पाद १ - खण्ड ३५

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ६ - अनुपसर्गात् इति किमर्थम् ।

२ - ६ - आयस्यति प्रयस्यति ।

३ - ६ - अनुपसर्गात् इति शक्यम् अकर्तुम् ।

४ - ६ - कथम् आयस्यति प्रयस्यति ।

५ - ६ - संयसः च इति एतत् नियमार्थम् भविष्यति ।

६ - ६ - सम्पूर्वात् यसः न अन्यपूर्वात् इति ।

१ - ६४ - किमर्थः शकारः ।

२ - ६४ - सार्वधातुकाऋथः ।

३ - ६४ - शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा ।

४ - ६४ - सार्वधातुकम् अपित् इति ङित्त्वम् ।

५ - ६४ - ङिति इति गुणप्रतिषेधः यथा स्यात् ।

६ - ६४ - भिनत्ति छिनत्ति इति ।

७ - ६४ - न एतत् अस्ति प्रयोजनम् ।

८ - ६४ - सार्वधातुकार्धधातुकयोः अङ्गस्य गुणः उच्यते यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति ।

९ - ६४ - यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः ।

१० - ६४ - यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः ।

११ - ६४ - इदम् तर्हि प्रयोजनम् ।

१२ - ६४ - आर्धधातुकसञ्ज्ञा मा भूत् इति ।

१३ - ६४ - किम् च स्यात् ।

१४ - ६४ - वलादिलक्षणः इट् प्रसज्येत ।

१५ - ६४ - एतत् अपि न अस्ति प्रयोजनम् ।

१६ - ६४ - वलादेः आर्धधातुकस्य अङ्गस्य इट् उच्यते ।

१७ - ६४ - यस्मात् च प्रत्ययविधिः तदादि प्रत्यये अङ्गसञ्ज्ञम् भवति ।

१८ - ६४ - यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः ।

१९ - ६४ - यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः ।

२० - ६४ - अतः उत्तरम् पठति ।

२१ - ६४ - श्नमि शित्करणम् प्वादिह्रस्वार्थम् ।

२२ - ६४ - श्नमि शित्करणम् क्रियते प्वादीनाम् शिति ह्रस्वत्वम् यथा स्यात् ।

२३ - ६४ - पृणसि मृणसि इति ।

२४ - ६४ - न वा धात्वन्यत्वात् ।

२५ - ६४ - न वा कर्तव्यम् ।

२६ - ६४ - किम् कारणम् ।

२७ - ६४ - धात्वन्यत्वात् ।

२८ - ६४ - धात्वन्तरम् पृणिमृणी ।

२९ - ६४ - यत्र भूम्याम् वृणसे ।

३० - ६४ - न एषः श्नम् ।

३१ - ६४ - श्नः एतत् ह्रस्वत्वम् ।

३२ - ६४ - यदि श्नः ह्रस्वत्वम् स्वरः न सिध्यति ।

३३ - ६४ - वृणसे ।

३४ - ६४ - अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः न प्राप्नोति ।

३५ - ६४ - तस्मात् श्नम् एषः ।

३६ - ६४ - यदि श्नम् स्नसोः अल्लोपः इति लोपः प्राप्नोति ।

३७ - ६४ - उपधायाः इति वर्तते ।

३८ - ६४ - अनुपधात्वात् न भविष्यति ।

३९ - ६४ - न सः शख्यः उपधायाः इति विज्ञातुम् ।

४० - ६४ - इह हि दोषः स्यात् ।

४१ - ६४ - अङ्क्तः अञ्जन्ति ।

४२ - ६४ - तस्मात् श्नः एव ह्रस्वत्वम् ।

४३ - ६४ - स्वरः कथम् ।

४४ - ६४ - बहुलम् पित् सार्वधातुकम् छन्दसि । सार्वधातुकस्य भलुलम् छन्दसि पित्त्वम् वक्तव्यम् ।

४५ - ६४ - पितः च अपित्त्वम् दृश्यते अपितः च पित्त्वम् ।

४६ - ६४ - पितः तावत् अपित्त्वम् ।

४७ - ६४ - मातरम् प्रमिणीमि जनित्रीम् ।

४८ - ६४ - अपितः पित्त्वम् ।

४९ - ६४ - शृणोत ग्रावाणः ।

५० - ६४ - तत् तर्हि ह्रस्वत्वम् वक्तव्यम् ।

५१ - ६४ - अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवमर्थम् ।

५२ - ६४ - विशेषणाऋथः तर्हि ।

५३ - ६४ - क्व विशेषणाऋथेन अर्थः ।

५४ - ६४ - श्नात् नलोपः इति ।

५५ - ६४ - नात् नलोपः इति उच्यमाने यज्ञानाम् यत्नानाम् इति अत्र अपि प्रसज्येत ।

५६ - ६४ - दीर्घत्वे कृते न भविष्यति ।

५७ - ६४ - इदम् इह सम्प्रधार्यम् ।

५८ - ६४ - दीर्घत्वम् क्रियताम् नलोपः इति ।

५९ - ६४ - किम् अत्र कर्तव्यम् ।

६० - ६४ - परत्वात् न लोपः स्यात् ।

६१ - ६४ - तस्मात् शकारः कर्तव्यः ।

६२ - ६४ - अथ क्रियमाणे अपि शकारे इह कस्मात् न भवति ।

६३ - ६४ - विश्नानाम् प्रश्नानाम् इति ।

६४ - ६४ - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति ।

१ - २१ - अथ किमर्थम् करोतेः पृथग्ग्रहणम् क्रियते न तनादिभ्यः इति एव उच्यते ।

२ - २१ - अन्यानि तनोत्यादिकार्याणि मा भूवन् इति ।

३ - २१ - कानि ।

४ - २१ - अनुनासिकलोपादीनि ।

५ - २१ - दैवरक्ताः किंसुकाः ।

६ - २१ - अनुनासिकाभावात् एव अनुनासिकलोपः न भविष्यति ।

७ - २१ - इदम् तर्हि तनादिकार्यम् मा भूत् तनादिभ्यः तथासोः इति ।

८ - २१ - ननु च भवति एव अत्र ह्रस्वात् अङ्गात् इति ।

९ - २१ - तेन एव यथा स्यात् ।

१० - २१ - अनेन मा भूत् इति ।

११ - २१ - कः च अत्र विशेषः तेन वा सति अनेन वा ।

१२ - २१ - तेन सति सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति ।

१३ - २१ - अनेन पुनः सति चिण्वद्भावः न स्यात् ।

१४ - २१ - अनेन अपि सति चिण्वद्भावः सिद्धः ।

१५ - २१ - कथम् ।

१६ - २१ - विभाषा लुक् ।

१७ - २१ - यदा न लुक् तदा तेन लोपः ।

१८ - २१ - तत्र सिज्लोपस्य असिद्धत्वात् चिण्वद्भावः सिद्धः भवति ।

१९ - २१ - तनादित्वात् कृञः सिद्धम् सिज्लोपे च न दुष्यति ।

२० - २१ - चिण्वद्भावे अत्र दोषः स्यात् ।

२१ - २१ - सः अपि प्रोक्तः विभाषया ।

१ - २७ - क्व अयम् अकारः श्रूयते ।

२ - २७ - न क्व चित् श्रूयते ।

३ - २७ - लोपः अस्य भवति अतः लोपः आर्धधातुके इति ।

४ - २७ - यदि न क्व चित् श्रूयते किमर्थम् अत्वम् उच्यते न लोपः एव उच्यते ।

५ - २७ - न एवम् शक्यम् ।

६ - २७ - लोपे हि सति गुणः प्रसज्येत ।

७ - २७ - ननु च लोपे अपि सति न धातुलोपे आर्धधातुके इति प्रतिषेधः भविष्यति ।

८ - २७ - आर्धधातुकनिमित्ते लोपे सः प्रतिषेधः ।

९ - २७ - न च एषः आर्धधातुकनिमित्तः लोपः ।

१० - २७ - अपि च प्रत्याख्यायते सः योगः ।

११ - २७ - तस्मिन् प्रत्याख्याते गुणः स्यात् एव ।

१२ - २७ - तस्मात् अत्वम् वक्तव्यम् ।

१३ - २७ - अथ किमर्थम् नुमनुषक्तयोः ग्रहणम् क्रियते न धिविकृव्योः इति एव उच्यते ।

१४ - २७ - धिविकृव्योः इति उच्यमाने अत्वे कृते अनिष्टे देशे नुम् प्रसज्येत ।

१५ - २७ - इदम् इह सम्प्रधार्यम् ।

१६ - २७ - अत्वम् क्रियताम् नुम् इति ।

१७ - २७ - किम् अत्र कर्तव्यम् ।

१८ - २७ - परत्वात् नुमागमः ।

१९ - २७ - अन्तरङ्गम् अत्वम् ।

२० - २७ - का अन्तरङ्गता ।

२१ - २७ - प्रत्ययोत्पत्तिसन्नियोगेन अत्वम् उच्यते ।

२२ - २७ - उत्पन्नेप्रत्यये प्रकृतिप्रत्ययौ आश्रित्य अङ्गस्य नुमागमः ।

२३ - २७ - नुम् अपि अन्तरङ्गः ।

२४ - २७ - कथम् ।

२५ - २७ - वक्ष्यति एतत् नुम्विधौ उपदेशिवद्वचनम् प्रत्ययविध्यर्थम् इति ।

२६ - २७ - उभयोः अन्तरङ्गयोः परत्वात् नुमागमः ।

२७ - २७ - तस्मात् धिविकृव्योः इति वक्तव्यम् ।

१ - ५८ - किमर्थः शकारः ।

२ - ५८ - शित् सार्वधातुकम् इति सार्वधातुकसञ्ज्ञा सार्वधातुकम् अपित् इति ङित्त्वम् ङिति इति प्रतिषेधः यथा स्यात् ।

३ - ५८ - कुषाण पुषाण इति ।

४ - ५८ - अतः उत्तरम् पठति ।

५ - ५८ - श्नाविकारस्य शित्करणानर्थक्यम् स्थानिवत्वात् ।

६ - ५८ - श्नाविकारस्य शित्करणम् अनर्थकम् ।

७ - ५८ - किम् कारणम् ।

८ - ५८ - स्थानिवत्वात् ।

९ - ५८ - शितः अयम् आदेशः स्थानिवद्भावात् शित् भविष्यति ।

१० - ५८ - अर्थवत् तु ज्ञापकम् सार्वधातुकादेशे अनुबन्धास्थानिवत्त्वस्य ।

११ - ५८ - अर्थवत् तु श्नाविकारस्य शित्करणम् ।

१२ - ५८ - कः अर्थः ।

१३ - ५८ - ज्ञापकार्थम् ।

१४ - ५८ - किम् ज्ञाप्यम् ।

१५ - ५८ - एतत् ज्ञापयति आचार्यः सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति ।

१६ - ५८ - किम् एतस्य ज्ञपने प्रयोजनम् ।

१७ - ५८ - प्रयोजनम् हितातङोः अपित्त्वम् ।

१८ - ५८ - हेः पित्त्वम् न प्रतिषेध्यम् ।

१९ - ५८ - पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।

२० - ५८ - सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति ।

२१ - ५८ - तातङि च ङकारः न उच्चार्यः भवति ।

२२ - ५८ - पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।

२३ - ५८ - सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् भविष्यति ।

२४ - ५८ - तबादिषु च अङित्त्वम् ।

२५ - ५८ - तबादिषु च अङित्त्वम् प्रयोजनम् ।

२६ - ५८ - शृणोत ग्रावाणः ।

२७ - ५८ - ङितः इमे आदेशाः स्थानिवद्भावात् ङितः स्युः ।

२८ - ५८ - सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न इमे ङितः भवन्ति ।

२९ - ५८ - तस्य दोषः मिपः आदेशे पिदभावः ।

३० - ५८ - तस्य एतस्य लक्षणस्य दोषः मिपः आदेशे पितः अभावः ।

३१ - ५८ - अचिनवम् असुनवम् अकरवम् ।

३२ - ५८ - पितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।

३३ - ५८ - सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् पित् स्यात् ।

३४ - ५८ - अत्यल्पम् इदम् उच्यते ।

३५ - ५८ - तिप्सिब्मिपाम् आदेशाः इति वक्तव्यम् ।

३६ - ५८ - वेद वेत्थ ।

३७ - ५८ - विदेः वसोः शित्त्वम् ।

३८ - ५८ - विदेः उत्तरस्य वसोः शित्त्वम् वक्तव्यम् ।

३९ - ५८ - शितः अयम् आदेशः स्थानिवद्भावात् पित् स्यात् ।

४० - ५८ - सार्वधातुकादेशे अनुबन्धाः न स्थानिवत् भवन्ति इति न अयम् शित् स्यात् ।

४१ - ५८ - कित्करणात् वा सिद्धम् । अथ वा अवश्यम् अत्र सामान्यग्रहणाविघातार्थः ककारः अनुबन्धः कर्तव्यः ।

४२ - ५८ - क्व सामान्यग्रहणाविघातार्थेन अर्थः ।

४३ - ५८ - वसोः सम्प्रसारणम् ।

४४ - ५८ - तेन एव यत्नेन गुणः न भविष्यति ।

४५ - ५८ - अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि ।

४६ - ५८ - समाः दोषाः भूयांसः वा ।

४७ - ५८ - तस्मात् न अर्थः अनेन ज्ञापकेन ।

४८ - ५८ - कथम् यानि प्रयोजनानि ।

४९ - ५८ - तानि क्रियन्ते न्यासे एव ।

५० - ५८ - एवम् अपि भवेत् पित्करणसामर्थ्यात् पित्कृतम् स्यात् ङित्करणसामर्थ्यात् ङित्कृतम् ।

५१ - ५८ - यत् तु खलु पिति ङित्कृतम् प्राप्नोति ङिति च पित्कृतम् केन तत् न स्यात् ।

५२ - ५८ - तस्मात् वक्तव्यम् पित् न ङिद्वत् भवति ङित् च न पिद्वत् भवति इति ।

५३ - ५८ - न वक्तव्यम् ।

५४ - ५८ - एवम् वक्ष्यामि ।

५५ - ५८ - सार्वधातुकम् ङित् भवति पित् न ।

५६ - ५८ - एवम् तावत् पितः ङित्त्वम् प्रतिषिद्धम् ।

५७ - ५८ - ततः असंयोगात् लिट् कित् भवति इति ङित् च पित् न भवति ।

५८ - ५८ - एवम् ङितः पित्त्वम् प्रतिषिद्धम् ।

१ - ६ - शायच् छन्दसि सर्वत्र ।

२ - ६ - शायच् छन्दसि सर्वत्र इति वक्तव्यम् ।

३ - ६ - क्व सर्वत्र ।

४ - ६ - हौ च अहौ च ।

५ - ६ - किम् प्रयोजनम् ।

६ - ६ - महीअस्कभायत् यः अस्कभायत् उद्गृभायत उन्मथायत इत्यर्थम् ।

१ - ४३ - योगविभागः कर्तव्यः ।

२ - ४३ - व्यत्ययः भवति स्यादीनाम् इति ।

३ - ४३ - आण्डा शुष्णस्य भृ̄दति ।

४ - ४३ - भिनत्ति इति प्राप्ते ।

५ - ४३ - सः च न मरति ।

६ - ४३ - मिर्यते इति प्राप्ते ।

७ - ४३ - ततः बहुलम्. बहुलम् छन्दसि विषये सर्वे विधयः भवन्ति इति ।

८ - ४३ - सुपाम् व्यत्ययः ।

९ - ४३ - तिङाम् व्यत्ययः ।

१० - ४३ - वर्णव्यत्ययः ।

११ - ४३ - लिङ्गव्यत्ययः ।

१२ - ४३ - कालव्यत्ययः ।

१३ - ४३ - पुरुषव्यत्ययः ।

१४ - ४३ - आत्मनेपदव्यत्ययः ।

१५ - ४३ - परस्मैपदव्यत्ययः ।

१६ - ४३ - सुपाम् व्यत्ययः ।

१७ - ४३ - युक्ता माता आसीत् धुरि दक्षिणायाः ।

१८ - ४३ - दक्षिणायाम् इति प्राप्ते ।

१९ - ४३ - तिङाम् व्यत्ययः ।

२० - ४३ - चषालम् ये अश्वयूपाय तक्षति ।

२१ - ४३ - तक्षन्ति इति प्राप्ते ।

२२ - ४३ - वर्णव्यत्ययः ।

२३ - ४३ - त्रिष्टुभौजः शुभितम् उग्रवीरम् ।

२४ - ४३ - सुहितम् इति प्राप्ते ।

२५ - ४३ - लिङ्गव्यत्ययः ।

२६ - ४३ - मधोः गृह्णाति ।

२७ - ४३ - मधोः तृप्ताः इव आसते ।

२८ - ४३ - मधुनः इति प्राप्ते ।

२९ - ४३ - कालव्यत्ययः ।

३० - ४३ - श्वः अग्नीन् आधास्यमानेन ।

३१ - ४३ - श्वः सोमेन यक्ष्यमाणेन ।

३२ - ४३ - आधाता यष्टा इति एवम् प्राप्ते ।

३३ - ४३ - पुरुषव्यत्ययः ।

३४ - ४३ - अधा सः वीरैः दशभिः वियूयाः ।

३५ - ४३ - वियूयात् इति प्राप्ते ।

३६ - ४३ - आत्मनेपदव्यत्ययः ।

३७ - ४३ - ब्रह्म्नचारिणम् इच्छते ।

३८ - ४३ - इच्छति इति प्राप्ते ।

३९ - ४३ - परस्मैपदव्यत्ययः ।

४० - ४३ - प्रतीपम् अन्यः ऊर्मिः युध्यति ।

४१ - ४३ - युध्यते इति प्राप्ते ।

४२ - ४३ - सुप्तिङुपग्रहलिङ्गनराणाम् काल्हलच्स्वरकर्तृयङाम् च व्यत्ययम् इच्छति शास्त्रकृत् एषाम् ।

४३ - ४३ - सः अपि च सिध्यति बाहुलकेन ।

१ - २७ - अयम् आशिषि अङ् विधीयते ।

२ - २७ - तस्य किम् प्रयोजनम् ।

३ - २७ - आशिषि अङः प्रयोजनम् स्थागागमिवचिविदयः ।

४ - २७ - स्था ।

५ - २७ - उप स्थेषम् वृषभम् ।

६ - २७ - स्था ।

७ - २७ - गा ।

८ - २७ - अञ्जसा सत्यम् उप गेषम् ।

९ - २७ - गा ।

१० - २७ - गमि ।

११ - २७ - यज्ञेन प्रतिष्ठाम् गमेयम् ।

१२ - २७ - गमि ।

१३ - २७ - वचि ।

१४ - २७ - मन्त्रम् वोचेम अग्नये ।

१५ - २७ - वचि ।

१६ - २७ - विदि ।

१७ - २७ - विदेयम् एनाम् मनसि प्रविष्टाम् ।

१८ - २७ - शकिरुहोः च इति वक्तव्यम् ।

१९ - २७ - शकेम त्वा समिधम् ।

२० - २७ - अस्रवन्तीम् आ रुहेम स्वस्तये ।

२१ - २७ - दृशोः अक् पितरम् च दृशेयम् मातरम् च ।

२२ - २७ - दृशोः अक् वक्तव्यः पितरम् च दृशेयम् मातरम् च इति एवमर्थम् ।

२३ - २७ - इह उपस्थेयाम इति आट् अपि वक्तव्यः ।

२४ - २७ - न हि अङा एव सिध्यति ।

२५ - २७ - न वक्तव्यः ।

२६ - २७ - सार्वधातुकत्वात् सलोपः आर्धधातुकत्वात् एत्वम् ।

२७ - २७ - द्तत्र उभयलिङ्गत्वात् सिद्धम् ।

१ - १५ - वत्करणम् किमर्थम् ।

२ - १५ - स्वाश्रयम् अपि यथा स्यात् ।

३ - १५ - भिद्यते कुशूलेन इति ।

४ - १५ - अकर्मकाणाम् भावे लः भवति इति लः यथा स्यात् ।

५ - १५ - कर्मणा इति किमर्थम् ।

६ - १५ - करणाधिकरणाभ्याम् तुल्यक्रियः कर्ता यः सः कर्मवत् मा भूत् ।

७ - १५ - साधु असिः छिनत्ति ।

८ - १५ - साधु स्थाली पचति ।

९ - १५ - तुल्यक्रियः इति किमर्थम् ।

१० - १५ - पचति ओदनम् देवदत्तः ।

११ - १५ - तुल्यक्रियः इति उच्यमाने अपि अत्र प्राप्नोति ।

१२ - १५ - अत्र अपि हि कर्मणा तुल्यक्रियः कर्ता ।

१३ - १५ - न तुल्यक्रियग्रहणेन समानक्रियत्वम् अभिसम्बध्यते ।

१४ - १५ - किम् तर्हि ।

१५ - १५ - यस्मिन् कर्मणि कर्तृभूते अपि तद्वत् क्रिय लक्ष्यते यथा कर्मणि सः कर्मणा तुल्यक्रियः कर्ता कर्मवत् भवति इति ।

१ - ३१ - कर्मवत् अकर्मकस्य कर्ता ।

२ - ३१ - अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् ।

३ - ३१ - किम् प्रयोजनम् ।

४ - ३१ - सकर्मकस्य कर्ता कर्मवत् मा भूत् इति ।

५ - ३१ - भिद्यमानः कुशूलः पात्राणि भिनत्ति ।

६ - ३१ - तथा कर्म दृष्टः चेत् समानधातौ ।

७ - ३१ - कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् ।

८ - ३१ - इह मा भूत् ।

९ - ३१ - पचति ओदनम् देवदत्तः ।

१० - ३१ - राध्यति ओधनः स्वयम् एव ।

११ - ३१ - तथा कर्मस्थभावकानम् कर्मस्थक्रियाणाम् च ।

१२ - ३१ - कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् ।

१३ - ३१ - कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति ।

१४ - ३१ - यत् तावत् उच्यते अकर्मकस्य कर्ता कर्मवत् भवति इति वक्तव्यम् इति ।

१५ - ३१ - न वक्तव्यम् ।

१६ - ३१ - वक्ष्यति एतत् ।

१७ - ३१ - सकर्मकाणाम् प्रतिषेधः अन्योन्यम् आश्लिष्यतः इति ।

१८ - ३१ - यत् अपि उच्यते कर्म दृष्टः चेत् समानधातौ इति वक्तव्यम् इति ।

१९ - ३१ - न वक्तव्यम् ।

२० - ३१ - धातोः इति वर्तते ।

२१ - ३१ - धातोः कर्मणः कतुर्ः अयम् कर्मवद्भावः अतिदिश्यते ।

२२ - ३१ - तत्र सम्बन्धात् एतत् गन्तव्यम् यस्य धातोः यत् कर्म तस्य चेत् कर्ता स्यात् इति ।

२३ - ३१ - तत् यथा धातोः कर्मणि अण् भवति इति ।

२४ - ३१ - तत्र सम्बन्धात् एतत् गम्यते यस्य धातोः यत् कर्म इति ।

२५ - ३१ - इह मा भूत् ।

२६ - ३१ - आहर कुम्भम् करोति कटम् इति ।

२७ - ३१ - यत् अपि उच्यते कर्मस्थभावकानम् कर्मस्थक्रियाणाम् वा कर्ता कर्मवत् भवति इति वक्तव्यम् ।

२८ - ३१ - कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्ता कर्मवत् मा भूत् इति ।

२९ - ३१ - न वक्तव्यम् ।

३० - ३१ - कर्मस्थया क्रियया अयम् कर्तारम् उपमिमीते ।

३१ - ३१ - न च कर्तृस्थभावकानाम् कर्तृस्थक्रियाणाम् वा कर्मणि क्रियायाः प्रवृत्तिः अस्ति ।

१ - १४ - किम् पुनः कर्मकर्तरि कर्माश्रयम् एव भवति आहोस्वित् कर्त्राश्रयम् अपि ।

२ - १४ - किम् च अतः ।

३ - १४ - यदि कर्माश्रयम् एव चङ्शप्कृद्विधयः न सिध्यन्ति ।

४ - १४ - चङ् ।

५ - १४ - अचीकरत कटः स्वयम् एव ।

६ - १४ - शप् ।

७ - १४ - नमते दण्डः स्वयम् एव ।

८ - १४ - कृद्विधिः ।

९ - १४ - भिदुरम् काष्ठम् स्वयम् एव ।

१० - १४ - अथ कर्त्राश्रयम् अपि सिद्धम् एतत् भवति ।

११ - १४ - किम् तर्हि इति ।

१२ - १४ - आत्मनेपदशबादिविधिप्रतिषेधः ।

१३ - १४ - आत्मनेपदम् विधेयम् शबादीनाम् च प्रतिषेधः वक्तव्यः ।

१४ - १४ - उभयम् क्रियते न्यासे एव ।

१ - ६८ - किमर्थम् पुनः इदम् उच्यते ।

२ - ६८ - कर्मकर्तरि कर्तृत्वम् स्वातन्त्र्यस्य विवक्षितत्वात् । कर्मकर्तरि कर्तृत्वम् अस्ति ।

३ - ६८ - कुतः ।

४ - ६८ - स्वातन्त्र्यस्य विवक्षितत्वात् ।

५ - ६८ - स्वातन्त्र्येण एव अत्र कर्ता विवक्षितः ।

६ - ६८ - किम् पुनः सतः स्वातन्त्र्यस्य विवक्षा आहोस्वित् विवक्षामात्रम् ।

७ - ६८ - सतः इति आह ।

८ - ६८ - कथम् ज्ञायते ।

९ - ६८ - भिद्यते कुशूलेन इति ।

१० - ६८ - न च अन्यः कर्ता दृश्यते क्रिया च उपलभ्यते ।

११ - ६८ - किम् च भोः विग्रहवता एव क्रियायाः कर्त्रा भवितव्यम् न पुनः वातातपकालाः अपि कर्तारः स्युः ।

१२ - ६८ - भवेत् सिद्धम् यदि वातातपकालानाम् अन्यतमः कर्ता स्यात् ।

१३ - ६८ - यः तु खलु निवाते निरभिवर्षे अचिरकालकृतः कुशूलः भिद्यते तस्य न अन्यः कर्ता भवति अन्यत् अतः कुशूलात् ।

१४ - ६८ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्यः कर्ता न अस्ति इह तु कथम् न स्यात् लूयते केदारः स्वयम् एव इति यत्र असु देवदत्तः दात्रहस्तः समन्ततः विपरिपतन् दृश्यते ।

१५ - ६८ - अत्र अपि या असौ सुकरता नाम तस्याः न अन्यत् कर्ता भवति अन्यत् अतः केदारात् ।

१६ - ६८ - अस्ति प्रयोजनम् एतत् ।

१७ - ६८ - किम् तर्हि इति ।

१८ - ६८ - तत्र लान्तस्य कर्मवदनुदेशः ।

१९ - ६८ - तत्र लान्तस्य कर्मवदनुदेशः कर्तव्यः ।

२० - ६८ - लान्तस्य कर्ता कर्मवत् भवति इति वक्तव्यम् ।

२१ - ६८ - इतरथा हि कृत्यक्तखलर्थेषु प्रतिषेधः ।

२२ - ६८ - अक्रियमाणे हि लग्रहणे कृत्यक्तखलर्थेषु प्रतिषेधः वक्तव्यः स्यात् ।

२३ - ६८ - कृत्य ।

२४ - ६८ - भेत्तव्यः कुशूलः इति कर्म ।

२५ - ६८ - सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।

२६ - ६८ - तस्य प्रतिषेधः वक्तव्यः ।

२७ - ६८ - तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे कृत्या भवन्ति इति भावे यथा स्यात् ।

२८ - ६८ - भेत्तव्यम् कुशूलेन इति ।

२९ - ६८ - क्त ।

३० - ६८ - भिन्नः कुशूलः इति कर्म ।

३१ - ६८ - सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।

३२ - ६८ - तस्य प्रतिषेधः वक्तव्यः ।

३३ - ६८ - तस्मिन् प्रतिषिद्धि अकर्मकाणाम् भावे क्तः भवति इति भावे क्तः यथा स्यात् ।

३४ - ६८ - भिन्नम् कुशूलेन ।

३५ - ६८ - खलर्थः ।

३६ - ६८ - ईषद्भेद्यः कुशूलः इति कर्म ।

३७ - ६८ - सः यदा स्वातन्त्र्येण विवक्षितः तदा अस्य कर्मवद्भावः स्यात् ।

३८ - ६८ - तस्य प्रतिषेधः वक्तव्यः ।

३९ - ६८ - तस्मिन् प्रतिषिद्धे अकर्मकाणाम् भावे खल् भवति इति भावे यथा स्यात् ।

४० - ६८ - ईषद्भेद्यम् कुशूलेन इति ।

४१ - ६८ - तत् तर्हि लग्रहणम् कर्तव्यम् ।

४२ - ६८ - न कर्तव्यम् ।

४३ - ६८ - क्रियते न्यासे एव ।

४४ - ६८ - लिङि आशिषि अङ् इति द्विलकारकः निर्देशः ।

४५ - ६८ - सिद्धम् तु प्राकृतकर्मत्वात् ।

४६ - ६८ - सिद्धम् एतत् ।

४७ - ६८ - कथम् ।

४८ - ६८ - प्राकृतकर्मत्वात् ।

४९ - ६८ - प्राकृतम् एव एतत् कर्म यथा कटम् करोति शकटम् करोति ।

५० - ६८ - कथम् पुनः ज्ञायते प्राकृतम् एव एतत् कर्म इति ।

५१ - ६८ - आत्मसंयोगे अकर्मकर्तुः कर्मदर्शनात् ।

५२ - ६८ - आत्मसंयोगे अकर्मकर्तुः कर्म दृश्यते ।

५३ - ६८ - क्व ।

५४ - ६८ - हन्ति आत्मानम् ।

५५ - ६८ - हन्यत आत्मना इति ।

५६ - ६८ - विषमः उपन्यासः ।

५७ - ६८ - हन्ति आत्मानम् इति कर्म दृश्यते ।

५८ - ६८ - कर्ता न दृश्यते ।

५९ - ६८ - आत्मना हन्यते इति कर्ता दृश्यते ।

६० - ६८ - कर्म न दृश्यते ।

६१ - ६८ - पदलोपः च ।

६२ - ६८ - पदलोपः च द्रष्टव्यः ।

६३ - ६८ - हन्ति आत्मानम् आत्मना ।

६४ - ६८ - आत्मना हन्यते आत्मा इति ।

६५ - ६८ - कः पुनः आत्मानम् हन्ति कः वा आत्मना हन्यते ।

६६ - ६८ - द्वौ आत्मानौ अन्तरात्मा शरीरात्मा च ।

६७ - ६८ - अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःके अनुभवति ।

६८ - ६८ - शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःके अनुभवति ।

१ - ७४ - सकर्मकाणाम् प्रतिषेधः अन्योन्यम् आश्लिष्यतः इति ।

२ - ७४ - सकर्मकाणाम् प्रतिषेधः वक्तव्यः ।

३ - ७४ - किम् प्रयोजनम् ।

४ - ७४ - अन्योन्यम् आश्लिष्यतः ।

५ - ७४ - अन्योन्यम् संस्पृशतः ।

६ - ७४ - अन्योन्यम् गृह्णीतः इति ।

७ - ७४ - तपेः वा सकर्मकस्य वचनम् नियमार्थम् ।

८ - ७४ - तपेः वा सकर्मकस्य वचनम् नियमार्थम् भविष्यति ।

९ - ७४ - तपेः एव सकर्मकस्य न अन्यस्य सकर्मकस्य इति ।

१० - ७४ - तस्य तर्हि अन्यकर्मकस्य अपि प्राप्नोति ।

११ - ७४ - उत्तपति सुवर्णम् सुवर्णकारः ।

१२ - ७४ - उत्तप्यमानम् सुवर्णम् सुवर्णकारम् उत्तपति ।

१३ - ७४ - तस्य च तपःकर्मकस्य एव ।

१४ - ७४ - तस्य च तपःकर्मकस्य एव कर्ता कर्मवत् भवति न अन्यकर्मकस्य इति ।

१५ - ७४ - किम् इदम् तपः इति ।

१६ - ७४ - तपेः अयम् औणादिकः अस्कारः भावसाधनः ।

१७ - ७४ - कः प्रकृत्यर्थः कः प्रत्ययार्थः ।

१८ - ७४ - सः एव सन्तपः ।

१९ - ७४ - कथम् पुनः सः एव नाम प्रकृत्यर्थः स्यात् सः एव प्रत्ययार्थः ।

२० - ७४ - सामान्यतपेः अवयवतपिः कर्म भवति ।

२१ - ७४ - तत् यथा ।

२२ - ७४ - सः एतान् पोषान् अपुष्यत् गोपोषम् अश्वपोषम् रैपोषम् इति ।

२३ - ७४ - सामान्यपुषेः अवयविपुषिः कर्म भवति ।

२४ - ७४ - एवम् इह अपि सामान्यतपेः अवयवतपिः कर्म भवति ।

२५ - ७४ - दुहिपच्योः बहुलम् सकर्मकयोः ।

२६ - ७४ - दुहिपच्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।

२७ - ७४ - दुग्धे गौः पयः ।

२८ - ७४ - तस्मात् उदुम्बरः सः लोहितम् फलम् पच्यते ।

२९ - ७४ - बहुलवचनम् किमर्थम् ।

३० - ७४ - परस्मैपदार्थम् ।

३१ - ७४ - यदि एवम् न अर्थः बहुलवचनेन ।

३२ - ७४ - न हि परस्मैपदम् इष्यते ।

३३ - ७४ - सृजियुज्योः श्यन् तु ।

३४ - ७४ - सृजियुज्योः सकर्मकयोः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।

३५ - ७४ - श्यन् तु भवति ।

३६ - ७४ - सृजेः श्रद्धोपपन्ने कर्तरि कर्मवद्भावः वाच्यः चिणात्मनेपदार्थः ।

३७ - ७४ - सृज्यते मालाम् ।

३८ - ७४ - असर्जि मालाम् ।

३९ - ७४ - यजेः तु न्याय्ये कर्मकर्तरि यकः अभावाय ।

४० - ७४ - युज्यते ब्रह्मचारी योगम् ।

४१ - ७४ - करणेन तुल्यक्रियः कर्ता बहुलम् ।

४२ - ७४ - करणेन तुल्यक्रियः कर्ता बहुलम् कर्मवत् भवति इति वक्तव्यम् ।

४३ - ७४ - परिवारयन्ति कण्टकैः वृक्षम् ।

४४ - ७४ - परिवारयन्ते कण्टकाः वृक्षम् इति ।

४५ - ७४ - स्रवत्यादीनाम् प्रतिषेधः ।

४६ - ७४ - स्रवत्यादीनाम् प्रतिषेधः वक्तव्यः ।

४७ - ७४ - स्रवति कुण्डिका उदकम् ।

४८ - ७४ - स्रवति कुण्डिकायाः उदकम् ।

४९ - ७४ - स्रवन्ति वलीकानि उदकम् ।

५० - ७४ - स्रवति वलीकेभ्यः उदकम् इति ।

५१ - ७४ - सः तर्हि प्रतिषेधः वक्तव्यः ।

५२ - ७४ - न वक्तव्यः ।

५३ - ७४ - तुल्यक्रियः इति उच्यते ।

५४ - ७४ - क्रियान्तरम् च अत्र गम्यते ।

५५ - ७४ - इह तावत् स्रवति कुण्डिका उदकम् इति ।

५६ - ७४ - विसृजति इति गम्यते ।

५७ - ७४ - स्रवति कुण्डिकायाः उदकम् इति ।

५८ - ७४ - निष्क्रामति इति गम्यते ।

५९ - ७४ - स्रवन्ति वलीकानि उदकम् इति ।

६० - ७४ - विसृजन्ति इति गम्यते ।

६१ - ७४ - स्रवति वलीकेभ्यः उदकम् इति ।

६२ - ७४ - पतति इति गम्यते ।

६३ - ७४ - भूषाकर्मकिरतिसनाम् च अन्यत्र आत्मनेपदात् ।

६४ - ७४ - भूषाकर्मकिरतिसनाम् च प्रतिषेधः वक्तव्यः अन्यत्र आत्मनेपदात् ।

६५ - ७४ - भूषयते कन्या स्वयम् एव ।

६६ - ७४ - अबुभूषत कन्या स्वयम् एव ।

६७ - ७४ - मण्डयते कन्या स्वयम् एव ।

६८ - ७४ - अममण्डत कन्या स्वयम् एव ।

६९ - ७४ - किरति ।

७० - ७४ - अवकिरते हस्ती स्वयम् एव ।

७१ - ७४ - अवाकीर्ष्ट हस्ती स्वयम् एव ।

७२ - ७४ - सन् ।

७३ - ७४ - चिकीर्षते कटः स्वयम् एव ।

७४ - ७४ - अचिकीर्षिष्ट कटः स्वयम् एव ।

१ - १५ - यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् ।

२ - १५ - यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - १५ - णि ।

४ - १५ - कारयते कटः स्वयम् एव ।

५ - १५ - अचीकरत कटः स्वयम् एव ।

६ - १५ - णि ।

७ - १५ - श्रि ।

८ - १५ - उच्छ्रयते दण्डः स्वयम् एव ।

९ - १५ - उदशिश्रियत दण्डः स्वयम् एव ।

१० - १५ - श्रि ।

११ - १५ - ब्रूञ् ।

१२ - १५ - ब्रूते कथा स्वयम् एव ।

१३ - १५ - अवोचत कथा स्वयम् एव ।

१४ - १५ - भारद्वाजीयाः पठन्ति ।

१५ - १५ - यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उपसङ्ख्यानम् इति ।

१ - ५७ - कुषिरजोः श्यन्विधाने सार्वधातुकवचनम् ।कुषिरजोः श्यन्विधाने सार्वधातुकग्रहणम् कर्तव्यम् ।

२ - ५७ - अवचने हि लिङ्लिटोः प्रतिषेधः ।

३ - ५७ - अक्रियमाणे हि सार्वधातुकग्रहणे लिङ्लिटोः प्रतिषेधः वक्तव्यः स्यात् ।

४ - ५७ - चुकुषे पादः स्वयम् एव ।

५ - ५७ - ररञ्जे वस्त्रम् स्वयम् एव ।

६ - ५७ - कोषिषीष्ट पादः स्वयम् एव ।

७ - ५७ - रङ्क्षीष्ट वस्त्रम् स्वयम् एव ।

८ - ५७ - क्रियमाणे अपि सार्वधातुकग्रहणे इह प्राप्नोति ।

९ - ५७ - कति इह कुष्णाणाः पादाः ।

१० - ५७ - श्यना च स्यादीनाम् बाधनम् प्राप्नोति ।

११ - ५७ - कोषिष्यते पादः स्वयम् एव ।

१२ - ५७ - रङ्क्ष्यते वस्त्रम् स्वयम् एव ।

१३ - ५७ - अकोषि पादः स्वयम् एव ।

१४ - ५७ - अरञ्जि वस्त्रम् स्वयम् एव ।

१५ - ५७ - यत् तावत् उच्यते सार्वधातुकग्रहणम् कर्तव्यम् इति ।

१६ - ५७ - प्रकृतम् अनुवर्तते ।

१७ - ५७ - क्व प्रकृतम् ।

१८ - ५७ - सार्वधातुके यक् इति ।

१९ - ५७ - यदि तत् अनुवर्तते पूर्वस्मिन् योगे किम् समुच्चयः ।

२० - ५७ - ले च सार्वधातुके च इति ।

२१ - ५७ - आहोस्वित् लग्रहणम् सार्वधातुकविशेषणम् ।

२२ - ५७ - किम् च अतः ।

२३ - ५७ - यदि समुच्चयः कति इह भिन्दानाः कुशूलाः इति अत्र अपि प्राप्नोति ।

२४ - ५७ - अथ लग्रहणम् सार्वधातुकविशेषणम् लिङ्लिटोः न सिध्यति ।

२५ - ५७ - बिभिदे कुशूलः स्वयम् एव ।

२६ - ५७ - भित्सीष्ट कुशूलः स्वयम् एव इति ।

२७ - ५७ - अस्तु लग्रहणम् सार्वधातुकविशेषणम् ।

२८ - ५७ - ननु च उक्तम् लिङ्लिटोः न सिध्यति इति ।

२९ - ५७ - लिङ्लिड्ग्रहणम् अपि प्रकृतम् अनुवर्तते ।

३० - ५७ - क्व प्रकृतम् ।

३१ - ५७ - कास् प्रत्ययात् आम् अमन्त्रे लिटि लिङि आशिषि आङ् इति ।

३२ - ५७ - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् कति इह कुष्णाणाः पादाः इति प्राप्नोति ।

३३ - ५७ - अत्र अपि लविशिष्टम् सार्वधातुकग्रहणम् अनुवर्तते ।

३४ - ५७ - यत् अपि उच्यते श्यना च स्यादीनाम् बाधनम् प्राप्नोति ।

३५ - ५७ - यक्प्रतिषेधसम्बन्धेन श्यनं वक्ष्यामि ।

३६ - ५७ - न दुहस्नुनमाम् यक्चिणौ ।

३७ - ५७ - ततः कुषिरजोः प्राचाम् यक्चिणौ न भवतः ।

३८ - ५७ - ततः श्यन् परस्मैपदम् च इति ।

३९ - ५७ - यथा एव तर्हि यकः विषये श्यन् भवति एवम् चिणः अपि विषये प्राप्नोति ।

४० - ५७ - अकोषि पादः स्वयम् एव ।

४१ - ५७ - अरञ्जि वस्त्रम् स्वयम् एव इति ।

४२ - ५७ - एवम् तर्हि द्वितीयः योगविभागः करिष्यते ।

४३ - ५७ - न दुहस्नुनमाम् चिण् भवति ।

४४ - ५७ - ततः यक् ।

४५ - ५७ - यक् च न भवति दुहस्नुनमाम् ।

४६ - ५७ - ततः कुषिरजोः प्राचाम् यक् न भवति ।

४७ - ५७ - ततः श्यन् परस्मैपदम् च ।

४८ - ५७ - अथ वा अनुवृत्तिः करिष्यते ।

४९ - ५७ - स्यतासी लृलुटोः ।

५० - ५७ - च्लि लुङि ।

५१ - ५७ - च्लेः सिच् भवति ।

५२ - ५७ - कर्तरि शप् स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति ।

५३ - ५७ - कुषिरजोः प्राचाम् श्यन् परस्मैपदम् च स्यतासी लृलुटोः च्लि लुङि च्लेः सिच् भवति इति ।

५४ - ५७ - अथ वा अन्तरङ्गाः स्यादयः ।

५५ - ५७ - का अन्तरङ्गता ।

५६ - ५७ - लकारावस्थायाम् एव स्यादयः ।

५७ - ५७ - सार्वधातुके श्यन् ।

१ - ९५ - आ कुतः अयम् धात्वधिकारः ।

२ - ९५ - किम् प्राक् लादेशात् आहोस्वित् आ तृतीयाध्यायपरिसमाप्तेः ।

३ - ९५ - धातुवधिकारः प्राक् लादेशात् ।

४ - ९५ - प्राक् लादेशात् धात्वधिकारः ।

५ - ९५ - लादेशे हि व्यवहितत्वात् अप्रसिद्धिः ।

६ - ९५ - अनुवर्तमाने हि लादेशे धात्वधिकारे व्यवहितव्ता अप्रसिद्धिः स्यात् ।

७ - ९५ - किम् च स्यात् ।

८ - ९५ - आद्ये योगे न व्यवाये तिङः स्युः । आद्ये योगे विकरणैः व्यवहितत्वात् तिङः न स्युः ।

९ - ९५ - पचति पठति ।

१० - ९५ - इदम् इह सम्प्रधार्यम् ।

११ - ९५ - विकरणाः क्रियन्ताम् आडेशाः इति ।

१२ - ९५ - किम् अत्र कर्तव्यम् ।

१३ - ९५ - परत्वात् आदेशाः ।

१४ - ९५ - नित्याः विकरणाः ।

१५ - ९५ - कृतेषु आदेशेषु प्राप्नुवन्ति अकृतेषु अपि प्राप्नुवन्ति ।

१६ - ९५ - नित्यत्वात् विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् आदेशाः न प्राप्नुवन्ति ।

१७ - ९५ - अनवकाशः तर्हि आदेशाः ।

१८ - ९५ - सावकाशाः आदेशाः ।

१९ - ९५ - कः अवकाशः ।

२० - ९५ - ये एते लुग्विकरणाः श्लुविकरणाः च लिङ्लिटौ च ।

२१ - ९५ - न स्यात् एत्वम् टेः टिताम् यत् विधत्ते ।

२२ - ९५ - यत् च टित्सञ्ज्ञानाम् एत्वम् विधत्ते तत् च विकरणैः व्यवहितत्वात् न स्यात् ।

२३ - ९५ - एशः शित्त्वम् । एकारः च शित् कर्तव्यः ।

२४ - ९५ - किम् प्रयोजनम् ।

२५ - ९५ - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

२६ - ९५ - अक्रियमाणे हि शकारे तस्मात् इति उत्तरस्य आदेः इति तकारस्य एत्वे कृते द्वयोः एकारयोः श्रवणम् प्रसज्येत ।

२७ - ९५ - निवृत्ते पुनः लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति एकारस्य एकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।

२८ - ९५ - यत् च लोटः विधत्ते ।

२९ - ९५ - तत् च विकरणैः व्यवहितत्वात् न स्यात् ।

३० - ९५ - किम् पुनः तत् ।

३१ - ९५ - लोटः लङ्वत् एः उः सेः हि अपित् च वा छन्दसि इति ।

३२ - ९५ - यत् च अपि उक्तम् लङ्लिङोः तत् च न स्यात् ।

३३ - ९५ - किम् पुनः तत् ।

३४ - ९५ - नित्यम् ङितः इतः च तस्थस्थमिपाम् ताम्तम्तामः लिङः सीयुट् यासुट् परस्मैपदेषु उदात्तः ङित् च इति ।

३५ - ९५ - तस्मात् प्राक् लादेशात् धात्वधिकारः ।

३६ - ९५ - यदि प्राक् लादेशात् धात्वधिकारः अकारः शित् कर्तव्यः ।

३७ - ९५ - किम् प्रयोजनम् ।

३८ - ९५ - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

३९ - ९५ - अनुवर्तमाने पुनः लादेशे धात्वधिकारे तस्मात् इति उत्तरस्य आदेः इति थकारस्य अत्वे कृते द्वयोः अकारयोः पररूपेण सिद्धम् रूपम् स्यात् ।

४० - ९५ - पेच यूयम् ।

४१ - ९५ - चक्र यूयम् इति ।

४२ - ९५ - ननु च निवृत्ते अपि लादेशे धात्वधिकारे अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य अकार्वचनने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।

४३ - ९५ - अस्ति अन्यत् अकारस्य अकारवचने प्रयोजनम् ।

४४ - ९५ - किम् ।

४५ - ९५ - वक्ष्यति एतत् तत् अकारस्य अकारवचनम् समसङ्ख्यार्थम् इति ।

४६ - ९५ - आर्धधातुकसञ्ज्ञायाम् धातुग्रहणम् कर्तव्यम् धातोः परस्य आर्धधातुकसञ्ज्ञा यथा स्यात् ।

४७ - ९५ - इह मा भूत् ॒ वृक्ष्त्वम् वृक्षता इति ।

४८ - ९५ - तस्मात् लादेशे धात्वधिकारः अनुवर्त्यः ।

४९ - ९५ - ननु च उक्तम् आद्ये योगे न व्यवाये तिङः स्युः इति ।

५० - ९५ - न एषः दोषः ।

५१ - ९५ - आनुपूर्व्यात् सिद्धम् एतत् ।

५२ - ९५ - न अत्र अकृतेषु आदेशेषु विकरणाः प्राप्नुवन्ति ।

५३ - ९५ - किम् कारणम् ।

५४ - ९५ - सार्वधातुके विकरणाः उच्यन्ते ।

५५ - ९५ - न च अकृतेषु आदेशेषु सार्वधातुकत्वम् भवति ।

५६ - ९५ - ये तर्हि न एतस्मिन् विशेषे विधीयन्ते ।

५७ - ९५ - के पुनः ते ।

५८ - ९५ - स्यादयः ।

५९ - ९५ - तत्र अपि विहितविशेषणम् धातुग्रहणम् ।

६० - ९५ - धातोः विहितस्य लस्य इति ।

६१ - ९५ - यदि एवम् विन्दति इति णलादयः प्राप्नुवन्ति ।

६२ - ९५ - धातुना अत्र विहितम् विशेषयिष्यामः विदिना च आनतर्यम् ।

६३ - ९५ - धातोः विहितस्य लस्य विदेः अनन्तरस्य इति ।

६४ - ९५ - इह तर्हि अजक्षिष्यन् अजागैर्ष्यन् इति अभ्यस्तात् झेः जुस् भवति इति जुस्भावः प्राप्नोति ।

६५ - ९५ - अत्र अपि धातुना विहितम् विशेषयिष्यामः अभ्यस्तेन आनन्तर्यम् ।

६६ - ९५ - धातोः विहितस्य अभस्तात् अनन्तरस्य इति ।

६७ - ९५ - आतः इति अत्र कथम् विशेषयिष्यसि ।

६८ - ९५ - यदि तावत् धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् अलुनन् इति अत्र अपि प्राप्नोति ।

६९ - ९५ - अथ आकारग्रहणम् विहितविशेषणम् धातुग्रहणम् आनन्तर्यविशेषणम् अपिबन् इति अत्र अपि प्राप्नोति ।

७० - ९५ - अस्तु तर्हि धातुग्रहणम् विहितविशेषणम् आकारग्रहणम् आनन्तर्यविशेषणम् ।

७१ - ९५ - ननु च उक्तम् अलुनन् इति अत्र अपि प्राप्नोति इति ।

७२ - ९५ - न एषः दोषः ।

७३ - ९५ - लोपे कृते न भविष्यति ।

७४ - ९५ - न अत्र लोपः प्राप्नोति ।

७५ - ९५ - किम् कारणम् ।

७६ - ९५ - ईत्वेन बाध्यते ।

७७ - ९५ - न अत्र ईत्वम् प्राप्नोति ।

७८ - ९५ - किम् कारणम् ।

७९ - ९५ - अन्तिभावेन बाध्यते ।

८० - ९५ - न अत्र अन्तिभावः प्राप्नोति ।

८१ - ९५ - किम् कारणम् ।

८२ - ९५ - जुस्भावेन बाध्यते ।

८३ - ९५ - न अत्र जुस्भावः प्राप्नोति ।

८४ - ९५ - किम् कारणम् ।

८५ - ९५ - लोपेन बाध्यते ।

८६ - ९५ - लोपः ईत्वेन ईत्वम् अन्तिभावेन अन्तिभावः जुस्भावेन जुस्भावः लोपेन इति चक्रकम् अव्यवस्था प्रसज्येत ।

८७ - ९५ - न अस्ति चक्रकप्रसङ्गः ।

८८ - ९५ - न हि अव्यवस्थाकारिणा शास्त्रेण भवितव्यम् ।

८९ - ९५ - शास्त्रेण नाम व्यवस्थाकारिणा भवितव्यम् ।

९० - ९५ - न च अत्र हलादिना मुहूर्तम् अपि शक्यम् अवस्थातुम् ।

९१ - ९५ - तावति एव अन्तिभावेन भवितव्यम् ।

९२ - ९५ - अन्तिभावे कृते लोपः ।

९३ - ९५ - लोपेन व्यवस्था भविष्यति ।

९४ - ९५ - यत् अपि उच्यते एशः शित्त्वम् इति ।

९५ - ९५ - क्रियते न्यासे एव ।

१ - ४१ - कानि पुनः अस्य योगस्य प्रयोजनानि ।

२ - ४१ - प्रयोजनम् प्रातिपदिकप्रतिषेधः ।

३ - ४१ - प्रातिपदिकप्रतिषेधः प्रयोजनम् ।

४ - ४१ - धातोः तव्यादयः यथा स्युः ।

५ - ४१ - प्रातिपदिकात् मा भूवन् इति ।

६ - ४१ - न एतत् अस्ति प्रयोजनम् ।

७ - ४१ - साधने ताव्यादयः विधीयन्ते साधनम् च क्रियायाः ।

८ - ४१ - क्रियाभावात् साधनाभावः ।

९ - ४१ - साधनाभावात् असति अपि धात्वधिकारे प्रातिपदिकात् तव्यादयः न भविष्यन्ति ।

१० - ४१ - स्वपादिषु ।

११ - ४१ - स्वपादिषु तर्हि प्रयोजनम् ।

१२ - ४१ - स्वपिति ।

१३ - ४१ - सुपति इति मा भूत् ।

१४ - ४१ - अङ्गसञ्ज्ञा च ।

१५ - ४१ - अङ्गसञ्ज्ञा च प्रयोजनम् ।

१६ - ४१ - यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् इति धातोः अङ्गसञ्ज्ञा सिद्धा भवति ।

१७ - ४१ - कृत्सञ्ज्ञा च ।

१८ - ४१ - कृत्सञ्ज्ञा च प्रयोजनम् ।

१९ - ४१ - धातुविहितस्य प्रत्ययस्य कृत्सञ्ज्ञा सिद्धा भवति ।

२० - ४१ - उपपदसञ्ज्ञा च. उपपदसञ्ज्ञा च प्रयोजनम् ।

२१ - ४१ - तत्र एतस्मिन् धात्वधिकारे सप्तमीनिर्दिष्टम् उपपदस्ञ्ज्ञम् भवति इति उपपदसञ्ज्ञा सिद्धा भवति ।

२२ - ४१ - कृदुपपदसञ्ज्ञे तावन् न प्रयोजनम् ।

२३ - ४१ - अधिकारात् अपि एते सिद्धे ।

२४ - ४१ - स्वपादिषु तर्हि अङ्गसञ्ज्ञा च प्रयोजनम् ।

२५ - ४१ - धातुग्रहणम् अनर्थकम् यङ्विधौ धात्वधिकारात् ।

२६ - ४१ - धातुग्रहणम् अनर्थकम् ।

२७ - ४१ - किम् कारणम् ।

२८ - ४१ - यङ्विधौ धात्वधिकारात् ।

२९ - ४१ - यङ्विधौ धातुग्रहणम् प्रकृतम् अनुवर्तते ।

३० - ४१ - तत् च अवश्यम् अनुवर्त्यम् ।

३१ - ४१ - अनधिकारे हि अङ्गसञ्ज्ञाभावः ।

३२ - ४१ - अनधिकारे हि सति अङ्गसञ्ज्ञायाः अभावः स्यात् ।

३३ - ४१ - करिष्यति हरिष्यति इति ।

३४ - ४१ - यद् तत् अनुवर्तते चूर्णचुरादिभ्यः णिच् भवति धातोः च इति धातुमात्रात् णिच् प्राप्नोति ।

३५ - ४१ - हेतुमद्वचनम् तु ज्ञापकम् अन्यत्राभावस्य ।

३६ - ४१ - यत् अयम् हेतुमति च इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् णिच् भवति इति ।

३७ - ४१ - इह तर्हि कण्ड्वादिभ्यः यक् भवति धातोः च इति धातुमात्रात् यक् प्राप्नोति ।

३८ - ४१ - कण्ड्वादिषु च व्यपदेशिवद्वचनात् ।

३९ - ४१ - यत् अयम् कण्ड्वादिभ्यः यक् भवति इति आह तत् ज्ञापयति आचार्यः न धातुमात्रात् यक् भवति इति ।

४० - ४१ - अथ वा कण्ड्वादिभ्यः धातुग्रहणेन अभिसम्भन्त्स्यामः ।

४१ - ४१ - कण्ड्वादिभ्यः धातुभ्यः इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP