोति ।

३९ - ५३ - न हि वर्णानाम् पौर्वापर्यम् अस्ति ।

४० - ५३ - किम् कारणम् ।

४१ - ५३ - एकैकवर्णवर्तित्वात् वाचः उच्चरितप्रध्वंसित्वात् च वर्णानाम् ।

४२ - ५३ - एकैकवर्णवर्तिनी वाक् ।

४३ - ५३ - न द्वौ युगपत् उच्चारयति ।

४४ - ५३ - गौः इति यावत् गकारे वाक् वर्तते न औकारे न विसर्जनीये ।

४५ - ५३ - यावत् औकारे न गकारे न विसर्जनीये ।

४६ - ५३ - यावत् विसर्जनीये न गकारे न औकारे ।

४७ - ५३ - उच्चरितप्रध्वंसित्वात् ।

४८ - ५३ - उच्चरितप्रध्वंसिनः खलु अपि वर्णाः ।

४९ - ५३ - उच्चरितः प्रध्वस्तः ।

५० - ५३ - अथ अपरः प्रयुज्यते ।

५१ - ५३ - न वर्णः वर्णस्य सहायः ।

५२ - ५३ - एवम् तर्हि बुद्धौ कृत्वा सर्वाः चेष्ठाः कर्ता धीरः तत्वन्नीतिः शब्देन अर्थान् वाच्यान् दृष्ट्वा बुद्धौ कुर्यात् पौर्वापर्यम् । बुद्धिविषयम् एव शब्दानाम् पौर्वापर्यम् ।

५३ - ५३ - इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति असमिन् अर्थे अयम् शब्दः प्रयोक्त्वयः स्मिन् तावत् शब्दे अयम् तावत् वर्णः ततः अयम् ततः अयम् इति ।

१ - ७९ - इदम् विचार्यते अभावः अवसानलक्षणम् स्याद् विरामः वा इति ।

२ - ७९ - कः च अत्र विशेषः ।

३ - ७९ - अभावे अवसानलक्षणे उपर्यभाववचनम् । अभावेआवसानलक्षणे उपर्यभावग्रहणम् कर्तव्यम् ।

४ - ७९ - उपरि यः अभावः इति वक्तव्यम् ।

५ - ७९ - पुरस्तात् अपि हि शब्दस्य अभावः तत्र मा भूत् इति ।

६ - ७९ - किम् च स्यात् ।

७ - ७९ - रसः रथः ।

८ - ७९ - खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत ।

९ - ७९ - अस्तु तर्हि विरामः ।

१० - ७९ - विरामे विरामवचनम् ।

११ - ७९ - यस्य विरामः विरामग्रहणम् तेन कर्तव्यम् ।

१२ - ७९ - ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् ।

१३ - ७९ - परार्थम् मम भविष्यति ।

१४ - ७९ - अभावः लोपः ।

१५ - ७९ - ततः अवसानम् च इति ।

१६ - ७९ - मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति ।

१७ - ७९ - विरामः लोपः अवसानम् च इति ।

१८ - ७९ - उपरि यः विरामः इति वक्तव्यम् ।

१९ - ७९ - पुरस्तात् अपि शब्दस्य विरामः तत्र मा भूत् इति ।

२० - ७९ - किम् च स्यात् ।

२१ - ७९ - रसः रथः ।

२२ - ७९ - खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत ।

२३ - ७९ - आरम्भपूर्वकः मम विरामः ।

२४ - ७९ - अथ वा न इदम् अवसानलक्षणम् विचार्यते ।

२५ - ७९ - किम् तर्हि ।

२६ - ७९ - सञ्ज्ञी ।

२७ - ७९ - अभावः वसानसञ्ज्ञी स्यात् विरामः वा इति ।

२८ - ७९ - कः च अत्र विशेषः ।

२९ - ७९ - अभावे अवसानसञ्ज्ञिनि उपर्यभाववचनम् ।

३० - ७९ - अभावे अवसानसञ्ज्ञिन् युपर्यभावग्रहणम् कर्तव्यम् ।

३१ - ७९ - उपरि यः भावः इति वक्तव्यम् ।

३२ - ७९ - पुरस्तात् अपि हि शब्दस्य अभावः तत्र मा भूत् इति ।

३३ - ७९ - किम् च स्यात् ।

३४ - ७९ - रसः रथः ।

३५ - ७९ - खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत ।

३६ - ७९ - अस्तु तर्हि विरामः अवासनम् ।

३७ - ७९ - विरामे विरामवचनम् ।

३८ - ७९ - यस्य विरामः तेन विरामग्रहणम् कर्तव्यम् ।

३९ - ७९ - ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् ।

४० - ७९ - परार्थम् मम भविष्यति ।

४१ - ७९ - अभावः लोपः ।

४२ - ७९ - ततः अवसानम् च इति ।

४३ - ७९ - मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति ।

४४ - ७९ - विरामः लोपः अवसानम् च इति ।

४५ - ७९ - उपरि यः विरामः इति वक्तव्यम् ।

४६ - ७९ - ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् ।

४७ - ७९ - परार्थम् मम भविष्यति ।

४८ - ७९ - अभावः लोपः ।

४९ - ७९ - ततः अवसानम् च इति ।

५० - ७९ - मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति ।

५१ - ७९ - विरामः लोपः अवसानम् च इति ।

५२ - ७९ - उपरि यः विरामः इति वक्तव्यम् ।

५३ - ७९ - ननु च उक्तम् आरम्भपूर्वकः इति ।

५४ - ७९ - न अवश्यम् अयम् रमिः प्रवृत्तौ एव वर्तते ।

५५ - ७९ - किम् तर्हि ।

५६ - ७९ - अप्रवृत्तौ अपि ।

५७ - ७९ - तत् यथा ।

५८ - ७९ - उपरतानि अस्मिन् कुले व्रतानि ।

५९ - ७९ - उपरतः स्वाध्यायः इति ।

६० - ७९ - न च तत्र स्वाध्यायः भूतपूर्वः भवति न अपि व्रतानि ।

६१ - ७९ - भावाविरामभावित्वात् शब्दस्य वसानलक्षणम् न ।

६२ - ७९ - भावाविरामभावित्वात् शब्दस्य अवसानलक्षणम् न उपपद्यते ।

६३ - ७९ - किम् इदम् भावाविरामभावित्वात् इति ।

६४ - ७९ - भावस्य अविरामः भावाविरामः भावाविरामेण भवति इति भावाविरामभावी भावाविरामभाविनः भावो भावाविरामभावित्वम् ।

६५ - ७९ - अपरः आह ।

६६ - ७९ - भावभावित्वादविरामभावित्वात् च शब्दस्य अवसानलक्षणम् न उपपद्यते इति ।

६७ - ७९ - तत्परः इति वा वर्णस्य अवसानम् । विरामपरः वर्णः वसानसञ्ज्ञः भवति इति वक्तव्यम् ।

६८ - ७९ - वर्णः अन्त्यः वा अवसानम् ।

६९ - ७९ - अथ वा व्यक्तम् एव पठितव्यम् अन्त्यः वर्णः वसानसञ्ज्ञः भवति इति ।

७० - ७९ - तत् तर्हि वक्तव्यम् ।

७१ - ७९ - न वक्तव्यम् ।

७२ - ७९ - संहितावसानयोः लोकविदितत्वात् सिद्धम् ।

७३ - ७९ - सम्हिता अवसानम् इति लोकविदितौ एतौ अर्थौ ।

७४ - ७९ - एवम् हि कः चित् कम् चिद् अधीयानम् आह ॒ शन्नोदेवीयम् सम्हितया अधीष्व इति ।

७५ - ७९ - सः तत्र परमसन्निकर्षम् अधीते ।

७६ - ७९ - अपरः आह ॒ केन वस्यसि इति ।

७७ - ७९ - सः आह ॒ अकारेण इकारेण उकारेण इति ।

७८ - ७९ - एवम् एतौ लोकविदिततौ अर्थौ ।

७९ - ७९ - तयोः लोकविदितत्वात् सिद्धम् इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP