पाद १ - खण्ड ६५

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ८ - आङः अनर्थकस्य ।

२ - ८ - आङः अनर्थकस्य इति वक्तव्यम् ।

३ - ८ - इह मा भूत् ।

४ - ८ - इन्द्रः बाहुभ्याम् आतरत् ।

५ - ८ - तत् तर्हि वक्तव्यम् ।

६ - ८ - न वक्तव्यम् ।

७ - ८ - बहुलग्रहणात् न भविष्यति ।

८ - ८ - आङः अनुनासिकः छन्दसि बहुलम् ।

१ - २६ - किमर्थः चकारः ।

२ - २६ - प्रकृत्या इति एतत् अनुकृष्यते ।

३ - २६ - किम् प्रयोजनम् ।

४ - २६ - स्वरसन्धिः मा भूत् इति ।

५ - २६ - न एतत् अस्ति प्रयोजनम् ।

६ - २६ - ह्रस्ववचनसार्मर्थ्यात् न भविष्यति ।

७ - २६ - भवेत् दीर्घाणाम् ह्रस्ववचनसार्मर्थ्यात् स्वरसन्धिः न स्यात् ।

८ - २६ - ह्रस्वानाम् तु खलु स्वरसन्धिः प्राप्नोति ।

९ - २६ - ह्रस्वानाम् अपि ह्रस्ववचनसामर्थ्यान् स्वरसन्धिः न भविष्यति ।

१० - २६ - न ह्रस्वानाम् ह्रस्वाः प्राप्नुवन्ति ।

११ - २६ - न हि भुक्तवान् पुनः भुङ्क्ते ।

१२ - २६ - न च कृतश्मश्रुः पुनः श्मश्रूनि कारयति ।

१३ - २६ - ननु च पुनःप्रवृत्तिः अपि दृष्टा ।

१४ - २६ - भुक्तवान् च पुनः भुङ्क्ते कृतश्मश्रुः च पुनः श्मश्रूनि कारयति ।

१५ - २६ - सामर्थ्यात् तत्र पुनःप्रवृत्तिः भवति भोजनविशेषात् शिल्पिविशेषात् वा ।

१६ - २६ - ह्रस्वाणाम् पुनः ह्रस्ववचने न किम् चित् प्रयोजनम् अस्ति ।

१७ - २६ - अकृतकारि खलु अपि शास्त्रम् अग्निवत् ।

१८ - २६ - तत् यथा अग्निः यद् अदग्धम् तत् दहति ।

१९ - २६ - ह्रस्वाणाम् अपि ह्रस्ववचने एतत् प्रयोजनम् स्वरसन्धिः मा भूत् इति ।

२० - २६ - कृतकारि खलु अपि शास्त्रम् पर्जन्यवत् ।

२१ - २६ - तत् यथा पर्जन्यः यावत् ऊनम् पूर्णम् च सर्वम् अभिवर्षयति ।

२२ - २६ - इदम् तर्हि प्रयोजनम् ।

२३ - २६ - प्लुतप्रगृह्याः अनुकृष्यन्ते ।

२४ - २६ - इकः असवर्णे शाकल्यस्य ह्रस्वः च प्लुतप्र्गृह्याः च प्रकृत्या ।

२५ - २६ - नित्यग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् ।

२६ - २६ - अन्यतरत् शक्यम् अकर्तुम् ।

१ - १४ - सिन्नित्यसमासयोः शाकलप्रतिषेधः ।

२ - १४ - सिन्नित्यसमासयोः शाकलप्रतिषेधः वक्तव्यः ।

३ - १४ - अयम् ते योनिः ऋत्वियः ।

४ - १४ - प्रजाम् विन्दाम ऋत्वियाम् ।

५ - १४ - वैयाकरणः , सौवश्वः ।

६ - १४ - नित्यग्रहणेन न अर्थः ।

७ - १४ - सित्समासयोः शाकलम् न भवति इति एव ।

८ - १४ - इदम् अपि सिद्धम् भवति ।

९ - १४ - वाप्याम् आस्वः , वाप्यश्वः , नद्याम् आतिः , नद्यातिः ।

१० - १४ - ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रम् ।

११ - १४ - ईषा अक्षादिषु छन्दसि प्रकृतिभावमात्रम् द्रष्टव्यम् ।

१२ - १४ - ईष अक्षः ।

१३ - १४ - क ईम् अरे पिशङ्गिल ।

१४ - १४ - यथा अङ्गदः ।

१ - ६ - किमर्थम् इदम् उच्यते ।

२ - ६ - ऋति अकः सवर्णार्थम् ।

३ - ६ - सवर्णार्थः अयम् आरम्भः ।

४ - ६ - होतृ ऋश्यः ।

५ - ६ - अनिगन्तार्थम् च ।

६ - ६ - खट्व ऋश्यः , माल ऋश्यः ।

१ - १३ - ऋति ह्रस्वात् उपसर्गात् वृद्धिः विप्रतिषेधेन । ऋति ह्रस्वः भवति इति एतस्मात् उपसर्गात् वृद्धिः भवति विप्रतिषेधेन ।

२ - १३ - ऋति ह्रस्वः भवति इति एतस्य अवकाशः खट्व ऋश्यः , माल ऋश्यः ।

३ - १३ - उपसर्गात् वृद्धेः अवकाशः ।

४ - १३ - विभाषा ह्रस्वत्वम् ।

५ - १३ - यदा न ह्रस्वत्वम् तदा अवकाशः ।

६ - १३ - ह्रस्वप्रसङ्गे उभयम् प्राप्नोति ।

७ - १३ - उपार्ध्नोति , प्रार्ध्नोति ।

८ - १३ - उपसर्गात् वृद्धिः भवति विप्रतिषेधेन ।

९ - १३ - सः तर्हि प्रतिषेधः वक्तव्यः ।

१० - १३ - न वक्तव्यः ।

११ - १३ - उक्तम् तत्र धातुग्रहणस्य प्रयोजनम् ।

१२ - १३ - उपसर्गात् ऋति धातौ वृद्धिः एव यथा स्यात् ।

१३ - १३ - अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

१ - १८ - उपस्थिते इति उच्यते ।

२ - १८ - किम् इदम् उपस्थितम् नाम ।

३ - १८ - अनार्षः इतिकरणः ।

४ - १८ - सुश्लोका३ इति सुश्लोकेति ।

५ - १८ - अथ वद्वचनम् किमर्थम् ।

६ - १८ - वद्वचनम् प्लुतकार्यप्रतिषेधार्थम् ।

७ - १८ - वद्वचनम् क्रियते प्लुतकार्यप्रतिषेधार्थम् ।

८ - १८ - प्लुतकार्यम् प्रतिषिध्यते ।

९ - १८ - त्रिमात्रता न प्रतिषिध्यते ।

१० - १८ - किम् च इदानीम् त्रिमात्रतायाः अप्रतिषेधे प्रयोजनम् यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् ।

११ - १८ - प्लुतप्रतिषेधे हि प्रगृह्यप्लुतप्रतिषेधप्रसङ्गः अन्येन विहितत्वात् ।

१२ - १८ - प्लुतप्रतिषेधे हि सति प्रगृह्यस्य अपि प्लुतस्य त्रिमात्रतायाः प्रतिषेधः प्रसज्येत ।

१३ - १८ - अग्नी३ इति , वायू३ इति ।

१४ - १८ - किम् च इदानीम् तस्याः अपि त्रिमात्रतायाः अप्रतिषेधे प्रयोजनम् यावता प्लुतकार्ये प्रतिषिद्धे स्वरसन्धिना भवितव्यम् ।

१५ - १८ - न भवितव्यम् ।

१६ - १८ - किम् कारणम् ।

१७ - १८ - अन्येन विहितत्वात् ।

१८ - १८ - अन्येन हि लक्षणेन प्लुतप्रगृह्यस्य प्रकृतिभावः उच्यते प्रगृह्यः प्रकृत्या इति ।

१ - ११ - किमर्थम् इदम् उच्यते ।

२ - ११ - ई३ चाक्रवर्मणस्य इति अनुपस्थितार्थम् ।

३ - ११ - अनुपस्थितार्थः अयम् आरम्भः ।

४ - ११ - चिनु हि३ इदम् ।

५ - ११ - चिनु हीदम् ।

६ - ११ - सुनु हि३ इदम् ।

७ - ११ - सुनु हीदम् ।

८ - ११ - ईकारग्रहणेन न अर्थः ।

९ - ११ - अविशेषेण चाक्रवर्मणस्य आचार्यस्य अप्लुतवत् भवति इति एव ।

१० - ११ - इदम् अपि सिद्धम् भवति ।

११ - ११ - वश३ इयम् , वशेयम् ।

१ - ८ - किमर्थः तकारः ।

२ - ८ - तपरः तत्कालस्य इति तत्कलः यथा स्यात् ।

३ - ८ - न एतत् अस्ति प्रयोजनम् ।

४ - ८ - आन्तर्यतः अर्धमात्रिकस्य व्यञ्जनस्य मात्रिकः भविष्यति ।

५ - ८ - न सिध्यति ।

६ - ८ - ऊठि कृते आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति ।

७ - ८ - तदर्थम् तपरः कृतः ।

८ - ८ - एवमर्थः तपरः क्रियते ।

१ - ९० - कात्पूर्वग्रहणम् किमर्थम् ।

२ - ९० - कात् पूर्वः यथा स्यात् ।

३ - ९० - संस्कर्ता , संस्कर्तुम् ।

४ - ९० - न एतत् अस्ति प्रयोजनम् ।

५ - ९० - सुट् इति आदिलिङ्गः अयम् करोतिः च ककारादिः ।

६ - ९० - तत्र अन्तरेण कात्पूर्वग्रहणम् कात् पूर्वः एव भविष्यति ।

७ - ९० - अतः उत्तरम् पठति सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् ।

८ - ९० - सुटि कात्पूर्ववचनम् क्रियते अककारादौ कात्पूर्वः यथा स्यात् ।

९ - ९० - सञ्चस्करतुः , सञ्चस्करुः ।

१० - ९० - सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् इति चेत् अन्तरेण अपि तत् सिद्धम् ।

११ - ९० - सुटि कात्पूर्ववचनम् अककारादौ कात्पूर्वार्थम् इति चेत् अन्तरेण अपि कात्पूर्वग्रहणम् सिद्धम् ।

१२ - ९० - कथम् ।

१३ - ९० - द्विर्वचनात् सुट् विप्रतिषेधेन ।

१४ - ९० - द्विर्वचनम् क्रियताम् सुट् इति सुट् भविष्यति विप्रतिषेधेन ।

१५ - ९० - तत्र द्विर्वचनम् भवति इति अस्य अवकाशः बिभिदतुः , बिभिदुः ।

१६ - ९० - सुटः अवकाशः संस्कर्ता , संस्कर्तुम् ।

१७ - ९० - इह उभयम् प्राप्नोति सञ्चस्करतुः , सञ्चस्करुः ।

१८ - ९० - सुट् भवति विप्रतिषेधेन ।

१९ - ९० - द्विर्वचनात् सुट् विप्रतिषेधेन इति चेत् द्विर्भूते शब्दान्तरभावात् पुनः प्रसङ्गः ।

२० - ९० - द्विर्वचनात् सुट् विप्रतिषेधेन इति चेत् द्विर्भूते शब्दान्तरस्य अकृतः सुट् इति पुनः सुट् स्यात् ।

२१ - ९० - द्विर्भूते शब्दान्तरभावात् पुनः प्रसङ्गः इति चेत् द्विर्वचनम् ।

२२ - ९० - सुटि कृते शब्दान्तरस्य अकृतम् द्विर्वचनम् इति पुनः द्विर्वचनम् प्राप्नोति ।

२३ - ९० - तथा च अनवस्था ।

२४ - ९० - पुनः सुट् पुनः द्विर्वचनम् इति चक्रकम् अनवस्था प्रसज्येत ।

२५ - ९० - न अस्ति चक्रकप्रसङ्गः ।

२६ - ९० - न हि अनवस्थाकारिणा शास्त्रेण भवितव्यम् ।

२७ - ९० - शास्त्रतः हि नाम व्यवस्थात् ।

२८ - ९० - तत्र सुटि कृते द्विर्वचनम् ।

२९ - ९० - द्विर्वचनेन अवस्थानम् भविष्यति ।

३० - ९० - अड्व्यवाये उपसङ्ख्यानम् ।

३१ - ९० - अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् ।

३२ - ९० - समस्करोत् , समस्कार्षीत् ।

३३ - ९० - अभ्यासव्यवाये च ।

३४ - ९० - अभ्यासव्यवाये च उपसङ्ख्यानम् कर्तव्यम् ।

३५ - ९० - सञ्चस्करतुः , सञ्चस्करुः ।

३६ - ९० - किम् उच्यते अभ्यासव्यवाये इति यदा इदानीम् एव उक्तम् द्विर्वचनात् सुट् विप्रतिषेधेन इति ।

३७ - ९० - अविप्रतिषेधः वा बहिरङ्गलक्षणत्वात् ।

३८ - ९० - अविप्रतिषेधः वा पुनः सुटः ।

३९ - ९० - किम् कारणम् ।

४० - ९० - बहिरङ्गलक्षणत्वात् ।

४१ - ९० - बहिरङ्गलक्षणः सुट् ।

४२ - ९० - अन्तरङ्गम् द्विर्वचनम् ।

४३ - ९० - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

४४ - ९० - एवमर्थम् एव तर्हि कात्पूर्वग्रहणम् कर्तव्यम् कात् पूर्वः यथा स्यात् ।

४५ - ९० - क्रियमाणे अपि वै कात्पूर्वग्रहणे अत्र न सिध्यति ।

४६ - ९० - न हि अयम् कात्पूर्वग्रहणेन शक्यः मध्ये प्रवेशयितुम् ।

४७ - ९० - किम् कारणम् ।

४८ - ९० - आदिलिङ्गः अयम् क्रियते करोतिः च ककारादिः दृष्टः च ल्पुनः आतिदेशिकः करोतिः अककारादिः ।

४९ - ९० - पाक्षिकः अयम् दोषः ।

५० - ९० - कतरस्मिन् पक्षे ।

५१ - ९० - सुड्विधौ द्वैतम् भवति ।

५२ - ९० - अविशेषेण वा विहितस्य सुटः कात्पूर्वग्रहणम् देशप्रक्ल्̥प्त्यर्थम् स्यात् विशेषेण वा विधिः इति ।

५३ - ९० - द्विर्वचनविधौ च अपि द्वैतम् भवति ।

५४ - ९० - स्थाने द्विर्वचनम् स्यात् द्विः प्रयोगः वा द्विर्वचनम् इति ।

५५ - ९० - तत् यदा द्विः प्रयोगः द्विर्वचनम् अविशेषेण विहितस्य च सुटः कात्पूर्वग्रहणम् देशप्रक्ल्̥प्त्यर्थम् तदा एषः दोषः ।

५६ - ९० - यदा हि स्थाने द्विर्वचनम् तदा यदि अविशेषेण विहितस्य सुटः कात्पूर्वग्रहणम् देशप्रक्ल्̥प्त्यर्थम् अथ अपि विशेषविधिः न तदा दोषः भवति ।

५७ - ९० - द्विःप्रयोगे च अपि द्विर्वचने न दोषः ।

५८ - ९० - सम्परिभ्याम् इति न एषा पञ्चमी ।

५९ - ९० - का तर्हि ।

६० - ९० - तृतीया ।

६१ - ९० - सम्परिभ्याम् उपसृष्टस्य इति ।

६२ - ९० - व्यवहितः च अपि उपसृष्टः भवति ।

६३ - ९० - उपदेशिवद्वचनम् च ।

६४ - ९० - उपदेशिवद्भावः च वक्तव्यः ।

६५ - ९० - किम् प्रयोजनम् ।

६६ - ९० - लिटिगुणचङिदीर्घप्रतिषेधार्थम् ।

६७ - ९० - लिटि गुणार्थम् चङि दीर्घप्रतिषेधार्थम् ।

६८ - ९० - लिटि गुणार्थम् तावत् ।

६९ - ९० - सञ्चस्करतुः , सञ्चस्करुः ।

७० - ९० - चङि दीर्घप्रतिषेधार्थम् च ।

७१ - ९० - समचिस्करत् ।

७२ - ९० - लिटि गुणार्थेन तावत् न अर्थः ।

७३ - ९० - वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधाग्रहणम् कृञर्थम् इति ।

७४ - ९० - चङि दीर्घप्रतिषेधेन अपि न अर्थः ।

७५ - ९० - पदम् इति इयम् भगवतः कृत्रिमा सञ्ज्ञा ।

७६ - ९० - युक्तम् इह द्रष्टव्यम् ।

७७ - ९० - किम् अन्तरङ्गम् किम् बहिरङ्गम् इति ।

७८ - ९० - धातूपसर्गयोः कार्यम् यत् तत् अन्तरङ्गम् ।

७९ - ९० - कुतः एतत् ।

८० - ९० - पूर्वम् हि धातुः उपसर्गेण युज्यते पश्चात् साधनेन ।

८१ - ९० - न एतत् सारम् ।

८२ - ९० - पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण ।

८३ - ९० - साधनम् हि क्रियाम् निर्वर्तयति ।

८४ - ९० - ताम् उपसर्गः विशिनष्ति ।

८५ - ९० - अभिनिर्वृत्तस्य च अर्थस्य उपसर्गेण विशेषः शक्यम् कर्तूम् ।

८६ - ९० - सत्यम् एवम् एतत् ।

८७ - ९० - यः तु असौ धातूपसर्गयोः अभिसम्बन्धः तम् अभ्यन्तरम् कृत्वा धातुः साधनेन युज्यते ।

८८ - ९० - अवश्यम् च एतत् एवम् विज्ञेयम् ।

८९ - ९० - यः हि मन्यते पूर्वम् धातुः साधनेन युज्यते पश्चात् उपसर्गेण इति तस्य आस्यते गुरुणा इति अकर्मकः उपास्यते गुरुः इति केन सकर्मकः स्यात् ।

९० - ९० - एवम् कृत्वा सुट् सर्वतः अन्तरङ्गतरकः भवति कात्पूर्वग्रहणम् च अपि शक्यम् अकर्तुम् ।

१ - ३३ - यदि पुनः अयम् सुट् कात् पूर्वान्तः क्रियेत ।

२ - ३३ - कात् पूर्वान्तः इति चेत् रुविधिप्रतिषेधः ।

३ - ३३ - कात् पूर्वान्तः इति चेत् कः चित् विधेयः कः चित् पतिषेध्यः ।

४ - ३३ - संस्कर्ता ।

५ - ३३ - समः विधेयः सुटः प्रतिषेध्यः ।

६ - ३३ - समः तावत् न विधेयः ।

७ - ३३ - वक्ष्यति एतत् सम्पुङ्कानाम् सत्वम् रुविधौ हि अनिष्टप्रसङ्गः इति ।

८ - ३३ - सुटः च अपि न प्रतिषेध्यः ।

९ - ३३ - समः सुटि इति द्विसकारकः निर्देशः सुटि सकारादौ इति ।

१० - ३३ - अथ वा पदादिः करिय्ष्यते ।

११ - ३३ - परादौ इड्ग्रहणप्रसङ्गः ।

१२ - ३३ - यदि परादिः इड्गुणौ प्राप्नुतः ।

१३ - ३३ - संस्कृषीष्ट ।

१४ - ३३ - ऋतः च संयोगादेः इति इट् प्राप्नोति ।

१५ - ३३ - संस्क्रियते ।

१६ - ३३ - गुणः अर्तिसंयोगाद्योः इति गुणः प्राप्नोति ।

१७ - ३३ - एवम् तर्हि अभक्तः करिष्यते ।

१८ - ३३ - अभक्ते स्वरः ।

१९ - ३३ - यदि अभक्तः स्वरः न सिध्यति ।

२० - ३३ - संस्करोति ।

२१ - ३३ - तिङ् अतिङः इति निघातः न प्राप्नोति ।

२२ - ३३ - ननु च सुट् एव अतिङ् ।

२३ - ३३ - न सुटः परस्य निघातेन भवितव्यम् ।

२४ - ३३ - किम् कारणम् ।

२५ - ३३ - नञिवयुक्तम् अन्यसदृशाधिकरणे ।

२६ - ३३ - तथा हि अर्थगतिः ।

२७ - ३३ - नञ्युक्तम् इवयुक्तम् च अन्यस्मिन् तत्सदृशे कार्यम् विज्ञायते ।

२८ - ३३ - तथा हि अर्थः गम्यते ।

२९ - ३३ - तत् यथा अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् क्षत्रियम् आनयति ।

३० - ३३ - न असौ लोष्टम् आनीया कृती भवति ।

३१ - ३३ - एवम् इह अपि अतिङ् इति प्रतिषेधात् अन्यस्मात् अतिङ्सदृशात् कार्यम् विज्ञायते ।

३२ - ३३ - किम् च अन्यत् अतिङ् तिङ्सदृशम् ।

३३ - ३३ - पदम् ।

१ - ५ - किरतेः हर्षजीविकाकुलायकरणेषु ।

२ - ५ - किरतेः हर्षजीविकाकुलायकरणेषु इति वक्तव्यम् ।

३ - ५ - अपस्किरते वृषभः हृष्टः ।

४ - ५ - अपस्किरते कुक्कुटः भक्षार्थी ।

५ - ५ - अपस्किरते श्वा आश्रयार्थी ।

१ - १४ - किम् इदम् सातत्ये इति ।

२ - १४ - सन्ततभावः सातत्यम् ।

३ - १४ - यदि एवम् सान्तत्ये इति भवितव्यम् ।

४ - १४ - समः हितततयोः वा लोपः ।

५ - १४ - समः हितततयोः वा लोपः वक्तव्यः ।

६ - १४ - संहितम् , सहितम् , सन्ततम् , सततम् ।

७ - १४ - सम्तुमुनोः कामे ।

८ - १४ - सम्तुमुनोः कामे लोपः वक्तव्यः ।

९ - १४ - सकामः , भोक्तुकामः ।

१० - १४ - मनसि च इति वक्तव्यम् ।

११ - १४ - समनाः , भोक्तुमनाः ।

१२ - १४ - अवश्यमः कृत्ये ।

१३ - १४ - अवश्यमः कृत्ये लोपः वक्तव्यः ।

१४ - १४ - अवश्यभाव्यम् ।

१ - १० - इदम् अतिबहु क्रियते सेविते , असेविते , प्रमाणे इति ।

२ - १० - सेवितप्रमाणयोः इति एव सिद्धम् ।

३ - १० - केन इदानीम् असेविते भविष्यति ।

४ - १० - नञा सेवितप्रतिषेधम् विज्ञास्यामः ।

५ - १० - न एवम् शक्यम् ।

६ - १० - सेवितप्रसङ्गे एव स्यात् ।

७ - १० - असेविते न स्यात् ।

८ - १० - असेवितग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयम् विज्ञास्यते ।

९ - १० - अविद्यमानसेविते असेविते इति ।

१० - १० - तस्मात् असेवितग्रहणम् कर्तव्यम् ।

१ - ८ - विष्किरः शकुनौ विकिरः वा ।

२ - ८ - विष्किरः शकुनौ विकिरः वा इति वक्तव्यम् ।

३ - ८ - शकुनौ वा इति हि उच्यमाने शकुनौ वा स्यात् अन्यत्र अपि नित्यम् ।

४ - ८ - तत् तर्हि वक्तव्यम् ।

५ - ८ - न वक्तव्यम् ।

६ - ८ - न वावचनेन शकुनिः अभिसम्बध्यते ।

७ - ८ - किम् तर्हि ।

८ - ८ - निपातनम् अभिसम्बध्यते विष्किरः इति एतत् निपातनम् शकुनौ वा निपात्यते इति ।

१ - २४ - आश्चर्यम् अद्भुते ।

२ - २४ - आश्चर्यम् अद्भुते इति वक्तव्यम् इह अपि यथा स्यात् ।

३ - २४ - आश्चर्यम् उच्चता वृक्षस्य ।

४ - २४ - आश्चर्यम् नीला द्यौः ।

५ - २४ - आश्चर्यम् अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति ।

६ - २४ - तत् तर्हि वक्तव्यम् ।

७ - २४ - न वक्तव्यम् ।

८ - २४ - अनित्ये इति एव सिद्धम् ।

९ - २४ - इह तावत् आश्चर्यम् उच्चता वृक्षस्य इति ।

१० - २४ - आश्चर्यग्रहणेन न वृक्षः अभिसम्बध्यते ।

११ - २४ - किम् तर्हि ।

१२ - २४ - उच्चता ।

१३ - २४ - सा च अनित्या ।

१४ - २४ - आश्चर्यम् नीला द्यौः इति ।

१५ - २४ - न आश्चर्यग्रहणेन द्यौः अभिसम्बध्यते ।

१६ - २४ - किम् तर्हि ।

१७ - २४ - नीलता ।

१८ - २४ - सा च अनित्या ।

१९ - २४ - आश्चर्यम् अन्तरिक्षे अबन्धनानि नक्षत्राणि न पतन्ति इति ।

२० - २४ - न आश्चर्यग्रहणेन नक्षत्राणि अभिसम्बध्यन्ते ।

२१ - २४ - किम् तर्हि ।

२२ - २४ - पतनक्रिया ।

२३ - २४ - सा च अनित्या ।

२४ - २४ - तत्र अनित्ये इति एव सिद्धम् ।

१ - ९ - मस्करिग्रहणम् शक्यम् अकर्तुम् ।

२ - ९ - कथम् मस्करी परिव्राजकः इति ।

३ - ९ - इनिना एतत् मत्वर्थीयेन सिद्धम् ।

४ - ९ - मस्करः अस्य अस्ति ।

५ - ९ - न वै मस्करः अस्य अस्ति इति मस्करी परिव्राजकः ।

६ - ९ - किम् तर्हि मा कृत कर्माणि ।

७ - ९ - मा कृत कर्माणि ।

८ - ९ - शान्तिः वः श्रेयसी इति आह ।

९ - ९ - अतः मस्करी परिव्राजकः ।

१ - १० - अविहितलक्षणः सुट् पारस्करप्रभृतिषु द्रष्टव्यः ।

२ - १० - पारस्करः देशः ।

३ - १० - कारस्करः वृक्षः ।

४ - १० - रथस्पा नदी ।

५ - १० - किष्किन्धा गुहा ।

६ - १० - किष्कुः ।

७ - १० - तद्बृहतोः करपत्योः चोरदेवतयोः सुट् तलोपः च ।

८ - १० - तस्करः , बृहस्पतिः ।

९ - १० - प्रायस्य चित्तिचित्तयोः सुट् अस्कारः वा ।

१० - १० - प्रायश्चित्तिः , प्रायश्चित्तम् ।

१ - ११ - किम् अनुदात्तानि पदानि भवन्ति एकम् पदम् वर्जयित्वा ।

२ - ११ - न इति आह ।

३ - ११ - पदे येषाम् उदात्तप्रसङ्गः अनुदात्ताः भवन्ति एकम् अचम् वर्जयित्वा ।

४ - ११ - सः तर्हि तथा निर्देशः कर्तव्यः अनुदात्ताः पदे , अनुदात्ताः पदस्य इति वा ।

५ - ११ - न कर्तव्यः ।

६ - ११ - अनुदात्तम् पदम् एकवर्जम् इति एव सिद्धम् ।

७ - ११ - कथम् ।

८ - ११ - मतुब्लोपः अत्र द्रष्टव्यः ।

९ - ११ - तत् यथा पुष्यकाः एषाम् पुष्यकाः , कालकाः एषाम् कालकाः इति ।

१० - ११ - अथ वा अकारः मत्वर्थीयः ।

११ - ११ - तत् यथा तुन्दः , घाटः इति ।

१ - २८ - किमर्थम् पुनः इदम् उच्यते ।

२ - २८ - आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च पृथक् स्वरनिवृत्त्यर्थम् एकवर्जम् पदस्वरः ।

३ - २८ - आगमस्य ।

४ - २८ - चतुरनडुहोः आम् उदात्तः ।

५ - २८ - चत्वारः , अनड्वाहः ।

६ - २८ - विकारस्य ।

७ - २८ - अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः ।

८ - २८ - अस्थ्ना , दध्ना ।

९ - २८ - प्रकृतेः ।

१० - २८ - गोपायति , धूपायति ।

११ - २८ - प्रत्ययस्य च ।

१२ - २८ - कर्तव्यम् , तैत्तिरीयः ।

१३ - २८ - एतेषाम् पदे युगपत् स्वरः प्राप्नोति ।

१४ - २८ - इष्यते च एकस्य स्यात् इति ।

१५ - २८ - तत् च अन्तरेण यत्नम् न सिध्यति इति अनुदात्तम् पदम् एकवर्जम् ।

१६ - २८ - एवमर्थम् इदम् उच्यते ।

१७ - २८ - न एतत् अस्ति प्रयोजनम् ।

१८ - २८ - यौगपद्यम् तवै सिद्धम् ।

१९ - २८ - यत् अयम् तवै च अन्तः च युगपत् इति सिद्धे यौगपद्ये यौगपद्यम् शास्ति तत् ज्ञापयति आचार्यः न युगपत् स्वरः भवति इति ।

२० - २८ - पर्यायः तर्हि प्राप्नोति ।

२१ - २८ - पर्यायः रिक्तशासनात् ।

२२ - २८ - यत् अयम् रिक्ते विभाषा इति सिद्धे पर्याये पर्यायम् शास्ति तत् ज्ञापयति आचार्यः न पर्यायः भवति इति ।

२३ - २८ - उदात्ते ज्ञापकम् तु एतत् ।

२४ - २८ - एतत् उदात्ते ज्ञापकम् स्यात् ।

२५ - २८ - स्वरितेन समाविशेत् ।

२६ - २८ - स्वरितेन समावेशः प्राप्नोति ।

२७ - २८ - स्वरिते अपि उदात्तः अस्ति ।

२८ - २८ - तस्मात् न अर्थः अनेन योगेन ।

१ - ९२ - आरभ्यमाणे अपि एतस्मिन् योगे अनुदात्ते विप्रतिषेधानुपपत्तिः एकस्मिन् युगपत् सम्भवात् ।

२ - ९२ - अनुदात्ते विप्रतिषेधः न उपपद्यते ।

३ - ९२ - पठिष्यति हि आचार्यः विप्रतिषेधम् जे दीर्घात् बह्वचः इति ।

४ - ९२ - सः विप्रतिषेधः न उपपद्यते ।

५ - ९२ - किम् कारणम् ।

६ - ९२ - एकस्मिन् युगपत् सम्भवात् ।

७ - ९२ - असति खलु सम्भवे विप्रतिषेधः भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।

८ - ९२ - कथम् सम्भवः यदा अनुदात्तम् पदम् एकवर्जम् इति उच्यते ।

९ - ९२ - तत् इह न अस्ति ।

१० - ९२ - किम् कारणम् ।

११ - ९२ - न अनेन उदात्तत्वम् प्रतिषिध्यते ।

१२ - ९२ - किम् तर्हि अनुदात्तत्वम् अनेन क्रियते अस्ति च सम्भवः यत् उभयोः च उदात्तत्वम् स्यात् अन्येषाम् च अनुदात्तत्वम् ।

१३ - ९२ - यदि पुनः अयम् अधिकारः विज्ञायेत ।

१४ - ९२ - किम् कृतम् भवति ।

१५ - ९२ - अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते ।

१६ - ९२ - जे दीर्घान्तस्य आदिः उदात्तः भवति ।

१७ - ९२ - उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति ।

१८ - ९२ - अन्त्यात् पूर्वम् बह्वचः ।

१९ - ९२ - उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति ।

२० - ९२ - तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात् ।

२१ - ९२ - न एवम् शक्यम् ।

२२ - ९२ - षाष्थिकः एकः स्वरः सङ्गृहीतः स्यात् ।

२३ - ९२ - ये अन्ये सप्ताध्याय्याम् स्वराः ते न सङ्गृहीताः स्युः ।

२४ - ९२ - समानोदरे शयिते ओ च उदात्तः ।

२५ - ९२ - अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः इति ।

२६ - ९२ - सिद्धम् तु एकाननुदात्तत्वात् ।

२७ - ९२ - सिद्धम् एतत् ।

२८ - ९२ - कथम् ।

२९ - ९२ - एकाननुदात्तत्वात् ।

३० - ९२ - एकाननुदात्तम् पदम् भवति इति वक्तव्यम् ।

३१ - ९२ - किम् इदम् अननुदात्तत्वात् इति ।

३२ - ९२ - न उदात्तः अनुदात्तः ।

३३ - ९२ - न अनुदात्तः ।

३४ - ९२ - अननुदात्तः ।

३५ - ९२ - एकः अननुदात्तः अस्मिन् तत् इदम् एकाननुदात्तम् ।

३६ - ९२ - एकाननुदात्तत्वात् इति ।

३७ - ९२ - सिध्यति ।

३८ - ९२ - सूत्रम् तर्हि भिद्यते ।

३९ - ९२ - यथान्यासम् एव अस्तु ।

४० - ९२ - ननु च उक्तम् अनुदात्ते विप्रतिषेधानुपपत्तिः एकस्मिन् युगपत् सम्भवात् इति ।

४१ - ९२ - न एषः दोषः ।

४२ - ९२ - परिभाषा इयम् ।

४३ - ९२ - किम् कृतम् भवति ।

४४ - ९२ - कार्यकालम् हि सञ्ज्ञापरिभाषम् ।

४५ - ९२ - यत्र कार्यम् तत्र उपस्थितम् इदम् द्रष्टव्यम् ।

४६ - ९२ - जे दीर्घान्तस्य आदिः उदात्तः भवति ।

४७ - ९२ - उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति ।

४८ - ९२ - अन्त्यात् पूर्वम् बह्वचः ।

४९ - ९२ - उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति ।

५० - ९२ - तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात् ।

५१ - ९२ - अथ वा न इदम् पारिभाषिकानुदात्तस्य ग्रहणम् ।

५२ - ९२ - किम् तर्हि ।

५३ - ९२ - अन्वर्थग्रहणम् ।

५४ - ९२ - अविद्यमानोदात्तम् अनुदात्तम् इति ।

५५ - ९२ - एकवर्जम् इति च अप्रसिद्धिः सन्देहात् ।

५६ - ९२ - एकवर्जम् इति च अप्रसिद्धिः ।

५७ - ९२ - कुतः सन्देहात् ।

५८ - ९२ - न ज्ञायते कः एकः वर्जयितव्यः इति ।

५९ - ९२ - सिद्धम् तु यस्मिन् अनुदात्ते उदात्तवचनानर्थक्यम् तद्वर्जम् ।

६० - ९२ - सिद्धम् एतत् ।

६१ - ९२ - कथम् ।

६२ - ९२ - यस्मिन् अनुदात्ते उदात्तवचनम् अनर्थकम् स्यात् सः एकः वर्जयितव्यः ।

६३ - ९२ - प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वात् अप्रसिद्धिः ।

६४ - ९२ - प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वात् अप्रसिद्धिः स्यात् ।

६५ - ९२ - प्रकृतिस्वरस्य अवकाशः यत्र अनुदात्तः प्रत्ययः ।

६६ - ९२ - पचति , पठति ।

६७ - ९२ - प्रत्यययस्वरस्य अवकाशः यत्र अनुदात्ता प्रकृतिः ।

६८ - ९२ - समत्वम् , सिमत्वम् ।

६९ - ९२ - इह उभयम् प्राप्नोति ।

७० - ९२ - कर्तव्यम्, तैत्तिरीयः ।

७१ - ९२ - विप्रतिषेधात् प्रत्ययस्वरः ।

७२ - ९२ - विप्रतिषेधात् प्रत्ययस्वरः भविष्यति ।

७३ - ९२ - न एवम् ।

७४ - ९२ - विप्रतिषेधे परम् कार्यम् इति उच्यते ।

७५ - ९२ - न परः प्रत्ययस्वरः ।

७६ - ९२ - न एषः दोषः ।

७७ - ९२ - इष्टवाची परशब्दः ।

७८ - ९२ - विप्रतिषेधे परम् यत् इष्टम् तत् भवति ।

७९ - ९२ - विप्रतिषेधात् प्रत्ययस्वरः इति चेत् काम्यादिषु चित्करणम् ।

८० - ९२ - विप्रतिषेधात् प्रत्ययस्वरः इति चेत् काम्यादयः चितः कर्तव्याः ।

८१ - ९२ - पुत्रकाम्यति , गोपायति , ऋतीयते ।

८२ - ९२ - न एषः दोषः ।

८३ - ९२ - प्रकृतिस्वरः अत्र बाधकः भविष्यति ।

८४ - ९२ - प्रकृतिस्वरे प्रत्ययस्वराभावः ।

८५ - ९२ - प्रकृतिस्वरे प्रत्ययस्वरस्य अभावः ।

८६ - ९२ - कर्तव्यम्, तैत्तिरीयः ।

८७ - ९२ - सिद्धम् तु प्रकृतिस्वरबलीयस्त्वात् प्रत्ययस्वरभावः ।

८८ - ९२ - सिद्धम् एतत् ।

८९ - ९२ - कथम् ।

९० - ९२ - प्रकृतिस्वरात् बलीयस्त्वात् प्रत्ययस्वरस्य भावः सिद्धः ।

९१ - ९२ - कथम् ।

९२ - ९२ - प्रकृतिस्वरात् प्रत्ययस्वरः बलीयान् भवति ।

१ - ५० - सतिशिष्टस्वरबलीयस्त्वम् च ।

२ - ५० - सतिशिष्टस्वरः बलीयान् भवति इति वक्तव्यम् ।

३ - ५० - तत् च अनेकप्रत्ययसमासार्थम् ।

४ - ५० - तत् च अवश्यम् सतिशिष्टस्वरबलीयस्त्वम् वक्तव्यम् ।

५ - ५० - किम् प्रयोजनम् ।

६ - ५० - अनेकप्रत्ययार्थम् अनेकसमासार्थम् च ।

७ - ५० - अनेकप्रत्ययार्थम् तावत् ।

८ - ५० - औपगवः ।

९ - ५० - प्रकृतिस्वरम् अण्स्वरः बाधते ।

१० - ५० - औपगवत्वम् ।

११ - ५० - त्वस्वरः अण्स्वरम् बाधते ।

१२ - ५० - औपगवत्वकम् ।

१३ - ५० - त्वस्वरम् कस्वरः बाधते ।

१४ - ५० - अनेकसमासार्थम् ।

१५ - ५० - राजपुरुषः , राजपुरुषपुत्रः , राजपुरुषपुत्रपुरुषः ।

१६ - ५० - यदि सतिशिष्टस्वरबलीयस्त्वम् उच्यते स्यादिस्वरः सार्वधातुकस्वरम् बाधेत ।

१७ - ५० - सुनुतः , चिनुतः ।

१८ - ५० - स्यादिस्वराप्रसङ्गः च तासेः परस्य अनुदात्तवचनात् ।

१९ - ५० - स्यादिस्वरस्य च अप्रसङ्गः ।

२० - ५० - कुतः ।

२१ - ५० - तासेः परस्य अनुदात्तवचनात् ।

२२ - ५० - यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः सतिशिष्टः अपि विकरणस्वरः लसार्वधातुकस्वरम् न बाधते ।

२३ - ५० - शास्त्रपरविप्रतिषेधानियमात् वा शब्दविप्रतिषेधात् सिद्धम् ।

२४ - ५० - अथ वा शास्त्रपरविप्रतिषेधे न सर्वम् इष्टम् सङ्गृहीतम् भवति इति कृत्वा शब्दविप्रतिषेधः विज्ञास्यते ।

२५ - ५० - यदि शब्दविप्रतिषेधः भवति काम्यादयः चितः कर्तव्याः ।

२६ - ५० - पुत्रकाम्यति , गोपायति , ऋतीयते ।

२७ - ५० - शब्दविप्रतिषेधः नाम भवति यत्र उभयोः युगपत्प्रसङ्गः न च काम्यादिषु युगपत्प्रसङ्गः ।

२८ - ५० - विभक्तिस्वरात् नञ्स्वरः बलीयान् ।

२९ - ५० - विभक्तिस्वरात् नञ्स्वरः बलीयान् इति वक्तव्यम् ।

३० - ५० - विभक्तिस्वरस्य अवकाशः ।

३१ - ५० - तिस्रः तिष्ठन्ति ।

३२ - ५० - नञ्स्वरस्य अवकाशः ।

३३ - ५० - अब्राह्मणः , अवृषलः ।

३४ - ५० - इह उभयम् प्राप्नोति ।

३५ - ५० - अतिस्रः ।

३६ - ५० - नञ्स्वरः भवति ।

३७ - ५० - विभक्तिनिमित्तस्वरात् च ।

३८ - ५० - विभक्तिनिमित्तस्वरात् च नञ्स्वरः बलीयान् इति वक्तव्यम् ।

३९ - ५० - विभक्तिनिमित्तस्वरस्य अवकाशः ।

४० - ५० - चत्वारः , अनड्वाहः ।

४१ - ५० - नञ्स्वरस्य सः एव ।

४२ - ५० - इह उभयम् प्राप्नोति ।

४३ - ५० - अचत्वारः ।

४४ - ५० - अननड्वाहः ।

४५ - ५० - यत् च उपपदम् कृति नञ् ।

४६ - ५० - यत् च उपपदम् कृति नञ् तस्य स्वरः बलीयान् इति वक्तव्यम् ।

४७ - ५० - अकरणिः हि ते वृषल ।

४८ - ५० - सहनिर्दिष्टस्य च ।

४९ - ५० - सहनिर्दिष्टस्य च नञः स्वरः बलीयान् इति वक्तव्यम् ।

५० - ५० - अव्यथी ।

१ - १२ - किमर्थम् कृषतेः विकृतस्य ग्रहणम् क्रियते न कृषात्वतः इति एव उच्येत ।

२ - १२ - यस्य कृषेः विकरणे एतत् रूपम् तस्य यथा स्यात् ।

३ - १२ - इह मा भूत् ।

४ - १२ - हलस्य कर्षः इति ।

५ - १२ - अथ किमर्थम् मतुपा निर्देशः क्रियते न कर्षात् इति एव उच्येत ।

६ - १२ - कर्षात् इति इयति उच्यमाने यत्र एव आकारात् अनन्तरः घञ् अस्ति तत्र एव स्यात् दायः , धायः ।

७ - १२ - इह न स्यात् पाकः , पाठः ।

८ - १२ - न क्व चित् आकारात् अनन्तरः घञ् अस्ति ।

९ - १२ - इह अपि दायः , धायः इति युका व्यवधानम् ।

१० - १२ - एवम् अपि विहितविषेषनम् आकारग्रहणम् विज्ञायेत ।

११ - १२ - आकारात् यः विहितः इति ।

१२ - १२ - मतुब्ग्रहणे पुनः क्रियमाणे न दोषः भवति ।

१ - २० - अनुदात्तस्य इति किमर्थम् ।

२ - २० - प्रासङ्गम् वहति प्रासङ्ग्यः ।

३ - २० - उदात्तलोपे स्वरितोदात्तयोः अभावात् अनुदात्तग्रहणानर्थक्यम् ।

४ - २० - उदात्तलोपे स्वरितोदात्तयोः अभावात् अनुदात्तग्रहणम् अनर्थकम् ।

५ - २० - ह हि कः चित् उदात्तः उदात्ते स्वरिते वा लुप्यते ।

६ - २० - सर्वः अनुदात्ते एव ।

७ - २० - नन् च अयम् उदात्तः स्वरिते लुप्यते ।

८ - २० - प्रासङ्गम् वहति प्रासङ्ग्यः इति ।

९ - २० - एषः अपि निघाते कृते अनुदात्ते एव लुप्यते ।

१० - २० - इदम् इह सम्प्रधार्यम् ।

११ - २० - निघातः क्रियताम् लोपः इति ।

१२ - २० - किम् अत्र कर्तव्यम् ।

१३ - २० - परत्वात् लोपः ।

१४ - २० - एवम् तर्हि अयम् अद्य निघातस्वरः सर्वस्वराणाम् अपवादः ।

१५ - २० - न च अपवादविषये उत्सर्गः भिनिविशते ।

१६ - २० - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

१७ - २० - प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

१८ - २० - तत् न तावत् अत्र कदा चित् थाथादिस्वरः भवति ।

१९ - २० - अपवादम् निघातम् प्रतीक्षते ।

२० - २० - तत्र निघातः क्रियताम् लोपः इति यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तः अनुदात्तः लुप्यते ।

१ - ३३ - किम् पुनः अनुदात्तस्य अन्तः उदात्तः भवति आहोस्वित् आदिः ।

२ - ३३ - कः च अत्र विशेषः ।

३ - ३३ - अन्तः इति चेत् श्नम्क्सयुष्मदस्मदिदङ्किंलोपेषु स्वरः ।

४ - ३३ - अन्तः इति चेत् श्नम्क्सयुष्मदस्मदिदङ्किंलोपेषु स्वरः न सिध्यति ।

५ - ३३ - श्नम् ।

६ - ३३ - विन्दते , खिन्दते ।

७ - ३३ - श्नम् ।

८ - ३३ - क्स ।

९ - ३३ - मा हि धुक्षाताम् ।

१० - ३३ - मा हि धुक्षाथाम् ।

११ - ३३ - क्स ।

१२ - ३३ - युष्मदस्मद् ।

१३ - ३३ - युष्मभ्यम् , अस्मभ्यम् ।

१४ - ३३ - इदङ्किंलोपः ।

१५ - ३३ - इयान् , कियान् ।

१६ - ३३ - अस्तु तर्हि आदिः ।

१७ - ३३ - आदिः इति चेत् इन्धीत द्वयम् इति अन्तः ।

१८ - ३३ - आदिः इति चेत् इन्धीत द्वयम् इति अन्तोदात्तत्वम् न सिध्यति ।

१९ - ३३ - इन्धीत ।

२० - ३३ - द्वयम् , त्रयम् ।

२१ - ३३ - आदौ सिद्धम् ।

२२ - ३३ - अस्तु तर्हि आदिः उदात्तः भवति इति ।

२३ - ३३ - ननु च उक्तम् आदिः इति चेत् इन्धीत द्वयम् इति अन्तः इति ।

२४ - ३३ - विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तप्रतिषेधात् लिङि सिद्धम् ।

२५ - ३३ - विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वम् लिङि न इति वक्तव्यम् ।

२६ - ३३ - लिङ्ग्रहणेन न अर्थः ।

२७ - ३३ - अविशेषेण इखिदिभ्यः च लसार्वधातुकानुदात्तप्रतिषेधात् लिङि सिद्धम् ।

२८ - ३३ - विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वम् न इति एव ।

२९ - ३३ - इदम् अपि सिद्धम् भवति ।

३० - ३३ - विन्दते , खिन्दते ।

३१ - ३३ - अयचि कथम् ।

३२ - ३३ - अयचि चित्करणात् ।

३३ - ३३ - अयचि चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।

१ - ५२ - किम् धातोः अन्तः उदात्तः भवति आहोस्वित् आदिः इति ।

२ - ५२ - कः च अत्र विशेषः ।

३ - ५२ - धातोः अन्तः इति चेत् अनुदात्ते च बग्रहणम् ।

४ - ५२ - धातोः अन्तः इति चेत् अनुदात्ते च बग्रहणम् कर्तव्यम् ।

५ - ५२ - अभ्यस्तानाम् आदिः अनुदात्ते च इति वक्तव्यम् ।

६ - ५२ - बग्रहणम् च कर्तव्यम् ।

७ - ५२ - बान्तः च पिबिः आद्युदात्तः भवति इति वक्तव्यम् ।

८ - ५२ - पिबति ।

९ - ५२ - सन् च नित् ।

१० - ५२ - सन् च नित् कर्तव्यः ।

११ - ५२ - किम् प्रयोजनम् ।

१२ - ५२ - चिकीर्षति जिहीर्षति ।

१३ - ५२ - निति इति आद्युदात्तत्वम् यथा स्यात् ।

१४ - ५२ - अस्तु तर्हि आदिः ।

१५ - ५२ - आदौ ऊर्णप्रत्ययधातुषु अन्तोदात्तत्वम् ।

१६ - ५२ - आदौ ऊर्णप्रत्ययधातुषु अन्तोदात्तत्वम् न सिध्यति ।

१७ - ५२ - ऊर्णोति ।

१८ - ५२ - ऊर्णु ।

१९ - ५२ - प्रत्ययधातु ।

२० - ५२ - गोपायति , धूपायति , ऋतीयते ।

२१ - ५२ - अन्तोदात्तवचनात् सिद्धम् ।

२२ - ५२ - अस्तु तर्हि अन्तोदात्तः भवति इति ।

२३ - ५२ - ननु च उक्तम् धातोः अन्तः इति चेत् अनुदात्ते च बग्रहणम् कर्तव्यम् इति ।

२४ - ५२ - यत् तावत् उच्यते ।

२५ - ५२ - अनुदात्ते च ग्रहणम् कर्तव्यम् इति ।

२६ - ५२ - क्रियते न्यासे एव ।

२७ - ५२ - अभ्यस्तानाम् आदिः अनुदात्ते च इति ।

२८ - ५२ - बग्रहणम् कर्तव्यम् इति ।

२९ - ५२ - पिबौ निपातनात् ।

३० - ५२ - पिबौ आद्युदात्तनिपातनम् क्रियते ।

३१ - ५२ - सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति ।

३२ - ५२ - सन् च नित् कर्तव्यः इति ।

३३ - ५२ - अवश्यम् सनः विशेषणार्थः नकारः कर्तव्यः ।

३४ - ५२ - क्व विशेषणार्थेन अर्थः ।

३५ - ५२ - सन्यङोः इति ।

३६ - ५२ - सयङोः इति इयति उच्यमाने हंसः , वत्सः , अत्र अपि प्राप्नोति ।

३७ - ५२ - अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् न भविष्यति ।

३८ - ५२ - इह अपि तर्हि न प्राप्नोति ।

३९ - ५२ - जुगुप्सते , मीमांसते इति ।

४० - ५२ - अर्थवान् एषः ।

४१ - ५२ - न वै कः चित् अर्थः आदिश्यते ।

४२ - ५२ - यदि अपि कः चित् अर्थः न आदिश्यते अनिर्दिष्टार्थाः स्वार्थे भवन्ति इति अन्ततः स्वार्थे भविष्यति ।

४३ - ५२ - कः च अस्य स्वार्थः ।

४४ - ५२ - प्रकृत्यर्थः ।

४५ - ५२ - इह अपि प्राप्नोति ।

४६ - ५२ - हंसः , वत्सः इति ।

४७ - ५२ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

४८ - ५२ - सः एषः अनन्यार्थः नकारः कर्तव्यः ।

४९ - ५२ - न कर्तव्यः ।

५० - ५२ - क्रियते न्यासे एव ।

५१ - ५२ - अथ वा धातोः इति वर्तते ।

५२ - ५२ - धातोः सशब्दान्तस्य द्वे भवतः इति ।

१ - १६ - चितः सप्रकृतेः बह्वकजर्थम् ।

२ - १६ - चितः सप्रकृतेः इति वक्तव्यम् ।

३ - १६ - किम् प्रयोजनम् ।

४ - १६ - बह्वकजर्थम् ।

५ - १६ - बहुजर्थम् अकजर्थम् च ।

६ - १६ - बहुजर्थम् तावत् ।

७ - १६ - बहुभुक्तम् , बहुकृतम् ।

८ - १६ - अकजर्थम् ।

९ - १६ - सर्वकैः , विश्वकैः , उच्चकैः , नीचकैः , सर्वके , विश्वके ।

१० - १६ - तत् तर्हि वक्तव्यम् ।

११ - १६ - न वक्तव्यम् ।

१२ - १६ - मतुब्लोपः अत्र द्रष्टव्यः ।

१३ - १६ - तत् यथा पुष्यकाः एषाम् पुष्यकाः कालकाः एषाम् कालकाः इति ।

१४ - १६ - अथ वा अकारः मत्वर्थीयः ।

१५ - १६ - तत् यथा तुन्दः , घाटः इति ।

१६ - १६ - पूर्वसूत्रनिर्देशः च चित्वान् चितः इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP