पाद २ - खण्ड ७७

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - २० - सिचि वृद्धौ ओकारप्रतिषेधः ।

२ - २० - सिचि वृद्धौ ओकारस्य प्रतिषेधः वक्तव्यः ।

३ - २० - उदवोढाम् , उदवोढम् , उदवोढ इति ।

४ - २० - सः तर्हि प्रतिषेधः वक्तव्यः ।

५ - २० - न वक्तव्यः ।

६ - २० - ओकारात् वृद्धिः विप्रतिषेधेन ।

७ - २० - ओत्त्वम् क्रियताम् वृद्धिः इति ।

८ - २० - वृद्धिः भविष्यति विप्रतिषेधेन ।

९ - २० - ओकारात् वृद्धिः विप्रतिषेधेन इति चेत् ओत्त्वाभावः ।

१० - २० - ओकारात् वृद्धिः विप्रतिषेधेन इति चेत् ओत्त्वस्य अभावः ।

११ - २० - उदवोढाम् , उदवोढम् ।

१२ - २० - उदवोढ इति ।

१३ - २० - न एषः दोषः ।

१४ - २० - उक्तम् तत्र वर्णग्रहणस्य प्रयोजनम् वृद्धौ अपि कृतायाम् ओत्त्वम् यथा स्यात् ।

१५ - २० - पुनःप्रसङ्गविज्ञानात् वा सिद्धम् यथा प्रसारणादिषु द्विर्वचनम् ।

१६ - २० - अथ वा पुनःप्रसङ्गात् अत्र वृद्धौ कृतायाम् ओत्त्वम् भविष्यति ।

१७ - २० - सौढामित्रौ बहिरङ्गलक्षणत्वात् सिद्धम् ।

१८ - २० - बहिरङ्गलक्षणा वृद्धिः ।

१९ - २० - अन्तरङ्गम् ओत्त्वम् ।

२० - २० - असिद्धम् बहिरङ्गम् अन्तरङ्गे

१ - १५ - अन्तग्रहणम् किमर्थम् न अतः र्लः इति एव उच्यते ।

२ - १५ - केन इदानीम् तदन्तस्य भविष्यति ।

३ - १५ - तदन्तविधिना ।

४ - १५ - इदम् तर्हि प्रयोजनम् ।

५ - १५ - अयम् अन्तशब्दः अस्ति एव अवयववाची ।

६ - १५ - तत् यथा ।

७ - १५ - वस्त्रान्तः , वसनान्तः ।

८ - १५ - अस्ति सामीप्ये वर्तते ।

९ - १५ - तत् यथा ।

१० - १५ - उदकान्तम् गतः ।

११ - १५ - उदकसमीपम् गतः इति गम्यते ।

१२ - १५ - तत् यः सामीप्ये वर्तते तस्य इदम् ग्रहणम् यथा विज्ञायेत ।

१३ - १५ - अङ्गान्तौ यौ रेफलकारौ तयोः समीपे यः अकारः तस्य यथा स्यात् ।

१४ - १५ - इह मा भूत् ।

१५ - १५ - अश्वल्लीत् , अवभ्रीत्

१ - १०३ - हल्ग्रहणम् किमर्थम् ।

२ - १०३ - समुच्चयः यथा विज्ञायेत ।

३ - १०३ - वदिव्रज्योः च हलन्तस्य च अचः इति ।

४ - १०३ - न एतत् अस्ति प्रयोजनम् ।

५ - १०३ - अज्ग्रहणात् एव अत्र समुच्चयः भविष्यति ।

६ - १०३ - वदिव्रज्योः च अचः च इति ।

७ - १०३ - अस्ति अन्यत् अज्ग्रहणे प्रयोजनम् वदिव्रजिविशेषणम् यथा विज्ञायेत ।

८ - १०३ - वदिव्रज्योः एचः इति ।

९ - १०३ - यदि एतावत् प्रयोजनम् स्यात् वदिव्रज्योः अतः इति एवम् ब्रूयात् ।

१० - १०३ - अथ वा एतत् अपि न ब्रूयात् ।

११ - १०३ - अतः इति वर्तते ।

१२ - १०३ - इदम् तर्हि प्रयोजनम् हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् ।

१३ - १०३ - कस्य पुनः अजन्तस्य प्राप्नोति ।

१४ - १०३ - अकारस्य ।

१५ - १०३ - अचिकीर्षीत् , अजिहीर्षीत् ।

१६ - १०३ - लोपः अत्र बाधकः भविष्यति ।

१७ - १०३ - आकारस्य तर्हि प्राप्नोति ।

१८ - १०३ - अयासीत् , अवासीत् ।

१९ - १०३ - न अस्ति अत्र विशेषः सत्याम् वा वृद्धौ असत्याम् वा ।

२० - १०३ - सन्ध्यक्षरस्य तर्हि प्राप्नोति ।

२१ - १०३ - न वै सन्ध्यक्षरम् अन्त्यम् अस्ति ।

२२ - १०३ - ननु च इदम् अस्ति ढलोपे कृते उदवोढाम् , उदवोढम् , उदवोढ इति ।

२३ - १०३ - असिद्धः ढलोपः तस्य असिद्धत्वात् न एतत् अन्त्यम् भवति ।

२४ - १०३ - अतः उत्तरम् पठति ।

२५ - १०३ - हल्ग्रहणम् इटि प्रतिषेधार्थम् ।

२६ - १०३ - हल्ग्रहणम् क्रियते इटि प्रतिषेधार्थम् ।

२७ - १०३ - न इटि इति प्रतिषेधम् वक्ष्यति सः हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् ।

२८ - १०३ - अलावीत् , अपावीत् ।

२९ - १०३ - न वा अनन्तरस्य प्रतिषेधात् ।

३० - १०३ - न वा एतत् प्रयोजनम् अस्ति ।

३१ - १०३ - किम् कारणम् ।

३२ - १०३ - अनन्तरस्य प्रतिषेधात् ।

३३ - १०३ - अनन्तरम् यत् वृद्धिविधानम् तत् प्रतिषिध्यते ।

३४ - १०३ - कुतः एतत् ।

३५ - १०३ - अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति ।

३६ - १०३ - तत् च अनन्त्यार्थम् ।

३७ - १०३ - तत् च अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् विज्ञायते ।

३८ - १०३ - कथम् पुनः अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् शक्यम् विज्ञातुम् ।

३९ - १०३ - अन्त्यस्य वचनानर्थक्यात् ।

४० - १०३ - अन्त्यस्य वृद्धिविधाने प्रयोजनम् न अस्ति इति कृत्वा अनन्तरम् वृद्धिविधानम् अनन्त्यार्थम् विज्ञायते ।

४१ - १०३ - अतः विभाषार्थम् तर्हि इदम् वक्तव्यम् ।

४२ - १०३ - अतः हलादेः लघोः इति विभाषा वृद्धिम् वक्ष्यति सा हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् ।

४३ - १०३ - अचिकीर्षीत् , अजिहीर्षीत् ।

४४ - १०३ - अतः विभाषार्थम् इति चेत् सिद्धम् वृद्धेः लोपबलीयस्त्वात् ।

४५ - १०३ - अतः विभाषार्थम् इति चेत् तत् अन्तरेण अपि हल्ग्रहणम् सिद्धम् ।

४६ - १०३ - कथम् ।

४७ - १०३ - वृद्धेः लोपबलीयस्त्वात् ।

४८ - १०३ - वृद्धेः लोपः बलीयान् भवति इति ।

४९ - १०३ - इदम् इह सम्प्रधार्यम् ।

५० - १०३ - वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

५१ - १०३ - परत्वात् वृद्धिः ।

५२ - १०३ - नित्यः लोपः ।

५३ - १०३ - कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि ।

५४ - १०३ - अनित्यः लोपः न हि कृतायाम् वृद्धौ प्राप्नोति ।

५५ - १०३ - परत्वात् सगिड्भ्याम् भवितव्यम् ।

५६ - १०३ - न अत्र सगिटौ प्राप्नुतः ।

५७ - १०३ - किम् कारणम् ।

५८ - १०३ - एकाचः तौ वलि इति वा ।

५९ - १०३ - एकाचः सगिटौ उच्येते अथ वा वलि इति तत्र अनुवर्तते ।

६० - १०३ - किम् पुनः कारणम् एकाचः तौ वली इति वा ।

६१ - १०३ - दर्द्रातेः मा भूत् इति ।

६२ - १०३ - दरिद्रातेः न सगिड्भ्याम् भवितव्यम् ।

६३ - १०३ - उक्तम् एतत् दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति ।

६४ - १०३ - यः च इदानीम् प्रत्ययविधौ सिद्धः सिद्धः असौ सगिड्विधौ ।

६५ - १०३ - एवमर्थम् एव तर्हि एकाज्ग्रहणम् अनुवर्त्यम् अत्र सगिटौ मा भूताम् इति ।

६६ - १०३ - सः एषः नित्यः लोपः वृद्धिम् बाधिष्यते ।

६७ - १०३ - कम् पुनः भवान् वृद्धेः अवकाशम् मत्वा आह नित्यः लोपः इति ।

६८ - १०३ - अनवकाशा वृद्धिः लोपम् बाधिष्यते ।

६९ - १०३ - सावकाशा वृद्धिः ।

७० - १०३ - कः अवकाशः ।

७१ - १०३ - अनन्त्यः अकणीत् , अकाणीत् ।

७२ - १०३ - कथम् पुनः सति अन्त्ये अनन्त्यस्य वृद्धिः स्यात् ।

७३ - १०३ - भवेत् यः अता अङ्गम् विशेषयेत् तस्य अनन्त्यस्य न स्यात् ।

७४ - १०३ - वयम् तु खलु अङ्गेन अकारम् विशेषयिष्यामः ।

७५ - १०३ - तत्र अनन्त्यः वृद्धेः अवकाशः अन्त्यस्य लोपः बाधकः भविष्यति ।

७६ - १०३ - एवम् वृद्धेः लोपबलीयस्त्वात् ।

७७ - १०३ - अथ वा आरभ्यते पूर्वविप्रतिषेधः ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् ।

७८ - १०३ - सा तर्हि एषा अनन्त्यार्था वृद्धिः हलन्तस्य यथा स्यात् अजन्तस्य मा भूत् ।

७९ - १०३ - अपिपठिषीत् ।

८० - १०३ - एतत् अपि न अस्ति प्रयोजनम् ।

८१ - १०३ - कथम् ।

८२ - १०३ - हलादेः इति न एषा बहुव्रीहेः षष्ठी हल् आदिः यस्य सः अयम् हलादिः हलादेः इति ।

८३ - १०३ - का तर्हि ।

८४ - १०३ - कर्मधारयात् पञ्चमी ।

८५ - १०३ - हल् आदिः हलादिः हलादेः परस्य इति ।

८६ - १०३ - यदि कर्मधारयात् पञ्चमी अचकासीत् अत्र प्राप्नोति ।

८७ - १०३ - सिचा अनन्तर्यम् विशेषयिष्यामः ।

८८ - १०३ - हलादेः परस्य सिचि अनन्तरस्य इति ।

८९ - १०३ - यदि सिचा आनन्तर्यम् विशेष्यते अकणीत् , अकाणीत् अत्र न प्राप्नोति ।

९० - १०३ - वचनात् भविष्यति ।

९१ - १०३ - इह अपि तर्हि वचनात् प्राप्नोति ।

९२ - १०३ - अचकासीत् ।

९३ - १०३ - येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् ।

९४ - १०३ - केन च न अव्यवधानम् ।

९५ - १०३ - वर्णेन एकेन ।

९६ - १०३ - सङ्गातेन पुनः व्यवधानम् भवति न च भवति ।

९७ - १०३ - यदि सिचा आनन्तर्यम् विशेष्यते अस्तु बहुव्रीहेः षष्ठी ।

९८ - १०३ - कस्मात् न भवति ।

९९ - १०३ - अपिपठिषीत् ।

१०० - १०३ - व्यवहितत्वात् ।

१०१ - १०३ - एवम् तर्हि अतिदूरम् एव इदम् हल्ग्रहणम् अनुसृतम् ।

१०२ - १०३ - हल्ग्रहणम् अनन्त्यार्थम् ।

१०३ - १०३ - अज्ग्रहणम् अनिगर्थम्

१ - १३ - किमर्थम् जागर्तेः वृद्धिप्रतिषेधः उच्यते ।

२ - १३ - सिचि वृद्धिः मा भूत् इति ।

३ - १३ - न एतत् अस्ति प्रयोजनम् ।

४ - १३ - जागर्तेः गुणः उच्यते वृद्धिविषये प्रतिषेधविषये च सः बाधकः भविष्यति ।

५ - १३ - गुणे तर्हि कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति ।

६ - १३ - न इटि इति तस्याः प्रतिषेधः भविष्यति ।

७ - १३ - इयम् तर्हि प्रतिषेधोत्तरकाला वृद्धिः आरभ्यते अतः र्लान्तस्य इति ।

८ - १३ - अपरः आह कक्ष्यया कक्ष्या निमातव्या ।

९ - १३ - सिचि वृद्धिः च प्राप्नोति गुणाः च ।

१० - १३ - गुणः भवति ।

११ - १३ - गुणे कृते रपरत्वे च हलन्तलक्षणा वृद्धिः प्राप्नोति न इटि इति च तस्याः प्रतिषेधः भवति ।

१२ - १३ - प्रतिषेधोत्तरकालम् अतः हलादेः लघोः इति विभाषा वृद्धिः प्राप्नोति न च किम् चित् ।

१३ - १३ - अतः र्लान्तस्य इति च वृद्धिः प्राप्नोति न च किम् चित्

१ - २३ - किमर्थम् पुरस्तात् प्रतिषेधः उच्यते न विध्युत्तरकालः प्रतिषेधः क्रियेत ।

२ - २३ - तत् यथा अन्यत्र अपि विध्युत्तरकालाः प्रतिषेधाः भवन्ति ।

३ - २३ - क्व अन्यत्र ।

४ - २३ - कर्तरि कर्मव्यतिहारे न गतिहिंसार्थेभ्यः इति ।

५ - २३ - देवताद्वन्द्वे च न इन्द्रस्य परस्य ।

६ - २३ - तत्र अयम् अपि अर्थः द्विः इड्ग्रहणम् न कर्तव्यम् भवति प्रकृतम् अनुवर्तते ।

७ - २३ - न एवम् शक्यम् ।

८ - २३ - इडर्थम् सार्वधातुकग्रहणम् लिङः सलोपे सन्निहितम् तत् विच्छिद्येत ।

९ - २३ - यदि पुनः न वृद्भ्यः चतुर्भ्यः इति अत्र एव उच्येत ।

१० - २३ - किम् कृतम् भवति ।

११ - २३ - विध्युत्तरकालाः च एव प्रतिषेधः कृअतः भवति द्विः च इड्ग्रहणम् न कर्तव्यम् इडर्थम् च सार्वधातुकग्रहणम् लिङः सलोपे सन्निहितम् भवति ।

१२ - २३ - तत्र अयम् अपि अर्थः द्विः प्रतिषेधः न कर्तव्यः इति एतस्मात् नियमात् इट् प्रसज्येत ।

१३ - २३ - कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एषः योगः प्रतिषेधार्थः भविष्यति ।

१४ - २३ - यदि एषः योगः प्रतिषेधार्थः यः एतस्मात् योगात् इट् परिप्राप्यते नियमात् सः न सिध्यति पेचिव , पेचिम , शेकिव, शेकिम ।

१५ - २३ - एवम् तर्हि कृसृभृ , इति एतेषाम् ग्रहणम् नियमार्थम् भविष्यति स्तुद्रुश्रुस्रुवाम् प्रतिषेधार्थम् वृङ्वृञोः ज्ञापकार्थम् ।

१६ - २३ - एवम् अपि सामान्यविहितस्य एव इटः प्रतिषेधः विज्ञायेत विशेषविहितः च अयम् थलि इति ।

१७ - २३ - पुरस्तात् पुनः प्रतिषेधे सति अनारभ्यापवादः अयम् भवति तेन यावान् इण् नाम तस्य सर्वस्य एव प्रतिषेधः सिद्धः भवति ।

१८ - २३ - यदि खलु अपि एषः अभिप्रायः तत् न क्रियते इति पुरस्तात् अपि प्रतिषेधे सति तत् न करिष्यते ।

१९ - २३ - कथम् ।

२० - २३ - इदम् अस्ति न इट् वशि कृति इति ।

२१ - २३ - ततः वक्ष्यामि ।

२२ - २३ - आर्धधातुकस्य वलादेः इति ।

२३ - २३ - इट् इति अनुवर्तते न इति निवृत्तम्

१ - ३९ - अथ कृद्ग्रहणम् किमर्थम् ।

२ - ३९ - इह मा भूत् ।

३ - ३९ - बिभिदिव , बिभिदिम इति ।

४ - ३९ - न एतत् अस्ति प्रयोजनम् ।

५ - ३९ - कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एतस्मात् नियमात् अत्र इट् भविष्यति ।

६ - ३९ - न अत्र तेन परिप्रापणम् प्राप्नोति ।

७ - ३९ - किम् कारणम् ।

८ - ३९ - प्रकृतिलक्षणस्य प्रतिषेधस्य सः प्रत्यारम्भः प्रत्ययलक्षणः च अयम् प्रतिषेधः ।

९ - ३९ - उभयोः सः प्रत्यारम्भः ।

१० - ३९ - कथम् ज्ञायते ।

११ - ३९ - वृङ्वृञोः ग्रहणात् ।

१२ - ३९ - कथम् कृत्वा ज्ञापकम् ।

१३ - ३९ - इमौ वृङ्वृञौ उदात्तौ तयोः प्रकृतिलक्षणः प्रत्ययलक्षणः च ।

१४ - ३९ - ततः किम् ।

१५ - ३९ - तुल्यजातीये असति यथा एव प्रकृतिलक्षणस्य नियामकः भवति एवम् प्रत्ययलक्षणस्य अपि नियामकः भविष्यति ।

१६ - ३९ - इदम् तर्हि प्रयोजनम् ।

१७ - ३९ - इह मा भूत् ।

१८ - ३९ - रुदिवः , रुदिमः ।

१९ - ३९ - एतत् अपि न अस्ति प्रयोजनम् ।

२० - ३९ - उपरिष्टात् योगविभागः करिष्यते ।

२१ - ३९ - आर्धधातुकस्य ।

२२ - ३९ - यत् एतत् अनुक्रान्तम् एतत् आर्धधातुकस्य द्रष्टव्यम् ।

२३ - ३९ - ततः इट् वलादेः इति ।

२४ - ३९ - तत्र एतावत् द्रष्टव्यम् यदि किम् चित् तत्र अन्यत् अपि आर्धधातुकग्रहणस्य प्रयोजनम् अस्ति ।

२५ - ३९ - अथ न किम् चित् इह वा कृद्ग्रहणम् क्रियेत तत्र वा आर्धधातुकग्रहणम् कः नु अत्र विशेषः ।

२६ - ३९ - न इट् वरम् अनादौ कृति ।

२७ - ३९ - वरम् अनादौ कृति इट्प्रतिषेधम् प्रयोजयति ।

२८ - ३९ - ईशिता , ईशितुम् , ईश्वरः ।

२९ - ३९ - व ।

३० - ३९ - र ।

३१ - ३९ - दीपिता , दीपितुम् , दीप्रः ।

३२ - ३९ - र ।

३३ - ३९ - म ।

३४ - ३९ - भसिता , भसितुम् , भस्म ।

३५ - ३९ - म ।

३६ - ३९ - न ।

३७ - ३९ - यतिता , यतितुम् , यत्नः ।

३८ - ३९ - अथ अन्ये ये वशादयः तत्र कथम् ।

३९ - ३९ - उणादयः अव्युत्पन्नानि प्रातिपदिकानि

१ - ४ - तितुत्रेषु अग्रहादीनाम् ।

२ - ४ - तितुत्रेषु अग्रहादीनाम् इति वक्तव्यम् ।

३ - ४ - इह मा भूत् ।

४ - ४ - निगृहितिः , उपस्निहितः , निकुचितिः , निपठितिः इति

१ - १०८ - एकाज्ग्रहणम् किमर्थम् ।

२ - १०८ - एकाज्ग्रहणम् जागर्त्यर्थम् ।

३ - १०८ - एकाज्ग्रहणम् क्रियते जागर्तेः इट्प्रतिषेधः मा भूत् इति ।

४ - १०८ - जागरिता , जागरितुम् ।

५ - १०८ - न एतत् अस्ति प्रयोजनम् ।

६ - १०८ - उपदेशे अनुदात्तात् इति उच्यते जागर्तिः च उपदेशे उदात्तः ।

७ - १०८ - न ब्रूमः इहार्थम् जागर्त्यर्थम् एकाज्ग्रहणम् कर्तव्यम् इति ।

८ - १०८ - किम् तर्हि ।

९ - १०८ - उत्तरार्थम् ।

१० - १०८ - श्र्युकः किति इति इट्प्रतिषेधम् वक्ष्यति सः जागर्तेः मा भूत् ।

११ - १०८ - जागरितः , जागरितवान् इति ।

१२ - १०८ - एतत् अपि न अस्ति प्रयोजनम् ।

१३ - १०८ - जागर्तेः गुणः उच्यते वृद्धिविषये प्रतिषेधविषये च सः बाधकः भविष्यति ।

१४ - १०८ - तत्र गुणे कृते रपरत्वे च कृते अनुगन्तत्वात् इट्प्रतिषेधः न भविष्यति ।

१५ - १०८ - ननु च उपदेशाधिकारात् प्राप्नोति ।

१६ - १०८ - उपदेशग्रहणम् निवर्तयिष्यते ।

१७ - १०८ - यदि निवर्त्यते स्तीर्त्वा , पूर्त्वा , इत्त्वोत्त्वयोः कृतयोः रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति ।

१८ - १०८ - न एषः दोषः ।

१९ - १०८ - आनुपूर्व्या सिद्धम् एतत् ।

२० - १०८ - न अत्र अकृते इट्प्रतिषेधे इत्त्वोत्त्वे प्राप्नुतः ।

२१ - १०८ - किम् कारणम् ।

२२ - १०८ - न क्त्वा सेट् इति कित्त्वप्रतिषेधात् ।

२३ - १०८ - इदम् तर्हि ।

२४ - १०८ - आतिस्तीर्षति , निपुपूर्षति ।

२५ - १०८ - इत्त्वोत्त्वयोः कृतयोः रपरत्वे च्xअ अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति ।

२६ - १०८ - मा भूत् एवम् श्र्युकः किति इति ।

२७ - १०८ - इट् सनि वा इति एवम् भविष्यति ।

२८ - १०८ - इदम् तर्हि ।

२९ - १०८ - आस्तीर्णम् , निपूर्ताः पिण्डाः ।

३० - १०८ - इत्त्वोत्त्वयोः कृतयोः रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न प्राप्नोति ।

३१ - १०८ - मा भूत् एवम् ।

३२ - १०८ - इट् सनि वा इति सनि विभाषा यस्य विभाषा इति प्रतिषेधः भविष्यति ।

३३ - १०८ - इहार्थम् एव तर्हि वध्यर्थम् एकाज्ग्रहणम् कर्तव्यम् ।

३४ - १०८ - वधः इट्प्रतिषेधः मा भूत् इति ।

३५ - १०८ - वधिषीष्ट इति ।

३६ - १०८ - एतत् अपि न अस्ति प्रयोजनम् ।

३७ - १०८ - क्रियमाणे अपि वा एकाज्ग्रहणे वधः इट्प्रतिषेधः प्राप्नोति ।

३८ - १०८ - वधिषीष्ट इति ।

३९ - १०८ - किम् कारणम् ।

४० - १०८ - वधः इट्प्रतिषेधः सन्निपाते एकाच्त्वात् प्रकृतेः च अनुदात्तत्वात् ।

४१ - १०८ - सन्निपाते च एव हि वधिः एकाच् श्रूयते प्रकृतिः च अस्य अनुदात्ता ।

४२ - १०८ - किम् पुनः कारणम् एवम् विज्ञायते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति ।

४३ - १०८ - यङ्लोपार्थम् ।

४४ - १०८ - यङ्लोपे मा भूत् इति ।

४५ - १०८ - बेभिदिता , बेभिदितुम् , चेच्छिदिता , चेच्छिदितुम् ।

४६ - १०८ - एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् अनुदात्तविशेषणम् चेत् कृञादिभ्यः लिटि नियमानुपपत्तिः अप्राप्तत्वात् प्रतिषेधस्य ।

४७ - १०८ - एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् अनुदात्तविशेषणम् चेत् कृञादिभ्यः लिटि नियमस्य अनुपपत्तिः ।

४८ - १०८ - किम् कारणम् ।

४९ - १०८ - अप्राप्तत्वात् प्रतिषेधस्य ।

५० - १०८ - द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति ।

५१ - १०८ - असति इट्प्रतिषेधे नियमः न उपपद्यते ।

५२ - १०८ - असति नियमे कः दोषः ।

५३ - १०८ - तत्र पचादिभ्यः इड्वचनम् ।

५४ - १०८ - तत्र पचादिभ्यः इट् वक्तव्यः ।

५५ - १०८ - पेचिम , शेकिम ।

५६ - १०८ - सनः च इट्प्रतिषेधः ।

५७ - १०८ - सनः च इट्प्रतिषेधः वक्तव्यः ।

५८ - १०८ - बिभित्सति , चिच्छित्सति ।

५९ - १०८ - द्विर्वचने कृते उपदेशे अनुदात्तात् एकाचः श्रूयमाणात् इति इट्प्रतिषेधः न प्राप्नोति ।

६० - १०८ - इह च नीत्तः तत्वे कृते अनच्कत्वात् इट्प्रतिषेधः न प्राप्नोति ।

६१ - १०८ - न एषः दोषः ।

६२ - १०८ - आनुपूर्व्या सिद्धम् एतत् ।

६३ - १०८ - न अत्र अकृते इट्प्रतिषेधे तत्वम् प्राप्नोति ।

६४ - १०८ - किम् कारणम् ।

६५ - १०८ - ति किति इति उच्यते ।

६६ - १०८ - यत् अपि उच्यते एकाचः उपदेशे अनुदात्तात् इति उपदेशवचनम् अनुदात्तविशेषणम् चेत् कृञादिभ्यः लिटि नियमानुपपत्तिः अप्राप्तत्वात् प्रतिषेधस्य इति मा भूत् नियमः ।

६७ - १०८ - ननु च उक्तम् तत्र पचादिभ्यः इड्वचनम् इति ।

६८ - १०८ - न एषः दोषः ।

६९ - १०८ - उक्तम् तत्र थल्ग्रहणस्य प्रयोजनम् समुच्चयः यथा विज्ञायेत थलि च सेटि क्ङिति च सेटि इति ।

७० - १०८ - यत् अपि उच्यते सनः च इट्प्रतिषेधः इति ।

७१ - १०८ - उभयविशेषणत्वात् सिद्धम् ।

७२ - १०८ - उभयम् उपदेशग्रहणेन विशेषयिष्यामः ।

७३ - १०८ - उपदेशे अनुदात्तात् उपदेशे एकाचः इति ।

७४ - १०८ - यङ्लोपे च तदन्तद्विर्वचनात् ।

७५ - १०८ - सन्यङन्तस्य स्थाने द्विर्वचनम् तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः सः भवति यः सः एकाजुपदेशे अनुदात्तः ।

७६ - १०८ - अथ अपि द्विःप्रयोगः द्विर्वचनम् एवम् अपि न दोषः ।

७७ - १०८ - न हि अस्य भिद्युपदेशे उपदेशः ।

७८ - १०८ - अथ अपि भिद्युपदेशे उपदेशः एवम् अपि न दोषः ।

७९ - १०८ - अकारेण व्यवहितत्वात् न भविष्यति ।

८० - १०८ - ननु च लोपे कृते न अस्ति व्यवधानम् ।

८१ - १०८ - स्थानिवद्भावात् व्यवधानम् एव ।

८२ - १०८ - न सिध्यति ।

८३ - १०८ - पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वविधिः ।

८४ - १०८ - एवम् तर्हि पूर्वस्मात् अपि विधिः पूर्वविधिः ।

८५ - १०८ - कः पुनः उपदेशः न्याय्यः ।

८६ - १०८ - यः कृत्स्नः ।

८७ - १०८ - कः च कृत्स्नः ।

८८ - १०८ - यः उभयोः ।

८९ - १०८ - यदि तर्हि यः उभयोः सः कृत्स्नः सः च न्याय्यः वधः इट्प्रतिषेधः प्राप्नोति ।

९० - १०८ - आवधिषीष्ट इति ।

९१ - १०८ - न एषः दोषः ।

९२ - १०८ - आद्युदात्तनिपातनम् करिष्यते सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति ।

९३ - १०८ - एवम् अपि उपदेशिवद्भावः वक्तव्यः ।

९४ - १०८ - यथा एव हि सः निपातनस्वरः प्रकृतिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत आवधिषीष्ट इति ।

९५ - १०८ - न एषः दोषः ।

९६ - १०८ - आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु ।

९७ - १०८ - तत्र आर्धधातुकसामान्ये वधिभावे कृते सतिशिष्टत्वात् प्रत्ययस्वरः भविष्यति ।

९८ - १०८ - अथ के पुनः अनुदात्ताः ।

९९ - १०८ - आदन्ताः , अदरिद्राः ।

१०० - १०८ - इवर्णान्ताः च अश्विश्रिडीशीदीधीवेवीङः ।

१०१ - १०८ - उवर्णान्ताः युरुणुक्षुक्ष्णुस्नूर्णुवर्जम् ।

१०२ - १०८ - ऋदन्ताः च अजागृवृङ्वृञः ।

१०३ - १०८ - शकिः कवर्गान्तानाम् ।

१०४ - १०८ - पचिवचिसिचिमुचिरिचिविचिप्रच्छियजिभजिसृजित्यजिभुजिभ्रस्जिभञ्जिरुजियुजिणिजिविजिसिञ्जिस्वञ्जयः चवर्गान्तानाम् ।

१०५ - १०८ - सदिशदिहदिच्छिदितुदिस्विदिभिदिस्कन्दिक्षुदिखिद्यतिविन्दिविद्यतिराधियुधिबुधिशुधिक्रुधिरुधिसाधिव्यधिबन्धिसिध्यतिहनिमन्यतयः तवर्गान्तानाम् ।

१०६ - १०८ - तपितिपिवपिशपिचुपिलुपिलिपिस्वप्यापिक्षिपिसृपितृपिदृपियभिरभिलभियमिरमिनमिगमयः पवर्गान्तानाम् ।

१०७ - १०८ - रुशिरिशिदिशिविशिलिशिस्पृशिदृशिक्रुशिमृशिदंशित्विषिकृषिश्लिषिविषिपिषितुषिदुषिद्विषिघसिवसिदहिदिहिवहिदुहिनहिरुहिलिहिमिहयः च उष्मान्तानाम् ।

१०८ - १०८ - वसिः प्रसारणी

१ - ९ - कृञः असुटः ।

२ - ९ - कृञः असुटः इति वक्तव्यम् ।

३ - ९ - इह मा भूत् ।

४ - ९ - सञ्चस्करिव , सञ्चस्करिम ।

५ - ९ - तत् तर्हि वक्तव्यम् ।

६ - ९ - न वक्तव्यम् ।

७ - ९ - गुणे कृते रपरत्वे च अनुगन्तत्वात् इट्प्रतिषेधः न भविष्यति ।

८ - ९ - एवम् अपि उपदेशाधिकारात् प्राप्नोति ।

९ - ९ - तस्मात् असुटः इति वक्तव्यम्

१ - ५ - श्विग्रहणम् किमर्थम् न प्रसारणे कृते प्रसारणपूर्वत्वे च उगन्तात् इति एव सिद्धम् ।

२ - ५ - अतः उत्तरम् पठति ।

३ - ५ - श्विग्रहणम् इदन्तत्वात् उपदेशस्य ।

४ - ५ - श्विग्रहणम् क्रियते इदन्तत्वात् उपदेशस्य ।

५ - ५ - उपदेशः उगन्तात् इति उच्यते श्वयतिः च उपदेशः इदन्तः

१ - ८ - यस्य विभाषा अविदेः ।

२ - ८ - यस्य विभाषा अविदेः इति वक्तव्यम् ।

३ - ८ - इह मा भूत् ।

४ - ८ - विदितः , विदितवान् इति ।

५ - ८ - तत् तर्हि वक्तव्यम् ।

६ - ८ - न वक्तव्यम् ।

७ - ८ - यदुपाधेः विभाषा तदुपाधेः प्रतिषेधः ।

८ - ८ - शाब्विकरणस्य विभाषा लुग्विकरणः च अयम्

१ - ६ - किमर्थः योगविभागः न आदितः विभाषा भावादिकर्मणोः इति एव उच्यते ।

२ - ६ - केन इदानीम् कर्तरि प्रतिषेधः भविष्यति ।

३ - ६ - यस्य विभाषा इति अनेन ।

४ - ६ - एवम् तर्हि सिद्धे सति यत् योगविभागम् करोति तत् ज्ञापयति आचार्यः यदुपाधेः विभाषा तदुपाधेः प्रतिषेधः इति ।

५ - ६ - किम् एतस्य ज्ञापने प्रयोजनम् ।

६ - ६ - यस्य विभाषा अविदेः इति उक्तम् तत् न वक्तव्यम् भवति

१ - ३६ - क्षुब्धम् मन्थाभिधाने ।

२ - ३६ - क्षुब्धम् मन्थाभिधाने इति वक्तव्यम् ।

३ - ३६ - क्षुभितम् मन्थेन इति एव अन्यत्र ।

४ - ३६ - क्षुब्ध ।

५ - ३६ - स्वान्त ।

६ - ३६ - स्वान्तम् मनोऽभिधाने ।

७ - ३६ - स्वान्तम् मनोऽभिधाने इति वक्तव्यम् ।

८ - ३६ - स्वनितम् मनसा इति एव अन्यत्र ।

९ - ३६ - स्वान्त ।

१० - ३६ - ध्वान्त ।[ ध्वान्तम् तमोऽभिधाने ।] ध्वान्तम् तमोऽभिधाने इति वक्तव्यम् ।

११ - ३६ - ध्वनितम् तमसा इति एव अन्यत्र ।

१२ - ३६ - [ऋ लग्न ।

१३ - ३६ - लग्नम् सक्ताभिधाने ।

१४ - ३६ - लग्नम् सक्ताभिधाने इति वक्तव्यम् ।

१५ - ३६ - लगितम् सक्तेन इति एव अन्यत्र ।

१६ - ३६ - लग्न ।

१७ - ३६ - म्लिष्ट ।

१८ - ३६ - म्लिष्टम् अविस्पष्टाभिधाने ।

१९ - ३६ - म्लिष्टम् अविस्पष्टाभिधाने इति वक्तव्यम् ।

२० - ३६ - म्लेच्छितम् विस्पष्टेन इति एव अन्यत्र ।

२१ - ३६ - म्लिष्टा ।

२२ - ३६ - विरिब्ध ।

२३ - ३६ - विरिब्धम् स्वराभिधाने ।

२४ - ३६ - विरिब्धम् स्वराभिधाने इति वक्तव्यम् ।

२५ - ३६ - विरेभितम् स्वरेण इति एव अन्यत्र ।

२६ - ३६ - विरिब्ध ।

२७ - ३६ - फाण्ट ।

२८ - ३६ - फाण्टम् अनायासाभिधाने ।

२९ - ३६ - फाण्टम् अनायासाभिधाने इति वक्तव्यम् ।

३० - ३६ - फणितम् एव अन्यत्र ।

३१ - ३६ - फाण्ट ।

३२ - ३६ - बाढ ।

३३ - ३६ - बाढम् बृशाभिधाने ।

३४ - ३६ - बाढम् बृशाभिधाने इति वक्तव्यम् ।

३५ - ३६ - बाहितम् एव अन्यत्र ।

३६ - ३६ - ]

१ - २ - किम् इदम् वैयात्ये इति ।

२ - २ - वियातभावः वैयात्यम्

१ - १५ - दृढनिपातनम् किमर्थम् न दृहेः न इट् भवति इति एव उच्येत ।

२ - १५ - दृढनिपातनम् नकारहकारलोपार्थम् परस्य च डत्वार्थम् ।

३ - १५ - दृढनिपातनम् क्रियते नकारहकारलोपार्थम् ।

४ - १५ - नकारहकारलोपः यथा स्यात् ।

५ - १५ - परस्य च ढत्वार्थम् ।

६ - १५ - परस्य च ढत्वम् यथा स्यात् ।

७ - १५ - अनिड्वचने हि रभावाप्रसिद्धिः अलघुत्वात् ।

८ - १५ - अनिड्वचने हि रभावस्य अप्रसिद्धिः ।

९ - १५ - द्रढीयान् ।

१० - १५ - किम् कारणम् ।

११ - १५ - अलघुत्वात् ।

१२ - १५ - नलोपवचनम् च ।

१३ - १५ - नलोपः च वक्तव्यः ।

१४ - १५ - इह च परिद्रढय्य गतः ल्यपि लघुपूर्वस्य इति अयादेशः न स्यात् ।

१५ - १५ - इह च पारिदृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत

१ - ७ - परिवृढः इति किमर्थम् निपात्यते न परिपूर्वात् वृहेः न इट् भवति इति एव उच्येत ।

२ - ७ - परिवृढनिपातनम् च ।

३ - ७ - किम् ।

४ - ७ - नकारहकारलोपार्थम् परस्य च ढत्वार्थम् अनिड्वचने हि रभावाप्रसिद्धिः अलघुत्वात् नलोपवचनम् च इति एव ।

५ - ७ - परिव्रढीयान् इति रः ऋतः हलादेः लघोः इति रभावः न स्यात् ।

६ - ७ - इह च परिव्रढय्य गतः इति ल्यपि लघुपूर्वस्य इति अयादेशः न स्यात् ।

७ - ७ - इह च पारिवृढी कन्या इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत

१ - ५ - किमर्थम् अविशब्दने इति उच्यते न विशब्दने चुरादिणिचा भवितव्यम् ।

२ - ५ - एवम् तर्हि सिद्धे सति यत् अयम् अविशब्दने इति आह तत् ज्ञापयति आचार्यः विशब्दने घुषेः विभाषा णिच् भवति इति ।

३ - ५ - किम् एतस्य ज्ञापने प्रयोजनम् ।

४ - ५ - महीपालवचः श्रुत्वा जुघुषुः पुष्यमाणवाः ।

५ - ५ - एषः प्रयोगः उपपन्नः भवति

१ - २७ - किम् इदम् अध्ययनाभिधायिकायाम् निष्ठायाम् निपातनम् क्रियते आहोस्वित् अध्ययने चेत् वृतिः वर्तते इति ।

२ - २७ - किम् च अतः ।

३ - २७ - यदि अध्ययनाभिधायिकायाम् निष्ठायाम् निपातनम् क्रियते सिद्धम् वृत्तः गुणः वृत्तम् पारायणम् वृत्तम् गुणस्य वृत्तम् पारायणस्य इति न सिध्यति ।

४ - २७ - अथ विज्ञायते अध्ययने चेत् वृतिः वर्तते इति न दोषः भवति ।

५ - २७ - यथा न दोषः तथा अस्तु ।

६ - २७ - अध्ययने चेत् वृतिः वर्तते इति अपि वै विज्ञायमाने न सिध्यति ।

७ - २७ - किम् कारणम् ।

८ - २७ - वृतिः अयम् अकर्मकः ।

९ - २७ - अकर्मकाः च अपि ण्यन्ताः सकर्मकाः भवन्ति ।

१० - २७ - अकर्म्कः च अत्र वृतिः ।

११ - २७ - कथम् पुनः ज्ञायते अकर्मकः अत्र वृतिः इति ।

१२ - २७ - अकर्मकाणाम् भावे क्तः भवति इति एवम् अत्र भावे क्तः भवति ।

१३ - २७ - तत्र उदितः क्त्वि विभाषा यस्य विभाषा इति इट्प्रतिषेधः भविष्यति ।

१४ - २७ - अथ णिग्रहणम् किमर्थम् ।

१५ - २७ - वृत्तनिपातने णिग्रहणम् अण्यन्तस्य अवधारणप्रतिषेधार्थम् ।

१६ - २७ - वृत्तनिपातने णिग्रहणम् क्रियते अण्यन्तस्य अवधारणम् मा भूत् इति ।

१७ - २७ - कैमर्थक्यात् नियमः भवति ।

१८ - २७ - विधेयम् न अस्ति इति कृत्वा ।

१९ - २७ - इह च अस्ति विधेयम् ।

२० - २७ - किम् ।

२१ - २७ - ण्यधिकात् वृतेः इट्प्रतिषेधः विधेयः ।

२२ - २७ - तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।

२३ - २७ - कुतः नु खलु एतत् अधिकार्थे आरम्भे सति ण्यधिकस्य भविष्यति न पुनः सनधिकस्य वा स्यात् यङधिकस्य वा इति ।

२४ - २७ - तस्मात् णिग्रहणम् कर्तव्यम् ।

२५ - २७ - अथ किमर्थम् निपातनम् क्रियते ।

२६ - २७ - निपातनम् णिल्पेड्गुणप्रतिषेधार्थम् ।

२७ - २७ - निपातनम् क्रियते णिल्पार्थम् इड्गुणप्रतिषेधार्थम् च

१ - १९ - दान्तशान्तयोः किम् निपात्यते ।

२ - १९ - दान्तशान्तयोः उपधादीर्घत्वम् च ।

३ - १९ - किम् च ।

४ - १९ - णिलोपेट्प्रतिषेधौ च ।

५ - १९ - उपधादीर्घत्वम् अनिपात्यम् ।

६ - १९ - वृद्ध्या सिद्धम् ।

७ - १९ - न सिध्यति ।

८ - १९ - मिताम् ह्रस्वः इति ह्रस्वत्वेन भवितव्यम् ।

९ - १९ - एवम् तर्हि अनुनासिकस्य क्विझलोः क्ङिति इति एवम् अत्र दीर्घत्वम् भविष्यति ।

१० - १९ - न सिध्यति ।

११ - १९ - किम् कारणम् ।

१२ - १९ - णिचा व्यवहितत्वात् ।

१३ - १९ - णिलोपे कृते न अस्ति व्यवधानम् ।

१४ - १९ - स्थानिवद्भावात् व्यवधानम् एव ।

१५ - १९ - प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति ।

१६ - १९ - अथ स्पष्टच्छन्नयोः किम् निपात्यते ।

१७ - १९ - स्पष्टच्छन्नयोः उपधाह्रस्वत्वम् च ।

१८ - १९ - किम् च ।

१९ - १९ - णिलोपेट्प्रतिषेधौ

१ - १७ - घुषिस्वनोः वावचनम् इट्प्रतिषेधात् विप्रतिषेधेन ।

२ - १७ - घुषिस्वनोः वावचनम् इट्प्रतिषेधात् भवति विप्रतिषेधेन ।

३ - १७ - घुषेः इट्प्रतिषेधस्य अवकाशः असम्पूर्वात् अविशब्दनम् ।

४ - १७ - घुष्टा रज्जुः , घुष्टः मार्गः ।

५ - १७ - वावचनस्य अवकाशः सम्पूर्वात् विशब्दनम् ।

६ - १७ - सङ्घुष्टम् वाक्यम् , सङ्घुषितम् वाक्यम् ।

७ - १७ - सम्पूर्वात् अविशब्दने उभयम् प्राप्नोति ।

८ - १७ - सङ्घुष्टा रज्जुः , सङ्घुषिता रज्जुः ।

९ - १७ - वावचनम् भवति विप्रतिषेधेन ।

१० - १७ - स्वनः इट्प्रतिषेधस्य अवकाशः अनाङ्पूर्वात् मनोऽभिधानम् ।

११ - १७ - स्वान्तम् मनः ।

१२ - १७ - वावचनस्य अवकाशः अङ्पूर्वात् अमनोऽभिधानम् ।

१३ - १७ - आस्वान्तः देवदत्तः , आस्वनितः देवदत्तः ।

१४ - १७ - आङ्पूर्वात् मनोऽभिधाने उभयम् प्राप्नोति ।

१५ - १७ - आस्वान्तम् मनः ।

१६ - १७ - आस्वनितम् मनः ।

१७ - १७ - वावचनम् भवति विप्रतिषेधेन

१ - ४ - हृषेः लोमकेशकर्तृकस्य इति वक्तव्यम् ।

२ - ४ - हृष्टानि लोमानि , हृषितानि लोमानि , हृष्टम् लोमभिः , हृषितम् लोमभिः , हृष्टाः केशाः , हृषिताः केशाः , हृष्टम् केशैः , हृषितम् केशैः ।

३ - ४ - विस्मितप्रतीघातयोः इति वक्तव्यम् ।

४ - ४ - हृष्टः देवदत्तः , हृषितः देवदत्तः , हृष्टाः दन्ताः , हृषिताः दन्ताः

१ - ५ - अपचितः इति किम् निपात्यते ।

२ - ५ - चायः चिभावः निपात्यते ।

३ - ५ - अपचितः ।

४ - ५ - क्तिनि नित्यम् इति वक्तव्यम् ।

५ - ५ - अपचितिः

१ - ३४ - आर्धधातुकग्रहणम् किमर्थम् ।

२ - ३४ - यथा वलादिग्रहणम् आर्धधातुकविशेषणम् विज्ञायेत ।

३ - ३४ - वलादेः आर्धधातुकस्य इति ।

४ - ३४ - अथ अक्रियमाणे आर्धधातुकग्रहणे कस्य वलादिग्रहणम् विशेषणम् स्यात् ।

५ - ३४ - अङ्गस्य इति वर्तते ।

६ - ३४ - अङ्गविशेषणम् ।

७ - ३४ - तत्र कः दोषः ।

८ - ३४ - अङ्गस्य वलादेः आदितः इट् प्रसज्येत आडाड्वत् ।

९ - ३४ - तत् यथा आडाटौ अङ्गस्य आदितः भवतः तद्वत् ।

१० - ३४ - क्रियमाणे अपि आर्धधातुकग्रहणे अनिष्टम् शक्यम् विज्ञातुम् ।

११ - ३४ - वलादेः आर्धधातुकस्य यत् अङ्गम् इति ।

१२ - ३४ - अक्रियमाणे च इष्टम् ।

१३ - ३४ - अङ्गस्य यः वलादिः इति ।

१४ - ३४ - किम् च अङ्गस्य वलादिः ।

१५ - ३४ - निमित्तम् ।

१६ - ३४ - यस्मिन् अङ्गम् इति एतत् भवति ।

१७ - ३४ - कस्मिन् च एतत् भवति ।

१८ - ३४ - प्रत्यये ।

१९ - ३४ - यावता क्रियमाणे च अनिष्टम् विज्ञायते अक्रियमाणे च इष्टम् तत्र अक्रियमाणे एव इष्टम् विज्ञास्यामः ।

२० - ३४ - इदम् तर्हि प्रयोजनम् ।

२१ - ३४ - इह मा भूत् ।

२२ - ३४ - आस्ते, शेते ।

२३ - ३४ - एतत् अपि न अस्ति प्रयोजनम् ।

२४ - ३४ - रुदादिभ्यः सार्वधातुके इति एतन्नियमार्थम् भविष्यति ।

२५ - ३४ - रुदादिभ्यः एव सार्वधातुकः इट् भवति न अन्येभ्यः इति ।

२६ - ३४ - एवम् अपि वृक्षत्वम् , वृक्षता अत्र प्राप्नोति ।

२७ - ३४ - एवम् तर्हि विहितविशेषणम् धातुग्रहणम् ।

२८ - ३४ - धातोः यः विहितः ।

२९ - ३४ - ननु धातोः एव अयम् विहितः ।

३० - ३४ - न च अयम् धातोः इति एवम् विहितः ।

३१ - ३४ - क्व पुनः धातुग्रहणम् प्रकृतम् ।

३२ - ३४ - ऋतः इत् धातोः इति ।

३३ - ३४ - तत् वै षष्ठीनिर्दिष्टम् पञ्चमीनिर्दिष्टेन च इह विहितः शक्यते विशेषयितुम् ।

३४ - ३४ - अथ इदानीम् षष्ठीनिर्दिष्टेन च अपि विहितः शक्यते विशेषयितुम् शक्यम् आर्धधातुकग्रहणम् अकर्तुम् इति

१ - ५६ - स्नुक्रमोः अनात्मनेपदनिमित्ते चेत् कृति उपसङ्ख्यानम् ।

२ - ५६ - स्नुक्रमोः अनात्मनेपदनिमित्ते चेत् कृति उपसङ्ख्यानम् कर्तव्यम् ।

३ - ५६ - प्रस्नविता , प्रस्नवितुम् , प्रस्नवितव्यम् , प्रक्रमिता , प्रक्रमितुम् , प्रक्रमितव्यम् ।

४ - ५६ - तत् तर्हि वक्तव्यम् ।

५ - ५६ - न वक्तव्यम् ।

६ - ५६ - अविशेषेण स्नुक्रमोः इडागमम् उक्त्वा आत्मनेपदपरे न इति वक्ष्यामि ।

७ - ५६ - आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः ।

८ - ५६ - आत्मनेपदपरप्रतिषेधे च तत्परपरसीयुडेकादेशेषु प्रतिषेधः वक्तव्यः ।

९ - ५६ - तत्परपरे तावत् प्रसुस्नूषिष्यते , प्रचिक्रंसिष्यते ।

१० - ५६ - सीयुटि प्रस्नोषीष्त , प्रक्रंसीष्ट ।

११ - ५६ - एकादेशे ।

१२ - ५६ - प्रस्नोष्यन्ते , प्रक्रंस्यन्ते ।

१३ - ५६ - एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति ।

१४ - ५६ - अन्तादिवद्भावेन व्यपवर्गः ।

१५ - ५६ - उभयतः आश्रये न अन्तादिवत् ।

१६ - ५६ - एवम् तर्हि एकादेशः पूर्वविधिम् प्रति स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः ।

१७ - ५६ - तत्परपरसीयुटोः तर्हि प्रतिषेधः वक्तव्यः ।

१८ - ५६ - सिद्धम् तु स्नोः आत्मनेपदेन समानपदस्थस्य इट्प्रतिषेधात् ।

१९ - ५६ - सिद्धम् एतत् ।

२० - ५६ - कथम् ।

२१ - ५६ - स्नोः आत्मनेपदेन समानपदस्थस्य न इट् भवति इति वक्तव्यम् ।

२२ - ५६ - यदि स्नोः आत्मनेपदेन समानपदस्थस्य इट् न भवति इति उच्यते प्रस्नविता इव आचरति प्रस्नवित्रीयते अत्र न प्राप्नोति ।

२३ - ५६ - बहिरङ्गलक्षणम् अत्र आत्मनेपदम् ।

२४ - ५६ - क्रमोः च ।

२५ - ५६ - क्रमोः च आत्मनेपदेन समानपदस्थस्य इट् न भवति इति वक्तव्यम् ।

२६ - ५६ - अथ किमर्थम् क्रमेः पृथग्ग्रहणम् क्रियते न स्नुक्रमिभ्याम् इति एव उच्येत ।

२७ - ५६ - कर्तरि च आत्मनेपदविषयात् कृति न इति वक्ष्यत्गि तत् क्रमेः एव स्यात् स्नोः मा भूत् ।

२८ - ५६ - व्यतिप्रस्नवितारौ , व्यतिप्रस्नतिवारः ।

२९ - ५६ - कर्तरि च आत्मनेपदविषयात् कृति ।

३० - ५६ - कर्तरि च आत्मनेपदविषयात् कृति प्रतिषेधः वक्तव्यः ।

३१ - ५६ - प्रक्रन्ता , उपक्रन्ता ।

३२ - ५६ - तत् तर्हि इदम् बहु वक्तव्यम् ।

३३ - ५६ - स्नोः आत्मनेपदेन समानपदस्थस्य इट् न भवति इति वक्तव्यम् ।

३४ - ५६ - क्रमेः च इति वक्तव्यम् ।

३५ - ५६ - कर्तरि च आत्मनेपदविषयात् कृति इति वक्तव्यम् ।

३६ - ५६ - सूत्रम् च भिद्यते ।

३७ - ५६ - यथान्यासम् एव अस्तु ।

३८ - ५६ - ननु च उक्तम् स्नुक्रमोः अनात्मनेपदनिमित्ते चेत् कृति उपसङ्ख्यानम् इति ।

३९ - ५६ - न एषः दोषः ।

४० - ५६ - स्नुक्रमी एव आत्मनेपदनिमित्तत्वेन विशेषयिष्यामः ।

४१ - ५६ - न चेत् स्नुक्रमी आत्मनेपदस्य निमित्ते इति ।

४२ - ५६ - कथम् पुनः धातुः नाम आत्मनेपदस्य निमित्तम् स्यात् ।

४३ - ५६ - धातुः एव निमित्तम् ।

४४ - ५६ - आह हि भगवान् अनुदात्तङितः आत्मनेपदम् शेषात् कर्तरि परस्मैपदम् इति ।

४५ - ५६ - यत्र तर्हि धातुः न आश्रीयते भावकर्मणोः इति ।

४६ - ५६ - अत्र अपि धातुः एव आश्रीयते ।

४७ - ५६ - भावकर्मवृत्तात् धातोः इति ।

४८ - ५६ - कथम् प्रक्रमितव्यम् ।

४९ - ५६ - सति आत्मनेपदे निमित्तशब्दः वर्तते ।

५० - ५६ - कथम् प्रक्रन्ता , उपक्रन्ता ।

५१ - ५६ - तस्मात् असति अपि ।

५२ - ५६ - कथम् प्रक्रमितव्यम् ।

५३ - ५६ - तस्मात् सति एव ।

५४ - ५६ - कथम् प्रक्रन्ता , उपक्रन्ता ।

५५ - ५६ - वक्तव्यम् एव एतत् कर्तरि च आत्मनेपदविषयात् कृति इति ।

५६ - ५६ - अथ वा कृति इति वर्तते

१ - ७६ - ग्रहेः दीर्घत्वे इड्ग्रहणम् ।

२ - ७६ - ग्रहेः दीर्घत्वे इड्ग्रहणम् कर्तव्यम् ।

३ - ७६ - इटः दीर्घः इति वक्तव्यम् ।

४ - ७६ - न वक्तव्यम् ।

५ - ७६ - प्रकृतम् अनुवर्तते ।

६ - ७६ - क्व प्रकृतम् ।

७ - ७६ - आर्धधातुकस्य इट् वलादेः इति ।

८ - ७६ - एवम् अपि कर्तव्यम् एव ।

९ - ७६ - अग्रहणे हि असम्प्रत्ययः षष्ठ्यभावात् ।

१० - ७६ - अक्रियमाणे हि इड्ग्रहणे असम्प्रत्ययः स्यात् ।

११ - ७६ - किम् कारणम् ।

१२ - ७६ - षष्ठ्यभावात् ।

१३ - ७६ - षष्ठीनिर्दिष्टस्य आदेशाः उच्यन्ते न च अत्र षष्ठीम् पश्यामः ।

१४ - ७६ - क्रियमाणे च अपि इड्ग्रहणे ।

१५ - ७६ - चिण्वदिटः प्रतिषेधः ।

१६ - ७६ - चिङ्वदितः प्रतिषेधः वक्तव्यः ।

१७ - ७६ - ग्राहिष्यते ।

१८ - ७६ - यङ्लोपे च ।

१९ - ७६ - यङ्लोपे च प्रतिषेधः वक्तव्यः ।

२० - ७६ - जरीगृहिता , जरीगृहितुम् , जरीगृहितव्यम् ।

२१ - ७६ - यदि पुनः इट् दीर्घः आगमान्तरम् विज्ञायेत ।

२२ - ७६ - इट् दीर्घः इति चेत् विप्रतिषिद्धम् ।

२३ - ७६ - इट् दीर्घः इति चेत् विप्रतिषिद्धम् भवति ।

२४ - ७६ - यदि इट् न दीर्घः ।

२५ - ७६ - अथ दीर्घः न इट् ।

२६ - ७६ - इट् दीर्घः च इति विप्रतिषिद्धम् ।

२७ - ७६ - प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वाभावः ।

२८ - ७६ - प्रतिषिद्धस्य च पुनर्विधाने दीर्घत्वस्य अभावः ।

२९ - ७६ - वुवूर्षते , विवरिषते , ववरीषते ।

३० - ७६ - अत्र अपि इट् दीर्घः इति अनुवर्तिष्यते ।

३१ - ७६ - यत् तर्हि विदेशस्थम् प्रतिषिध्य पुनर्विधानम् तत् न सिध्यति ।

३२ - ७६ - जृ̄व्रश्च्योः क्त्वि ।

३३ - ७६ - श्र्युकः किति इति अनेन प्रतिषिद्धे दीर्घत्वम् न प्राप्नोति ।

३४ - ७६ - जरित्वा , जरीत्वा ।

३५ - ७६ - ईटः विधिः इटः प्रतिषेधः ।

३६ - ७६ - यथाप्राप्तः इट् दीर्घः भविष्यति ।

३७ - ७६ - यदि तर्हि इटः ग्रहणे ईटः ग्रहणम् न भवति जरीत्वा न क्त्वा सेट् इति कित्त्वप्रतिषेधः न प्राप्नोति ।

३८ - ७६ - इह च अग्र्हीत् इति इटः ईटि इति सिज्लोपः न प्राप्नोति ।

३९ - ७६ - इह च अग्रहीत् न इटि इति वृद्धिप्रतिषेधः न प्राप्नोति ।

४० - ७६ - मा भूत् एवम् ।

४१ - ७६ - ह्म्यन्तानाम् इति एवम् भविष्यति ।

४२ - ७६ - अत्र अपि न इट् इति एव अनुवर्तते ।

४३ - ७६ - तत् च अवश्यम् इड्ग्रहणम् अनुवर्त्यम् अधाक्षीत् इति एवमर्थम् ।

४४ - ७६ - तथा अग्रहीध्वम् , अग्रहीढ्वम् विभाषा इटः इति मूर्धन्यः न प्राप्नोति ।

४५ - ७६ - तस्मात् न एवम् शक्यम् वक्तुम् इटः ग्रहणे ईटः ग्रहणम् न भवति इति ।

४६ - ७६ - भवति चेत् प्रतिषिद्धस्य च पुनर्विधाने दीर्घाभावः इति एव ।

४७ - ७६ - तस्मात् अशक्यः इट् दीर्घः आगमान्तरम् विज्ञातुम् ।

४८ - ७६ - न चेत् विज्ञायते इटः ग्रहणम् कर्तव्यम् ।

४९ - ७६ - न कर्तव्यम् ।

५० - ७६ - आर्धधातुकस्य इति वर्तते ।

५१ - ७६ - ग्रहः परस्य आर्धधातुकस्य दीर्घत्वम् वक्ष्यामि ।

५२ - ७६ - इह अपि तर्हि प्राप्नोति ।

५३ - ७६ - ग्रहणम् , ग्रहणीयम् ।

५४ - ७६ - वलादेः इति वर्तते ।

५५ - ७६ - एवम् अपि ग्रहीता , ग्रहीतुम् अत्र न प्राप्नोति ।

५६ - ७६ - भूतपूर्वगत्या भविष्यति ।

५७ - ७६ - एवम् अपि ग्राहकः अत्र प्राप्नोति ।

५८ - ७६ - किम् च इट्प्रतीघातेन खलु अपि दीर्घत्वम् उच्यमानम् इटम् बाधते ।

५९ - ७६ - तस्मात् इटः ग्रहणम् कर्तव्यम् ।

६० - ७६ - न कर्तव्यम् ।

६१ - ७६ - प्रकृतम् अनुवर्तते ।

६२ - ७६ - क्व प्रकृतम् ।

६३ - ७६ - आर्धधातुकस्य इट् वलादेः इति ।

६४ - ७६ - ननु च उक्तम् एवम् अपि कर्तव्यम् एव अग्रहणे हि असम्प्रत्ययः षष्ठ्यनिर्देशात् इति ।

६५ - ७६ - न एषः दोषः ।

६६ - ७६ - ग्र्हः इति एषा पञ्चमी इट् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

६७ - ७६ - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् चिण्वदिटः प्रतिषेधः इति ।

६८ - ७६ - कथम् ।

६९ - ७६ - प्रकृतस्य इटः इदम् दीर्घत्वम् न च चिण्वदिट् प्रकृतः ।

७० - ७६ - यङ्लोपे कथम् ।

७१ - ७६ - यङ्लोपे च उक्तम् इटि सर्वत्र ।

७२ - ७६ - क्व सर्वत्र ।

७३ - ७६ - यदि एव प्रकृतस्य इटः दीर्घत्वम् अथ अपि इट् दीर्घः आगमान्तरम् विज्ञायेत ।

७४ - ७६ - यङ्लोपे च उक्तम् ।

७५ - ७६ - किम् उक्तम् ।

७६ - ७६ - तदन्तद्विर्वचनात् इति

१ - ३६ - अथ वा इति वर्तमाने पुनः वावचनम् किमर्थम् ।

२ - ३६ - पुनः वावचनम् क्रियते लिङ्सिचोः निवृत्त्यर्थम् ।

३ - ३६ - पुनः वावचनम् क्रियते लिङ्सिचोः निवृत्त्यर्थम् ।

४ - ३६ - अथ किमर्थम् सूतिसूयत्योः पृथग्ग्रहणम् क्रियते ।

५ - ३६ - सुवतेः मा भूत् ।

६ - ३६ - अथ किमर्थम् धूञः सानुबन्धकस्य ग्रहणम् क्रियते ।

७ - ३६ - धुवतेः मा भूत् इति ।

८ - ३६ - किम् पुनः इयम् प्राप्ते विभाषा आहोस्वित् अप्राप्ते ।

९ - ३६ - कथम् च प्राप्ते कथम् वा अप्राप्ते ।

१० - ३६ - यदि स्वरतिः उदात्तः ततः प्राप्ते ।

११ - ३६ - अथ अनुदात्तः ततः अप्राप्ते ।

१२ - ३६ - स्वरतिः उदात्तः ।

१३ - ३६ - स्वरतिः उदात्तः पठ्यते ।

१४ - ३६ - किमर्थम् तर्हि वावचनम् ।

१५ - ३६ - वावचनम् निवृत्त्यर्थम् ।

१६ - ३६ - वावचनम् क्रियते निवृत्त्यर्थम् ।

१७ - ३६ - अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनः विधानात् ।

१८ - ३६ - अनुदात्ते हि सति किति विभाषा प्रसज्येत ।

१९ - ३६ - स्वृत्वा ।

२० - ३६ - प्रतिषिध्य पुनः विधानात् ।

२१ - ३६ - प्रतिषिध्य किल अयम् पुनः विधीयते ।

२२ - ३६ - सः यथा एव एकाज्लक्षणम् प्रतिषेधम् बाधते एवम् श्र्युकः किति इति एतम् अपि बाधेत ।

२३ - ३६ - यदि तर्हि उदात्तः स्वरतिः पठिष्यति विप्रतिषेधम् स्वरतेः वेट्त्वात् ऋतः स्ये विप्रतिषेधेन इति सः विप्रतिषेधः न उपपद्यते ।

२४ - ३६ - किम् कारणम् ।

२५ - ३६ - सः विधिः अयम् प्रतिषेधः विधिप्रतिषेधयोः च अयुक्तः विप्रतिषेधः ।

२६ - ३६ - सः अपि विधिः न मृदूनाम् इव कार्पासानाम् कृतः प्रतिषेधविषये आरभ्यते ।

२७ - ३६ - सः यथा एव एकाज्लक्षणम् प्रतिषेधम् बाधते एवम् इमम् अपि बाधिष्यते ।

२८ - ३६ - अथ वा येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते वलादिलक्षणे इयम् विभाषा आरभ्यते स्यलक्षणे पुनः प्राप्ते च अप्राप्ते च ।

२९ - ३६ - अथ वा मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयम् विभाषा वलादिलक्षणम् इटम् बाधिष्यते स्यलक्षणम् न बाधिष्यते ।

३० - ३६ - अथ वा पुनः अस्तु अनुदात्तः ।

३१ - ३६ - ननु च उक्तम् अनुदात्ते हि किति वाप्रसङ्गः प्रतिषिध्य पुनः विधानात् इति ।

३२ - ३६ - न एषः दोषः ।

३३ - ३६ - येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते एकाज्लक्षणे प्रतिषेधे इयम् विभाषा आरभ्यते श्र्युकः किति इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च ।

३४ - ३६ - अथ वा श्र्युकः किति इति एषः योगः उदात्तार्थः च येभ्यः च अनुदात्तेभ्यः इट् प्राप्यते तद्बाधनार्थः च ।

३५ - ३६ - अथ वा श्र्युकः किति इति इह अनुवर्तिष्यते ।

३६ - ३६ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति न इयम् विभाषा उग्लक्षणस्य प्रतिषेधस्य विषये भवति इति यत् अयम् सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् इति स्वृग्रहणम् करोति

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP