१ - ३२ - किमर्थम् इदम् उच्यते ।
२ - ३२ - अन्तादिवद्वचनम् आमिश्रस्य आदेशवचनात् ।
३ - ३२ - अन्तादिवत् इति उच्यते आमिश्रस्य आदेशवचनात् ।
४ - ३२ - आमिश्रस्य अयम् आदेशः उच्यते ।
५ - ३२ - सः न एव पूर्वग्रहणेन गृह्यते न अपि परग्रहणेन ।
६ - ३२ - तत् यथा क्षीरोदके सम्पृक्ते आमिश्रत्वात् न एव क्षीरग्रहणेन गृह्यते न अपि उदकग्रहणेन ।
७ - ३२ - इष्यते च ग्रहणम् स्यात् इति ।
८ - ३२ - तत् च अन्तरेण यत्नम् न सिध्यति इति अन्तादिवच्वचनम् ।
९ - ३२ - एवमर्थम् इदम् उच्यते ।
१० - ३२ - अस्ति प्रयोजनम् एतत् ।
११ - ३२ - किम् तर्हि इति ।
१२ - ३२ - तत्र यस्य अन्तादिवत् तन्निर्देशः ।
१३ - ३२ - तत्र यस्य अन्तादिवद्भावः इष्यते तन्निर्देशः कर्तव्यः ।
१४ - ३२ - अस्य अन्तवत् भवति अस्य आदिवत् भवति इति वक्तव्यम् ।
१५ - ३२ - सिद्धम् तु पूर्वपराधिकारात् ।
१६ - ३२ - सिद्धम् एतत् ।
१७ - ३२ - कथम् ।
१८ - ३२ - पूर्वपराधिकारात् ।
१९ - ३२ - पूर्वपरयोः इति वर्तते ।
२० - ३२ - पूर्वस्य कार्यम् प्रति अन्तवत् भवति ।
२१ - ३२ - परस्य कार्यम् प्रति आदिवत् भवति ।
२२ - ३२ - अथ यत्र उभयम् आश्रीयते किम् तत्र पूर्वस्य अन्तवत् भवति आहोस्वित् परस्य आदिवत् भवति ।
२३ - ३२ - उभयतः आश्रये न अन्तादिवत् ।
२४ - ३२ - किम् वक्तव्यम् एतत् ।
२५ - ३२ - न हि ।
२६ - ३२ - कथम् अनुच्यमानम् गंस्यते ।
२७ - ३२ - लौकिकः अयम् दृष्टान्तः ।
२८ - ३२ - तत् यथा लोके यः द्वयोः तुल्यबलयोः प्रेष्यः भवति सः तयोः पर्यायेण कार्यम् करोति ।
२९ - ३२ - यदा तु तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तत्र यदि असौ अविरोधाऋथी भवति ततः उभयोः न करोति ।
३० - ३२ - किम् पुनः कारणम् उभयोः न करोति ।
३१ - ३२ - यौगपद्यासम्भवात् ।
३२ - ३२ - न अस्ति यौगपद्येन सम्भवः ।
१ - ११८ - अथ अन्तवत्त्वे कानि प्रयोजनानि ।
२ - ११८ - अन्तवत्त्वे प्रयोजनम् बह्वच्पूर्वपदात् ठज्विधाने ।
३ - ११८ - अन्तवत्त्वे बह्वच्पूर्वपदात् ठज्विधाने प्रयोजनम् ।
४ - ११८ - द्वादशान्यिकः ।
५ - ११८ - पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदसय अन्तवत् भवति यथा शक्येत कर्तुम् बहुच्पूर्वपदात् ठच् भवति इति ।
६ - ११८ - क्व तर्हि स्यात् ।
७ - ११८ - यत्र कृते अपि एकादेशे बह्वच्पूर्वपदम् भवति ।
८ - ११८ - तरयोदशान्यिकः ।
९ - ११८ - प्रत्ययैकादेशः पूर्वविधौ ।
१० - ११८ - प्रत्ययैकादेशः पूर्वविधौ प्रयोजनम् ।
११ - ११८ - मधु पिबन्ति ।
१२ - ११८ - शिदशितोः एकादेशः शितः अन्तवत् भवति यथा शक्येत कर्तुम् शिति इति पिबादेशः ।
१३ - ११८ - क्व तर्हि स्यात् ।
१४ - ११८ - यत्र एकादेशः न भवति ।
१५ - ११८ - पिबति ।
१६ - ११८ - वैभक्तस्य णत्वे ।
१७ - ११८ - वैभक्तस्य णत्वे प्रयोजनम् ।
१८ - ११८ - क्षीरपेण , सुरापेण ।
१९ - ११८ - उत्तरपदविभक्त्योः एकादेशः उत्तरपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् एकाजुत्तरपदे णः भवति इति ।
२० - ११८ - क्व तर्हि स्यात् ।
२१ - ११८ - यत्र एकादेशः न भवति ।
२२ - ११८ - क्षीरपाणाम् , सुरापाणम् ।
२३ - ११८ - अदसः ईत्त्वोत्त्वे ।
२४ - ११८ - अदसः ईत्त्वोत्त्वे प्रयोजनम् ।
२५ - ११८ - अमी अत्र , अमी आसते , अमू अत्र , अमू आसाते ।
२६ - ११८ - अदस्विभक्त्योः एकादेशः अदसः अन्तवत् भवति यथा शक्येत कर्तुम् अदसः असेः दात् उ दः मः एतः ईत् बहुवचने इति ।
२७ - ११८ - क्व तर्हि स्यात् ।
२८ - ११८ - यत्र एकादेशः न भवति ।
२९ - ११८ - अमीभिः , अमूभ्याम् ।
३० - ११८ - स्वरितत्वे प्रयोजनम् ।
३१ - ११८ - कार्या , हार्या ।
३२ - ११८ - तिदतिरोः एकादेशः तितः अन्तवत् भवति यथा शक्येत कर्तुम् तित् स्वरितम् इति ।
३३ - ११८ - क्व तर्हि स्यात् ।
३४ - ११८ - यत्र एकादेशः न भवति ।
३५ - ११८ - कार्यः , हार्यः ।
३६ - ११८ - स्वरितत्वम् विप्रतिषेधात् ।
३७ - ११८ - स्वरितत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।
३८ - ११८ - परत्वात् स्वरितत्वम् भविष्यति विप्रतिषेधेन ।
३९ - ११८ - न एषः युक्तः विप्रतिषेधः ।
४० - ११८ - नित्यः एकादेशः ।
४१ - ११८ - कृते अपि स्वरितत्वे प्राप्नोति अकृते अपि ।
४२ - ११८ - अनित्यः एकादेशः ।
४३ - ११८ - अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति अन्यथास्वरस्य अकृते स्वरितत्वे प्राप्नोति ।
४४ - ११८ - स्वरभिन्नस्य च प्राप्नुवन् विधिः अनित्यः भवति ।
४५ - ११८ - अन्तरङ्गः तर्हि एकादेशः ।
४६ - ११८ - का अन्तरङ्गता ।
४७ - ११८ - वर्णौ आश्रित्य एकादेशः पदस्य स्वरितत्वम् ।
४८ - ११८ - स्वरितत्वम् अपि अन्तरङ्गम् ।
४९ - ११८ - कथम् ।
५० - ११८ - उक्तम् एतत् पदग्रहणम् परिमाणार्थम् इति ।
५१ - ११८ - उभयोः अन्तरङ्गयोः परत्वात् स्वरितत्वम् ।
५२ - ११८ - स्वरितत्वे कृते आन्तर्यतः स्वरितानुदात्तयोः एकादेशः स्वरितः भविष्यति ।
५३ - ११८ - लिङ्गविशिष्तग्रहणात् वा ।
५४ - ११८ - अथ वा प्रातिपदिकग्रहणे लिङ्गविशिष्तस्य अपि ग्रहण्म् भवति इति एवम् अत्र स्वरितत्वम् भविष्यति ।
५५ - ११८ - पूर्वपदान्तोदात्तत्वम् च प्रयोजनम् ।
५६ - ११८ - गुडोदकम् , मथितोदकम् ।
५७ - ११८ - पूर्वपदोत्तरपदयोः एकादेशः पूर्वपदस्य अन्तवत् भवति यथा शक्येत कर्तुम् उदके अकेवले पूर्वपदस्य अन्तः उदात्तः भवति इति ।
५८ - ११८ - क्व तर्हि स्यात् ।
५९ - ११८ - यत्र अकादेशः न भवति ।
६० - ११८ - उदश्विदुदकम् ।
६१ - ११८ - पूर्वपदान्तोदात्तत्वम् च ।
६२ - ११८ - पूर्वपदान्तोदात्तत्वम् च विप्रतिषेधात् ।
६३ - ११८ - पूर्वपदान्तोदात्तत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।
६४ - ११८ - परत्वात् पूर्वपदान्तोदात्तत्वम् ।
६५ - ११८ - पूर्वपदान्तोदात्तत्वस्य अवकाशः उदश्विदुदकम् ।
६६ - ११८ - एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् ।
६७ - ११८ - इह उभयम् प्राप्नोति ।
६८ - ११८ - मथितोदकम् , गुडोदकम् ।
६९ - ११८ - पूर्वपदान्तोदात्तत्वम् भवति विप्रतिषेधेन ।
७० - ११८ - सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः ।
७१ - ११८ - एकादेशे हि स्वरिताप्रसिद्धिः ।
७२ - ११८ - एकादेशे हि स्वरितस्य अप्रसिद्धिः स्यात् ।
७३ - ११८ - यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते पूर्वपदान्तोदात्तत्वम् भविष्यति इति स्वरितत्वम् तस्य न सिध्यति स्वरितः वा अनुदात्ते पदादौ इति ।
७४ - ११८ - मथितोदकम् , गुडोदकम् ।
७५ - ११८ - कृदन्तप्रकृतिस्वरत्वम् च प्रयोजनम् ।
७६ - ११८ - प्राटिता , प्राशिता ।
७७ - ११८ - कृद्गत्योः एकादेशः गतेः अन्तवत् भवति यथा शक्येत कर्तुम् गतिकारकोपपदात् कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति ।
७८ - ११८ - क्व तर्हि स्यात् ।
७९ - ११८ - यत्र न अकादेशः ।
८० - ११८ - प्रकारकः , प्रकरणम् । कृदन्तप्रकृतिस्वरत्वम् च ।
८१ - ११८ - कृदन्तप्रकृतिस्वरत्वम् च विप्रतिषेधात् ।
८२ - ११८ - कृदन्तप्रकृतिस्वरत्वम् क्रियताम् एकादेशः इति किम् अत्र कर्तव्यम् ।
८३ - ११८ - परत्वात् कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन ।
८४ - ११८ - कृदन्तप्रकृतिस्वरत्वस्य अवकाशः प्रकारकः , प्रकरणम् । एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् ।
८५ - ११८ - इह उभयम् प्राप्नोति ।
८६ - ११८ - प्राटिता , प्राशिता ।
८७ - ११८ - कृदन्तप्रकृतिस्वरत्वम् भवति विप्रतिषेधेन ।
८८ - ११८ - सः च अवश्यम् विप्रतिषेधः आश्रययितव्यः ।
८९ - ११८ - एकादेशे हि अ प्रसिद्धिः उत्तरपदस्य अपरत्वात् ।
९० - ११८ - यः हि मन्यते अस्तु अत्र एकादेशः एकादेशे कृते कृदन्तप्रकृतिस्वरत्वम् भविष्यति इति कृदन्तप्रकृतिस्वरत्वम् तस्य न सिध्यति ।
९१ - ११८ - किम् कारणम् ।
९२ - ११८ - उत्तरपदस्य अपरत्वात् ।
९३ - ११८ - न हि इदानीम् एकादेशे कृते उत्तरपदम् परम् भवति ।
९४ - ११८ - ननु च अन्तादिवद्भावेन परम् ।
९५ - ११८ - उभयतः आश्रये न अन्तादिवत् ।
९६ - ११८ - उत्तरपदवृद्धिः च एकादेशात् ।
९७ - ११८ - उत्तरपदवृद्धिः च एकादेशात् भवति विप्रतिषेधेन ।
९८ - ११८ - उत्तरपदवृद्धेः अवकाशः पूर्वत्रैगर्तकः, अपरत्रैगर्तकः ।
९९ - ११८ - एकादेशस्य अवकाशः दण्डाग्रम् , क्षुपाग्रम् ।
१०० - ११८ - इह उभयम् प्राप्नोति ।
१०१ - ११८ - पूर्वैषुकामशमः , अपरैषुकामशः ।
१०२ - ११८ - उत्तरपदवृद्धिः भवति विप्रतिषेधेन ।
१०३ - ११८ - एकादेशप्रसङ्गः तु अन्तरङ्गबलीयस्त्वात् ।
१०४ - ११८ - एकादेशः तु प्राप्नोति ।
१०५ - ११८ - किम् कारणम् ।
१०६ - ११८ - अन्तरङ्गस्य बलीयस्त्वात् ।
१०७ - ११८ - अन्तरङ्गम् बलीयः ।
१०८ - ११८ - तत्र कः दोषः ।
१०९ - ११८ - तत्र वृद्धिविधानम् ।
११० - ११८ - तत्र वृद्धिः विधेया ।
१११ - ११८ - न एषः दोषः ।
११२ - ११८ - आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।
११३ - ११८ - कथम् कृत्वा ज्ञापकम् ।
११४ - ११८ - इन्द्रे द्वौ अचौ ।
११५ - ११८ - तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन ।
११६ - ११८ - ततः अनच्कः इन्द्रः सम्पन्नः ।
११७ - ११८ - तत्र कः प्रसङ्गः वृद्धेः ।
११८ - ११८ - पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।
१ - ५५ - अथ आदिवत्त्वे कानि प्रयोजनानि ।
२ - ५५ - आदिवत्त्वे प्रयोजनम् प्रगृह्यसञ्ज्ञायाम् ।
३ - ५५ - आदिवत्त्वे प्रगृह्यसञ्ज्ञायाम् प्रयोजनम् ।
४ - ५५ - अग्नी इति , वायू इति ।
५ - ५५ - द्विवचनाद्विवचनयोः एकादेशः द्विवचनस्य आदिवत् भवति यथा शक्येत कर्तुम् ईदूदेत् द्विवचनम् प्रगृह्यम् इति ।
६ - ५५ - क्व तर्हि स्यात् ।
७ - ५५ - यत्र एकादेशः न भवति ।
८ - ५५ - त्रपुणी इति , जतुनी इति ।
९ - ५५ - सुप्तिङाब्विधिषु ।
१० - ५५ - सुप्तिङाब्विधिषु प्रयोजनम् ।
११ - ५५ - सुप् ।
१२ - ५५ - वृक्षे तिष्ठति ।
१३ - ५५ - प्लक्षे तिष्ठति ।
१४ - ५५ - सुबसुपोः एकादेशः सुपः आदिवत् भवति यथा शक्येत कर्तुम् सुबन्तम् पदम् इति ।
१५ - ५५ - क्व तर्हि स्यात् ।
१६ - ५५ - यत्र एकादेशः न भवति ।
१७ - ५५ - वृक्षः तिष्ठति ।
१८ - ५५ - प्लक्षः तिष्थति ।
१९ - ५५ - सुप् ।
२० - ५५ - तिङ् ।
२१ - ५५ - पचे, यजे इति ।
२२ - ५५ - तिङतिङोः एकादेशः तिङः आदिवत् भवति यथा शक्येत कर्तुम् तिङन्तम् पदम् इति ।
२३ - ५५ - क्व तर्हि स्यात् ।
२४ - ५५ - यत्र एकादेशः न भवति ।
२५ - ५५ - पचति , यजति ।
२६ - ५५ - तिङ् ।
२७ - ५५ - आप् ।
२८ - ५५ - खट्वा , माला ।
२९ - ५५ - अबनापोः एकादेशः आपः आदिवत् भवति यथा शक्येत कर्तुम् आबन्तात् सोः लोपः भवति इति ।
३० - ५५ - क्व तर्हि स्यात् ।
३१ - ५५ - यत्र एकादेशः न भवति ।
३२ - ५५ - क्रुञ्चा , उष्णिहा , देवदिशा ।
३३ - ५५ - आङ्ग्रहणे पदविधौ ।
३४ - ५५ - आङ्ग्रहणे पदविधौ प्रयोजनम् ।
३५ - ५५ - अद्य आहते ।
३६ - ५५ - कदा आहते ।
३७ - ५५ - आङनाङोः एकादेशः आङः आदिवत् भवति यथा शक्येत कर्तुम् आङः यमहनः इति आत्मनेपदम् भवति इति ।
३८ - ५५ - क्व तर्हि स्यात् ।
३९ - ५५ - यत्र एकादेशः न भवति ।
४० - ५५ - आहते ।
४१ - ५५ - आटः च वृद्धिविधौ ।
४२ - ५५ - आटः च वृद्धिविधौ प्रयोजनम् ।
४३ - ५५ - अद्य ऐहिष्ट ।
४४ - ५५ - कदा ऐहिष्ट ।
४५ - ५५ - आटः अद्यशब्दस्य च एकादेशः आटः आदिवत् भवति यथा शक्येत कर्तुम् आटः च अचि वृद्धिः भवति इति ।
४६ - ५५ - क्व तर्हि स्यात् ।
४७ - ५५ - यत्र एकादेशः न ।
४८ - ५५ - ऐहिष्ट , ऐक्षिष्ट ।
४९ - ५५ - कृदन्तप्रातिपदिकत्वे च ।
५० - ५५ - कृदन्तप्रातिपदिकत्वे च प्रयोजनम् ।
५१ - ५५ - धारयः , पारयः ।
५२ - ५५ - कृदकृतोः एकादेशः कृतः आदिवत् भवति यथा शक्येत कर्तुम् कृदन्तम् प्रातिपदिकम् इति ।
५३ - ५५ - क्व तर्हि स्यात् ।
५४ - ५५ - यत्र एकादेशः न ।
५५ - ५५ - कारकः , हारकः ।
१ - ४१ - न अभ्यासादीनाम् ह्रस्वत्वे ।
२ - ४१ - अभ्यासादीनाम् ह्रस्वत्वे न अन्तादिवत् भवति इति वक्तव्यम् ।
३ - ४१ - के पुनः अभ्यासादयः ।
४ - ४१ - अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि ।
५ - ४१ - अभ्यासह्रस्वत्वम् ।
६ - ४१ - उपेयाज , उपोवाप ।
७ - ४१ - ऊहेः ह्रस्ववम् ।
८ - ४१ - उपोह्यते , प्रोह्यते , परोह्यते ।
९ - ४१ - अम्बार्थनदीनपुंसकोपसर्जनह्रस्वत्वानि ।
१० - ४१ - अम्ब अत्र , अक्क अत्र ।
११ - ४१ - कुमारि इदम् , किशोरि इदम् ।
१२ - ४१ - आराशस्त्रि इदम् , धानाशष्कुलि इदम् ।
१३ - ४१ - निष्कौशाम्बि इदम् , निर्वाराणसि इदम् ।
१४ - ४१ - अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनग्रहणेन ग्रहणात् ह्रस्वत्वम् प्राप्नोति ।
१५ - ४१ - न वा बहिरङ्गलक्षणत्वात् ।
१६ - ४१ - न वा एतत् वक्तव्यम् ।
१७ - ४१ - किम् कारणम् ।
१८ - ४१ - बहिरङ्गलक्षणत्वात् ।
१९ - ४१ - अन्तरङ्गम् ह्रस्वत्वम् ।
२० - ४१ - बहिरङ्गाः एते विधयः ।
२१ - ४१ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
२२ - ४१ - वर्णाश्रयविधौ च ।
२३ - ४१ - वर्णाश्रयविधौ च न अन्तादिवत् भवति इति वक्तव्यम् ।
२४ - ४१ - किम् प्रयोजनम् ।
२५ - ४१ - प्रयोजनम् खट्वाभिः जुहाव अस्यै अश्वः इति ।
२६ - ४१ - इह खट्वाभिः , मालाभिः , अतः भिसः ऐस् भवति इति ऐस्भावः प्राप्नोति ।
२७ - ४१ - न एषः दोषः ।
२८ - ४१ - तपरकरणसामर्थ्यात् न भविष्यति ।
२९ - ४१ - अस्ति अन्यत् तपरकरणे प्रयोजनम् ।
३० - ४१ - किम् ।
३१ - ४१ - कीलालपाभिः , शुभंयाभिः ।
३२ - ४१ - जुहाव ।
३३ - ४१ - आतः औ णलः इति औत्वम् प्राप्नोति ।
३४ - ४१ - अस्यै अश्वः इति ।
३५ - ४१ - एङः पदान्तात् अति इति पूर्वत्वम् प्राप्नोति ।
३६ - ४१ - न वा अताद्रूप्यातिदेशात् ।
३७ - ४१ - न वा वक्तव्यम् ।
३८ - ४१ - किम् कारणम् ।
३९ - ४१ - अताद्रूप्यातिदेशात् ।
४० - ४१ - न इह ताद्रूप्यम् अतिदिश्यते ।
४१ - ४१ - रूपाश्रयाः वै एते विधयः अताद्रूप्यात् न भविष्यन्ति ।
१ - ३९ - किमर्थम् इदम् उच्यते ।
२ - ३९ - षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च ।
३ - ३९ - षत्वतुकोः असिद्धत्वम् उच्यते आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च ।
४ - ३९ - आदेशलक्षणप्रतिषेधाऋथम् तावत् ।
५ - ३९ - कोसिञ्चत् ।
६ - ३९ - योसिञ्चत् ।
७ - ३९ - एकादेशे कृते इणः इति षत्वम् प्राप्नोति ।
८ - ३९ - असिद्धत्वात् न भवति ।
९ - ३९ - उत्सर्गलक्षणभावार्थम् च ।
१० - ३९ - अधीत्य , प्रेत्य ।
११ - ३९ - एकादेशे कृते ह्रस्वस्य इति तुक् न प्राप्नोति ।
१२ - ३९ - असिद्धत्वात् भवति ।
१३ - ३९ - अस्ति प्रयोजनम् एतत् ।
१४ - ३९ - किम् तर्हि इति ।
१५ - ३९ - तत्र उत्सर्गलक्षणाप्रसिद्धिः उत्सर्गाभावात् ।
१६ - ३९ - तत्र उत्सर्गलक्षणस्य कार्यस्य अप्रसिद्धिः ।
१७ - ३९ - अधीत्य , प्रेत्य इति ।
१८ - ३९ - किम् कारणम् ।
१९ - ३९ - उत्सर्गाभावात् ।
२० - ३९ - ह्रस्वस्य इति उच्यते न च अत्र ह्रस्वम् पश्यामः ।
२१ - ३९ - ननु च अत्र अपि असिद्धवचनात् सिद्धम् ।
२२ - ३९ - असिद्धवचनात् सिद्धम् इति चेत् न अन्यस्य असिद्धवचनात् अन्यस्य भावः ।
२३ - ३९ - असिद्धवचनात् सिद्धम् इति चेत् तत् न ।
२४ - ३९ - किम् कारणम् ।
२५ - ३९ - अन्यस्य असिद्धवचनात् अन्यस्य भावः ।
२६ - ३९ - न हि अन्यस्य असिद्धवचनात् अन्यस्य प्रादुर्भावः भवति ।
२७ - ३९ - न हि देवदत्तस्य हन्तरि हते देवदत्तस्य प्रादुर्भावः भवति ।
२८ - ३९ - तस्मात् स्थानिवद्वचनम् असिद्धत्वम् च ।
२९ - ३९ - तस्मात् स्थानिवद्भावः वक्तव्यः असिद्धत्वम् च ।
३० - ३९ - अधीत्य , प्रेत्य इति स्थानिवद्भावः ।
३१ - ३९ - कोसिञ्चत् , योसिञ्चत् इति अत्र असिद्धत्वम् ।
३२ - ३९ - स्थानिवद्वचनानर्थक्यम् शास्त्रासिद्धत्वात् ।
३३ - ३९ - स्थानिवद्वचनम् अनर्थकम् ।
३४ - ३९ - किम् कारणम् ।
३५ - ३९ - शास्त्रासिद्धत्वात् ।
३६ - ३९ - न अनेन कार्यासिद्धत्वम् क्रियते ।
३७ - ३९ - किम् तर्हि ।
३८ - ३९ - शास्त्रासिद्धत्वम् अनेन क्रियते ।
३९ - ३९ - एकादेशशास्त्रम् तुक्शास्त्रे असिद्धम् भवति इति ।
१ - ३२ - सम्प्रसारणङीट्सु सिद्धः ।
२ - ३२ - सम्प्रसारणङीट्सु सिद्धः एकादेशः इति वक्तव्यम् ।
३ - ३२ - शकहूषु , परिवीषु ।
४ - ३२ - सम्प्रसारण ।
५ - ३२ - ङि ।
६ - ३२ - वृक्षे च्छत्रम् , वृक्षे छत्रम् ।
७ - ३२ - ङि ।
८ - ३२ - इट् ।
९ - ३२ - अपचे च्छत्रम् , अपचे छत्रम् ।
१० - ३२ - सम्प्रसारणङीट्सु सिद्धः पदान्तपदाद्योः एकादेशस्य असिद्धवचनात् । सम्प्रसारणङीट्सु सिद्धः एकादेशः ।
११ - ३२ - कुतः ।
१२ - ३२ - पदान्तपदाद्योः एकादेशस्य असिद्धवचनात् ।
१३ - ३२ - पदान्तपदाद्योः एकादेशः असिद्धः भवति इति उच्यते न च एषः पदान्तपदाद्योः एकादेशः ।
१४ - ३२ - यदि पदान्तपदाद्योः एकादेशः असिद्धः सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि , अत्र षत्वम् प्राप्नोति ।
१५ - ३२ - तुग्विधिम् प्रति पदान्तपदाद्योः एकादेशः असिद्धः ।
१६ - ३२ - षत्वम् प्रति एकादेशमात्रम् असिद्धम् भवति ।
१७ - ३२ - यदि षत्वम् प्रति एकादेशमात्रम् असिद्धम् शकहूषु , परिवीषु , अत्र षत्वम् न प्राप्नोति ।
१८ - ३२ - अस्तु तर्हि अविशेषेण ।
१९ - ३२ - कथम् सुसस्याः ओषधीः कृधि , सुपिप्पलाः ओषधीः कृधि इति ।
२० - ३२ - न एषः दोषः ।
२१ - ३२ - भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य ।
२२ - ३२ - यत् अयम् कस्कादिषु भ्रातुष्पुत्रग्रहणम् करोति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति ।
२३ - ३२ - यदि एतत् ज्ञाप्यते शकहूषु , परिवीषु इति अत्र षत्वम् न प्राप्नोति ।
२४ - ३२ - तुल्यजातीयकस्य ज्ञापकम् ।
२५ - ३२ - किम् च तुल्ज्यजातीयम् ।
२६ - ३२ - यः कुप्वोः ।
२७ - ३२ - यदि एवम् वेञः अप्रत्यये परतः उः इति प्राप्नोति उत् इति च इष्यते ।
२८ - ३२ - यथालक्षणम् अप्रयुक्ते ।
२९ - ३२ - अथ वा न एवम् विज्ञायते ।
३० - ३२ - पूर्वस्य च पदादेः परस्य च पदान्तस्य इति ।
३१ - ३२ - कथम् तर्हि ।
३२ - ३२ - परस्य च पदादेः पूर्वस्य च पदान्तस्य इति ।
१ - ४९ - गुणग्रहणम् किमर्थम् न आत् एकः भवति इति एव उच्येत ।
२ - ४९ - आत् एकः चेत् गुणः केन ।
३ - ४९ - आत् एकः चेत् गुणः केन इदानीम् भविष्यति ।
४ - ४९ - खट्वेन्द्रः , मालेन्द्रः , खट्वोदकम् , मालोदकम् ।
५ - ४९ - स्थाने अन्तरतमः हि सः ।
६ - ४९ - स्थाने प्राप्यमाणानाम् अन्तरतमः आदेशः भवति ।
७ - ४९ - ऐदौतौ अपि तर्हि प्रप्नुतः ।
८ - ४९ - ऐदौतौ न एचि तौ उक्तौ । ऐदौतौ न भविष्यतः ।
९ - ४९ - किम् कारणम् ।
१० - ४९ - एचि हि ऐदौतौ उच्येते ।
११ - ४९ - इह तर्हि खट्वर्श्यः , मालर्श्यः , ऋकारः तर्हि प्राप्नोति ।
१२ - ४९ - ऋकारः न उभयान्तरः ।
१३ - ४९ - उभयोः यः अन्तरतमः तेन भवितव्यम् ।
१४ - ४९ - न च ऋकारः उभयोः अन्तरतमः ।
१५ - ४९ - आकारः तर्हि प्राप्नोति ।
१६ - ४९ - आकारः न ऋति धातौ सः ।
१७ - ४९ - आकारः न भविष्यति ।
१८ - ४९ - किम् कारणम् ।
१९ - ४९ - ऋति धातौ आकारः उच्यते ।
२० - ४९ - तत् नियमार्थम् भविष्यति ।
२१ - ४९ - ऋकारादौ धातौ एव न अन्यत्र इति ।
२२ - ४९ - प्लुतः तर्हि प्राप्नोति ।
२३ - ४९ - प्लुतः च विषये स्मृतः ।
२४ - ४९ - विषये प्लुतः उच्यते ।
२५ - ४९ - यदा च सः विषयः भवितव्यम् तदा प्लुतेन ।
२६ - ४९ - आन्तर्यात् त्रिमात्रचतुर्मात्राः । इदम् तर्हि प्रयोजनम् ।
२७ - ४९ - आन्तर्यतः त्रिमात्रचतुर्मात्राणाम् स्थाने त्रिमात्रचतुर्मात्राः आदेशाः मा भूवन् इति ।
२८ - ४९ - खट्वा इन्द्रः खट्वेन्द्रः ।
२९ - ४९ - खट्वा उदकम् खट्वोदकम् ।
३० - ४९ - खट्वा ईषा खट्वेषा ।
३१ - ४९ - खट्वा ऊढा खट्वोढा ।
३२ - ४९ - खट्वा एलका खट्वैलका ।
३३ - ४९ - खट्वा ओदनः खट्वौदनः खट्वा ऐतिकायनः खट्वैतिकायनः ।
३४ - ४९ - खट्वा औपगवः खट्वौपगवः ।
३५ - ४९ - अथ क्रियमाणे अपि गुणग्रहणे कस्मात् एव अत्र त्रिमात्रचतुर्मात्राणाम् स्थाने त्रिमात्रचतुर्मात्राः आदेशाः न भवन्ति ।
३६ - ४९ - तपरत्वात् ने ते स्मृताः ।
३७ - ४९ - तपरे गुणवृद्धी ।
३८ - ४९ - ननु च भोः तः परः यस्मात् सः अयम् तपरः ।
३९ - ४९ - न इति आह ।
४० - ४९ - तात् अपि परः तपरः इति ।
४१ - ४९ - यदि तात् अपि परः तपरः ऋ̄दोः अप् इति इह एव स्यात् ।
४२ - ४९ - यवः स्तवः ।
४३ - ४९ - लवः पवः इति अत्र न स्यात् ।
४४ - ४९ - न एषः तकारः ।
४५ - ४९ - कः तर्हि ।
४६ - ४९ - दकारः ।
४७ - ४९ - किम् दकारे प्रयोजनम् ।
४८ - ४९ - अथ किम् तकारे प्रयोजनम् ।
४९ - ४९ - यदि असन्देहार्थः तकारः दकारः अपि ।
१ - १७ - गुणे ङिशीताम् उपसङ्ख्यानम् दीर्घत्वबाधनार्थम् ।
२ - १७ - गुणे ङिशीताम् उपसङ्ख्यानम् कर्तव्यम् ।
३ - १७ - ङि ।
४ - १७ - वृक्षे इन्द्रः , प्लक्षे इन्द्रः ।
५ - १७ - शी ।
६ - १७ - ये इन्द्रम् , ते इन्द्रम् ।
७ - १७ - इट् ।
८ - १७ - अपचे इन्द्रम् , अयजे इन्द्रम् ।
९ - १७ - किम् प्रयोजनम् ।
१० - १७ - दीर्घत्वबाधनार्थम् ।
११ - १७ - सवर्णदीर्घत्वम् मा भूत् इति ।
१२ - १७ - न वा बहिरङ्गलक्षणत्वात् ।
१३ - १७ - न वा कर्तव्यम् ।
१४ - १७ - किम् कारणम् ।
१५ - १७ - बहिरङ्गलक्षणत्वात् ।
१६ - १७ - बहिरङ्गलक्षणम् सवर्णदीर्घत्वम् ।
१७ - १७ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
१ - ८ - आत् एकः चेत् गुणः केन ।
२ - ८ - स्थाने अन्तरतमः हि सः ।
३ - ८ - ऐदौतौ न एचि तौ उक्तौ ।
४ - ८ - ऋकारः न उभयान्तरः ।
५ - ८ - आकारः न ऋति धातौ सः ।
६ - ८ - प्लुतः च विषये स्मृतः ।
७ - ८ - आन्तर्यात् त्रिमात्रचतुर्मात्राः ।
८ - ८ - तपरत्वात् ने ते स्मृताः ।
१ - २७ - किम् इदम् एत्येधत्योः रूपग्रहणम् आहोस्वित् धातुग्रहणम् ।
२ - २७ - किम् च अतः ।
३ - २७ - यदि रूपग्रहणम् सिद्धम् उपैति , प्रैति ।
४ - २७ - उपैषि , प्रैषि इति न सिध्यति ।
५ - २७ - अथ धातुग्रहणम् सिद्धम् एतत् भवति ।
६ - २७ - किम् तर्हि इति ।
७ - २७ - इणि इकारादौ वृद्धिप्रतिषेधः ।
८ - २७ - इणि इकारादौ वृद्धेः प्रतिषेधः वक्तव्यः ।
९ - २७ - उपेतः प्रेतः इति ।
१० - २७ - योगविभागात् सिद्धम् ।
११ - २७ - योगविभागः करिष्यते ।
१२ - २७ - वृद्धिः एचि ।
१३ - २७ - ततः एत्येधत्योः ।
१४ - २७ - एत्येधत्योः च एचि वृद्धिः भवति ।
१५ - २७ - तत ऊठि ।
१६ - २७ - ऊठि च वृद्धिः भवति ।
१७ - २७ - एवम् अपि आ इतः एतः ।
१८ - २७ - उपेतः , प्रेतः इति अत्र अपि प्राप्नोति ।
१९ - २७ - आङि पररऊपम् अत्र बाधकम् भविष्यति ।
२० - २७ - न अप्राप्ते पररूपम् इयम् वृद्धिः आरभ्यते ।
२१ - २७ - सा यथा एङि पररूपम् बाधते एवम् आङि पररूपम् बाधेत ।
२२ - २७ - न बाधते ।
२३ - २७ - किम् कारणम् ।
२४ - २७ - येन न अप्राप्ते तस्य बाधनम् भवति ।
२५ - २७ - न च अप्राप्ते एङि पररूपम् इयम् वृद्धिः आरभ्यते ।
२६ - २७ - आङि पररूपे पुनः प्राप्ते च अप्राप्ते च ।
२७ - २७ - अथवा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति इयम् वृद्धिः एङि पररूपम् बाधिष्यते न आङि पररूपम् ।
१ - २७ - अक्षात् ऊहिन्याम् ।
२ - २७ - अक्षात् ऊहिन्याम् वृद्धिः वक्तव्या ।
३ - २७ - अक्षौहिणी ।
४ - २७ - प्रात् ऊहोढोढ्येषैष्येषु ।
५ - २७ - प्रात् ऊह, ऊढ, ऊढि, एष, एष्य इति एतेषु वृद्धिः वक्तव्या ।
६ - २७ - प्रौहः , प्रौढः , प्रुढिः , प्रैषः , प्रैष्यः ।
७ - २७ - स्वात् ईरेरिणोः ।
८ - २७ - स्वात् ईर , ईरिन् इति एतयोः वृद्धिः वक्तव्या ।
९ - २७ - स्वैरः , स्वैरी ।
१० - २७ - ईरिन्ग्रहणम् शक्यम् अकर्तुम् ।
११ - २७ - कथम् स्वरी इति ।
१२ - २७ - इनिना एतत् मत्वर्थीयेन सिद्धम् ।
१३ - २७ - स्वैरः अस्य अस्ति इति स्वैरी ।
१४ - २७ - ऋते च तृतीयासमासे ।
१५ - २७ - ऋते च तृतीयासमासे वृद्धिः वक्तव्या ।
१६ - २७ - सुखार्तः , दुःखार्तः ।
१७ - २७ - ऋते इति किम् ।
१८ - २७ - सुखेतः , दुःखेतः ।
१९ - २७ - तृतीयाग्रहणम् किम् ।
२० - २७ - परमर्तः ।
२१ - २७ - समासे इति किम् ।
२२ - २७ - सुखेनर्तः ।
२३ - २७ - प्रवत्सतरकम्बल्वसनानाम् च ऋणे ।
२४ - २७ - प्रवत्सतरकम्बल्वसनानाम् च ऋणे वृद्धिः वक्तव्या ।
२५ - २७ - प्रार्णम् , वत्सतराणम् , वसनार्णम् ।
२६ - २७ - ऋणदशाभ्याम् च ।ऋणदशाभ्याम् च वृद्धिः वक्तव्या ।
२७ - २७ - ऋणार्णम् , दशार्णम् ।
१ - ११ - किमर्थः चकारः ।
२ - ११ - वृद्धेः अनुकर्षणार्थः ।
३ - ११ - न एतत् अस्ति प्रयोजनम् ।
४ - ११ - प्रकृता वृद्धिः अनुवर्तिष्यते ।
५ - ११ - इदम् तर्हि प्रयोजनम् ।
६ - ११ - आतः अचि वृद्धिः एव यथा स्यात् ।
७ - ११ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।
८ - ११ - किम् च अन्यत् प्राप्नोति ।
९ - ११ - पररूपम् ।
१० - ११ - उसि ओमाङ्क्षु आटः पररूपप्रतिषेधम् चोदयिष्यति ।
११ - ११ - सः न वक्तव्यः भवति ।
१ - १६ - धातौ इति किमर्थम् ।
२ - १६ - इह मा भूत् ।
३ - १६ - प्रर्षभम् वनम् ।
४ - १६ - उपसर्गात् वृद्धिविधौ धातुग्रहणे उक्तम् ।
५ - १६ - किम् उक्तम् ।
६ - १६ - गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः प्रादयः तम् प्रति इति वचनम् इति ।
७ - १६ - क्रियमाणे अपि धातुग्रहणे प्रर्च्छकः इति प्राप्नोति ।
८ - १६ - यत्क्रियायुक्ताः प्रादयः तम् प्रति इति वचनात् न भवति ।
९ - १६ - इदम् तर्हि प्रयोजनम् ।
१० - १६ - उपसर्गात् ऋति धातौ वृद्धिः एव यथा स्यात् ।
११ - १६ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।
१२ - १६ - किम् च अन्यत् प्राप्नोति ।
१३ - १६ - ह्रस्वत्वम् ।
१४ - १६ - ऋति अकः इति ।
१५ - १६ - ऋति ह्रस्वात् उपसर्गात् वृद्धिः पूर्वविप्रतिषेधेन इति चोदयिष्यति ।
१६ - १६ - सः न वक्तव्यः भवति ।
१ - १८८ - छे तुकः सम्बुद्धिगुणः ।
२ - १८८ - छे तुक् भवति इति अस्मात् सम्बुद्धिगुणः भवति विप्रतिषेधेन ।
३ - १८८ - छे तुक् भवति इति अस्य अवकाशः ।
४ - १८८ - इच्छति , गच्छति ।
५ - १८८ - सम्बुद्धिगुणस्य अवकाशः ।
६ - १८८ - अग्ने, वायो ।
७ - १८८ - इह उभयम् प्राप्नोति ।
८ - १८८ - अग्नेच् छत्रम् , अग्ने छत्रम् , वायोच् छत्रम् , वायो छत्रम् ।
९ - १८८ - सम्बुद्धिगुणः भवति विप्रतिषेधेन ।
१० - १८८ - सः तर्हि विप्रतिषेधः वक्तव्यः ।
११ - १८८ - न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यः ।
१२ - १८८ - किम् काऋअणम् ।
१३ - १८८ - बहिरङ्गलक्षणत्वात् ।
१४ - १८८ - बहिरङ्गलक्षणः तुक् अन्तरङ्गलक्षणः सम्बुद्धिगुणः ।
१५ - १८८ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।
१६ - १८८ - अन्तरेण विप्रतिषेधम् अन्तरेण अपि च एताम् परिभाषाम् सिद्धम् ।
१७ - १८८ - कथम् ।
१८ - १८८ - इदम् इह सम्प्रधार्यम् ।
१९ - १८८ - सम्बुद्धिलोपः क्रियताम् गुणः इति ।
२० - १८८ - किम् अत्र कर्तव्यम् ।
२१ - १८८ - परत्वात् गुणः ।
२२ - १८८ - नित्यः सम्बुद्धिलोपः ।
२३ - १८८ - कृते अपि गुणे प्राप्नोति अकृते अपि ।
२४ - १८८ - गुणः अपि नित्यः ।
२५ - १८८ - कृते अपि समुबुद्धिलोपे प्राप्नोति अकृते अपि ।
२६ - १८८ - अनित्यः गुणः ।
२७ - १८८ - न हि कृते सम्बुद्धिलोपे प्राप्नोति ।
२८ - १८८ - तावति एव छेन आनन्तर्यम् ।
२९ - १८८ - तत्र तुका भवितव्यम् ।
३० - १८८ - तस्मात् सुष्ठु उच्यते ।
३१ - १८८ - छे तुकः सम्बुद्धिगुणः ।
३२ - १८८ - न वा बहिरङ्गलक्षणत्वात् इति ।
३३ - १८८ - सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयः च ।
३४ - १८८ - सम्प्रसारणदीर्घत्वण्यल्लोपाभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन ।
३५ - १८८ - सम्प्रसारणदीर्घत्वस्य अवकाशः ।
३६ - १८८ - हूतः , जीनः , संवीतः , शूनः ।
३७ - १८८ - तुकः अवकाशः ।
३८ - १८८ - अग्निचित् , सोमसुत् ।
३९ - १८८ - इह उभयम् प्राप्नोति ।
४० - १८८ - परिवीषु , शकहूषु ।
४१ - १८८ - णिलोपस्य अवकाशः ।कारणा , हारणा ।
४२ - १८८ - तुकः सः एव ।
४३ - १८८ - इह उभयम् प्राप्नोति ।
४४ - १८८ - प्रकार्य गतः ।
४५ - १८८ - प्रहार्य गतः ।
४६ - १८८ - अल्लोपस्य अवकाशः ।
४७ - १८८ - चिकीर्षिता , जिहीर्षिता ।
४८ - १८८ - तुकः सः एव ।
४९ - १८८ - इह उभयम् प्राप्नोति ।
५० - १८८ - प्रचिकीर्ष्य गतः , प्रजिहीर्ष्य गतः ।
५१ - १८८ - अभ्यासगुणादयः च तुकः भवन्ति विप्रतिषेधेन ।
५२ - १८८ - के पुनः अभ्यासगुणादयः ।
५३ - १८८ - ह्रस्वत्वात्त्वेत्त्वगुणाः ।
५४ - १८८ - ह्रस्वत्वस्य अवकाशः ।
५५ - १८८ - पपतुः , पपुः , तस्थतुः , तस्थुः ।
५६ - १८८ - तुकः सः एव ।
५७ - १८८ - इह उभयम् प्राप्नोति ।
५८ - १८८ - अपचच्छतुः , अपचच्छुः ।
५९ - १८८ - अत्त्वस्य अवकाशः ।
६० - १८८ - चक्रतुः , चक्रुः ।
६१ - १८८ - तुकः सः एव ।
६२ - १८८ - इह उभयम् प्राप्नोति ।
६३ - १८८ - अपचच्छृदतुः , अपचच्छृदुः ।
६४ - १८८ - इत्त्वस्य अवकाशः ।
६५ - १८८ - पिपक्षति , यियक्षति ।
६६ - १८८ - तुकः सः एव ।
६७ - १८८ - इह उभयम् प्राप्नोति ।
६८ - १८८ - चिच्छादयिषति , चिच्छर्दयिषति ।
६९ - १८८ - गुणस्य अवकाशः ।
७० - १८८ - लोलूयते , बेभिद्यते ।
७१ - १८८ - तुकः सः एव ।
७२ - १८८ - इह उभयम् प्राप्नोति ।
७३ - १८८ - चेच्छिद्यते , चोच्छुप्यते ।
७४ - १८८ - यणदेशात् आत् गुणः ।
७५ - १८८ - यणदेशात् आत् गुणः भवति विप्रतिषेधेन ।
७६ - १८८ - यणदेशस्य अवकाशः ।
७७ - १८८ - दधि अत्र , मधु अत्र ।
७८ - १८८ - आत् गुणस्य अवकाशः ।
७९ - १८८ - खट्वेन्द्रः , खट्वोदकम् ।
८० - १८८ - इह उभयम् प्राप्नोति ।
८१ - १८८ - वृक्षः अत्र, प्लक्शः अत्र ।
८२ - १८८ - इरुर्गुणवृद्धिविधयः च ।
८३ - १८८ - इरुर्गुणवृद्धिविधयः च यणदेशात् भवन्ति विप्रतिषेधेन ।
८४ - १८८ - इरुरोः अवकाशः ।
८५ - १८८ - आस्तीर्णम् , निपूर्ताः पिण्डाः ।
८६ - १८८ - यणदेशस्य अवकाशः ।
८७ - १८८ - चक्रतुः , चक्रुः ।
८८ - १८८ - इह उभयम् प्राप्नोति ।
८९ - १८८ - दूरे हि अध्वा जगुरिः ।
९० - १८८ - मित्रावरुणौ ततुरिः ।
९१ - १८८ - किरति , गिरति ।
९२ - १८८ - गुणवृद्ध्योः अवकाशः ।
९३ - १८८ - चेता , गौः ।
९४ - १८८ - यणदेशस्य सः एव ।
९५ - १८८ - इह उभयम् प्राप्नोति ।
९६ - १८८ - चयनम् , चायकः , लवनम् , लावकः ।
९७ - १८८ - भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्तिस्वराः एकादेशात् च ।
९८ - १८८ - भलोपधातुप्रातिपदिकप्रत्ययसमासान्तोदात्तनिवृत्तिस्वराः एकादेशात् च यणदेशात् च भवन्ति विप्रतिषेधेन ।
९९ - १८८ - भलोपस्य अवकाशः ।
१०० - १८८ - गार्ग्यः , वात्स्यः ।
१०१ - १८८ - एकादेशयणादेशयोः अवकाशः ।
१०२ - १८८ - दधीन्द्रः , मधूदकम् ।
१०३ - १८८ - दधि अत्र , मधु अत्र. इह उभयम् प्राप्नोति ।
१०४ - १८८ - दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः ।
१०५ - १८८ - अचि भलोपः एकादेशात् भवति विप्र्तिषेधेन ।
१०६ - १८८ - अचि भलोपस्य अवकाशः ।
१०७ - १८८ - दाक्षी , दाक्षायणः , प्लाक्षी , प्लाक्षायणः ।
१०८ - १८८ - एकादेशस्य अवकाशः ।
१०९ - १८८ - दण्डाग्रम् , क्षुपाग्रम् ।
११० - १८८ - इह उभयम् प्राप्नोति ।
१११ - १८८ - गाङ्गेयः गाङ्गः ।
११२ - १८८ - धातुस्वरस्य अवकाशः ।
११३ - १८८ - पचति , पठति ।
११४ - १८८ - एकादेशयणादेशयोः सः एव ।
११५ - १८८ - इह उभयम् प्राप्नोति ।
११६ - १८८ - श्र्यर्थम् , श्रीषा ।
११७ - १८८ - प्रातिपदिकस्वरस्य अवकाशः ।
११८ - १८८ - आम्रः ।
११९ - १८८ - एकादेशयणादेशयोः सः एव ।
१२० - १८८ - इह उभयम् प्राप्नोति ।
१२१ - १८८ - अग्न्युदकम् , वृक्षार्थम् ।
१२२ - १८८ - प्रत्ययस्वरस्य अवकाशः ।
१२३ - १८८ - चिकीर्षुः , औपगवः ।
१२४ - १८८ - एकादेशयणादेशयोः सः एव ।
१२५ - १८८ - इह उभयम् प्राप्नोति ।
१२६ - १८८ - चिकीर्षुअर्थम् , औपगवार्थम् ।
१२७ - १८८ - समासान्तोदात्तस्य अवकाशः ।
१२८ - १८८ - राजपुरुषः , ब्राह्मणकम्बलः ।
१२९ - १८८ - एकादेशयणादेशयोः सः एव ।
१३० - १८८ - इह उभयम् प्राप्नोति ।
१३१ - १८८ - राजवैद्यर्थम् , राजवैदी ईहते ।
१३२ - १८८ - उदात्तनिवृत्तिस्वरस्य अवकाशः ।
१३३ - १८८ - नदी , कुमारी ।
१३४ - १८८ - एकादेशयणादेशयोः सः एव ।
१३५ - १८८ - इह उभयम् प्राप्नोति ।
१३६ - १८८ - कुमार्यर्थम् , कुमारी ईहते ।
१३७ - १८८ - अल्लोपाल्लोपौ च आर्धधातुके ।
१३८ - १८८ - अल्लोपाल्लोपौ च आर्धधातुके एकादेशात् भवतः विप्रतिषेधेन ।
१३९ - १८८ - अल्लोपस्य अवकाशः ।
१४० - १८८ - चिकीर्षिता , जिहीर्षिता ।
१४१ - १८८ - एकादेशस्य अवकाशः ।
१४२ - १८८ - पचन्ति , पठन्ति ।
१४३ - १८८ - इह उभयम् प्राप्नोति ।
१४४ - १८८ - चिकीर्षकः , जिहीर्षकः ।
१४५ - १८८ - आल्लोपस्य अवकाशः ।
१४६ - १८८ - पपिः सोमम् , ददिः गः ।
१४७ - १८८ - एकादेशस्य अवकाशः ।
१४८ - १८८ - यान्ति , वान्ति ।
१४९ - १८८ - इह उभयम् प्राप्नोति ।
१५० - १८८ - ययतुः , ययुः ।
१५१ - १८८ - इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराः च ।
१५२ - १८८ - इयङुवङ्गुणवृद्धिटित्किन्मित्पूर्वपदविकाराः च एकादेशयणादेशाभ्याम् भवन्ति विप्रतिषेधेन ।
१५३ - १८८ - इयङुवङोः अवकाशः ।
१५४ - १८८ - श्रियौ , श्रियः , भ्रुवौ , भ्रुवः ।
१५५ - १८८ - एकादेशयणादेशयोः सः एव ।
१५६ - १८८ - इह उभयम् प्राप्नोति ।
१५७ - १८८ - चिक्षियिव , चिक्षियिम , लुलुवतुः , लुलुवुः , पुपुवतुः , पुपुवुः ।
१५८ - १८८ - गुणवृद्ध्योः अवकाशः ।
१५९ - १८८ - चेता , गौः ।
१६० - १८८ - एकादेशयणादेशयोः सः एव ।
१६१ - १८८ - इह उभयम् प्राप्नोति ।
१६२ - १८८ - साधुचायी , सुचायी , नग्नम्भावुकः अध्वर्युः , शयिता , शयितुम् ।
१६३ - १८८ - टितः अवकाशः ।
१६४ - १८८ - अग्नीनाम् , इन्दूनाम् ।
१६५ - १८८ - एकादेशयणादेशयोः सः एव ।
१६६ - १८८ - इह उभयम् प्राप्नोति ।
१६७ - १८८ - वृक्षाणाम् , प्लक्षाणाम् ।
१६८ - १८८ - कितः अवकाशः ।
१६९ - १८८ - साधुदायी , सुष्ठुदायी ।
१७० - १८८ - एकादेशयणादेशयोः सः एव ।
१७१ - १८८ - इह उभयम् प्राप्नोति ।
१७२ - १८८ - दायकः , धायकः ।
१७३ - १८८ - मितः अवकाशः ।
१७४ - १८८ - त्रपुणी , जतुनी ।
१७५ - १८८ - एकादेशयणादेशयोः सः एव ।
१७६ - १८८ - इह उभयम् प्राप्नोति ।
१७७ - १८८ - अस्थीनि , दधीनि , अतिसखीनि ब्राह्मणकुलानि ।
१७८ - १८८ - पूर्वपदविकाराणाम् अवकाशः ।
१७९ - १८८ - होतापोतारौ ।
१८० - १८८ - एकादेशयणादेशयोः सः एव ।
१८१ - १८८ - इह उभयम् प्राप्नोति ।
१८२ - १८८ - नेष्टोद्गातारौ आग्नेन्द्रम् ।
१८३ - १८८ - उत्तरपदविकाराः च इति वक्तव्यम् ।
१८४ - १८८ - उत्तरपदविकाराणाम् अवकाशः ।
१८५ - १८८ - समीपम् , दुरीपम् ।
१८६ - १८८ - एकादेशयणादेशयोः सः एव ।
१८७ - १८८ - इह उभयम् प्राप्नोति ।
१८८ - १८८ - प्रेपम् , परेपम् ।