पाद ३ - खण्ड २७
व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.
१ - १२२ - अनभिहिते इति उच्यते ।
२ - १२२ - किम् इदम् अनभिहितम् नाम ।
३ - १२२ - उक्तम् निर्दिष्टम् अभिहितम् इति अनर्थान्तरम् ।
४ - १२२ - यावत् ब्रूयात् अनुक्ते अनिर्दिष्टे इति तावत् अनभिहिते इति ।
५ - १२२ - अनभिहितवचनम् अनर्थकम् अन्यत्र अपि विहितस्य अभावात् अभिहिते ।
६ - १२२ - अनभिहितवचनम् अनर्थकम् ।
७ - १२२ - किम् कारणम् ।
८ - १२२ - अन्यत्र अपि विहितस्य अभावात् अभिहिते ।
९ - १२२ - अन्यत्र अपि अभिहिते विहितम् न भवति ।
१० - १२२ - क्व अन्यत्र ।
११ - १२२ - चित्रगुः शबलगुः ।
१२ - १२२ - बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति ।
१३ - १२२ - गर्गाः वत्साः विदाः उर्वाः ।
१४ - १२२ - यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति ।
१५ - १२२ - सप्तपर्णः अष्टापदमिति ।
१६ - १२२ - समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति ।
१७ - १२२ - यत् तावत् उच्यते चित्रगुः शबल्गुः बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य मत्वर्थीयः न भवति इति ।
१८ - १२२ - अस्तिना सामानाधिकरण्ये मतुप् विधीयते ।
१९ - १२२ - न च अत्र अस्तिना सामानाधिकरण्यम् ।
२० - १२२ - यत् अपि उच्यते गर्गाः वत्साः विदाः उर्वाः यञञ्भ्याम् उक्तत्वात् अपत्यार्थस्य न्याय्योत्पत्तिः न भवति इति ।
२१ - १२२ - समर्थानाम् प्रथमात् वा इति वर्तते ।
२२ - १२२ - न च एतत् समर्थानाम् प्रथमम् ।
२३ - १२२ - किं तर्हि ।
२४ - १२२ - द्वितीयम् अर्थमुपसंक्रान्तम् ।
२५ - १२२ - यत् अपि उच्यते सप्तपर्णः अष्टापदम् इति समासेन उक्तत्वात् वीप्सायाः द्विर्वचनम् न भवति इति ।
२६ - १२२ - यत् अत्र वीप्सायुक्तम् न अदः प्रयुज्यते ।
२७ - १२२ - किम् पुनः तत् ।
२८ - १२२ - पर्वणि पर्वणि सप्त पर्णानि अस्य ।
२९ - १२२ - पङ्क्तौ पङ्क्तौ अष्टौ पदानि इति ।
३० - १२२ - श्नम्बहुजकक्षु तर्हि ।
३१ - १२२ - श्नम् ॒ भिनत्ति छिनत्ति ।
३२ - १२२ - श्नमा उक्तत्वात् कर्तृत्वस्य कर्तरि शप् न भवति ।
३३ - १२२ - बहुच् ॒ बहुकृतम् , बहुभिन्नम् इति ।
३४ - १२२ - बहुचा उक्तत्वात् ईषदस्माप्तेः कल्पबादयः न भवन्ति इति ।
३५ - १२२ - अकच् ॒ उच्चकैः , नीचकैः इति ।
३६ - १२२ - अकचा उक्तत्वात् कुत्सादीनाम् कादयः न भवन्ति ।
३७ - १२२ - ननु च श्नम्बहुजकचः अपवादाः ते अपवादत्वात् बाधकाः भविष्यन्ति ।
३८ - १२२ - श्नम्बहुजकक्षु नानादेशत्वात् उत्सर्गाप्रतिषेधः ।
३९ - १२२ - समानदेशैः अपवादैः उत्सर्गाणाम् बाधनम् भवति ।
४० - १२२ - नानादेशत्वात् न प्राप्नोति ।
४१ - १२२ - किम् पुनः इह अकर्तव्यः अनभिहिताधिकारः क्रियते आहोस्वित् अन्यत्र कर्तव्यः न क्रियते ।
४२ - १२२ - इह अकर्तव्यः क्रियते ।
४३ - १२२ - एषः एव हि न्याय्यः पक्षः यत् अभिहिते विहितम् न स्यात् ।
४४ - १२२ - अनभितः तु विभक्त्यर्थः तस्मात् अनभिहितवचनम् । अनभिहितः तु विभक्त्यर्थः ।
४५ - १२२ - कः पुनः विभक्त्यर्थः ।
४६ - १२२ - एकत्वादयः विभक्त्यर्थाः तेषु अनभिहितेषु कर्मादयः भिहिताः विभक्तीनाम् उत्पत्तौ निमित्तत्वाय मा भूवन् इति ।
४७ - १२२ - तस्मात् अनभिहितवचनम् ।
४८ - १२२ - तस्मात् अनभिहिताधिकारः क्रियते ।
४९ - १२२ - अवश्यम् च एतत् एवम् विज्ञेयम् एकत्वादयः विभक्त्यर्थाः इति ।
५० - १२२ - अभिहिते प्रथमाभावः । यः हि मन्यते कर्मादयः विभक्त्यर्थाः तेषु अभिहितेषु सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः न भविष्यति इति प्रथमा तस्य न प्राप्नोति ।
५१ - १२२ - क्व ।
५२ - १२२ - वृक्षः प्लक्षः ।किं कारणम् ।
५३ - १२२ - प्रातिपदिकेन उक्तः प्रातिपदिकार्थः इति ।
५४ - १२२ - न क्व चित् प्रातिपदिकेन अनुक्तः प्रातिपदिकार्थः उच्यते च प्रथमा ।
५५ - १२२ - सा वचनात् भविष्यति ।
५६ - १२२ - तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति ।
५७ - १२२ - प्रथमा ते न प्राप्नोति ।
५८ - १२२ - क्व ।
५९ - १२२ - पचति ओदनम् देवदत्तः इति ।
६० - १२२ - किम् कारणम् ।
६१ - १२२ - तिङा उक्ताः एकत्वादयः इति ।
६२ - १२२ - अनभिहिताधिकारम् च त्वम् करोषि परिगणनम् च ।
६३ - १२२ - न क्व चित् तिङा एकत्वादीनाम् अनभिधानम् उच्यते च प्रथमा ।
६४ - १२२ - सा वचनात् भविष्यति ।
६५ - १२२ - ननु च इह अनभिधानम् वृक्षः प्लक्षः इति ।
६६ - १२२ - अत्र अपि अभिधानम् अस्ति ।
६७ - १२२ - कथम् ।
६८ - १२२ - वक्ष्यति एतत् ॒ अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति ।
६९ - १२२ - वृक्षः प्लक्षः ।
७० - १२२ - अस्ति इति गम्यते ।
७१ - १२२ - तव एव तु खलु एषः दोषः यस्य ते कर्मादयः विभक्त्यार्थाः अभिहिते प्रथमाभावः इति ।
७२ - १२२ - प्रथमा ते प्राप्नोति ।
७३ - १२२ - क्व ।
७४ - १२२ - कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति ।
७५ - १२२ - कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीषादिभ्यः द्वितीया न प्राप्नोति ।
७६ - १२२ - का तर्हि प्राप्नोति ।
७७ - १२२ - प्रथमा ।
७८ - १२२ - तत् यथा ।
७९ - १२२ - कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति ।
८० - १२२ - करोतेः उत्पद्यमानेन क्तेन अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न भवति ।
८१ - १२२ - का तर्हि ।
८२ - १२२ - प्रथमा भवति ।
८३ - १२२ - न एषः दोषः ।
८४ - १२२ - न हि मम अनभिहिताधिकारः अस्ति न अपि परिगणनम् ।
८५ - १२२ - सामर्थ्यात् मे विभक्तीनाम् उत्पत्तिः भविष्यति ।
८६ - १२२ - अस्ति च सामर्थ्यम् ।
८७ - १२२ - किम् ।
८८ - १२२ - कर्मविशेषः वक्तव्यः ।
८९ - १२२ - अथ वा कटः अपि कर्म भीष्मादयः अपि ।
९० - १२२ - तत्र कर्मणि इति एव सिद्धम् ।
९१ - १२२ - अथ वा कटः एव कर्म तत् सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति ।
९२ - १२२ - अस्ति खल्वपि विशेषः कटं करोति भीष्ममुदारम् शोभनम् दर्शनीयम् इति च कृतः कटो भीष्मः उदारः शोभनः दर्शनीयः इति च ।
९३ - १२२ - करोतेः उत्पद्यमानः क्तः अनवयवेन सर्वम् कर्म अभिधत्ते ।
९४ - १२२ - कटशब्दात् पुनः उत्पद्यमानया द्वितीयया यत् कटस्थम् कर्म तत् शक्यमभिधातुम् न हि कर्मविशेषः ।
९५ - १२२ - तव एव तु खलु एषः दोषः यस्य ते एकत्वादयः विभक्त्यर्थाः अभिहिते प्रथमाभावः इति ।
९६ - १२२ - प्रथमा ते न प्राप्नोति ।
९७ - १२२ - क्व ।
९८ - १२२ - एकः द्वौ बहवः इति ।
९९ - १२२ - किम् कारणम् ।
१०० - १२२ - प्रातिपदिकेन उक्ताः एकत्वादयः इति ।
१०१ - १२२ - कर्मादिषु अपि वै विभक्त्यर्थेषु अवश्यम् एकत्वादयः निमित्तत्वेन उपादेयाः ।
१०२ - १२२ - कर्मणः एवत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति ।
१०३ - १२२ - न च एकत्वादीनाम् एकत्वादयः सन्ति ।
१०४ - १२२ - अथ सन्ति मम अपि सन्ति ।
१०५ - १२२ - तेषु अनभिहितेषु प्रथमा भविष्यति ।
१०६ - १२२ - अथ वा उभयवचनाः ह्येते ।
१०७ - १२२ - द्रव्यम् च आहुः गुणम् च ।
१०८ - १२२ - यत्स्थः असौ गुणः तस्य अनुक्ताः एकत्वादयः इति कृत्वा प्रथमा भविष्यति ।
१०९ - १२२ - अथ वा सङ्ख्या नाम इयम् परप्रधाना ।
११० - १२२ - संख्येयम् अनया विशेष्यम् ।
१११ - १२२ - यदि च अत्र प्रथमा न स्यात् सङ्ख्येयम् अविशेषितम् स्यात् ।
११२ - १२२ - अथ वा वक्ष्यति तत्र वचनग्रहणस्य प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् इति ।
११३ - १२२ - अथ वा समयात् भविष्यति ।
११४ - १२२ - यदि सामयकी न नियोगतः अन्याः कस्मात् न भवन्ति ।
११५ - १२२ - कर्मादीनाम् अभावात् ।
११६ - १२२ - षष्ठी तर्हि प्राप्नोति ।
११७ - १२२ - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।
११८ - १२२ - एवम् अपि व्यतिकरः प्राप्नोति ।
११९ - १२२ - एकस्मिन् अपि द्विवचनबहुवचने प्राप्नुतः ।
१२० - १२२ - द्वयोः अपि एकववचनबहुवचने प्राप्नुतः ।
१२१ - १२२ - बहुषु अपि एकवचनद्विवचने प्राप्नुतः ।
१२२ - १२२ - अर्थतः व्यवस्था भविष्यति ।
१ - २९ - परिगणनं कर्तव्यम् ।
२ - २९ - तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् ।
३ - २९ - तिङ्कृत्तद्धितसमासैः परिसङ्ख्यानम् कर्तव्यम् ।
४ - २९ - तिङ् ।
५ - २९ - क्रियते कटः ।
६ - २९ - कृत् ।
७ - २९ - कृतः कटः ।
८ - २९ - तद्धित ।
९ - २९ - औपगवः कापटवः ।
१० - २९ - समास ।
११ - २९ - चित्रगुः शबलगुः ।
१२ - २९ - उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिवचनम् । उत्सर्गे हि प्रातिपदिकसामानाधिकरण्ये विभक्तिः वक्तव्या ।
१३ - २९ - क्व ।
१४ - २९ - कटम् करोति भीष्मम् उदारम् शोभनम् दर्शनीयम् इति ।
१५ - २९ - कटशब्दात् उत्पद्यमानया द्वितीयया अभिहितम् कर्म इति कृत्वा भीष्मादिभ्यः द्वितीया न प्राप्नोति ।
१६ - २९ - का तर्हि स्यात् ।
१७ - २९ - षष्ठी ।
१८ - २९ - शेषलक्षणा षष्ठी ।
१९ - २९ - अशेषत्वात् न भविष्यति ।
२० - २९ - अन्याः अपि न प्राप्नुवन्ति ।
२१ - २९ - किम् कारणम् ।
२२ - २९ - कर्मादीन् आमभावात् ।
२३ - २९ - समयश्च कृतः ने केवला प्रकृतिः प्रोक्तव्या न केवलः प्रत्ययः इति ।
२४ - २९ - न चान्या उत्पद्यमाना एतम् अभिसम्बन्धम् उत्सहन्ते वक्तुम् इति कृत्वा द्वितीया भविष्यति ।
२५ - २९ - अथ वा कटः अपि कर्म भीष्मादयः अपि ।
२६ - २९ - तत्र कर्मणि इति एव सिद्धम् ।
२७ - २९ - अथ वा कटः एव कर्म ।
२८ - २९ - तत्सामानाधिकरण्यात् भीष्मादिभ्यः द्वितीया भविष्यति ।
२९ - २९ - तस्मात् न अर्थः परिगणनेन ।
१ - ३९ - द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्त्यभावप्रसङ्गः । द्वयोः क्रिययोः कारके अन्यतरेण अभिहिते विभक्तिः न प्राप्नोति ।
२ - ३९ - क्व ।
३ - ३९ - प्रासादे आस्ते , शयने आस्ते इति ।
४ - ३९ - किम् कारणम् ।
५ - ३९ - सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा सप्तमी न प्राप्नोति ।
६ - ३९ - न वा अन्यतरेण अनभिधानात् ।
७ - ३९ - न वा एषः दोषः ।
८ - ३९ - किम् कारणम् ।
९ - ३९ - अन्यतरेण अनभिधानात् ।
१० - ३९ - अन्यतरेण अत्र अनभिधानम् ।
११ - ३९ - सदिप्रत्ययेन भिधानम् आसिप्रत्ययेन अनभिधानम् ।
१२ - ३९ - यतः अनभिधानम् तदाश्रया सप्तमी भविष्यति ।
१३ - ३९ - कुतः न खलु एतत् सति अभिधाने च अनभिधाने च अनभिहिताश्रया सप्तमी भविष्यति न पुनः अभिहिताश्रयः प्रतिषेधः इति ।
१४ - ३९ - अनभिहिते हि विधानम् ।
१५ - ३९ - अनभिहिते हि सप्तमी विधीयते न अभिहिते प्रतिषेधः ।
१६ - ३९ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र तु खलु सा एव क्रिया तत्र कथम् ।
१७ - ३९ - आसने आस्ते ।
१८ - ३९ - शयने शेते इति ।
१९ - ३९ - अत्र अपि अन्यत्वम् अस्ति ।
२० - ३९ - कुतः ।
२१ - ३९ - कालभेदात् साधनभेदात् च ।
२२ - ३९ - एकस्य अत्र आसेः आसिः साधनम् सर्वकालः च प्रत्ययः ।
२३ - ३९ - अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः ।
२४ - ३९ - किम् पुनः द्रव्यम् साधनम् आहोस्वित् गुणः ।
२५ - ३९ - किम् च अतः ।
२६ - ३९ - यदि द्रव्यम् साधनम् न एतत् अन्यत् भवति अभिहितात् ।
२७ - ३९ - अथ हि गुणः साधनम् भवति एतत् अन्यत् अभिहितात् ।
२८ - ३९ - अन्यः हि सदिगुणः अन्यः च आसिगुणः ।
२९ - ३९ - किं पुनः साधनम् न्याय्यम् ।
३० - ३९ - गुणः इति आह ।
३१ - ३९ - कथम् ज्ञायते ।
३२ - ३९ - एवम् हि कः चित् कम् चित् पृच्छति ।
३३ - ३९ - क्व देवदत्तः इति ।
३४ - ३९ - सः तस्मै आचष्टे ।
३५ - ३९ - असौ वृक्षे इति ।
३६ - ३९ - कतरस्मिन् ।
३७ - ३९ - यः तिष्ठति इति ।
३८ - ३९ - सः वृक्षः अधिकरणम् भूत्वा अन्येन शब्देन अभिसम्बध्यमानः कर्ता सम्पद्यते ।
३९ - ३९ - द्रव्ये पुनः साधने सति यत् कर्म कर्म एव स्यात् यत् करणम् करणम् एव यत् अधिकरणम् अधिकरणम् एव ।
१ - ३० - अनभिहितवचनम् अनर्थकम् प्रथमाविधानस्य अनवकाशत्वात् ।
२ - ३० - अनभिहितवचनम् अनर्थकम् ।
३ - ३० - किम् कारणम् ।
४ - ३० - प्रथमाविधानस्य अनवकाशत्वात् ।
५ - ३० - अनवकाशा प्रथमा ।
६ - ३० - सा वचनात् भविष्यति. सावकाशा प्रथमा ।
७ - ३० - कः अवकाशः ।
८ - ३० - अकारकम् ।
९ - ३० - वृक्षः प्लक्षः इति ।
१० - ३० - अवकाशः अकारकम् इति चेत् न अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति ।
११ - ३० - अवकाशः अकारकम् इति चेत् तत् न ।
१२ - ३० - किम् कारणम् ।
१३ - ३० - अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति गम्यते ।
१४ - ३० - वृक्षः प्लक्षः ।
१५ - ३० - अस्ति इति गम्यते. विप्रतिषेधात् वा प्रथमाभावः । अथ वा द्वितीयादयः क्रियन्ताम् प्रथमा वा इति प्रथमा भविष्यति विप्रतिषेधेन ।
१६ - ३० - द्वितीयादीनाम् अवकाशः कटम् करोति भीष्मम् उदारम् शोभनम्दर्शनीयम् इति ।
१७ - ३० - प्रथमायाः अवकाशः अकारकम् वृक्षः प्लक्षः इति ।
१८ - ३० - इह उभयम् प्राप्नोति ।
१९ - ३० - कृतः कटः भीष्मः उदारः शोभनः दर्शनीयः इति ।
२० - ३० - प्रथमा भविष्यति विप्रतिषेधेन ।
२१ - ३० - न सिध्यति ।
२२ - ३० - परत्वात् षष्ठी प्राप्नोति ।
२३ - ३० - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।
२४ - ३० - कृत्प्रयोगे तु परम् विधानम् षष्ठ्याः तत्प्रतिषेधार्थम् ।
२५ - ३० - कृत्प्रयोगे तु परत्वा त्षष्ठी प्राप्नोति ।
२६ - ३० - तत्प्रतिषेधार्थम् अनभिहिताधिकारः कर्तव्यः ।
२७ - ३० - कर्तव्यः कटः इति ।
२८ - ३० - सः कथम् कर्तव्यः ।
२९ - ३० - यदि एकत्वादयः विभक्त्यर्थाः ।
३० - ३० - अथ हि कर्मादयः विभक्त्यर्थाः न अर्थः अनभिहिताधिकारेण ।
१ - २५ - समयानिकषाहायोगेषु उपसङ्ख्यानम् । समयानिकषाहायोगेषु उपसङ्ख्यानम् कर्तव्यम् ।
२ - २५ - समया ग्रामम् निकषा ग्रामम् ।
३ - २५ - हायोगे ।
४ - २५ - हा देवदत्तम् ।
५ - २५ - हा यज्ञदत्तम् ।
६ - २५ - अपरः आह ॒ द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् ।
७ - २५ - द्वितीयाविधाने अभितःपरितःसमयानिकषाध्यधिधिग्योगेषु उपसङ्ख्यानम् कर्तव्यम् ।
८ - २५ - अभितः ग्रामम् परितः ग्रामम् ।
९ - २५ - समया ग्रामम् ।
१० - २५ - निकषा ग्रामम् ।
११ - २५ - अधि अधि ग्रामम् ।
१२ - २५ - धिक् जाल्मम् धिक् वृषलम् ।
१३ - २५ - अपरः आह ।
१४ - २५ - उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु द्वितीया आम्रेडितान्तेषु ततः अन्यत्र अपि दृश्यते ।
१५ - २५ - उभय सर्व इति एताभ्याम् तसन्ताभ्याम् द्वितीया वक्तव्या ।
१६ - २५ - उभयतः ग्रामम् सर्वतः ग्रामम् ।
१७ - २५ - धिग्योगे ।
१८ - २५ - धिक् जाल्मम् धिक् वृषलम् ।
१९ - २५ - उपर्यादिषु त्रिषु आम्रेडितान्तेषु द्वितीया वक्तव्या ।
२० - २५ - उपरि उपरि ग्रामम् ।
२१ - २५ - अधि अधि ग्रामम् ।
२२ - २५ - अधः अधः ग्रामम् ।
२३ - २५ - ततः अन्यत्र अपि दृश्यते ।
२४ - २५ - न देवदत्तम् प्रतिभाति किम् चित् ।
२५ - २५ - बुभुक्षितम् न प्रतिभाति किम् चित् ।
१ - २७ - किमर्थम् इदम् उच्यते ।
२ - २७ - तृतीया यथा स्यात् ।
३ - २७ - अथ द्वितीया सिद्धा ।
४ - २७ - सिद्धा कर्मणि इति एव ।
५ - २७ - तृतीया अपि सिद्धा ।
६ - २७ - कथम् ।
७ - २७ - सुपाम् सुपः भवन्ति इति एव ।
८ - २७ - असति एतस्मिन् सुपाम् सुपः भवन्ति इति तृतीयार्थः अयम् आरम्भः ।
९ - २७ - यवाग्वा अग्निहोत्रं जुहोति ।
१० - २७ - एवम् तर्हि तृतीया अपि सिद्धा ।
११ - २७ - कथम् ।
१२ - २७ - कर्तृकरणयोः इति एव ।
१३ - २७ - अयम् अग्निहोत्रशब्दः अस्ति एव ज्योतिषि वर्तते ।
१४ - २७ - तद्यथा ।
१५ - २७ - अग्निहोत्रम् प्रज्वलयति इति ।
१६ - २७ - अस्ति हविषि वर्तते ।
१७ - २७ - तत् यथा ।
१८ - २७ - अग्निहोत्रम् जुहोति इति ।
१९ - २७ - जुहोतिः च अस्ति एव प्रक्षेपणे वर्तते अस्ति प्रीणात्यर्थे वर्तते ।
२० - २७ - तत् यथा तावत् यवागूशब्दात् तृतीया तदा अग्निहोत्रशब्दः ज्योतिषि वर्तते जुहोतिः च प्रीणात्यर्थे ।
२१ - २७ - तत् यथा ।
२२ - २७ - यवाग्वा अग्निहोत्रम् जुहोति ।
२३ - २७ - अग्निं प्रीणाति ।
२४ - २७ - यदा यवागूशब्दात् द्वितीया तदा अग्निहोत्रशब्दः हविषि वर्तते जुहोतिः च प्रक्षेपणे ।
२५ - २७ - तत् यथा ।
२६ - २७ - यवागूम् अग्निहोत्रम् जुहोति ।
२७ - २७ - यवागूम् हविः अग्नौ प्रक्षिपति ।
१ - १८ - इह कस्मात् न भवति ।
२ - १८ - किम् ते बाभ्रवशालङ्कायनानाम् अन्तरेण गतेन इति ।
३ - १८ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।
४ - १८ - अथ वा यदि अपि तावत् अयम् अन्तरेणशब्दः दृष्टापचारः निपातः च अनिपातः च अयं तु खलु अन्तराशब्दः अदृष्टापचारः निपातः एव ।
५ - १८ - तस्य अस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः निपातात् ।
६ - १८ - तत् यथा ।
७ - १८ - अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः ।
८ - १८ - अन्तरान्तरेणयुक्तानाम् अप्रधानवचनम् ।
९ - १८ - अन्तरान्तरेणयुक्तानामप्रधानग्रहणम् वक्तव्यम् ।
१० - १८ - अप्रधाने द्वीइया भवति इति वक्तव्यम् ।
११ - १८ - अन्तरा त्वाम् च माम् च कमण्डलुः इति ।
१२ - १८ - कमण्डलोः द्वितीया मा भूत् इति ।
१३ - १८ - कः पुनः एताभ्याम् कमण्डलोः योगः ।
१४ - १८ - यत् तत् त्वाम् च माम् च अन्तरा तत् कमण्डलोः स्थानम् ।
१५ - १८ - तत्त् अर्हि वक्तव्यम् ।
१६ - १८ - न वक्तव्यम् ।
१७ - १८ - कमण्डलोः द्वितीया कस्मात् न भवति ।
१८ - १८ - उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति ।
१ - ४० - अत्यन्तसंयोगे कर्मवत् लाद्यर्थम् ।
२ - ४० - अत्यन्तसंयोगे कालाध्वानौ कर्मवत् भवतः इति वक्तव्यम् ।
३ - ४० - किम् प्रयोजनम् ।
४ - ४० - लाद्यर्थम् ।
५ - ४० - लादिभिः अभिधानम् यथा स्यात् ।
६ - ४० - आस्यते मासः ।
७ - ४० - शय्यते क्रोशः ।
८ - ४० - अथ वत्करणम् किमर्थम् ।
९ - ४० - स्वाश्रयम् अपि यथा स्यात् ।
१० - ४० - आस्यते मासम् ।
११ - ४० - शय्यते क्रोशम् ।
१२ - ४० - अकर्मकाणाम् भावे लः भवति इति भावे लः यथा स्यात् ।
१३ - ४० - तत् तर्हि वक्तव्यम् ।
१४ - ४० - न वक्तव्यम् ।
१५ - ४० - प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति ।
१६ - ४० - एवम् मन्यते ।
१७ - ४० - यत्र कः चित्क्रियाकृतः विशेषः उपजायते तत् न्याय्यम् कर्म इति ।
१८ - ४० - न च इह कः चित् क्रियाकृतः विशेषः उपजायते ।
१९ - ४० - न एवम् शक्यम् ।
२० - ४० - इह अपि न स्यात् ।
२१ - ४० - आदित्यम् पश्यति ।
२२ - ४० - हिमवन्तम् शृणोति ।
२३ - ४० - ग्रामम् गच्छति ।
२४ - ४० - तस्मात् प्राकृतमेव एतत् कर्म यथा कटम् करोति शकटम् करोति इति ।
२५ - ४० - यदि तर्हि प्राकृतम् एव एतत् कर्म अकर्मकाणाम् भावे लः भवति इति भावे लः न प्राप्नोति. आस्यते मासम् देवदत्तेन इति ।
२६ - ४० - तत् तर्हि वक्तव्यम् ।
२७ - ४० - न वक्तव्यम् ।
२८ - ४० - अकर्मकाणाम् इति उच्यते न च के चित् कालभावाध्वभिः अकर्मकाः ।
२९ - ४० - ते एवम् विज्ञास्यामः ।
३० - ४० - क्व चित् ये अकर्मकाः इति ।
३१ - ४० - अथ वा येन कर्मणा सकर्मकाः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् ।
३२ - ४० - न च एतेन कर्मणा कः चिद् अपि अकर्मकः ।
३३ - ४० - अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् ।
३४ - ४० - न च एतत् कर्म क्व चित् अपि न भवति ।
३५ - ४० - न तर्हि इदानीम् इदम् सूत्रम् वक्तव्यम् ।
३६ - ४० - वक्तव्यम् च ।
३७ - ४० - किम् प्रयोजनम् ।
३८ - ४० - यत्र अक्रियया अत्यन्तसंयोगः तदर्थम् ।
३९ - ४० - क्रोशम् कुटिला नदी ।
४० - ४० - क्रोशम् रमणीया वनराजिः ।
१ - ३ - क्रियापर्वर्गे इति वक्तव्यम् ।
२ - ३ - साधनापवर्गे मा भूत् ।
३ - ३ - मासम् अधीतः अनुवाको न च अनेन गृहीतः इति ।
१ - ९ - क्रियामध्ये इति वक्तव्यम् ।
२ - ९ - इह अपि यथा स्यात् ।
३ - ९ - अद्य देवदत्तः भुक्त्वा द्व्यहात् भोक्ता द्व्यहे भोक्ता ।
४ - ९ - कारकमध्ये इति इयति उच्यमाने इह एव स्यात् ॒ इहस्थः अयम् इष्वासः क्रोशात् लक्ष्यम् विध्यति क्रोशे लक्ष्यम् विध्यति ।
५ - ९ - यम् च विध्यति यतः च विध्यति उभयोः तन्मध्यम् भवति ।
६ - ९ - तत् तर्हि वक्तव्यम् ।
७ - ९ - न वक्तव्यम् ।
८ - ९ - न अन्तरेण साधनम् क्रियायाः प्रवृत्तिः भवति ।
९ - ९ - क्रियामध्यम् चेत् कारकमध्यम् अपि भवति तत्र कारकमध्ये इति एव सिद्धम् ।
१ - २३ - कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपसङ्ख्यानम् सप्तमीपञ्चम्योः प्रतिषेधार्थम् ।
२ - २३ - कर्मप्रवचनीययुक्ते प्रत्यादिभिः च लक्षणादिषु उपसङ्ख्यानम् कर्तव्यम् ।
३ - २३ - वृक्षम् प्रति विद्योतते विद्युत् ।
४ - २३ - वृक्षम् परि ।
५ - २३ - वृक्षमनु ।
६ - २३ - साधुः देवदत्तः मातरम् प्रति ।
७ - २३ - मातरम् परि ।
८ - २३ - मातरम् अनु ।
९ - २३ - किम् प्रयोजनम् ।
१० - २३ - सप्तमीपञ्चम्योः प्रतिषेधार्थम् ।
११ - २३ - सप्तमीपञ्चम्यौ मा भूताम् इति ।
१२ - २३ - साधुनिपुणाभ्याम् अर्चायाम् सप्तमी इति सप्तमी ।
१३ - २३ - पञ्चमी अपाङ्परिभिः इति पञ्चमी ।
१४ - २३ - तत्र अयम् अपि अर्थः अप्रतेः इति न वक्तव्यम् भवति ।
१५ - २३ - तत् तर्हि वक्तव्यम् ।
१६ - २३ - न वक्तव्यम् ।
१७ - २३ - उक्तं वा ।
१८ - २३ - किम् उक्तम् ।
१९ - २३ - एकत्र तावत् उक्तम् अप्रतेः इति ।
२० - २३ - इतरत्र अपि यदि अपि तावत् अयम् परिः दृष्टापचारः वर्जने च अवर्जने च अयं खलु अपशब्दः अदृष्टापचारः वर्जनार्थः एव ।
२१ - २३ - तस्य कः अन्यः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः वर्जनार्थात् ।
२२ - २३ - तत् यथा ।
२३ - २३ - अस्य गोः द्वितीयेन अर्थः इति गौः एव आनीयते न अश्वः न गदर्भः ।
१ - ५५ - कथम् इदम् विज्ञायते ।
२ - ५५ - यस्य च ऐश्वर्यम् ईश्वरता ईश्वरभावः तस्मात् कर्मप्रवचनीययुक्तात् इति ।
३ - ५५ - आहोस्वित् यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति ।
४ - ५५ - कः च अत्र विशेषः ।
५ - ५५ - यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अवचनात् सिद्धम् ।
६ - ५५ - यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अन्तरेण वचनम् सिद्धम् ।
७ - ५५ - अधि ब्रह्मदत्ते पञ्चालाः ।
८ - ५५ - आधृताः ते तस्मिन् भवन्ति ।
९ - ५५ - सत्यम् एवम् एतत् ।
१० - ५५ - नित्यम् परिग्रहीतव्यम् परिग्रहीत्रधीनम् भवति ।
११ - ५५ - प्रथमानुपपत्तिः तु । प्रथमा न उपपद्यते ।
१२ - ५५ - कुतः ।
१३ - ५५ - पञ्चालेभ्यः ।
१४ - ५५ - का तर्हि स्यात् ।
१५ - ५५ - षष्ठीसप्तम्यौ ।
१६ - ५५ - स्वामीश्वराधिपति इति ।
१७ - ५५ - न तत्र अधिशब्दः पठ्यते ।
१८ - ५५ - यदि अपि न पठ्यते अधिः ईश्वरवाची ।
१९ - ५५ - न तत्र पर्यायवचनानाम् ग्रहणम् ।
२० - ५५ - कथम् ज्ञायते ।
२१ - ५५ - यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति ॒ अधिपतिदायाद इति ।
२२ - ५५ - षष्ठी तर्हि प्राप्नोति ।
२३ - ५५ - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।
२४ - ५५ - द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति ।
२५ - ५५ - सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति ।
२६ - ५५ - भवेत् यः अधेः ब्रहमदत्तस्य च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् ।
२७ - ५५ - यः तु खलु अधेः पञ्चालानाम् च अभिसम्बन्धः तत्र द्वितीया प्राप्नोति ।
२८ - ५५ - स्ववचनात् सिद्धम् । अस्तु यस्य स्वस्य ईश्वरः तस्मात् कर्मप्रवचनीययुक्तात् इति ।
२९ - ५५ - एवम् अपि अन्तरेण वचनम् सिद्धम् ।
३० - ५५ - अधि ब्रह्मदत्तः पञ्चालेषु ।
३१ - ५५ - आधृतः स तेषु भवति ।
३२ - ५५ - सत्यम् एवम् एतत् ।
३३ - ५५ - नित्यम् परिग्रहीता परिग्रहीतव्याधीनः भवति ।
३४ - ५५ - प्रथमानुपपत्तिः तु ।
३५ - ५५ - प्रथमा न उपपद्यते ।
३६ - ५५ - कुतः ।
३७ - ५५ - ब्रह्मदत्तात् ।
३८ - ५५ - का तर्हि स्यात् ।
३९ - ५५ - षष्ठीसप्तम्यौ ।
४० - ५५ - स्वामीश्वराधिपति इति ।
४१ - ५५ - न तत्र अधिशब्दः पठ्यते ।
४२ - ५५ - यदि अपि न पठ्यते अधिः ईश्वरवाची ।
४३ - ५५ - न तत्र पर्यायवचनानाम् ग्रहणम् ।
४४ - ५५ - कथम् ज्ञायते ।
४५ - ५५ - यत् अयम् कस्य चित् पर्यायवचनस्य ग्रहणम् करोति ।
४६ - ५५ - अधिपतिदायाद इति ।
४७ - ५५ - षष्ठी तर्हि प्राप्नोति ।
४८ - ५५ - शेषलक्षणा षष्ठी अशेषत्वात् न भविष्यति ।
४९ - ५५ - द्वितीया तर्हि प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीया इति ।
५० - ५५ - सप्तम्या उक्तत्वात् तस्य अभिसम्बन्धस्य द्वितीया न भविष्यति ।
५१ - ५५ - भवेत् यः धेः पञ्चालानाम् च अभिसम्बन्धः सः सप्तम्या उक्तः स्यात् यः तु खलु अधेः ब्रह्मदत्तस्य च अभिसंबन्धः तत्र द्वितीया प्राप्नोति ।
५२ - ५५ - एवं तर्हि स्ववचनात् सिद्धम् ।
५३ - ५५ - अधिः स्वम् प्रति कर्मप्रवचनीयसंज्ञः भवति इति वक्तव्यम् ।
५४ - ५५ - एवम् अपि यदा ब्रह्मदत्ते अधिकरणे सप्तमी तदा पञ्चालेभ्यः द्वितीया प्राप्नोति कर्मप्रवचनीययुक्ते द्वितीय इति ।
५५ - ५५ - उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति
१ - २९ - अध्वनि अर्थग्रहणम् । अध्वनि अर्थग्रहणम् कर्तव्यम् ।
२ - २९ - इह अपि मा भूत् ।
३ - २९ - पन्थानम् गच्छति ।
४ - २९ - वीवधम् गच्छत् इ इति ।
५ - २९ - आस्थितप्रतिषेधः च ।
६ - २९ - आस्थितप्रतिषेधः च अयम् वक्तव्यः ।
७ - २९ - यः हि उत्पथेन पन्थानम् गच्छति पथे गच्छति इति एव तत्र भवितव्यम् ।
८ - २९ - किम् अर्थम् पुनः इदम् उच्यते ।
९ - २९ - चतुर्थी यथा स्यात् ।
१० - २९ - अथ द्वितीया सिद्धा ।
११ - २९ - सिद्धा कर्मणि इति एव ।
१२ - २९ - चतुर्थी अपि सिद्धा ।
१३ - २९ - । कथम् ।
१४ - २९ - सम्प्रदाने इति एव ।
१५ - २९ - न सिध्यति ।
१६ - २९ - कर्मणा यम् अभिप्रैति सः संप्रदानम् इति उच्यते ।
१७ - २९ - क्रियया च असौ ग्रामम् अभिप्रैति ।
१८ - २९ - कया क्रियया ।
१९ - २९ - गमिक्रियया ।
२० - २९ - क्रियाग्रहणम् अपि तत्र चोद्यते ।
२१ - २९ - चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रसङ्गः ।
२२ - २९ - चेष्टायाम् अनध्वनि स्त्रियम् गच्छति अजाम् नयति इति अतिप्रसङ्गः भवति ।
२३ - २९ - सिद्धम् तु असम्प्राप्तवचनात् ।
२४ - २९ - सिद्धम् एतत् ।
२५ - २९ - कथम् ।
२६ - २९ - असम्प्राप्ते कर्मणि द्वितीयाचतुर्थ्यौ भवतः इति वक्तव्यम् ।
२७ - २९ - अध्वनः च अनपवादः ।
२८ - २९ - एवम् च कृत्वा अनध्वनि इति एतत् अपि न वक्तव्यम् भवति ।
२९ - २९ - सम्प्राप्तम् हि एतत् कर्म अध्वानम् गच्छति इति ।
१ - ४० - चतुर्थीविधाने तादर्थ्ये उपसङ्ख्यानम् । चतुर्थीविधाने तादर्थ्ये उपसङ्ख्यानम् कर्तव्यम् ।
२ - ४० - यूपाय दारु कुण्डलाय हिरण्यम् ।
३ - ४० - किम् इदम् तादर्थ्यम् इति ।
४ - ४० - तदर्थस्य भावः तादर्थ्यम् ।
५ - ४० - तदर्थम् पुनः किम् ।
६ - ४० - सर्वनाम्नः अयम् चतुर्थ्यन्तस्य अर्थशब्देन सह समासः ।
७ - ४० - कथम् च अत्र चतुर्थी ।
८ - ४० - अनेन एव ।
९ - ४० - यदि एवम् इतरेतराश्रयम् भवति ।
१० - ४० - का इतरेतराश्रयता ।
११ - ४० - निर्देशोत्तरकालम् चतुर्थ्या भवितव्यम् चतुर्थ्या च निर्देशः तत् इतरेतराश्रयम् भवति ।
१२ - ४० - इतरेतराश्रयाणि च न प्रकल्पन्ते ।
१३ - ४० - तत् तर्हि वक्तव्यम् ।
१४ - ४० - न वक्तव्यम् ।
१५ - ४० - आचार्यप्रवृत्तिः ज्ञापयति भवति अर्थशब्देन योगे चतुर्थी इति यत् अयम् चर्तुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य अर्थशब्देन सह समासम् शास्ति ।
१६ - ४० - न खलु अपि अवश्यं चतुर्थ्यन्तस्य एव अर्थशब्देन सह समासः भवति ।
१७ - ४० - किम् तर्हि ।
१८ - ४० - षष्ठ्यन्तस्य अपि भवति ।
१९ - ४० - तत् यथा ।
२० - ४० - गुरोः इदम् गुर्वर्थम् इति ।
२१ - ४० - यदि तादर्थ्ये उपसङ्ख्यानम् क्रियते न अर्थः सम्प्रदानग्रहणेन ।
२२ - ४० - यः अपि हि उपाध्यायाय गौः दीयते उपाध्यायार्थः सः भवति ।
२३ - ४० - तत्र तादर्थ्ये इति एव सिद्धम् ।
२४ - ४० - अवश्यम् संप्रदानग्रहणम् कर्तव्यम् या अन्येन लक्षणेन सम्प्रदानसञ्ज्ञा तदर्थम् ।
२५ - ४० - छात्राय रुचितम् ।
२६ - ४० - छात्राय स्वदितम् इति ।
२७ - ४० - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।
२८ - ४० - न कर्तव्यम् ।
२९ - ४० - आचार्यप्रवृत्तिः ज्ञापयति भवति तादर्थ्ये चतुर्थी इति यत् अयम् चतुर्थी तदर्थार्थ इति चतुर्थ्यन्तस्य तदर्थेन सह समासम् शास्ति ।
३० - ४० - क्ल्̥पि सम्पद्यमाने ।
३१ - ४० - क्ल्̥पि सम्पद्यमाने चतुर्थी वक्तव्या ।
३२ - ४० - मूत्राय कल्पते यवागूः ।
३३ - ४० - उच्चाराय कल्पते यवान्नम् इति ।
३४ - ४० - उत्पातेन ज्ञाप्यमाने ।
३५ - ४० - उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या ।
३६ - ४० - वाताय कपिला विद्युत् आतपाय अतिलोहिनी पीता भवति सस्याय दुर्भिक्षाय सिता भवेत् ।
३७ - ४० - मांसौदनाय व्याहरति मृगः ।
३८ - ४० - हितयोगे च ।
३९ - ४० - हितयोगे चतुर्थी वक्तव्या ।
४० - ४० - । हितम् अरोचकिने हितम् आमयाविने ।
१ - १७ - स्वस्तियोगे चतुर्थी कुशलार्थैः आशिषि वाविधानात् ।
२ - १७ - स्वस्तियोगे चतुर्थी कुशलार्थैः आशिषि वाविधानात् भवति विप्रतिषेधेन ।
३ - १७ - स्वस्तियोगे चतुर्थ्याः अवकाशः स्वस्ति जाल्माय स्वस्ति वृषलाय ।
४ - १७ - कुशलार्थैः आशिषि वाविधानस्य अवकाशः अन्ये कुशलार्थाः ।
५ - १७ - कुशलम् देवत्ताय कुशलम् देवदत्तस्य ।
६ - १७ - इह उभयम् प्राप्नोति ।
७ - १७ - स्वस्ति गोभ्यः स्वस्ति ब्राह्मणेभ्यः इति ।
८ - १७ - चतुर्थी भवति विप्रतिषेधेन ।
९ - १७ - अलमिति पर्याप्त्यर्थग्रहणम् ।
१० - १७ - अलमिति पर्याप्त्यर्थग्रहणम् कर्तव्यम् ।
११ - १७ - इह मा भूत् ।
१२ - १७ - अलङ्कुरुते कन्याम् इति ।
१३ - १७ - अपरः आह ॒ अलम् इति पर्याप्त्यर्थग्रहणम् कर्तव्यम् ।
१४ - १७ - इह अपि यथा स्यात् ।
१५ - १७ - अलम् मल्लः मल्लाय ।
१६ - १७ - प्रभुःमल्लः मल्लाय ।
१७ - १७ - प्रभवति मल्लः मल्लाय इति ।
१ - १३ - अप्राणिषु इति उच्यते ।
२ - १३ - तत्र इदम् न सिध्यति ॒ न त्वा श्वानम् मन्ये , न त्वा शुने मन्ये इति ।
३ - १३ - एवम् तर्हि योगविभागः करिष्यते ।
४ - १३ - मन्यकर्मणि अनादरे विभाषा ।
५ - १३ - ततः अप्राणिषु ।
६ - १३ - अप्राणिषु च विभाषा इति ।
७ - १३ - इह अपि तर्हि प्राप्नोति ॒ न त्वा काकम् मन्ये , न त्वा शुकम् मन्ये इति ।
८ - १३ - यत् एतत् अप्राणिषु इति एतत् अनावादिषु इति वक्ष्यामि ।
९ - १३ - इमे च नावादयः भविष्यन्ति ।
१० - १३ - न त्वा नावम् मन्ये यावत् तीर्णम् न नाव्यम् ।
११ - १३ - न त्वा अन्नम् मन्ये यावत् भुक्तम् न श्राद्धम् ।
१२ - १३ - अत्र येषु प्राणिषु न इष्यते ते नावादयः भविष्यन्ति ।
१३ - १३ - मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् । मन्यकर्मणि प्रकृष्यकुत्सितग्रहणम् कर्तव्यम् इह मा भूत् ॒ त्वाम् तृणम् मन्ये इति ।
१ - ३३ - तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् ।
२ - ३३ - तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् कर्तव्यम् ।
३ - ३३ - तृतीयाविधाने प्रकृत्यादिभ्यः उपसङ्ख्यानम् ।
४ - ३३ - प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः ।
५ - ३३ - प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः ।
६ - ३३ - माठरः अस्मि गोत्रेण. गार्ग्यः अस्मि गोत्रेण ।
७ - ३३ - समेन धावति ।
८ - ३३ - विषमेण धावति ।
९ - ३३ - द्विद्रोणेन धान्यम् क्रीणाति ।
१० - ३३ - त्रिद्रोणेन धान्यम् क्रीणाति ।
११ - ३३ - पञ्चकेन पशून् क्रीणाति ।
१२ - ३३ - साहस्रेण अश्वान् क्रीणाति. तत् तर्हि वक्तव्यम् ।
१३ - ३३ - न वक्तव्यम् ।
१४ - ३३ - कर्तृकरणयोः तृतीया इति एव सिद्धम् ।
१५ - ३३ - इह तावत् प्रकृत्या अभिरूपः प्रकृत्या दर्शनीयः इति प्रकृतिकृतम् तस्य आभिरूप्यम् ।
१६ - ३३ - प्रायेण याज्ञिकाः प्रायेण वैयाकरणाः इति ।
१७ - ३३ - एषः तत्र प्रायः येन ते अधीयते ।
१८ - ३३ - माठरः अस्मि गोत्रेण. गार्ग्यः अस्मि गोत्रेण इति ।
१९ - ३३ - एतेन अहम् सञ्ज्ञाये ।
२० - ३३ - समेन धावति ।
२१ - ३३ - विषमेण धावति ।
२२ - ३३ - इदम् अत्र प्रयोक्तव्यम् सत् न प्रयुज्यते समेन पथा धावति विषमेण पथा धावतीति ।
२३ - ३३ - द्विद्रोणेन धान्यम् क्रीणाति ।
२४ - ३३ - त्रिद्रोणेन धान्यम् क्रीणाति ।
२५ - ३३ - तादर्थ्यात् ताच्छब्द्यम् ।
२६ - ३३ - द्विद्रोणार्थम् द्विद्रोणम् ।
२७ - ३३ - द्विद्रोणेन हिरण्येन धान्यम् क्रीणाति इति ।
२८ - ३३ - पञ्चकेन पशून् क्रीणाति इति ।
२९ - ३३ - अत्र अपि तादर्थ्यात् ताच्छब्द्यम् ।
३० - ३३ - पञ्चपश्वर्थः पञ्चकः ।
३१ - ३३ - पञ्चकेन पशून् क्रीणाति इति ।
३२ - ३३ - साहस्रेण अश्वान् क्रीणाति इति. सहस्रपरिमाणम् साहस्रम् ।
३३ - ३३ - साहस्रेण हिरण्येन अश्वान् क्रीणाति इति.
१ - २८ - किम् उदाहरणम् ।
२ - २८ - तिलैः सह माषान् वपति इति ।
३ - २८ - न एतत् अस्ति ।
४ - २८ - तिलैः मिश्रीकृत्य माषाः उप्यन्ते ।
५ - २८ - तत्र करणे इति एव सिद्धम् ।
६ - २८ - इदम् तर्हि ।
७ - २८ - पुत्रेण सह आगतः देवदत्तः इति ।
८ - २८ - अप्रधाने कर्तरि तृतीया यथा स्यात् ।
९ - २८ - एतत् अपि न अस्ति प्रयोजनम् ।
१० - २८ - प्रधाने कर्तरि लादयः भवन्ति इति प्रधानकर्ता क्तेन अभिधीयते यः च अप्रधानम् सिद्धा तत्र कर्तरि इति एव तृतीया ।
११ - २८ - इदम् तर्हि ।
१२ - २८ - पुत्रेण सह आगमनम् देवदत्तस्य इति ।
१३ - २८ - षष्ठी अत्र बाधिका भविष्यति ।
१४ - २८ - इदम् तर्हि ।
१५ - २८ - पुत्रेण सह स्थूलः ।
१६ - २८ - पुत्रेण सह पिङ्गलः इति ।
१७ - २८ - इदम् च अपि उदाहरणम् तिलैः सह माषान् वपति इति ।
१८ - २८ - ननु च उक्तम् तिलैः मिश्रीकृत्य माषाः उप्यन्ते ।
१९ - २८ - तत्र करणे इति एव सिद्धम् इति ।
२० - २८ - भवेत् सिद्धम् यदा तिलैः मिश्रीकृत्य उप्येरन् ।
२१ - २८ - यदा तु खलु कस्य चिन् माषबीजावापः उपस्थितः तदर्थम् च क्षेत्रम् उपार्जितम् तत्र अन्यत् अपि किं चिद् उप्यते यदि भविष्यति भविष्यति इति तदा न सिध्यति ।
२२ - २८ - सहयुक्ते अप्रधानवचनम् अनर्थकम् उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् अन्यत्र अपि ।
२३ - २८ - सहयुक्ते अप्रधानवचनम् अनर्थकम् ।
२४ - २८ - किं कारणम् ।
२५ - २८ - उपपदविभक्तेः कारकविभक्तिबलीयस्त्वात् ।
२६ - २८ - अन्यत्र अपि कारकविभक्तिर्बलीयसी इति प्रथमा भविष्यति ।
२७ - २८ - क्व अन्यत्र ।
२८ - २८ - गाः स्वामी व्रजति इति ।
१ - ८ - इह कस्मात् न भवति ।
२ - ८ - अक्षि काणम् अस्य इति ।
३ - ८ - अङ्गात् विकृतात् तद्विकारतः चेत् अङ्गिनः वचनम् ।
४ - ८ - अङ्गात् विकृतात् तृतीया वक्तव्या तेन एव चेत् विकारेण अङ्गी द्योत्यते इति वक्तव्यम् ।
५ - ८ - तत् तर्हि वक्तव्यम् ।
६ - ८ - न वक्तव्यम् ।
७ - ८ - अङ्गशब्दः अयम् समुदायशब्दः येन इति च करणे एषा तृतीया ।
८ - ८ - येन अवयवेन समुदायः अङ्गी द्योत्यते तस्मिन् भवितव्यम् न च एतेन अवयवेन समुदायः द्योत्यते ।
१ - १४ - इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः ।
२ - १४ - इत्थम्भूतलक्षणे तत्स्थे प्रतिषेधः वक्तव्यः ।
३ - १४ - अपि भवान्कमण्डलुपाणिम् छात्रम द्राक्षीत् इति ।
४ - १४ - न वा इत्थम्भूतस्य लक्षणेन अपृथग्भावात् ।
५ - १४ - न वा वक्तव्यम् ।
६ - १४ - किम् कारणम् ।
७ - १४ - इत्थम्भूतस्य लक्षणेन अपृथग्भावात् ।
८ - १४ - यत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् तत्र भवितव्यम् ।
९ - १४ - न च अत्र इत्थम्भूतस्य पृथग्भूतम् लक्षणम् ।
१० - १४ - किम् वक्तव्यम् एतत् ।
११ - १४ - न हि ।
१२ - १४ - कथम् अनुच्यमानम् गंस्यते ।
१३ - १४ - तथा हि अयम् प्राधान्येन लक्षणम् प्रतिनिर्दिशति ।
१४ - १४ - इत्थम्भूतस्य लक्षणम् इत्थंभूतलक्षणम् तस्मिन् नित्थंभूतलक्षणे इति ।
१ - ३१ - सञ्ज्ञः कृत्प्रयोगे षष्ठी विप्रतिषेधेन । सञ्ज्ञः अन्यतरस्याम् कर्मणि इति एतस्मात् कृप्रयोगे षष्ठी भवति विप्रतिषेधेन ।
२ - ३१ - सञ्ज्ञः अन्यतरस्याम् इति अस्य अवकाशः ।
३ - ३१ - मातरम् सञ्जानीते ।
४ - ३१ - मात्रा सञ्जानीते ।
५ - ३१ - कृत्प्रयोगे षष्ठ्याः अवकाशः ।
६ - ३१ - इध्मप्रव्रश्चनः पलाशशातनः ।
७ - ३१ - इह उभयम् प्राप्नोति ।
८ - ३१ - मातुः सञ्ज्ञाता ।
९ - ३१ - पितुः सञ्ज्ञाता इति ।
१० - ३१ - षष्ठी भवति विप्रतिषेधेन ।
११ - ३१ - उपपदविभक्तेः च उपपदविभक्तिः । उपपदविभक्तेः च उपपदविभक्तिः भवति विप्रतिषेधेन । अन्यारादितरेर्तदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते इति अस्य अवकाशः ।
१२ - ३१ - अन्यः देवदत्तात् ।
१३ - ३१ - स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः च इति अस्य अवकाशः ।
१४ - ३१ - गोषु स्वामी ।
१५ - ३१ - गवां स्वामी ।
१६ - ३१ - इह उभयम् प्राप्नोति ।
१७ - ३१ - अन्यः गोषु स्वामी ।
१८ - ३१ - अन्यः गवां स्वामी इति ।
१९ - ३१ - स्वामीश्वराधिपति इति एतत् भवति विप्रतिषेधेन ।
२० - ३१ - न एषः युक्त्ः विप्रतिषेधः ।
२१ - ३१ - न हि अत्र गावः अन्ययुक्ताः ।
२२ - ३१ - कः तर्हि ।
२३ - ३१ - स्वामी ।
२४ - ३१ - एवम् तर्हि तुल्यार्थः अतुलोपमाभ्याम् तृतीया अन्यतरस्याम् इति अस्य अवकाशः ।
२५ - ३१ - तुल्यः देवदत्तस्य ।
२६ - ३१ - तुल्यः देवदत्तेन इति ।
२७ - ३१ - स्वामीश्वराधिपति इति अस्य वकाशः सः एव ।
२८ - ३१ - इह उभयम् प्राप्नोति ।
२९ - ३१ - तुल्यः गोभिः स्वामी ।
३० - ३१ - तुल्यः गवां स्वामी इति ।
३१ - ३१ - तुल्यार्थः रतुलोपमाभ्याम् इति एतत् भवति विप्रतिषेधेन ।
१ - २० - निमित्तकारणहेतुषु सर्वासाम् प्रायदर्शनम् । निमित्तकारणहेतुषु सर्वा विभक्तयः प्रायेण दृश्यन्ते इति वक्तव्यम् ।
२ - २० - किम् निमित्तम् वसति ।
३ - २० - केन निमित्तेन वसति ।
४ - २० - कस्मै निमित्ताय वसति ।
५ - २० - कस्मात् निमित्तात् वसति ।
६ - २० - कस्य निमित्तस्य वसति ।
७ - २० - कस्मिन् निमित्ते वसति ।
८ - २० - किम् कारणम् वसति ।
९ - २० - केन कारणेन वसति ।
१० - २० - कस्मै कारणाय वसति ।
११ - २० - कस्मात् कारणात् वसति ।
१२ - २० - कस्य कारणस्य वसति ।
१३ - २० - कस्मिन् कारणे वसति ।
१४ - २० - कः हेतुः वसति ।
१५ - २० - कम् हेतुम् वसति ।
१६ - २० - केन हेतुना वसति ।
१७ - २० - कस्मै हेतवे वसति ।
१८ - २० - कस्मात् हेतोः वसति ।
१९ - २० - कस्य हेतोः वसति ।
२० - २० - कस्मिन् हेतौ वसति ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP