पाद १ - खण्ड ३२

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ८४ - किमर्थः चकारः ।

२ - ८४ - स्वरार्थः ।

३ - ८४ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

४ - ८४ - न एतत् अस्ति प्रयोजनम् ।

५ - ८४ - एकाच् अयम् ।

६ - ८४ - तत्र न अर्थः स्वरार्थेन चकारेण अनुबन्धेन ।

७ - ८४ - प्रत्ययस्वरेण एव सिद्धम् ।

८ - ८४ - विशेषणार्थः तर्हि ।

९ - ८४ - क्व विशेषणार्थेन अर्थः ।

१० - ८४ - अस्य च्वौ क्यचि च इति ।

११ - ८४ - क्ये च इति उच्यमाने अपि काकः श्येनायते अत्र अपि प्रसय्जेत ।

१२ - ८४ - न एतत् अस्ति ।

१३ - ८४ - तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणम् न इति एवम् एतस्य न भविष्यति ।

१४ - ८४ - सामान्यग्रहणाविघातार्थः तर्हि ।

१५ - ८४ - क्व च सामान्यग्रहणाविघातार्थेन अर्थः ।

१६ - ८४ - नः क्ये इति ।

१७ - ८४ - अथ आत्मन्ग्रहणम् किमर्थम् ।

१८ - ८४ - आत्मेच्छायाम् यथा स्यात् ।

१९ - ८४ - परेच्छायाम् मा भूत् इति ।

२० - ८४ - राज्ञः पुत्रम् इच्छति इति ।

२१ - ८४ - क्रियमाणे अपि आत्मग्रहणे परेच्छायाम् प्राप्नोति ।

२२ - ८४ - किम् कारणम् ।

२३ - ८४ - आत्मनः इति इयम् कर्तरि षष्ठी ।

२४ - ८४ - इच्छा इति अकारः भावे ।

२५ - ८४ - सः यदि एव आत्मनः इच्छा अथ अपि परस्य आत्मेच्छा एव असौ भवति ।

२६ - ८४ - न आत्मग्रहणेन इच्छा अभिसम्बध्यते ।

२७ - ८४ - किम् तर्हि ।

२८ - ८४ - सुबन्तम् अभिसम्बध्यते ।

२९ - ८४ - आत्मनः यत् सुबन्तम् इति ।

३० - ८४ - यदि आत्मग्रहणम् क्रियते छन्दसि परेच्छायाम् न प्राप्नोति ।

३१ - ८४ - म त्वा वृकाः अघायवः विदन् ।

३२ - ८४ - तस्मात् न अर्थः आत्मग्रहणेन ।

३३ - ८४ - इह कस्मात् न भवति ॒ राज्ञः पुत्रम् इच्छति इति ।

३४ - ८४ - असामर्थ्यात् ।

३५ - ८४ - कथम् असामर्थ्यम् ।

३६ - ८४ - सापेक्षम् असमर्थम् भवति इति ।

३७ - ८४ - छन्दसि अपि तर्हि न प्राप्नोति ।

३८ - ८४ - म त्वा वृकाः अघायवः विदन् ।

३९ - ८४ - अस्ति अत्र विशेषः ।

४० - ८४ - अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।

४१ - ८४ - कथम् पुनः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।

४२ - ८४ - ते च एव वृकाः एवमात्मकः हिंस्राः ।

४३ - ८४ - कः च आत्मनः अघम् एषितुम् अर्हति ।

४४ - ८४ - अतः अन्तरेण अपि अत्र तृतीयस्य पदस्य प्रयोगम् परेच्छा गम्यते ।

४५ - ८४ - यथा एव तर्हि छन्दसि अघशब्दात् परेच्छायाम् ख्यच् भवति एवम् भाषायाम् अपि प्राप्नोति ।

४६ - ८४ - अघम् इच्छति इति ।

४७ - ८४ - तस्मात् आत्मग्रहणम् कर्तव्यम् ।

४८ - ८४ - छन्दसि कथम् ।

४९ - ८४ - आचार्यप्रवृत्तिः ज्ञापयति भवति छन्दसि अघशब्दात् परेच्छायाम् क्यच् इति यत् अयम् अश्वाघस्यात् इति क्यचि प्रत्कृते ईत्वबाधनार्थम् आकारम् शास्ति ।

५० - ८४ - अथ सुब्ग्रहणम् किमर्थम् ।

५१ - ८४ - सुबन्तात् उत्पत्तिः यथ स्यात् ।

५२ - ८४ - प्रातिपदिकात् मा भूत् इति ।

५३ - ८४ - न एतत् अस्ति प्रयोजनम् ।

५४ - ८४ - न अस्ति अत्र विशेषः सुबन्तात् उत्पत्तौ सत्याम् प्रातिपदिकात् वा अयम् अस्ति विशेषः ।

५५ - ८४ - सुबन्तात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा भवति ।

५६ - ८४ - प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा न प्राप्नोति ।

५७ - ८४ - ननु च प्रातिपदिकात् उत्पत्तौ सत्याम् पदसञ्ज्ञा सिद्धा ।

५८ - ८४ - कथम् ।

५९ - ८४ - आरभ्यते नः क्ये इति ।

६० - ८४ - तत् च अवश्यम् कर्तव्यम् सुबन्तात् उत्पत्तौ सत्याम् नियमार्थम् ।

६१ - ८४ - तत् एव प्रातिपदिकात् उत्पत्तौ सत्याम् विध्यर्थम् भविष्यति ।

६२ - ८४ - इदम् तर्हि प्रयोजनम् ।

६३ - ८४ - सुबन्तात् उत्पत्तिः यथ स्यात् ।

६४ - ८४ - धातोः मा भूत् इति ।

६५ - ८४ - एतत् अपि न अस्ति प्रयोजनम् ।

६६ - ८४ - धातोः सन् विधीयते ।

६७ - ८४ - सः बाधकः भविष्यति ।

६८ - ८४ - अनवकाशाः हि विधयः बाधकाः भवन्ति सावकाशः च सन् ।

६९ - ८४ - कः अवकाशः ।

७० - ८४ - परेच्छा ।

७१ - ८४ - न परेच्छायाम् सना भवितव्यम् ।

७२ - ८४ - किम् कारणम् ।

७३ - ८४ - समानकर्तृकात् इति उच्यते ।

७४ - ८४ - यावत् च इह आत्मग्रहणम् तावत् तत्र समानकर्तृकग्रहणम् ।

७५ - ८४ - इदम् तर्हि प्रयोजनम् ।

७६ - ८४ - सुबन्तात् उत्पत्तिः यथ स्यात् ।

७७ - ८४ - वाक्यात् मात् भूत् इति ।

७८ - ८४ - महान्तम् पुत्रम् इच्छति इति ।

७९ - ८४ - न वा भवति महापुत्रीयति इति ।

८० - ८४ - भवति यदा एतत् वाक्यम् भवति ।

८१ - ८४ - महान् पुत्रः महापुत्रः ।

८२ - ८४ - महापुत्रम् इच्छति महापुत्रीयति इति ।

८३ - ८४ - यदा तु एतत् वाक्यम् भवति महान्तम् पुत्रम् इच्छति इति तदा न भवितव्यम् तदा च प्राप्नोति ।

८४ - ८४ - तदा मा भूत् इति ।

१ - ६३ - अथ क्रियमाणे अपि सुब्ग्रहणे कस्मात् एव अत्र न भवति ।

२ - ६३ - सुबन्तम् हि एतत् वाक्यम् ।

३ - ६३ - न एतत् सुबन्तम् ।

४ - ६३ - कथम् ।

५ - ६३ - प्रत्ययग्रहणे यस्मात् तदादेः ग्रहणम् भवति इति ।

६ - ६३ - अथ यत् अत्र सुबन्तम् तस्मात् उत्पत्तिः कस्मात् न भवति ।

७ - ६३ - समानाधिकरणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन ।

८ - ६३ - समानाधिकरणानाम् सर्वत्र एव वृत्तिः न भवति ।

९ - ६३ - क्व सर्वत्र ।

१० - ६३ - समासविधौ प्रत्ययविधौ ।

११ - ६३ - समासविधौ तावत् ।

१२ - ६३ - ऋद्धस्य राज्ञः पुरुषः ।

१३ - ६३ - महत् कष्टम् श्रितः इति ।

१४ - ६३ - प्रत्ययविधौ ।

१५ - ६३ - ऋद्धस्य उपगोः अपत्यम् ।

१६ - ६३ - महान्तम् पुत्रम् इच्छति ।

१७ - ६३ - इति ।

१८ - ६३ - किम् पुनः कारणम् समानाधिकरणानाम् सर्वत्र वृत्तिः न भवति ।

१९ - ६३ - अयोगात् एकेन ।

२० - ६३ - न हि एकेन पदेन योगः भवति ।

२१ - ६३ - इह तावत् ऋद्धस्य राज्ञः पुरुषः इति षष्ठ्यन्तेन सुबन्तेन सामर्थ्ये सति समासः विधीयते ।

२२ - ६३ - यत् च अत्र षष्थ्यन्तम् न तस्य सुबन्तेन सामर्थ्यम् ।

२३ - ६३ - यस्य च सामर्थ्यम् न तत् षष्ठ्यन्तम् ।

२४ - ६३ - वाक्यम् तत् ।

२५ - ६३ - ऋद्धस्य उपगोः अपत्यम् इति च ।

२६ - ६३ - षष्ठीसमर्थात् अपत्येन योगे प्रत्ययः विधीयते ।

२७ - ६३ - यत् च अत्र षष्ट्ःीसमर्थम् न तस्य अपतत्येन योगः यस्य च अप्तत्येन योगः न तत् षष्ठ्यन्तम् ।

२८ - ६३ - वाक्यम् तत् ।

२९ - ६३ - समानाधिकरणानाम् इति उच्यते ।

३० - ६३ - अथ व्यधिकरणानाम् कथम् ।

३१ - ६३ - राज्ञः पुत्रम् इच्छति इति ।

३२ - ६३ - एवम् तर्हि इदम् पठितव्यम् ।

३३ - ६३ - सविशेषणानाम् सर्वत्र अवृत्तिः अयोगात् एकेन ।

३४ - ६३ - द्वितीयानुपपत्तिः तु ।

३५ - ६३ - द्वितीया तु न उपपद्यते ।

३६ - ६३ - महान्तम् पुत्रम् इच्छति इति ।

३७ - ६३ - किम् कारणम् ।

३८ - ६३ - न पुत्रः इषिकर्म ।

३९ - ६३ - यदि पुत्रः न इषिकर्म न च अवश्यम् द्वितीया एव ।

४० - ६३ - किम् तर्हि ।

४१ - ६३ - सर्वाः द्वितीयादयः विभक्तयः ।

४२ - ६३ - महता पुत्रेण कृतम् ।

४३ - ६३ - महते पुत्राय देहि ।

४४ - ६३ - महः पुत्रात् आनय ।

४५ - ६३ - महतः पुत्रस्य स्वम् ।

४६ - ६३ - महति पुत्रे निधेहि ।

४७ - ६३ - तस्मात् न एवम् शक्यम् वक्तुम् न पुत्रः इषिकर्म इति ।

४८ - ६३ - पुत्र एव इषिकर्म ।

४९ - ६३ - तत्सामानाधिकरण्यात् द्वितीयादयः भविष्यन्ति ।

५० - ६३ - वृत्तिः तर्हि कस्मात् न भवति ।

५१ - ६३ - सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति वक्तव्यम् ।

५२ - ६३ - यदि सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते इति उच्यते मुण्डयति माणवकम् इति अत्र वृत्तिः न प्राप्नोति ।

५३ - ६३ - अमुण्डादीनाम् इति वक्तव्यम् ।

५४ - ६३ - तत् तर्हि वक्तव्यम् सविशेषणानाम् वृत्तिः न वृत्तस्य वा विशेषणम् न प्रयुज्यते अमुण्डादीनाम् इति ।

५५ - ६३ - न वक्तव्यम् ।

५६ - ६३ - वृत्तिः कस्मात् न भवति महान्तम् पुत्रम् इच्छति इति ।

५७ - ६३ - अगमकत्वात् ।

५८ - ६३ - इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च ।

५९ - ६३ - यः च इह अर्थः वाक्येन गम्यते महान्तम् पुत्रम् इच्छति इति न असौ जातु चित् प्रत्ययान्तेन गम्यते महान्तम् पुत्रीयति इति ।

६० - ६३ - एतस्मात् हेतोः ब्रूमः अगमकत्वात् इति ।

६१ - ६३ - न ब्रूमः अपशब्दः स्यात् इति ।

६२ - ६३ - यत्र च गमकत्वम् भवति तत्र वृत्तिः ।

६३ - ६३ - तत् यथा मुण्डयति माणवकम् इति ।

१ - ७२ - अथ अस्य क्यजन्तस्य कानि साधनानि भवन्ति ।

२ - ७२ - भावः कर्ता च ।

३ - ७२ - अथ कर्म ।

४ - ७२ - न अस्ति कर्म ।

५ - ७२ - ननु च अयम् इषिः सकर्मकः यस्य अयम् अर्थे क्यच् विधीयते ।

६ - ७२ - अभिहितम् तत् कर्म अन्तर्भूतम् धात्वर्थः सम्पन्नः ।

७ - ७२ - न च इदानीम् अन्यत् कर्म अस्ति येन सकर्मकः स्यात् ।

८ - ७२ - कथम् तर्हि अयम् सकर्मकः भवति अपुत्रम् पुत्रम् इव आचरति पुत्रीयति माणवकम् इति ।

९ - ७२ - अस्ति अत्र विशेषः ।

१० - ७२ - द्वे हि अत्र कर्मणी उपमानकर्म उपमेयकर्म च ।

११ - ७२ - उपमानकर्म अन्तर्भूतम् ।

१२ - ७२ - उपमेयेन कर्मणा सकर्मकः भवति ।

१३ - ७२ - तत् यथा ।

१४ - ७२ - अपि काकः श्येनायते इति अत्र द्वौ कर्तारौ उपमानकर्ता च उपमेयकर्ता च. उपमानकर्ता अन्तर्भूतः ।

१५ - ७२ - उपेमेयकर्त्रा सक्र्तृकः भवति ।

१६ - ७२ - अयम् तर्हि कथम् सकर्मकः भवति ।

१७ - ७२ - मुण्डयति माणवकम् इति ।

१८ - ७२ - अत्र अपि द्वे कर्मणी सामान्यकर्म विशेषकर्म च ।

१९ - ७२ - सामान्यकर्म अन्तर्भूतम् ।

२० - ७२ - विशेषकर्मणा सकर्मकः भवति ।

२१ - ७२ - ननु च वृत्त्या एव अत्र न भवितव्यम् ।

२२ - ७२ - किम् कारणम् ।

२३ - ७२ - असामर्थ्यात् ।

२४ - ७२ - कथम् असामर्थ्यम् ।

२५ - ७२ - सापेक्षम् असमर्थम् भवति इति ।

२६ - ७२ - न एषः दोषः ।

२७ - ७२ - न अत्र उभौ करोतियुक्तौ मुण्डः माणवकः च ।

२८ - ७२ - न हि माणवकः क्रियते ।

२९ - ७२ - यदा च उभौ करोतियुक्तौ भवतः न भवति तदा वृत्तिः ।

३० - ७२ - तत् यथा बलीवर्दम् करोति मुण्डम् च एनम् करोति इति ।

३१ - ७२ - कामम् तर्हि अनेन एव हेतुना क्यच् अपि कर्तव्यः माणवकम् मुण्डम् इच्छति इति ।

३२ - ७२ - न उभौ इषियुक्तौ इति ।

३३ - ७२ - न कर्तव्यः ।

३४ - ७२ - उभौ अत्र इषियुक्तौ मुण्डः माणवकः च ।

३५ - ७२ - कथम् ।

३६ - ७२ - न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति ।

३७ - ७२ - माणवकस्थम् असौ मौण्ड्यम् इच्छति ।

३८ - ७२ - इह अपि तर्हि न प्राप्नोति मुण्डयति माणवकम् इति ।

३९ - ७२ - अत्र अपि हि उभौ करोतियुक्त मुण्डः माणवकः च ।

४० - ७२ - न हि असौ मौण्ड्यमात्रेण सन्तोषम् करोति ।

४१ - ७२ - माणवकस्थम् असु मौण्ड्यम् निर्वर्तयति ।

४२ - ७२ - एवम् तर्हि मुण्डादयः गुअणवचनाः ।

४३ - ७२ - गुणवचनाः च सापेक्षाः ।

४४ - ७२ - वचनात् सापेक्षाणाम् अपि वृत्तिः भविष्यति ।

४५ - ७२ - अथ वा धातवः एव मुण्डादयः ।

४६ - ७२ - न न एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते ।

४७ - ७२ - अथ वा न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च ।

४८ - ७२ - यदा वाक्यम् न तदा प्रत्ययः ।

४९ - ७२ - यदा प्रत्ययः सामान्येन तदा वृत्तिः ।

५० - ७२ - तत्र अव्श्यम् विशेषार्थिना विशेषः अनुप्रयोक्तव्यः ।

५१ - ७२ - मुण्डयति ।

५२ - ७२ - कम् ।

५३ - ७२ - माणवकम् इति ।

५४ - ७२ - मुण्डविशिष्टेन वा करोतिन तम् आप्तुम् इच्छति ।

५५ - ७२ - अथ वा उक्तम् एतत् ।

५६ - ७२ - न अत्र व्यापारः अनुगन्तव्यः इति ।

५७ - ७२ - गमक्त्वात् इह वृत्तिः भविष्यति ।

५८ - ७२ - मुण्डयति माणवकम् इति ।

५९ - ७२ - अथ इह क्यचा भवितव्यम् ।

६० - ७२ - इष्टः पुत्रः ।

६१ - ७२ - इष्यते पुत्रः इति ।

६२ - ७२ - के चित् तावत् आहुः न भवितव्यम् इत् ।

६३ - ७२ - किम् कारणम् ।

६४ - ७२ - स्वशब्देन उक्तत्वात् इति ।

६५ - ७२ - अपरे आहुः ॒ भवितव्यम् इति ।

६६ - ७२ - किम् कारणम् ।

६७ - ७२ - धात्वर्थे अयम् क्यच् विधीयते ।

६८ - ७२ - सः च धात्वर्थः केन चित् एव शब्देन निर्देष्टव्यः इति ।

६९ - ७२ - इहभवन्तः तु आहुः न भवितव्यम् इति ।

७० - ७२ - किम् कारणम् ।

७१ - ७२ - इह समानार्थेन वाक्येन भवितव्यम् प्रत्ययान्तेन च ।

७२ - ७२ - यः च इह अर्थः वाक्येन गम्यते इष्टः पुत्रः इष्यते पुत्रः इति न असौ जातु चित् प्रत्ययान्तेन गम्यते ।

१ - १३ - क्यचि मान्ताव्ययप्रतिषेधः ।

२ - १३ - क्यचि मान्ताव्ययानाम् प्रतिषेधः वक्तव्यः ।

३ - १३ - इह मात् भूत् ।

४ - १३ - इदम् इच्छति ।

५ - १३ - किम् इच्छति ।

६ - १३ - उच्चैः इच्छति ।

७ - १३ - नीचैः इच्छति ।

८ - १३ - गोसमानाक्षरनान्तात् इति एके ।

९ - १३ - गाम् इच्छति गव्यति ।

१० - १३ - समानाक्षरात् ।

११ - १३ - दधीयति मधति कर्त्रीयति हर्त्रीयति ।

१२ - १३ - नान्तात् ।

१३ - १३ - राजीयति तक्षीयति ।

१ - ३८ - किमर्थः चकारः ।

२ - ३८ - स्वरार्थः ।

३ - ३८ - चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

४ - ३८ - न एतत् अस्ति प्रयोजनम् ।

५ - ३८ - धातुस्वरेण अपि एतत् सिद्धम् ।

६ - ३८ - ककारस्य तर्हि इत्सञ्ज्ञापरित्राणार्थः आदितः चकारः कर्तव्यः ।

७ - ३८ - अतः उत्तरम् पठति ।

८ - ३८ - काम्यचः चित्करणानर्थक्यम् कस्य इदर्थाभावात् ।

९ - ३८ - काम्यचः चित्करणम् अनर्थकम् ।

१० - ३८ - ककारस्य तर्हि इत्सञ्ज्ञा कस्मात् न भवति ।

११ - ३८ - इदर्थाभावात् ।

१२ - ३८ - इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

१३ - ३८ - ननु च लोपः एव इत्कार्यम् ।

१४ - ३८ - अकार्यम् लोपः ।

१५ - ३८ - इह हि शब्दस्य कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा ।

१६ - ३८ - कर्यम् च इह न अस्ति ।

१७ - ३८ - कार्ये असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् ।

१८ - ३८ - इदम् तर्हि इत्कार्यम् ।

१९ - ३८ - अग्निचित्कम्यति ।

२० - ३८ - किति इति गुणप्रतिषेधः यथा स्यात् ।

२१ - ३८ - न एतत् अस्ति प्रयोजनम् ।

२२ - ३८ - सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।

२३ - ३८ - धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।

२४ - ३८ - न च अयम् धातोः विधीयते ।

२५ - ३८ - इदम् तर्हि ।

२६ - ३८ - उपयट्काम्यति ।

२७ - ३८ - किति इति सम्प्रसारणम् यथा स्यात् ।. एतत् अपि न अस्ति प्रयोजनम् ।

२८ - ३८ - यजादिभिः अत्र कितम् विशेषयिष्यामः ।

२९ - ३८ - यजादीनाम् यः कित् इति ।

३० - ३८ - कः च यजादीनाम् कित् ।

३१ - ३८ - यजादिभ्यः यः विहितः इति ।

३२ - ३८ - अथ अपि कथम् चित् इत्कार्यम् स्यात् ।

३३ - ३८ - एवम् अपि न दोषः ।

३४ - ३८ - क्रियते न्यासे एव द्विचकारकः निर्देशः ।

३५ - ३८ - सुपः आत्मनः क्यच् च्काम्यत् च इति ।

३६ - ३८ - अथ वा छान्दसम् एतत् ।

३७ - ३८ - दृष्टानुविधिः छन्दसि भवति ।

३८ - ३८ - न च अत्र सम्प्रसारणम् दृश्यते ।

१ - ३ - अधिकरणात् च ।

२ - ३ - अधिकरणात् च इति वक्तव्यम् ।

३ - ३ - प्रासादयति कुट्याम् कुटीयति प्रासादे इति अत्र अपि यथा स्यात् ।

१ - २५ - सलोपसन्नियोगेन अयम् क्यङ् विधीयते ।

२ - २५ - तेन यत्र एव सलोपः तत्र एव स्यात् ।

३ - २५ - पयायते ।

४ - २५ - इह न स्यात् ।

५ - २५ - अपि काकः श्येनायते ।

६ - २५ - न एषः दोषः ।

७ - २५ - प्रधान्शिष्टः क्यङ् ।

८ - २५ - अन्वाचयशिष्टः सलोपः ।

९ - २५ - यत्र च सकारम् पश्यसि इति ।

१० - २५ - तत् यथ ।

११ - २५ - कः चित् उक्तः ग्रामे भिक्षाम् चर देवदत्तम् च आनय इति ।

१२ - २५ - सः ग्रामे भिक्षाम् चरति ।

१३ - २५ - यदि देवदत्तम् पश्यति तम् अपि आनयति ।

१४ - २५ - सलोपः वा ।

१५ - २५ - सलोपः वा इति वक्तव्यम् ।

१६ - २५ - पयायते पयस्यते ।

१७ - २५ - ओजोप्सरसोः नित्यम् ।

१८ - २५ - ओजोप्सरसोः नित्यम् सलोपः वक्तव्यः ।

१९ - २५ - ओजायमानम् यः अहिम् जघान ।

२० - २५ - अप्सरायते ।

२१ - २५ - अप्रः आह सलोपः अप्सरसः एव ।

२२ - २५ - पयस्यते इति एव भवितव्यम् इति ।

२३ - २५ - कथम् ओजायमानम् यः अहिम् जघन इति ।

२४ - २५ - छान्दसः प्रयोगः ।

२५ - २५ - छन्दसि च दृष्टानुविधिः विधीयते ।

१ - २९ - आचारे गल्भक्लीबहोडेभ्यः क्विप् वा ।

२ - २९ - आचारे गल्भक्लीबहोडेभ्यः क्विप् वा वक्तव्यः ।

३ - २९ - अवगल्भते अवगल्भायते ।

४ - २९ - क्लीब ।

५ - २९ - विक्लीबते विक्लीबायते ।

६ - २९ - क्लीब ।

७ - २९ - होड ।

८ - २९ - विहोडते विहोडायते ।

९ - २९ - किम् प्रयोजनम् ।

१० - २९ - क्रियावचनता यथा स्यात् ।

११ - २९ - न एतत् अस्ति प्रयोजनम् ।

१२ - २९ - धातवः एव गल्भादयः ।

१३ - २९ - न च एव हि अर्थाः आदिश्यन्ते क्रियावचनता च गम्यते ।

१४ - २९ - इदम् तर्हि प्रयोजनम् ।

१५ - २९ - अवगल्भा विक्लीबा विहोडा ।

१६ - २९ - अ प्रत्ययात् इति अकारः यथा स्यात् ।

१७ - २९ - मा भूत् एवम् ।

१८ - २९ - गुरोः च हलः इति एवम् भविष्यति ।

१९ - २९ - इदम् तर्हि ।

२० - २९ - अवगल्भाम् चक्रे ।

२१ - २९ - विक्लीबाम् चक्रे ।

२२ - २९ - विहोडाम् चक्रे ।

२३ - २९ - कास्प्रत्ययात् आम् अमन्त्रे इति आम् यथा स्यात् ।

२४ - २९ - अपरः आह ॒ सर्वप्रातिपदिकेभ्यः आचारे क्विप् वक्तव्यः अश्वति गर्दभति इति एवमर्थम् ।

२५ - २९ - न तर्हि इदानीम् गल्भाद्यनुक्रमणम् कर्तव्यम् ।

२६ - २९ - कर्तव्यम् च ।

२७ - २९ - किम् प्रयोजनम् ।

२८ - २९ - आत्मनेपदार्थम् अनुबन्धान् आसङ्क्ष्यामि इति ।

२९ - २९ - गल्भ क्लीब होड ।

१ - ६ - हलः लोपसन्नियोगेन अयम् क्यङ् विधीयते ।

२ - ६ - तेन यत्र एव हलः लोपः तत्र एव प्रसज्येत ।

३ - ६ - न एषः दोषः ।

४ - ६ - प्रधानशिष्टः क्यङ् ।

५ - ६ - अन्वाचयशिष्टः हलः लोपः ।

६ - ६ - यत्र च हलम् पश्यसि इति ।

१ - ३० - भृशादिषु अभूततद्भावग्रहणम् ।

२ - ३० - भृशादिषु अभूततद्भावग्रहणम् कर्तव्यम् ।

३ - ३० - इह मा भूत् ।

४ - ३० - क्व दिवा भृशाः भवन्ति इति ।

५ - ३० - च्विप्रतिषेधानर्थक्यम् च भवत्यर्थे क्यङ्वचनात् । च्विप्रतिषेधः च अनर्थकः ।

६ - ३० - किम् कारणम् ।

७ - ३० - भवत्यर्थे क्यङ्वचनात् ।

८ - ३० - भवत्यर्थे हि क्यङ् विधीयते ।

९ - ३० - भवतियोगे च्विविधानम् । भवतिना योगे च्विः विधीयते ।

१० - ३० - तत्र च्विना उक्तत्वात् तस्य अर्थस्य क्यङ् न भविष्यति ।

११ - ३० - डाजन्तात् अपि तर्हि न प्राप्नोति ।

१२ - ३० - पटपटायते ।

१३ - ३० - डाच् अपि हि भवतिना योगे विधीयते ।

१४ - ३० - भवत्यर्थे क्यष् ।

१५ - ३० - डाचि वचनप्रामाण्यात् ।

१६ - ३० - डाचि वचनप्रामाण्यात् भविष्यति ।

१७ - ३० - किम् वचनप्रामाण्यम् ।

१८ - ३० - लोहितादिडाज्भ्यः क्यष् इति ।

१९ - ३० - इह किम् चित् अक्रियमाणम् चोद्यते किम् चित् क्रियमाणम् प्रत्याख्यायते ।

२० - ३० - सः सूत्रभेदः कृतः भवति ।

२१ - ३० - यथान्यासम् एव अस्तु ।

२२ - ३० - ननु च उक्तम् इह कस्मात् न भवति क्व दिवा भृशाः भवन्ति इति ।

२३ - ३० - नञिवयुक्तम् अन्यसदृशाधिकरणे तथा हि अर्थगतिः ।

२४ - ३० - नञ्युक्तम् इवयुक्तम् व यत् किम् चित् इह दृश्यते तत्र अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।

२५ - ३० - तथा हि अर्थः गम्यते ।

२६ - ३० - अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशः आनीयते ।

२७ - ३० - न असौ लोष्टम् आनीय कृती भवति ।

२८ - ३० - एवम् इह अपि अच्वेः इति च्विप्रतिषेधात् अन्यस्मिन् अच्व्यन्ते च्विसदृशे कार्यम् विज्ञास्यते ।

२९ - ३० - किम् च अतः अन्यत् अद्व्यन्तम् च्विसदृसम् ।

३० - ३० - अभूततद्भावः ।

१ - ४९ - इह काः चित् प्रकृतयः सोपसर्गाः पठ्यन्ते ॒ अभिमनस् , सुमनस् , उन्मनस् , दुर्मनस् ।

२ - ४९ - तत्र विचार्यते ॒ भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् वा स्यात् ॒ अभिभवतौ सुभवतौ उद्भवतौ दुर्भवतौ इति ।

३ - ४९ - प्रकृत्यर्थविशेषणम् वा ।

४ - ४९ - अभिमनस्शब्दात् सुमनस्शब्दात् उन्मनस्शब्दात् दुर्मनस्शब्दात् इति ।

५ - ४९ - युक्तम् पुनः इदम् विचारयतुम् ।

६ - ४९ - ननु तेन असन्दिग्धेन प्रकृत्यर्थविशेषणम् भवितव्यम् यावता प्राक् प्रकृतेः पठ्यन्ते ।

७ - ४९ - यदि हि प्रत्ययार्थविशेषणम् स्यात् प्राक् भवतेः पठ्येरन् ।

८ - ४९ - न इमे शक्याः प्राक् भवतेः पठितुम् ।

९ - ४९ - एवम् विशिष्टे हि प्रत्ययाऋथे भृशादिमात्रात् उत्पत्तिः प्रसज्येत ।

१० - ४९ - तस्मात् न एवम् शक्यम् कर्तुम् ।

११ - ४९ - न चेत् एवम् जायते विचारणा ।

१२ - ४९ - कः च अत्र विशेषः ।

१३ - ४९ - भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः ।

१४ - ४९ - भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः भवति ।

१५ - ४९ - अभिमनायते ।

१६ - ४९ - तिङ् अतिङः इति निघातः प्रसज्यते ।

१७ - ४९ - अस्तु तर्हि प्रकृत्यर्थविशेषणम् ।

१८ - ४९ - सोपसर्गात् इति चेत् अटि दोषः । सोपसर्गात् इति चेत् अटि दोषः भवति ।

१९ - ४९ - स्वमनयत इति ।

२० - ४९ - अत्यल्पम् इदम् उच्यते ॒ अटि दोषः भवति इति ।

२१ - ४९ - अड्ल्यव्द्विर्वचनेषु इति वक्तव्यम् ।

२२ - ४९ - अटि ॒ उदाहृतम् ।

२३ - ४९ - ल्यपि ॒ सुमनाय्य ।

२४ - ४९ - द्विर्वचने ॒ अभिमिमनायिषते ।

२५ - ४९ - न एषः दोषः ।

२६ - ४९ - अवश्यम् सङ्ग्रामयतेः सोपसर्गात् उत्पत्तिः वक्तव्या असङ्ग्रामयत शूरः इति एवमर्थम् ।

२७ - ४९ - तत् नियमार्थम् भविष्यति ।

२८ - ४९ - सङ्ग्रामयतेः एव सोपसर्गात् न अन्यस्मात् सोपसर्गात् इति ।

२९ - ४९ - यदि नियमः क्रियते स्वरः न सिध्यति ।

३० - ४९ - एवम् तर्हि भृशादिषु उपसर्गस्य पराङ्गवद्भावम् वक्ष्यामि ।

३१ - ४९ - यदि पराङ्गवद्भावः उच्यते अड्ल्यव्द्विर्वचनानि न सिध्यन्ति ।

३२ - ४९ - स्वरविधौ इति वक्ष्यामि ।

३३ - ४९ - एवम् च कृत्वा अस्तु प्रत्ययार्थविशेषणम् ।

३४ - ४९ - ननु च उक्तम् भृशादिषु उपसर्गः प्रत्ययार्थविशेषणम् इति चेत् स्वरे दोषः इति ।

३५ - ४९ - स्वरे पराङ्गवद्भावेन परिहृतम् ।

३६ - ४९ - अयम् तर्हि प्रत्ययार्थविशेषणे सति दोषः ।

३७ - ४९ - क्यङा उक्तत्वात् तस्य अर्थस्य उपसर्गस्य प्रयोगः न प्राप्नोति ।

३८ - ४९ - किम् कारणम् ।

३९ - ४९ - उक्तार्थानाम् अप्रयोगः इति ।

४० - ४९ - तत् यथा ।

४१ - ४९ - अपि काकः श्येनायते इति क्यङा उक्तत्वात् आचारार्थस्य आङः प्रयोगः न भवति ।

४२ - ४९ - अस्ति अत्र विशेषः ।

४३ - ४९ - एकेन अत्र विशिष्टे प्रत्ययार्थे प्रत्ययः उत्पद्यते इह पुनः अनेकेन ।

४४ - ४९ - तत्र मनायते इति उक्ते सन्देहः स्यात् अभिभवतौ सुभवतौ दुर्भवतौ इति ।

४५ - ४९ - तत्र असन्देहार्थम् उपसर्गः प्रयुज्यते ।

४६ - ४९ - यत्र तर्हि एकेन ।

४७ - ४९ - उत्पुच्छयते ।

४८ - ४९ - अत्र अपि अनेकेन ।

४९ - ४९ - पुच्छात् उदसने पुच्छात् व्यसने पुच्छात् पर्यसने इति ।

१ - ५१ - किमर्थः ककारः ।

२ - ५१ - क्ङिति इति गुणप्रतिषेधः यथा स्यात् ।

३ - ५१ - न एतत् अस्ति प्रयोजनम् ।

४ - ५१ - सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते ।

५ - ५१ - धातोः च विहितः प्रत्ययः शेषः आर्धधातुकसञ्ज्ञाम् लभते ।

६ - ५१ - न च अयम् धातोः विधीयते ।

७ - ५१ - लोहितादीनि प्रातिपदिकानि ।

८ - ५१ - सामान्यग्रहणार्थः तर्हि ।

९ - ५१ - क्व सामान्यग्रहणेन अर्थः ।

१० - ५१ - नः क्ये इति ।

११ - ५१ - न अयम् नान्तात् विधीयते ।

१२ - ५१ - इह तर्हि ।

१३ - ५१ - यस्य हलः क्यस्य विभाषा इति ।

१४ - ५१ - न अयम् हलन्तात् विधीयते ।

१५ - ५१ - इह तर्हि ।

१६ - ५१ - आपत्ययस्य च तद्धिते अनाति क्यच्व्योः च इति ।

१७ - ५१ - न अयम् आपत्यात् विधीयते ।

१८ - ५१ - इह तर्हि ।

१९ - ५१ - क्यात् छन्दसि इति ।

२० - ५१ - यात् छन्दसि इति एतावत् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् ।

२१ - ५१ - इदम् तर्हि प्रयोजनम् ।

२२ - ५१ - यत् तत् अकृत्यकारे इति दीर्घत्वम् तत्र क्ङिद्ग्रहणम् अनुवर्तते ।

२३ - ५१ - तत् इह अपि यथा स्यात् ।

२४ - ५१ - लोहितायते ।

२५ - ५१ - किम् पुनः कारणम् तत्र क्ङिद्ग्रहणम् अनुवर्तते ।

२६ - ५१ - इह मा भूत् ।

२७ - ५१ - उरुया धृष्णुया इति ।

२८ - ५१ - यदि क्ङिद्ग्रहणम् अनुवर्तते íत्र्यम् इति पितुः रीङ्भावः न प्राप्नोति ।

२९ - ५१ - रीङ्भावे क्ङिद्ग्रहणम् निवर्तिष्यते ।

३० - ५१ - यदि निवर्तते कथम् असूया वसूया च यमामहे ।

३१ - ५१ - असूयतेः असूया वसूयतेः वसूया ।

३२ - ५१ - अथ वा छान्दसम् एतत् ।

३३ - ५१ - दृष्टानुविधिः च छन्दसि भवति इति ।

३४ - ५१ - यदि छान्दसत्वम् हेतुः न अर्थः क्ङिद्ग्रहणेन अनुवर्तमानेन ।

३५ - ५१ - कस्मात् न भवति उरुया धृष्णुया इति ।

३६ - ५१ - छान्दसत्वात् ।

३७ - ५१ - अथ वा अस्तु अत्र दीर्घत्वम् ।

३८ - ५१ - छान्दसम् ह्रस्वत्वम् भविष्यति ।

३९ - ५१ - तत् यथा उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति ।

४० - ५१ - अथ किमर्थः षकारः ।

४१ - ५१ - विशेषणार्थः ।

४२ - ५१ - क्व विशेषणार्थेन अर्थः ।

४३ - ५१ - वा क्यषः इति ।

४४ - ५१ - वा यात् इति हि उच्यमाने अतः अपि प्रसज्येत ।

४५ - ५१ - न एतत् असि प्रयोजनम् ।

४६ - ५१ - परस्मैपदम् इति उच्यते ।

४७ - ५१ - न च अतः परस्मैपदम् न अपि आत्मनेपदम् पश्यामः ।

४८ - ५१ - सामान्यग्रहणाविघातार्थः तर्हि भविष्यति ।

४९ - ५१ - क्व सामान्यग्रहणाविघातार्थेन अर्थः ।

५० - ५१ - क्यात् छन्दसि इति ।

५१ - ५१ - यात् छन्दसि इति एवम् वक्तव्यम् चरण्यूः तुरण्युः भुरण्युः इति एवमर्थम् ।

१ - ८ - लोहितडाज्भ्यः क्यष्वचनम् ।

२ - ८ - लोहितडाज्भ्यः क्यष् वक्तव्यः ।

३ - ८ - लोहितायति लोहितायते पटपटायति पटपटायते ।

४ - ८ - अथ अन्यानि लोहितादीनि ।

५ - ८ - भृशादिषु इतराणि ।

६ - ८ - भृशादिषु इतराणि पठितव्यानि ।

७ - ८ - किम् प्रयोजनम् ।

८ - ८ - ङितः इति आत्मनेपदम् यथा स्यात् इति ।

१ - २६ - कष्टाय इति किम् निपात्यते ।

२ - २६ - कष्टशब्दात् चतुर्थीसमर्थात् क्रमणे अनार्जवे क्य्ङ् निपात्यते ।

३ - २६ - कष्टाय कर्मणे क्रामति कष्टायते ।

४ - २६ - अत्यल्पम् इदम् उच्यते ॒ कष्टाय इति ।

५ - २६ - सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् ।

६ - २६ - सत्त्रकक्षकष्टगहनेभ्यः कण्वचिकीर्षायाम् इति वक्तव्यम् ।

७ - २६ - सत्त्रायते ।

८ - २६ - सत्त्र. ककष. कक्षायते ।

९ - २६ - कष्ट ।

१० - २६ - कष्टायते ।

११ - २६ - कष्ट ।

१२ - २६ - गहन ।

१३ - २६ - गहनायते ।

१४ - २६ - अपरः आह॒. सत्त्रादिभ्यः चतुर्थ्यन्तेभ्यः क्रमणे अनार्जवे क्यङ् वक्तव्यः ।

१५ - २६ - एतानि एव उदाहरणानि ।

१६ - २६ - सत्त्रादिभ्यः इति किमर्थम् ।

१७ - २६ - कुटिलाय क्रामति अनुवाकाय ।

१८ - २६ - चतुर्थ्यन्तेभ्यः इति किमर्थम् ।

१९ - २६ - अजः कष्टम् क्रामति ।

२० - २६ - तत् तर्हि वक्तव्यम् ।

२१ - २६ - न वक्तव्यम् ।

२२ - २६ - न एतत् प्रत्ययान्तनिपातनम् ।

२३ - २६ - किम् तर्हि ।

२४ - २६ - तादर्थ्ये एषा चतुर्थी ।

२५ - २६ - कष्टाय यत् प्रातिपदिकम् ।

२६ - २६ - कष्टार्थे यत् प्रातिपदिकम् इति ।

१ - १६ - रोमन्थे इति उच्यते ।

२ - १६ - कः रोमन्थः नाम ।

३ - १६ - उद्गीर्णस्य वा अवगीर्णस्य वा मन्थः रोमन्थः इति ।

४ - १६ - यदि एवम् हनुचलने इति वक्तव्यम् ।

५ - १६ - इह मा भूत् ।

६ - १६ - कीटः रोमथम् वर्तयति ।

७ - १६ - तत् तर्हि वक्तव्यम् ।

८ - १६ - न वक्तव्यम् ।

९ - १६ - कस्मात् न भवति ।

१० - १६ - कीटः रोमथम् वर्तयति इति ।

११ - १६ - अनभिधानात् ।

१२ - १६ - तपसः परस्मैपदम् च ।

१३ - १६ - तपसः परस्मैपदम् च इति वक्तव्यम् ।

१४ - १६ - तपः चरति तपस्यति ।

१५ - १६ - कथम् तपस्यते लोकजिगीषुः अग्नेः ।

१६ - १६ - छान्दसत्वात् भविष्यति ।

१ - २ - फेनात् च इति वक्तव्यम् ।

२ - २ - फेनायते ।

१ - २४ - अटाट्ताशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणम् कर्तव्यम् ।

२ - २४ - अटा ।

३ - २४ - अटायते ।

४ - २४ - अट्टा ।

५ - २४ - अट्टायते ।

६ - २४ - शीका ।

७ - २४ - शीकायते ।

८ - २४ - कोटा ।

९ - २४ - कोटायते ।

१० - २४ - पोटा ।

११ - २४ - पोटायते ।

१२ - २४ - सोटा ।

१३ - २४ - सोटायते ।

१४ - २४ - प्रुष्टा ।

१५ - २४ - प्रुष्टयते ।

१६ - २४ - प्लुष्टा ।

१७ - २४ - प्लुष्टायते ।

१८ - २४ - सुदिनदुर्दिनाभ्याम् च ।

१९ - २४ - सुदिनदुर्दिनाभ्याम् च इति वक्तव्यम् ।

२० - २४ - सुदिनायते ।

२१ - २४ - दुर्दिनायते ।

२२ - २४ - नीहारात् च ।

२३ - २४ - नीहारात् च इति वक्तव्यम् ।

२४ - २४ - नीहारायते ।

१ - १२ - कर्तृवेदनायाम् इति किमर्थम् ।

२ - १२ - इह मा भूत् ।

३ - १२ - सुखम् वेदयते प्रसाधकः देवदत्तस्य ।

४ - १२ - कर्तृवेदनायाम् इति उच्यमाने अपि अत्र प्राप्नोति ।

५ - १२ - किम् कारणम् ।

६ - १२ - कर्तुः इति इयम् कर्तरि षष्ठी ।

७ - १२ - वेदनायाम् इति च अनः भावे ।

८ - १२ - सः यदि एव आत्मनः वेदयते अथ अपि परस्य कर्तृवेदना एव असौ भवति ।

९ - १२ - न कर्तृग्रहणेन वेदना अभिसम्बध्यते ।

१० - १२ - किम् तर्हि ।

११ - १२ - सुखादीनि अभिसम्बध्यन्ते ।

१२ - १२ - कर्तुः यानि सुखादीनि ।

१ - १४ - नमसः क्यचि द्वितीयानुपपत्तिः ।

२ - १४ - नमसः क्यचि द्वितीया न उपपद्यते ।

३ - १४ - नमस्यति देवान् ।

४ - १४ - किम् कारणम् ।

५ - १४ - नमःशब्देन योगे चतुर्थी विधीयते ।

६ - १४ - सा प्राप्नोति ।

७ - १४ - प्रकृत्यन्तरत्वात् सिद्धम् ।

८ - १४ - नमःशब्देन योगे चतुर्थी विधीयते नमस्यतिशब्दः च अयम् ।

९ - १४ - ननु च नमस्यतिशब्दे नमःशब्दः अस्ति ।

१० - १४ - तेन योगे प्राप्नोति ।

११ - १४ - न एषः दोषः ।

१२ - १४ - अर्थवतः नमःसाब्दस्य ग्रहणम् ।

१३ - १४ - न च नमस्यतिशब्दे नमःशब्दः अर्थवान् ।

१४ - १४ - अथ वा उपपदविभक्तेः कारकविभक्तिः बलीयसी इति द्वितीया भविष्यति ।

१ - ४३ - क्यजादिषु प्रत्ययार्थनिर्देशः ।

२ - ४३ - क्यजादिषु प्रत्ययार्थनिर्देशः कर्तव्यः ।

३ - ४३ - नमसः पूजायाम् ।

४ - ४३ - वरिवसः परिचर्यायाम् ।

५ - ४३ - चित्रङः आश्चर्ये ।

६ - ४३ - भाण्डात् समाचयने ।

७ - ४३ - चीवरात् अर्जने परिधाने वा ।

८ - ४३ - पुच्छात् उदसने व्य्ससने च इति ।

९ - ४३ - किम् प्रयोजनम् ।

१० - ४३ - क्रियावचनता यथा स्यात् ।

११ - ४३ - न एतत् अस्ति प्रयोजनम् ।

१२ - ४३ - आचार्यप्रवृत्तिः ज्ञापयति क्रियावचनाः क्यजादयः इति यत् अयम् सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति ।

१३ - ४३ - धातुसञ्ज्ञावचने एतत् प्रयोजनम् ॒ धातोः इति तव्यदादीनाम् उत्पत्तिः यथा स्यात् ।

१४ - ४३ - यदि च अत्र क्रियावचनता न स्यात् धातुसञ्ज्ञावचनम् अनर्थकम् स्यात् ।

१५ - ४३ - सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः ।

१६ - ४३ - किम् कारणम् ।

१७ - ४३ - साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः ।

१८ - ४३ - क्रियाभावात् साधनाभावः ।

१९ - ४३ - साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यदादयः न स्युः ।

२० - ४३ - पश्यति तु आचार्यः क्रियावचनाः क्यजादयः इति ततः सनाद्यन्ताः धातवः इति धातुसञ्ज्ञाम् शास्ति ।

२१ - ४३ - ननु च इदम् प्रयोजनम् स्यात् ।

२२ - ४३ - परसाधने उत्पत्तिम् वक्ष्यामि इति ।

२३ - ४३ - न परसाधने उत्पत्त्या भवितव्यम् ।

२४ - ४३ - किम् कारणम् ।

२५ - ४३ - साधनम् इति सम्बन्धिशब्दः अयम् ।

२६ - ४३ - सम्बन्धिशब्दाः च पुनः एवमात्मकाः यत् उत सम्बन्धिनम् आक्षिपन्ति ।

२७ - ४३ - तत् यथा ।

२८ - ४३ - मातरि वर्तितत्व्यम् , पितरि शुश्रूषितव्यम् इति ।

२९ - ४३ - न च उच्यते स्वस्याम् मातरि स्वस्मिन् वा पितरि इति , सम्बन्धात् च एतत् गम्यते या यस्य माता यः च यस्य पिता इति ।

३० - ४३ - एवम् इह अपि सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् साधनम् इति ।

३१ - ४३ - अथ वा धातवः एव क्यजादयः ।

३२ - ४३ - न च एव हि अर्थाः आदिश्यन्ते ।

३३ - ४३ - क्रियावचनता च गम्यते ।

३४ - ४३ - कः खलु अपि पचादीनाम् क्रियावचनत्वे यत्नम् करोति ।

३५ - ४३ - येन एव खलु अपि हेतुना पचादयः क्रियावचनाः तेन एव क्यजादयः अपि ।

३६ - ४३ - एवमर्थम् आचार्यः चित्रयति ।

३७ - ४३ - क्व चित् अर्थान् आदिशति क्व चित् न ।

३८ - ४३ - एवम् अपि अर्थादेशनम् कर्तव्यम् ।

३९ - ४३ - कथम् इमे अबुधाः बुध्येरन् इति ।

४० - ४३ - अथ वा शक्यम् आदेशनम् अकर्तुम् ।

४१ - ४३ - कथम् ।

४२ - ४३ - करणे इति वर्तते ।

४३ - ४३ - करणम् च करोतेः करोतिः च क्रियासामान्ये वर्तते ।

१ - २९ - इमौ हलिकली स्तः इकारान्तौ ।

२ - २९ - अस्ति हलशब्दः कलशब्दः च अकारान्तः ।

३ - २९ - कयोः इदम् ग्रहणम् ।

४ - २९ - यौ इकारान्तौ तयोः अत्वम् निपात्यते ।

५ - २९ - किम् प्रयोजनम् ।

६ - २९ - हलिकल्योः अत्वनिपातनम् सन्वद्भावप्रतिषेधार्थम् ।

७ - २९ - हलिकल्योः अत्वनिपातनम् क्रियते सन्वद्भावः मा भूत् इति ।

८ - २९ - अजहलत् अचकलत् ।

९ - २९ - न एतत् अस्ति प्रयोजनम् ।

१० - २९ - इकारलोपे कृते अग्लोपिनाम् न इति प्रतिषेधः भविष्यति ।

११ - २९ - वृद्धौ कृतायाम् लोपः ।

१२ - २९ - तत् न अग्लोपि अङ्गम् भवति ।

१३ - २९ - इदम् इह सम्प्रधार्यम् ।

१४ - २९ - वृद्धिः क्रियताम् अग्लोपः इति ।

१५ - २९ - किम् अत्र कर्तव्यम् ।

१६ - २९ - परत्वात् वृद्धिः ।

१७ - २९ - नित्यः लोपः ।

१८ - २९ - कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि प्राप्नोति ।

१९ - २९ - अनित्यः लोपः ।

२० - २९ - अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अन्यस्य अकृतायाम् ।

२१ - २९ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

२२ - २९ - वृद्धिः अपि अनित्या ।

२३ - २९ - अन्यस्य कृते लोपे प्राप्नोति अन्यस्य अकृते ।

२४ - २९ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

२५ - २९ - उभयोः अनित्ययोः परत्वात् वृद्धिः ।

२६ - २९ - वृद्धौ कृतायाम् लोपः ।

२७ - २९ - तत् न अग्लोपि अङ्गम् भवति ।

२८ - २९ - अत्वे पुनः सति वृद्धिः क्रियताम् लोपः इति यदि अपि परत्वात् वृद्धिः वृद्धौ कृतायाम् अपि अक् एव लुप्यते ।

२९ - २९ - तस्मात् सुष्ठु उच्यते हलिकल्योः अत्वनिपातनम् सन्वद्भावप्रतिषेधार्थम् ।

१ - १२ - समभिहारः इति कः अयम् शब्दः ।

२ - १२ - समभिपूर्वात् हरतेः भावसाधनः घञ् ।

३ - १२ - समभिहरणम् समभिहारः ।

४ - १२ - तत् यथ पुष्पाभिहारः फलाभिहारः इति ।

५ - १२ - विषमः उपन्यासः ।

६ - १२ - बह्व्यः हि ताः सुमनसः ।

७ - १२ - तत्र युक्तः समभिहारः ।

८ - १२ - इह पुनः एका क्रिया ।

९ - १२ - यदि अपि एका सामान्यक्रिया अवयवक्रियाः तु बह्व्यः अधिश्रयणोदकासेचनतण्डुलावपनैध्कोपकर्षण्क्रियाः ।

१० - १२ - ताः कः चित् कार्त्स्न्येन करोति कः चित् अकार्त्स्न्येन ।

११ - १२ - यः कार्त्स्न्येन करोति सः उच्यते पापच्यते इति ।

१२ - १२ - पुनः पुनः वा पचति पापच्यते इति ।

१ - २८ - अथ धातुग्रहणम् किमर्थम् ।

२ - २८ - इह मा भूत् प्राटति भृशम् इति ।

३ - २८ - अतः उत्तरम् पठति ।

४ - २८ - यङ्विधौ धातुग्रहणे उक्तम् ।

५ - २८ - किम् उक्तम् ।

६ - २८ - तत्र तावत् उक्तम् कर्मग्रहणात् सन्विधौ धातुग्रहणानर्थक्यम् ।

७ - २८ - सोपसर्गम् कर्म इति चेत् कर्मविशेषकत्वात् उपसर्गस्य अनुपसर्गम् कर्म ।

८ - २८ - सोपसर्गस्य हि कर्मत्वे धात्वधिकारे अपि सनः अविधानम् अकर्मत्वात् इति ।

९ - २८ - एवम् इह अपि क्रियासमभिहारग्रहणात् यङ्विधौ धातुग्रहणानर्थक्यम् ।

१० - २८ - सोपसर्गः क्रियासमभिहारः इति चेत् क्रियासमभिहारविशेषकत्वात् उपसर्गस्य अनुपसर्गः क्रियासमभिहारः ।

११ - २८ - सोपसर्गस्य हि क्रियासमहिभारत्वे धात्वधिकारे अपि यङः अविधानम् अक्रियासमभिहारत्वात् इति ।

१२ - २८ - अथ एकाज्झलादिग्रहणम् किमर्थम् ।

१३ - २८ - इह मा भूत् ॒ जागर्ति भृशम् ।

१४ - २८ - ईक्षते भृशम् ।

१५ - २८ - एकाज्झलादिग्रहणे च ।

१६ - २८ - एकाज्झलादिग्रहणे च उक्तम् ।

१७ - २८ - किम् उक्तम् ।

१८ - २८ - तत्र तावत् उक्तम् कर्मसमानकर्तृकग्रहणानर्थक्यम् च इच्छाभिधाने प्रत्ययविधानात् ।

१९ - २८ - अकर्मणः हि असमानकर्तृकात् वा अनभिधानम् इति ।

२० - २८ - इह अपि एकाज्झलादिग्रहणानर्थक्यम् क्रियासमभिहारे यङ्वचनात् अनेकाचः अहलादेः हि अनभिधानम् इति ।

२१ - २८ - तत् च अवश्यम् अनभिदानम् आश्रयितव्यम् ।

२२ - २८ - क्रियमाणे अपि हि एकाज्झलादिग्रहणे यत्र एकाचः हलादेः च उत्पद्यमानेन यङा अर्थस्य अभिधानम् न भवति न भवति तत्र उत्पत्तिः ।

२३ - २८ - तत् यथा ।

२४ - २८ - भृशम् शोभते ।

२५ - २८ - भृशम् रोचते ।

२६ - २८ - यत्र च अनेकाचः अहलादेः वो उत्पद्यमानेन यङा अर्थस्य अभिधानम् भवति भवति तत्र उत्पत्तिः ।

२७ - २८ - तत् यथा ।

२८ - २८ - अटाट्यते अरार्यते अशाश्यते सोसूच्यते सोसूत्र्यते मोमूत्र्यते ।

१ - ११ - ऊर्णोतेः च उपसङ्ख्यानम् ।

२ - ११ - ऊर्णोतेः च उपसङ्ख्यानम् कर्तव्यम् ।

३ - ११ - प्रोर्णोनूयते ।

४ - ११ - अत्यल्पम् इदम् उच्यते ॒ ऊर्णोतेः इति ।

५ - ११ - सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णुग्रहणम् यङ्विधौ अनेकाजहलाद्यर्थम् ।

६ - ११ - सूचिसूत्रिमूत्र्यट्यर्त्यश्यूर्णोतीनाम् ग्रहणम् कर्तव्यम् ।

७ - ११ - किम् प्रयोजनम् ।

८ - ११ - यङ्विधौ अनेकाजहलाद्यर्थम् ।

९ - ११ - सोसूच्यते सोसूत्र्यते मोमूत्र्यते अटाट्यते अरार्यते अशाश्यते प्रोर्णोनूयते ।

१० - ११ - वाच्यः ऊर्णोर्णुवद्भावः यङ्प्रसिद्धिः प्रयोजनम् ।

११ - ११ - आमः च प्रतिषेधार्थम् एकाचः च इडुपग्रहात् ।

१ - २४ - क्रियासमभिहारे यङः विप्रतिषेधेन लोड्विधानम् ।

२ - २४ - क्रियासमभिहारे लोट् भवति यङः विप्रतिषेधेन ।

३ - २४ - क्रियासमभिहारे यङ् भवति इति अस्य अवकाशः धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते अधातुसम्बन्धः ॒ लोलूयते ।

४ - २४ - लोटः अवकाशः धातुः यः अनेकाच् अहलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः ॒ सः भवान् जागृहि जागृहि इति एव अयम् जागर्ति ।

५ - २४ - सः भवान् ईहस्व ईहस्व इति एव अयम् ईहते ।

६ - २४ - धातुः यः एकाच् हलादिः क्रियासमभिहारे वर्तते धातुसम्बन्धः च तस्मात् उभयम् प्राप्नोति ॒ सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।

७ - २४ - लोट् भवति विप्रतिषेधेन ।

८ - २४ - न तर्हि इदानीम् इदम् भवति ॒ सः भवान् लोलूयस्व लोलूयस्व इति एव अयम् लोलूयते ।

९ - २४ - भवति च ।

१० - २४ - न वा नानार्थत्वात् ।

११ - २४ - कर्तृकर्मणोः हि लविधानम् क्रियाविशेषे स्वार्थे यङ् ।

१२ - २४ - न वा अर्थः विप्रतिषेधेन ।

१३ - २४ - किम् कारणम् ।

१४ - २४ - नानार्थत्वात् ।

१५ - २४ - का नानार्थता ।

१६ - २४ - कर्तृकर्मणोः हि लविधानम् ।

१७ - २४ - कर्तृकर्मणोः हि लोट् विधीयते ।

१८ - २४ - क्रियाविशेषे स्वार्थे यङ् ।

१९ - २४ - तत्र अन्तरङ्गत्वात् यङा भवितव्यम् ।

२० - २४ - न तर्हि इदम् इदानीम् भवति ।

२१ - २४ - सः भवान् लुनीहि लुनीहि इति एव अयम् लुनाति ।

२२ - २४ - भवति च ।

२३ - २४ - विभाषा यङ् ।

२४ - २४ - यदा न यङ् तदा लोट् ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP