पाद २ - खण्ड ७८

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ९ - इट् इति वर्तमाने पुनः इड्ग्रहणम् किमर्थम् ।

२ - ९ - इड्ग्रहणम् नित्यार्थम् ।

३ - ९ - नित्यः अयम् आरम्भः ।

४ - ९ - न एतत् अस्ति प्रयोजनम् ।

५ - ९ - सिद्धा अत्र विभषा पूर्वेण एव तत्र आरम्भसामर्थ्यात् नित्यः विधिः भविष्यति ।

६ - ९ - न अत्र पूर्वेण विभाषा प्राप्नोति ।

७ - ९ - किम् कारणम् ।

८ - ९ - यस्य विभाषा इति प्रतिषेधात् ।

९ - ९ - तत्र आरम्भसामर्थ्यात् विभषा लभ्येत पुनः इड्ग्रहणात् इट् एव भवति

१ - ४ - इषेः तकारे श्यन्प्रत्ययात् प्रतिषेधः ।

२ - ४ - इषेः तकारे श्यन्प्रत्ययात् प्रतिषेधः वक्तव्यः ।

३ - ४ - इह मा भूत् ।

४ - ४ - प्रेषिता , प्रेषितुम् , प्रेषितव्यम्

१ - ४ - इट् इति वर्तमाने पुनः इड्ग्रहणम् किमर्थम् ।

२ - ४ - पुनः इड्ग्रहणम् नित्यार्थम् ।

३ - ४ - इट् इति वर्तमाने पुनः इड्ग्रहणम् क्रियते नित्यार्थम् ।

४ - ४ - नित्यार्थः अयम् आरम्भः

१ - २१ - गमेः इट् परस्मैपदेषु चेत् कृति उपसङ्ख्यानम् ।

२ - २१ - गमेः इट् परस्मैपदेषु चेत् कृति उपसङ्ख्यानम् कर्तव्यम् ।

३ - २१ - जिगमिषिता , जिगमिषितुम् , जिगमिषितव्यम् ।

४ - २१ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

५ - २१ - न कर्तव्यम् ।

६ - २१ - अविशेषेण गमेः इडागमम् उक्त्वा आत्मनेपदपरे न इति वक्ष्यामि ।

७ - २१ - आत्मनेपदपरप्रतिषेधे उक्तम् ।

८ - २१ - किम् उक्तम् ।

९ - २१ - आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः इति ।

१० - २१ - इह अपि आत्मनेपदपरप्रतिषेधे तत्परपरसीयुडेकादेशेषु प्रतिषेधः वक्तव्यः ।

११ - २१ - तपरपरे तावत् ।

१२ - २१ - सङ्जिगंसिष्यते ।

१३ - २१ - सीयुटि ।

१४ - २१ - सङ्गंसीष्ट ।

१५ - २१ - एकादेशे ।

१६ - २१ - सङ्गंस्यन्ते ।

१७ - २१ - एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति ।

१८ - २१ - सिद्धम् तु गमेः आत्मनेपदेन समानपदस्थस्य इट्प्रतिषेधात् ।

१९ - २१ - सिद्धम् एतत् ।

२० - २१ - कथम् ।

२१ - २१ - गमेः आत्मनेपदेन समानपदस्थेण न भवति इति वक्तव्यम्

१ - ३६ - वृतादिप्रतिषेधे च ।

२ - ३६ - किम् ।

३ - ३६ - कृति उपसङ्ख्यानम् कर्तव्यम् विवृत्सिता विवृत्सितुम् , विवृत्सितव्यम् ।

४ - ३६ - तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् ।

५ - ३६ - न कर्तव्यम् ।

६ - ३६ - अविशेषेण वृतादिभ्यः इट्प्रतिषेधम् उक्त्वा आत्मनेपदपरः इट् भवति इति वक्ष्यामि ।

७ - ३६ - आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इड्वचनम् ।

८ - ३६ - आत्मनेपदपरे इड्वचने तत्परपरसीयुडेकादेशेषु इट् वक्तव्यः ।

९ - ३६ - तपरपरे तावत् ।

१० - ३६ - विवर्तिषिष्यते ।

११ - ३६ - सीयुटि ।

१२ - ३६ - वर्तिषीष्ट ।

१३ - ३६ - एकादेशे ।

१४ - ३६ - वर्तिष्यन्ते , वर्धिष्यन्ते ।

१५ - ३६ - सिद्धम् तु वृतादीनाम् आत्मनेपदेन समानपदस्थस्य इड्वचनात् ।

१६ - ३६ - सिद्धम् एतत् ।

१७ - ३६ - कथम् ।

१८ - ३६ - वृतादीनाम् आत्मनेपदेन समानप्दस्थस्य इट् भवति इति वक्तव्यम् ।

१९ - ३६ - चतुस्तासिक्ल्̥पिग्रहणानर्थक्यम् च ।

२० - ३६ - चतुर्ग्रहणम् च अनर्थकम् ।

२१ - ३६ - सर्वेभ्यः हि वृतादिभ्यः प्रतिषेधः इष्यते ।

२२ - ३६ - तासिग्रहणम् च अनर्थकम् ।

२३ - ३६ - किम् कारणम् ।

२४ - ३६ - निवृत्तत्वात् सकारस्य ।

२५ - ३६ - निवृत्तम् सकारादौ इति ।

२६ - ३६ - तास्ग्रहणे च इदानीम् अक्रियमाणे क्ल्̥पिग्रहणेन अपि न अर्थः एषः अपि हि वृतादिः पञ्चमः ।

२७ - ३६ - भवेत् क्ल्̥पिग्रहणम् न कर्तव्यम् तास्ग्रहणम् तु कर्तव्यम् ।

२८ - ३६ - यत् हि तत् सकारादौ इति न तत् शक्यम् निवर्तयितुम् तृचि अपि हि प्रसज्येत ।

२९ - ३६ - वर्तिता , वर्धिता ।

३० - ३६ - तास्ग्रहणे च इदानीम् क्रियमाणे क्ल्̥पिग्रहणम् अपि कर्तव्यम् अन्येभ्यः अपि वृतादिभ्यः तासौ मा भूत् इति ।

३१ - ३६ - भवेत् तास्ग्रहणम् कर्तव्यम् क्ल्̥पिग्रहणम् तु न एव कर्तव्यम् ।

३२ - ३६ - अन्येभ्यः अपि वृतादिभ्यः तासौ कस्मात् न भवति ।

३३ - ३६ - परस्मैपदेषु इति वर्तते क्ल्̥पेः एव च तास्परस्मैपदपरः न अन्येभ्यः वृतादिभ्यः ।

३४ - ३६ - यदि एवम् तास्ग्रहणेन अपि न अर्थः ।

३५ - ३६ - तृचि कस्मात् न भवति ।

३६ - ३६ - परस्मैपदेषु इति वर्तते

१ - ३८ - तासौ अत्वत्प्रतिषेधे घसेः प्रतिषेधप्रसङ्गः अकारवत्त्वात् ।

२ - ३८ - तासौ अत्वत्प्रतिषेधे घसेः प्रतिषेधः प्राप्नोति ।

३ - ३८ - जघसिथ ।

४ - ३८ - किम् कारणम् ।

५ - ३८ - अकारवत्त्वात् ।

६ - ३८ - सः अपि हि अकारवान् ।

७ - ३८ - सिद्धम् तु हलादिग्रहणात् ।

८ - ३८ - सिद्धम् एतत् ।

९ - ३८ - कथम् ।

१० - ३८ - हलादिग्रहणम् कर्तव्यम् ।

११ - ३८ - तत् च अवश्यम् कर्तव्यम् ।

१२ - ३८ - अठ्यशी प्रयोजयतः ।

१३ - ३८ - आथ्यशी तावत् न प्रयोजयतः ।

१४ - ३८ - किम् कारणम् ।

१५ - ३८ - तासौ अनिटः इति उच्यते सेटौ च इमौ तासौ ।

१६ - ३८ - अञ्ज्वशू तर्हि प्रयोजयतः ।

१७ - ३८ - अञ्ज्वशू च अपि न प्रयोजयतः ।

१८ - ३८ - किम् कारणम् ।

१९ - ३८ - तासौ नित्यानिटः इति उच्यते विभाषितेटौ च एतौ ।

२० - ३८ - अदिः तर्हि प्रयोजयति ।

२१ - ३८ - आदिथ ।

२२ - ३८ - क्रियमाणे अपि वै हलादिग्रहणे अत्र प्राप्नोति ।

२३ - ३८ - जघसिथ ।

२४ - ३८ - एषः अपि हलादिः ।

२५ - ३८ - तस्य च अभावात् तासौ ।

२६ - ३८ - तासौ अनिटः इति उच्यते न च घसिः तासौ अस्ति ।

२७ - ३८ - ननु च यः तासौ न अस्ति अनिट् अपि असौ तासौ भवति ।

२८ - ३८ - न एवम् विज्ञायते यः तासौ अनिट् इति ।

२९ - ३८ - कथम् तर्हि ।

३० - ३८ - यः तासौ अस्ति अनिट् च इति ।

३१ - ३८ - किम् वक्तव्यम् एतत् ।

३२ - ३८ - न हि ।

३३ - ३८ - कथम् अनुच्यमानम् गंस्यते ।

३४ - ३८ - सप्तम्यर्थे अपि वै वतिः भवति ।

३५ - ३८ - तत् यथा ।

३६ - ३८ - मथुरायाम् इव मथुरावत् ।

३७ - ३८ - पाटलिपुत्रे इव पाटलिपुत्रवत् ।

३८ - ३८ - एवम् तासौ इव तास्वत्

१ - २५ - किमर्थम् इदम् उच्यते न अचः तास्वत् थलि अनिटः नित्यम् इति एव सिद्धम् ।

२ - २५ - एवम् तर्हि नियमार्थः अयम् आरम्भः ।

३ - २५ - ऋतः एव भारद्वाजस्य न अन्यतः भारद्वाजस्य इति ।

४ - २५ - क्व मा भूत् ।

५ - २५ - ययिथ , वविथ इति ।

६ - २५ - ऋतः भारद्वाजस्य इति नियमानुपपत्तिः अप्राप्तत्वात् प्रतिषेधस्य ।

७ - २५ - ऋतः भारद्वाजस्य इति नियमानुपपत्तिः ।

८ - २५ - किम् कारणम् ।

९ - २५ - अप्राप्तत्वात् प्रतिषेधस्य ।

१० - २५ - गुणे कृते रपरत्वे च अनजन्तत्वात् प्रतिषेधः न प्राप्नोति ।

११ - २५ - असति नियमे कः दोषः ।

१२ - २५ - तत्र पचादिभ्यः इड्वचनम् ।

१३ - २५ - तत्र पचादिभ्यः इट् वक्तव्यः ।

१४ - २५ - पेचिथ , शेकिथ इति ।

१५ - २५ - यदिः पुनः अयम् भारद्वाजः पुरस्तात् अपकृष्येत ।

१६ - २५ - अचः तास्वत् थलि अनिटः नित्यम् भारद्वाजस्य ।

१७ - २५ - उपदेशे अत्वतः भारद्वाजस्य ।

१८ - २५ - ततः ऋतः ।

१९ - २५ - भारद्वाजस्य इति निवृत्तम् ।

२० - २५ - सिध्यते एवम् अयम् तु भारद्वाजः स्वस्मात् मतात् प्रच्यावितः भवति ।

२१ - २५ - एवम् तर्हि योगविभागात् सिद्धम् ।

२२ - २५ - योगविभागः करिष्यते ।

२३ - २५ - अचः तास्वत् थलि अनिटः नित्यम् उपदेशे ।

२४ - २५ - ततः अत्वतः ।

२५ - २५ - अत्वतः च उपदेशे इति

१ - ५ - वृग्रहणम् किमर्थम् न कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एव सिद्धम् ।

२ - ५ - एवम् तर्हि नियमार्थः अयम् आरम्भः ।

३ - ५ - निगमः एव यथा स्यात् ।

४ - ५ - क्व मा भूत् ।

५ - ५ - ववरिथ

१ - २५ - किमर्थम् इदम् उच्यते ।

२ - २५ - वस्वेकाजाद्घसांवचनम् नियमार्थम् ।

३ - २५ - नियमार्थः अयम् आरम्भः ।

४ - २५ - वसौ एकाजात् घसाम् एव ।

५ - २५ - क्व मा भूत् ।

६ - २५ - बिभिद्वान् ।

७ - २५ - किम् उच्यते नियमार्थम् इति न पुनः विध्यर्थः अपि स्यात् ।

८ - २५ - प्रतिषेधः अपि हि अत्र प्राप्नोति न इट् वशि कृति इति ।

९ - २५ - कृत् च एव हि अयम् वशादिः च ।

१० - २५ - एवम् तर्हि कृसृभृवृस्तुद्रुश्रुस्रुवः लिटि इति एतस्मात् नियमात् अत्र इट् भविष्यति ।

११ - २५ - न अत्र तेन परिप्रापणम् प्राप्नोति ।

१२ - २५ - किम् कारणम् ।

१३ - २५ - प्रकृतिलक्षणस्य प्रतिषेधस्य सः प्रत्यारम्भः प्रत्ययलक्षणः च अयम् प्रतिषेधः ।

१४ - २५ - उभयोः सः प्रत्यारम्भः ।

१५ - २५ - कथम् ज्ञायते ।

१६ - २५ - वृङ्वृञोः ग्रहणात् ।

१७ - २५ - कथम् कृत्वा ज्ञापकम् ।

१८ - २५ - इमौ वृङ्वृञौ उदात्तौ तयोः प्रकृतिलक्षणः प्रतिषेधः न प्राप्नोति ।

१९ - २५ - पश्यति तु आचार्यः उभयोः सः प्रत्यारम्भः इति ततः वृङ्वृञोः ग्रहणम् करोति ।

२० - २५ - न खलु अपि कः चित् उभयवान् प्रतिषेधः प्रकृतिलक्षणः प्रत्ययलक्षणः च ।

२१ - २५ - तुल्यजातीये असति यथा एव प्रकृतिलक्षणसय नियामकः भवति एवम् प्रत्ययलक्षणस्य अपि नियामकः भविष्यति ।

२२ - २५ - अथ यावता वसौ एकाज्भ्यः इटा भवितव्यम् कः नु अत्र विशेषः नियमार्थे वा सति विध्यर्थे वा ।

२३ - २५ - न खलु कः चित् विशेषः ।

२४ - २५ - आहोपुरुषिकामात्रम् तु भवान् आह विध्यर्थम् इति ।

२५ - २५ - वयम् तु ब्रूमः नियमार्थम् इति

१ - २५ - अथ एकाज्ग्रहणम् किमर्थम् ।

२ - २५ - इह मा भूत् ।

३ - २५ - बिभिद्वान् , चिच्छिद्वान् इति ।

४ - २५ - क्रियमाणे अपि वा एकाज्ग्रहणे अत्र प्राप्नोति ।

५ - २५ - एषः अपि हि एकाच् ।

६ - २५ - एवम् तर्हि कृते द्विर्वचने यः एकाच् ।

७ - २५ - किम् वक्तव्यम् एतत् ।

८ - २५ - न हि ।

९ - २५ - कथम् अनुच्यमानम् गंस्यते ।

१० - २५ - एकाज्ग्रहणसामर्थ्यात् ।

११ - २५ - न हि कः चित् अकृते चिर्वचने एनकाच् अस्ति यदर्थम् एकाज्ग्रहणम् क्रियते ।

१२ - २५ - ननु च अयम् अस्ति जागर्तिः ।

१३ - २५ - गागृवांसः अनु ग्मन् ।

१४ - २५ - यत् तर्हि आकारग्रहणम् करोति न हि कः चित् अकृते द्विर्वचने आकारान्तः अनेकाच् अस्ति ।

१५ - २५ - ननु च अयम् अस्ति दरिद्रातिः ।

१६ - २५ - न दरिद्रातेः इटा भवितव्यम् ।

१७ - २५ - किम् कारणम् ।

१८ - २५ - उक्तम् एतत् दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति ।

१९ - २५ - यः च इदानीम् प्रत्ययविधौ सिद्धः सिद्धः असौ इड्विधौ ।

२० - २५ - एवम् अपि भूतपूर्वगतिः विज्ञायेत ।

२१ - २५ - आकारान्तः यः भूतपूर्वः इति ।

२२ - २५ - एकाज्ग्रहणम् एव तर्हि ज्ञापकम् ।

२३ - २५ - ननु च उक्तम् जागर्त्यर्थम् एतत् स्यात् ।

२४ - २५ - न एकम् उदाहरणम् एकाज्ग्रहणम् प्रयोजयति ।

२५ - २५ - यदि एतावत् प्रयोजनम् स्यात् जागर्तेः न इति एव भ्रूयात्

१ - २४ - अथ घसिग्रहणम् किमर्थ न एकाच् इति एव सिद्धम् ।

२ - २४ - घसिग्रहणम् अनच्कत्वात् ।

३ - २४ - घसिग्रहणम् क्रियते लोपे कृते अनच्कत्वात् इट् न प्राप्नोति ।

४ - २४ - इदम् इह सम्प्रधार्यम् ।

५ - २४ - इट् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

६ - २४ - परत्वात् इडागमः ।

७ - २४ - नित्यः लोपः ।

८ - २४ - कृते अपि इटि प्राप्नोति अकृते अपि ।

९ - २४ - इट् अपि नित्यः ।

१० - २४ - कृते अपि लोपे प्राप्नोति अकृते अपि ।

११ - २४ - अनित्यः इट् न हि कृते लोपे प्राप्नोति ।

१२ - २४ - किम् कारणम् ।

१३ - २४ - अनच्कत्वात् ।

१४ - २४ - एवम् तर्हि द्विर्वचने कृते अभ्यासे यः अकारः तदाश्रयः इट् भविष्यति ।

१५ - २४ - न सिध्यति ।

१६ - २४ - किम् कारणम् ।

१७ - २४ - द्वित्वात् लोपस्य परत्वात् ।

१८ - २४ - द्विर्वचनम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् ।

१९ - २४ - परत्वात् लोपः ।

२० - २४ - लोपे कृते अनच्कत्वात् द्विर्वचनम् न प्राप्नोति ।

२१ - २४ - घसिग्रहणे पुनः क्रियमाणे न दोषः भवति ।

२२ - २४ - कथम् ।

२३ - २४ - वचनात् इट् भविष्यति ।

२४ - २४ - इटि कृते द्विर्वचनम् क्रियताम् लोपः इति यदि अपि परत्वात् लोपः स्थानिवद्भावात् द्विर्वचनम् भविष्यति

१ - ५ - दृशेः च इति वक्तव्यम् ।

२ - ५ - ददृश्वान् , ददृशिवान् ।

३ - ५ - तत् तर्हि वक्तव्यम् ।

४ - ५ - न वक्तव्यम् ।

५ - ५ - दृशेः इति वर्तते

१ - ९ - स्वरतेः वेट्त्वात् ऋतः स्ये विप्रतिषेधेन ।

२ - ९ - स्वरतिलक्षणात् वावचनात् ऋतः स्ये इति एतत् भवति विप्रतिषेधेन ।

३ - ९ - स्वरतिलक्षणस्य वावचनस्य अवकाशः ।

४ - ९ - स्वर्ता , स्वरिता ।

५ - ९ - ऋतः स्ये इति अस्य अवकाशः ।

६ - ९ - करिष्यते , हरिष्यते ।

७ - ९ - इह उभयम् प्राप्नोति ।

८ - ९ - स्वरिष्यति , अस्वरिष्यत् ।

९ - ९ - ऋतः स्ये इति एतत् भवति विप्रतिषेधेन

१ - १९ - किम् उदाहरणम् ।

२ - १९ - अयंसीत् , व्यरंसीत् , अनंसीत् , अयासीत् , अवासीत् ।

३ - १९ - न एतत् अस्ति ।

४ - १९ - न अस्ति अत्र विशेषः सति वा इटि असति वा ।

५ - १९ - इदम् तर्हि ।

६ - १९ - अयंसिष्टाम् , अयंसिषुः , व्यरंसिष्टाम् , व्यरंसिषुः , अनंसिष्टाम् , अनंसिषुः , अयासिष्टाम् , अयासिषुः , अवासिष्टाम् , अवासिषुः ।

७ - १९ - इदम् च अपि उदाहरणम् ।

८ - १९ - अयंसीत् , व्यरंसीत् , अनंसीत् , अयासीत् , अवासीत् ।

९ - १९ - ननु च उक्तम् न अस्ति अत्र विशेषः सति वा इटि असति वा इति ।

१० - १९ - अयम् अस्ति विशेषः ।

११ - १९ - यदि अत्र इट् न स्यात् वृद्धिः प्रसज्येत ।

१२ - १९ - इटि पुनः सति न इटि इति प्रतिषेधः सिद्धः भवति ।

१३ - १९ - मा भूत् एवम् ह्म्यन्तानाम् इति एवम् भविष्यति ।

१४ - १९ - अत्र अपि न इटि इति अनुवर्तते ।

१५ - १९ - तत् च अवश्यम् इड्ग्रहणम् अनुवर्त्यम् अधाक्षीत् इति एवमर्थम् ।

१६ - १९ - आकारान्ताः च अपि पदपूर्वाः एकवचने उदाहरणम् ।

१७ - १९ - मा हि यासीत् ।

१८ - १९ - यदि अत्र इट् न स्यात् अनुदात्तस्य ईटः श्रवणम् प्रसज्येत ।

१९ - १९ - इटि पुनः सति उक्तम् एतत् अर्थवत् तु सिचः चित्करणसामर्थ्यात् हि इटः उदात्तत्वम् इति तत्र एकादेशः उदात्तेन उदात्तः इति उदात्तत्वम् सिद्धम् भवति

१ - १३ - किमर्थः योगविभागः न इशीडजनाम् स्ध्वे इति एव उच्येत ।

२ - १३ - ईशः ध्वे मा भूत् इति ।

३ - १३ - इष्यते एव ईशिध्वे इति ।

४ - १३ - ईडजनोः तर्हि से मा भूत् इति ।

५ - १३ - इष्यते एव ।

६ - १३ - ईडिषे , जनिषे इति ।

७ - १३ - ईशः तर्हि स्वे मा भूत् इति ।

८ - १३ - इष्यते एव ।

९ - १३ - ईशिष्व इति ।

१० - १३ - से तर्हि यः स्वशब्दः तत्र यथा स्यात् क्रियासमभिहारे यः स्वशब्दः तत्र मा भूत् इति ।

११ - १३ - अत्र अपि इष्यते ।

१२ - १३ - सः भवान् ईशिष्व इति एव अयम् ईष्टे इति ।

१३ - १३ - आतः च इष्यते एवम् हि आह सिद्धम् तु लोण्मध्यमपुरुषैकवचनस्य क्रियासमभिहारे द्विर्वचनात् इति ।

१ - ११ - किम् सार्वधातुकग्रहणम् अनुवर्तते उताहो न ।

२ - ११ - किम् च अर्थः अनुवृत्त्या ।

३ - ११ - बाढम् अर्थः यदि अकारात् परः याशब्दः आर्धधातुकम् अस्ति ।

४ - ११ - ननु च अयम् अस्ति ।

५ - ११ - चिकीर्ष्यात् , जिहीर्ष्यात् ।

६ - ११ - लोपः अत्र बाधकः भविष्यति ।

७ - ११ - किम् तर्हि अस्मिन् योगे उदाहरणम् ।

८ - ११ - पचेत् , यजेत् ।

९ - ११ - अत्र अपि अतः दीर्घः यञि इति दीर्घत्वम् प्राप्नोति ।

१० - ११ - सः यथा एव अयादेशः दीर्घत्वम् बाधते एवम् लोपम् अपि बाधेत ।

११ - ११ - तस्मात् सार्वधातुकग्रहणम् अनुवर्त्यम्

१ - ३२ - मुकि स्वरे दोषः ।

२ - ३२ - मुकि सति स्वरे दोषः भवति ।

३ - ३२ - पचमानः , यजमानः ।

४ - ३२ - मुका व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति ।

५ - ३२ - ननु च अयम् मुक् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते ।

६ - ३२ - न सिध्यति ।

७ - ३२ - अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् सः अयम् सङ्घातभक्तः अशक्यः अदुपदेशग्रहणेन ग्रहीतुम् ।

८ - ३२ - एवम् तर्हि अभक्तः करिष्यते ।

९ - ३२ - अभक्ते च ।

१० - ३२ - किम् ।

११ - ३२ - स्वरे दोषः भवति ।

१२ - ३२ - पचमानः , यजमानः ।

१३ - ३२ - मुका व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति ।

१४ - ३२ - एवम् तर्हि परादिः करिष्यते ।

१५ - ३२ - परादौ दीर्घप्रसङ्गः ।

१६ - ३२ - यदि परादिः क्रियते अतः दीर्घः यञि इति दीर्घत्वम् प्राप्नोति ।

१७ - ३२ - न एषः दोषः ।

१८ - ३२ - तिङि इति एवम् तत् ।

१९ - ३२ - सिध्यति ।

२० - ३२ - सूत्रम् तर्हि भिद्यते ।

२१ - ३२ - यथान्यासम् एव अस्तु ।

२२ - ३२ - ननु च उक्तम् मुकि स्वरे दोषः इति ।

२३ - ३२ - परिहृतम् एतत् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते ।

२४ - ३२ - ननु च उक्तम् अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् सः अयम् सङ्घातभक्तः अशक्यः अदुपदेशग्रहणेन ग्रहीतुम् इति ।

२५ - ३२ - अथ अयम् अद्भक्तः स्यात् गृह्येत अदुपदेशग्रहणेन ।

२६ - ३२ - बाढम् गृह्येत ।

२७ - ३२ - अद्भक्तः तर्हि भविष्यति ।

२८ - ३२ - तत् कथम् ।

२९ - ३२ - अतः या इयः इति अत्र अकारग्रहणम् पञ्चमीनिर्दिष्टम् अङ्गस्य इति च षष्ठीनिर्दिष्टम् तत्र अशक्यम् विविभक्तित्वात् अतः इति पञ्चम्या अङ्गम् विशेषयितुम् ।

३० - ३२ - तत् प्रकृतम् इह अनुवर्तिष्यते ।

३१ - ३२ - एवम् अपि षष्ठ्यभावात् न प्राप्नोति ।

३२ - ३२ - आनः इति एषा सप्तमी अतः इति पञ्चम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति

१ - २५ - अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यात् अनुनासिकप्रसङ्गः ।

२ - २५ - अष्टन्जनादिपथिमथ्यात्वेषु आन्तरतम्यात् अनुनासिकः प्राप्नोति ।

३ - २५ - अष्टाभिः , अष्टाभ्यः , जातः , जातवान् , पन्थाः , मन्थाः ।

४ - २५ - सिद्धम् अनण्त्वात् ।

५ - २५ - सिद्धम् एतत् ।

६ - २५ - कथम् ।

७ - २५ - अनण्त्वात् ।

८ - २५ - कथम् अनण्त्वम् ।

९ - २५ - अण्सवर्णान् गृह्णाति इति उच्यते न च अकारः अण् ।

१० - २५ - उच्चारणसामर्थ्यात् वा ।

११ - २५ - अथ वा शुद्धोच्चारणसामर्थ्यात् न भविष्यति ।

१२ - २५ - न एतौ स्तः परिहारौ ।

१३ - २५ - यत् तावत् उच्यते अनण्त्वात् इति न ब्रूमः अण्सवर्णान् गृह्णाति इति ।

१४ - २५ - कथम् तर्हि तपरः तत्कालस्य इति ।

१५ - २५ - यत् अपि उच्यते उच्चारणसामर्थ्यात् वा इति अस्ति अन्यत् उच्चारणे प्रयोजनम् ।

१६ - २५ - किम् ।

१७ - २५ - उत्तरार्थम् ।

१८ - २५ - रायः हलि इति ।

१९ - २५ - एवम् तर्हि न इमौ पृथक्परिहारौ ।

२० - २५ - एकपरिहरः अयम् ।

२१ - २५ - सिद्धम् अनण्त्वात् उच्चारणसामर्थ्यात् वा इति ।

२२ - २५ - इह तावत् अष्टाभिः , अष्टाभ्यः इति अनण्त्वात् सिद्धम् ।

२३ - २५ - जातः , जातवान् , पन्थाः , मन्थाः उच्चारण्सामर्थ्यात् सिद्धम् ।

२४ - २५ - यदि एवम् पृथक्परिहारयोः अपि न दोषः ।

२५ - २५ - यः यत्र परिहारः सः तत्र भविष्यति

१ - ३ - अनादेशग्रहणम् शक्यम् अकर्तुम् ।

२ - ३ - कथम् हलि इति अनुवर्तते न च आदेशः हलादिः अस्ति ।

३ - ३ - तत् एतत् अनादेशग्रहणम् तिष्ठतु तावत् सान्न्यासिकम्

१ - ३ - अज्ग्रहणम् शक्यम् अकर्तुम् ।

२ - ३ - कथम् ।

३ - ३ - अविशेषेण यत्वम् उत्सर्गः तस्य हलादौ आत्वम् अपवादः

१ - ३ - शेषग्रहणम् शक्यम् अकर्तुम् ।

२ - ३ - कथम् ।

३ - ३ - अविशेषेण लोपः उत्सर्गः तस्य अजादौ यत्वम् अपवादः हलादौ आत्वम्

१ - २३ - परिग्रहणम् शक्यम् अकर्तुम् ।

२ - २३ - मान्तस्य इति एव सिद्धम् ।

३ - २३ - न सिध्यति ।

४ - २३ - किम् कारणम् ।

५ - २३ - अन्तशब्दस्य उभयार्थत्वात् ।

६ - २३ - कथम् ।

७ - २३ - अयम् अन्तशब्दः अस्ति एव सह तेन वर्तते ।

८ - २३ - तत् यथा ।

९ - २३ - मर्यादान्तम् देवदत्तस्य क्षेत्रम् ।

१० - २३ - सह मर्यादया इति गम्यते ।

११ - २३ - अस्ति प्राक् तस्मात् वर्तते ।

१२ - २३ - तत् यथा ।

१३ - २३ - नद्यन्तम् देवदत्तस्य क्षेत्रम् इति ।

१४ - २३ - प्राक् नद्याः इति गम्यते ।

१५ - २३ - तत् यः सह तेन वर्तते तस्य इदम् ग्रहणम् यथा विज्ञायेत ।

१६ - २३ - न एतत् अस्ति प्रयोजनम् ।

१७ - २३ - सर्वत्र एव अन्तशब्दः सह तेन वर्तते ।

१८ - २३ - अथ कथम् नद्यन्तम् देवदत्तस्य क्षेत्रम् इति ।

१९ - २३ - नद्याः क्षेत्रत्वे सम्भः न अस्ति इति कृत्वा प्राक् नद्याः इति गम्यते ।

२० - २३ - अवधिद्योतनार्थम् तर्हि परिग्रहणम् कर्तव्यम् ।

२१ - २३ - मान्तस्य इति इयति उच्यमाने यत्र एव मान्ते युष्मदस्मदी तत्र एव आदेशाः स्युः ।

२२ - २३ - क्व च मान्ते युष्मदस्मदी ।

२३ - २३ - युष्मान् आचष्टे , अस्मान् आचष्टे इति युष्मयतेः अस्मयतेः च अप्रत्ययः

१ - २४ - किमर्थम् इदम् उच्यते न त्वमौ एकवचने इति एव सिद्धम् ।

२ - २४ - न सिध्यति ।

३ - २४ - किम् कारणम् ।

४ - २४ - एकवचनाभावात् ।

५ - २४ - एकवचने इति उच्यते न च अत्र एकवचनम् पश्यामः ।

६ - २४ - प्रत्ययलक्षणेन ।

७ - २४ - न लुमता अङ्गस्य इति प्रत्ययलक्षणस्य प्रतिषेधः ।

८ - २४ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

९ - २४ - लुक् क्रियताम् आदेशौ इति किम् अत्र कर्तव्यम् ।

१० - २४ - परत्वात् आदेशौ ।

११ - २४ - नित्यः लुक् ।

१२ - २४ - कृतयोः अपि आदेशयोः प्राप्नोति अकृतयोः अपि ।

१३ - २४ - अन्तरङ्गौ आदेशौ ।

१४ - २४ - एवम् तर्हि सिद्धे सति यत्प्रत्ययोत्तरपदयोः त्वमौ शास्ति तत् ज्ञापयति आचार्यः अन्तरङ्गान् अपि विधीन् बाधित्वा बहिरङ्गः लुक् भवति इति ।

१५ - २४ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१६ - २४ - गोमान् प्रियः अस्य गोमत्प्रियः , यवमत्प्रियः गोमान् इव आचरति गोमत्यते , यवमत्यते अन्तरङ्गान् अपि नुमादीन् बहिरङ्गः लुक् बाधते इति ।

१७ - २४ - न एतत् अस्ति ज्ञापकम् ।

१८ - २४ - अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

१९ - २४ - किम् ।

२० - २४ - ये अन्ये एकवचनादेशाः प्राप्नुवन्ति तद्बाधनार्थम् एतत् स्यात् ।

२१ - २४ - तत् यथा ।

२२ - २४ - तव पुत्रः त्वत्पुत्रः , मम पुत्रः मत्पुत्रः , तुभ्यम् हितम् त्वद्धितम् , मह्यम् हितम् मद्धितम् इति ।

२३ - २४ - यत् तर्हि मपर्यन्तग्रहणम् अनुवर्तयति ।

२४ - २४ - यति अत्र अन्ये एकवचनादेशाः स्युः मपर्त्यन्तानुवृत्तिः अनर्थिका स्यात्

१ - २० - तिसृभावे सञ्ज्ञायाम् कनि उपसङ्ख्यानम् ।

२ - २० - तिसृभावे सञ्ज्ञायाम् कनि उपसङ्ख्यानम् कर्तव्यम् ।

३ - २० - तिसृका नाम ग्रामः ।

४ - २० - चतसरि आद्युदात्तनिपातनम् च ।

५ - २० - चतसरि आद्युदात्तनिपातनम् कर्तव्यम् ।

६ - २० - त्रिचतुरोः स्त्रियाम् तिसृचतसृ ।

७ - २० - किम् प्रयोजनम् ।

८ - २० - चतस्रः पश्य ।

९ - २० - शसि स्वरः मा भूत् इति ।

१० - २० - किम् च अन्यत् ।

११ - २० - उपदेशिवद्वचनम् च ।

१२ - २० - उपदेशिवद्भावः च वक्तव्यः ।

१३ - २० - किम् प्रयोजनम् ।

१४ - २० - स्वरसिद्ध्यर्थम् ।

१५ - २० - उपदेशावस्थायाम् एव आद्युदात्तनिपातने कृते विभक्तिस्वरेण बाधनम् यथा स्यात् चतसृणाम् इति ।

१६ - २० - सः तर्हि उपदेशिवद्भावः वक्तव्यः ।

१७ - २० - न वक्तव्यः ।

१८ - २० - उक्तम् वा ।

१९ - २० - किम् उक्तम् ।

२० - २० - विभक्तिस्वरभावः च हलादिग्रहणात् आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् इति

१ - ३६ - अचि रादेशे जसि उपसङ्ख्यानम् गुणपरत्वात् ।

२ - ३६ - अचि रादेशे जसि उपसङ्ख्यानम् कर्तव्यम् ।

३ - ३६ - तिस्रः तिष्ठन्ति , चतस्रः तिष्ठन्ति ।

४ - ३६ - किम् पुनः कारणम् न सिध्यति ।

५ - ३६ - गुणपरत्वात् ।

६ - ३६ - परत्वात् गुणः प्राप्नोति ।

७ - ३६ - तत् तर्हि वक्तव्यम् ।

८ - ३६ - न वा अनवकाशत्वात् रस्य ।

९ - ३६ - न वा वक्तव्यम् ।

१० - ३६ - किम् कारणम् ।

११ - ३६ - अनवकाशत्वात् रस्य ।

१२ - ३६ - अनवकाशः रादेशः गुणम् बाधिष्यते ।

१३ - ३६ - सावकाशः रादेशः ।

१४ - ३६ - कः अवकाशः ।

१५ - ३६ - तिस्रः पश्य ।

१६ - ३६ - चतस्रः पश्य ।

१७ - ३६ - न एषः अस्ति अवकाशः ।

१८ - ३६ - अत्र अपि पूर्वसवर्णदीर्घः प्राप्नोति ।

१९ - ३६ - सः यथा एव पूर्वसवर्णम् बाधते एवम् गुणम् अपि बाधिष्यते ।

२० - ३६ - गुणः अपि अनवकाशः ।

२१ - ३६ - सावकाशः गुणः ।

२२ - ३६ - कः अवकाशः ।

२३ - ३६ - हे कर्तः ।

२४ - ३६ - न एषः सर्वनामस्थाने गुणः ।

२५ - ३६ - कः तर्हि ।

२६ - ३६ - सम्बुद्धिगुणः ।

२७ - ३६ - अयम् तर्हि ।

२८ - ३६ - हे मातः ।

२९ - ३६ - एषः अपि सम्बुद्धिगुणः एव ।

३० - ३६ - न अत्र सम्बुद्धिगुणः प्राप्नोति ।

३१ - ३६ - किम् कारणम् ।

३२ - ३६ - अम्बार्थनद्योः ह्रस्वः इति ह्रस्वत्वेन भवितव्यम् ।

३३ - ३६ - भवेत् दीर्घाणाम् ह्रस्ववचनसामर्थ्यात् न स्यात् ह्रस्वानाम् तु खलु ह्रस्वत्वम् क्रियताम् सम्बुद्धिगुणः इति परत्वात् सम्बुद्धिगुणेन भवितव्यम् ।

३४ - ३६ - अथ अपि कथम् चित् सावकासः गुणः स्यात् एवम् अपि न दोषः ।

३५ - ३६ - पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् अयम् रादेशः जसि गुणम् बाधते सर्वनामस्थानगुणम् न बाधिष्यते ।

३६ - ३६ - तस्मात् सुष्ठु उच्यते अचि रादेशे जसि उपसङ्ख्यानम् गुणपरत्वात् इति

१ - २७ - नुमः अनङ्जरसौ भवतः विप्रतिषेधेन ।

२ - २७ - नुमः अवकाशः ।

३ - २७ - त्रपुणी , जतुनी , तुम्बुरुणी ।

४ - २७ - अनङः अवकाशः ।

५ - २७ - प्रियसक्थ्ना ब्राह्मणेन ।

६ - २७ - इह उभयम् प्राप्नोति ।

७ - २७ - दध्ना , सक्थ्ना ।

८ - २७ - जरसः अवकाशः ।

९ - २७ - जरसा , जरसे ।

१० - २७ - नुमः अवकाशः ।

११ - २७ - कुण्डानि , वनानि ।

१२ - २७ - इह उभयम् प्राप्नोति ।

१३ - २७ - अतिजरांसि ब्राह्मणकुलानि ।

१४ - २७ - अनङ्जरसौ नुमः भवतः विप्रतिषेधेन ।

१५ - २७ - अथ इह लुक् कस्मात् न भवति ।

१६ - २७ - अतिजरसम् पश्य इति ।

१७ - २७ - किम् पुनः कारणम् द्वितीयैकवचनम् एव उदाह्रियते न पुनः प्रथमैकवचनम् अपि ।

१८ - २७ - अतिजरसम् तिष्ठति इति ।

१९ - २७ - अस्ति अत्र विशेषः ।

२० - २७ - न अत्र अकृते अम्भावे जरस्भावः प्राप्नोति ।

२१ - २७ - किम् कारणम् ।

२२ - २७ - अचि इति उच्यते ।

२३ - २७ - यदा च जरस्भावः कृतः तदा लुक् न भविष्यति सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

२४ - २७ - यदि एवम् अतिजरसम् , अतिजरसैः इति अत्र न प्राप्नोति अतिजरम् , अतिजरैः इति भवितव्यम् ।

२५ - २७ - गोनर्दीयः आह ।

२६ - २७ - इष्टम् एव एतत् सङ्गृहीतम् भवति ।

२७ - २७ - अतिजरम् अतिजरैः इति भवितव्यम् सत्याम् एतस्याम् परिभाषायाम् सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति

१ - ४३ - त्यदादीनाम् द्विपर्यन्तानाम् अकारवचनम् ।

२ - ४३ - त्यदादीनाम् द्विपर्यन्तानाम् अत्वम् वक्तव्यम् ।

३ - ४३ - किम् प्रयोजनम् ।

४ - ४३ - युष्मदस्मदन्तानाम् भवदन्तानाम् वा मा भूत् इति ।

५ - ४३ - तत् तर्हि वक्तव्यम् ।

६ - ४३ - न वक्तव्यम् ।

७ - ४३ - त्यदादीनाम् अकारेण सिद्धत्वात् युष्मदस्मदोः , शेषे लोपस्य लोपेन ज्ञायते प्राक् ततः अत् इति ।

८ - ४३ - यत् अयम् त्यदादीनाम् अत्वेन सिद्धे युष्मदस्मदोः शेषे लोपम् शास्ति तत् ज्ञापयति आचार्यः प्राक् ततः अत्वम् भवति इति ।

९ - ४३ - न सर्वेषाम् इति ।

१० - ४३ - अपि वा उपसमस्तार्थम् अत्वाभावात् कृतम् भवेत् ।

११ - ४३ - न एतत् अस्ति प्रयोजनम् ।

१२ - ४३ - उपसमस्तार्थम् एतत् स्यात् अतियूयम् , अतिवयम् ।

१३ - ४३ - उपसमस्तानाम् हि त्यदादीनाम् अत्वम् न इष्यते अतितत् , अतितदौ , अतितदः ।

१४ - ४३ - टिलोपः टाबभावार्थः कर्तव्यः इति तत् स्मृतम् ।

१५ - ४३ - यः तु शेषे लोपः टिलोपः सः वक्तव्यः ।

१६ - ४३ - किम् प्रयोजनम् ।

१७ - ४३ - टाप्प्रतिषेधार्थम् ।

१८ - ४३ - टाप् मा भूत् इति ।

१९ - ४३ - सः तर्हि टिलोपः वक्तव्यः ।

२० - ४३ - न वक्तव्यः ।

२१ - ४३ - अथ वा शेषसप्तम्या शेषे लोपः विधीयते ।

२२ - ४३ - इह युष्मदस्मदोः लोपः इति इयता अन्त्यस्य लोपः सिद्धः ।

२३ - ४३ - सः अयम् एवम् सिद्धे सति यत् शेषग्रहणम् करोति तस्य एतत् प्रयोजनम् अवशिष्टस्य लोपः यथा स्यात् इति ।

२४ - ४३ - लुप्तशिष्टे हि तस्य आहुः कार्यसिद्धिम् मनीषिणः ।

२५ - ४३ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वेषाम् त्यदादीनाम् अत्वम् भवति इति यत् अयम् किमः कः इति कादेशम् शास्ति ।

२६ - ४३ - इतरथा हि किमः अत् भवति इति एव ब्रूयात् ।

२७ - ४३ - सिद्धे विधिः आरभ्यमाणः ज्ञापकार्थः भवति न च किमः अत्त्वेन सिध्यति ।

२८ - ४३ - अत्त्वे हि सति अन्त्यस्य प्रसज्येत ।

२९ - ४३ - सिद्धम् अन्त्यस्य पूर्वेण एव तत्र आरम्भसामर्थ्यात् इकारस्य भविष्यति ।

३० - ४३ - कुतः नु खलु एतत् अनन्त्यार्थे आरम्भे सति इकारस्य भविष्यति न पुनः ककारस्य स्यात् ।

३१ - ४३ - यत् तर्हि किमः ग्रहणम् करोति ।

३२ - ४३ - इतरथा हि कट् अत् भवति इति एव ब्रूयात् ।

३३ - ४३ - एवम् अपि ककारमात्रात् परस्य प्राप्नोति ।

३४ - ४३ - त्यदादीनाम् इति वर्तते न च अन्यत् किमः त्यदादिषु ककारवत् अस्ति ।

३५ - ४३ - एवम् अपि अनैकान्तिकम् ज्ञापकम् ।

३६ - ४३ - एतावत् तु ज्ञाप्यते न सर्वेषाम् त्यदादीनाम् अत्वम् भवति इति तत्र कुतः एतत् द्विपर्यन्तानाम् भविष्यति न पुनः युष्मदस्मदन्तानाम् वा स्यात् भवदन्तानाम् वा ।

३७ - ४३ - किम् च अवश्यम् खलु अपि उत्तरार्थम् किमः ग्रहणम् कर्तव्यम् ।

३८ - ४३ - कु तिहोः क्व अति इति ।

३९ - ४३ - कादेशः खलु अपि अवश्यम् साकच्कार्थः वक्तव्यः कः कौ के इति एवम् अर्थम् ।

४० - ४३ - तस्मात् द्विपर्यन्तानाम् अत्वम् वक्तव्यम् ।

४१ - ४३ - त्यदादीनाम् अकारेण सिद्धत्वात् युष्मदस्मदोः , शेषे लोपस्य लोपेन ज्ञायते प्राक् ततः अत् इति ।

४२ - ४३ - अपि वा उपसमस्तार्थम् अत्वाभावात् कृतम् भवेत् , टिलोपः टाबभावार्थः कर्तव्यः इति तत् स्मृतम् ।

४३ - ४३ - अथ वा शेषसप्तम्या शेषे लोपः विधीयते , लुप्तशिष्टे हि तस्य आहुः कार्यसिद्धिम् मनीषिणः

१ - ५ - किमर्थम् क्वादेशः उच्यते न कु तिहात् सि इति एव उच्यते ।

२ - ५ - का रूपसिद्धिः क्व ।

३ - ५ - यणादेशेन सिद्धम् ।

४ - ५ - न सिध्यति ।

५ - ५ - ओः गुणः प्रसज्येत

१ - २८ - किमर्थम् अनन्त्ययोः इति उच्यते ।

२ - २८ - अन्त्ययोः मा भूत् इति ।

३ - २८ - न एतत् अस्ति प्रयोजनम् ।

४ - २८ - अत्वम् अन्त्ययोः बाधकम् भविष्यति ।

५ - २८ - अनवकाशाः विधयः बाधकाः भवन्ति सावकाशम् च अत्वम् ।

६ - २८ - कः अवकाशः ।

७ - २८ - द्विशब्दः ।

८ - २८ - सत्वम् अपि सावकाशम् ।

९ - २८ - कः अवकाशः ।

१० - २८ - अनन्त्यः ।

११ - २८ - कथम् पुनः सति अन्त्ये अनन्त्यस्य सत्वम् स्यात् ।

१२ - २८ - भवेत् यः तकारदकाराभ्याम् अङ्गम् विशेषयेत् तस्य अनन्त्ययोः न स्यात् ।

१३ - २८ - वयम् तु खलु अङ्गेन तकारदकारौ विशेषयिष्यामः ।

१४ - २८ - एवम् अपि उभयोः सावकासशयोः परत्वात् सत्वम् प्राप्नोति ।

१५ - २८ - किम् च स्यात् यदि अन्त्ययोः सत्वम् स्यात् ।

१६ - २८ - इह हे सः इति एङ्ह्रस्वात् इति सम्बुद्धिलोपः न स्यात् ।

१७ - २८ - इह च या सा अतः इति टाप् न स्यात् ।

१८ - २८ - तस्मात् अनन्त्ययोः इति वक्तव्यम् ।

१९ - २८ - न वक्तव्यम् ।

२० - २८ - एवम् वक्ष्यामि ।

२१ - २८ - तदोः सः सौ ।

२२ - २८ - ततः अदसः ।

२३ - २८ - अदसः च दकारस्य सः भवति इति ।

२४ - २८ - इदम् इदानीम् किमर्थम् ।

२५ - २८ - नियमार्थम् ।

२६ - २८ - अदसः एव दकारस्य न अन्यस्य दकारस्य इति ।

२७ - २८ - यदि नियमः क्रियते द्वीयतेः अप्रत्ययः द्वः इति प्राप्नोति स्वः इति च इष्यते ।

२८ - २८ - यथालक्षणम् अप्रयुक्ते

१ - ३१ - अदसः सोः भवेत् औत्वम् किम् सुलोपः विधीयते ।

२ - ३१ - अदसः एव सोः भवेत् औत्वम् किमर्थम् सुलोपः विधीयते ।

३ - ३१ - ह्रस्वात् लुप्येत सम्बुद्धिः ।

४ - ३१ - इह हे असौ इति एङ्ह्रस्वात् सम्बुद्धेः इति लोपः प्रसज्येत ।

५ - ३१ - न हलः ।

६ - ३१ - हलः लोपः सम्बुद्धिलोपः ।

७ - ३१ - तत् हल्ग्रहणम् कर्तव्यम् ।

८ - ३१ - प्रकृतम् हि तत् ।

९ - ३१ - प्रकृतम् हल्ग्रहणम् ।

१० - ३१ - क्व प्रकृतम् ।

११ - ३१ - हल्ङ्याब्भ्यः दीर्घात् सुतिस्यपृक्तम् हल् इति ।

१२ - ३१ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

१३ - ३१ - ह्रस्वात् इति एषा पञ्चमी हल् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

१४ - ३१ - आपः एत्त्वम् भवेत् तस्मिन् ।

१५ - ३१ - इह हे असौ ब्राह्मणि आङि च आपः सम्बुद्धौ च इति एत्त्वम् प्रसज्येत ।

१६ - ३१ - न झलि इति अनुवर्तनात् ।

१७ - ३१ - झलि इति तत्र अनुवर्तते ।

१८ - ३१ - क्व प्रकृतम् ।

१९ - ३१ - सुपि च बहुवचने झलि एत् इति ।

२० - ३१ - प्रत्ययस्थात् च कात् इत्त्वम् ।

२१ - ३१ - इह च असकौ ब्राह्मणी इति प्रत्यय्स्थात् कात् पूर्वस्य इति ईत्त्वम् प्रसज्येत ।

२२ - ३१ - न एषः दोषः ।

२३ - ३१ - प्रश्लिष्टनिर्देशः अयम् ।

२४ - ३१ - आ , आप् , आप् इति ।

२५ - ३१ - इह अपि तर्हि न प्राप्नोति ।

२६ - ३१ - कारिके , हारिके , इति ।

२७ - ३१ - शीभावः च प्रसज्यते ।

२८ - ३१ - इह च शीभावः च प्राप्नोति ।

२९ - ३१ - असौ ब्राह्मणी ।

३० - ३१ - आपः उत्तरस्य औङः शी भवति इति शीभावः प्राप्नोति ।

३१ - ३१ - तस्मात् सोः लोपः वक्तव्यः

१ - २५ - सौ औत्वप्रतिषेधः साकच्कात् वा सात् उत्वम् च ।

२ - २५ - सौ औत्वप्रतिषेधः साकच्कात् वा वक्तव्यः ।

३ - २५ - सात् च परस्य उत्वम् वक्तव्यम् ।

४ - २५ - असकौ , असुकः ।

५ - २५ - उत्तरपदभूतानाम् आदेशे उपदेशवद्वचनम् ।

६ - २५ - उत्तरपदभूतानाम् त्यदादीनाम् आदेशे उपदेशिवद्भावः वक्तव्यः ।

७ - २५ - परमाहम् , परमायम् , परमानेन ।

८ - २५ - किम् प्रयोजनम् ।

९ - २५ - अनादिष्टार्थम् ।

१० - २५ - अकृते एकादेशे आदेशाः यथा स्युः इति ।

११ - २५ - किम् पुनः कारणम् एकादेशः तावत् भवति न पुनः आदेशाः ।

१२ - २५ - न परत्वात् आदेशैः भवितव्यम् ।

१३ - २५ - बहिरङ्गलक्षणत्वात् ।

१४ - २५ - बहिरङ्गाः आदेशाः ।

१५ - २५ - अन्तरङ्गः एकादेशः ।

१६ - २५ - असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

१७ - २५ - सः तर्हि उपदेशिवद्भावः वक्तव्यः ।

१८ - २५ - न वक्तव्यः ।

१९ - २५ - आचार्यप्रवृत्तिः ज्ञापयति पूर्वपदोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति ।

२० - २५ - कथम् कृत्वा ज्ञापकम् ।

२१ - २५ - इन्द्रे द्वौ अचौ ।

२२ - २५ - तत्र एकः यस्य इति लोपेन अपह्रियते अपरः एकादेशेन ।

२३ - २५ - अनच्कः इन्द्रः संवृत्तः ।

२४ - २५ - तत्र कः वृद्धेः प्रसङ्गः ।

२५ - २५ - पश्यति तु आचार्यः पूर्वपदोत्तरपदयोः तावत् कार्यम् भवति न एकादेशे इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति

१ - २ - अदसः सोः भवेत् औत्वम् किम् सुलोपः विधीयते , ह्रस्वात् लुप्येत सम्बुद्धिः न हलः प्रकृतम् हि तत् ।

२ - २ - आपः एत्त्वम् भवेत् तस्मिन् न झलि इति अनुवर्तनात् , प्रत्ययस्थात् च कात् इत्त्वम् शीभावः च प्रसज्यते

१ - ३० - मृजेः वृद्धिविधौ क्विप्रतिषेधः ।

२ - ३० - मृजेः वृद्धिविधौ क्व्यन्तस्य प्रतिषेधः वक्तव्यः ।

३ - ३० - कंसपरिमृड्भ्याम् , कंसपरिमृड्भिः ।

४ - ३० - धातोः स्वरूपग्रहणे वा तत्प्रत्ययविज्ञानात् सिद्धम् ।

५ - ३० - अथ वा धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् ।

६ - ३० - धातुप्रत्यये कार्यम् भवति इति एषा परिभाषा कर्तव्या ।

७ - ३० - कानि एतस्याः परिभाषायाः प्रयोजनानि ।

८ - ३० - प्रयोजनम् सृजिदृशिमस्जिनशिहन्तिगिरत्यर्थम् ।

९ - ३० - सृजि ।

१० - ३० - रज्जुसृड्भ्याम् , रज्जुसृड्भिः ।

११ - ३० - सृजि ।

१२ - ३० - दृशि ।

१३ - ३० - देवदृग्भ्याम् , देवदृग्भिः ।

१४ - ३० - दृशि ।

१५ - ३० - मस्जि ।

१६ - ३० - उदकमग्भ्याम् , उदकमग्भिः ।

१७ - ३० - मस्जि ।

१८ - ३० - नशि ।

१९ - ३० - प्रनड्भ्याम् , प्रनड्भिः ।

२० - ३० - नशि ।

२१ - ३० - हन्ति ।

२२ - ३० - वार्त्रघ्नः , भ्रौणघ्नः ।

२३ - ३० - हन्ति ।

२४ - ३० - गिरति ।

२५ - ३० - देवगिरः ।

२६ - ३० - यदि स्वरूपग्रहणे इति उच्यते प्रसृब्भ्याम् , प्रसृब्भिः , अनुदात्तस्य च ऋदुपस्य अन्यतरस्याम् इति अम् प्राप्नोति ।

२७ - ३० - एवम् तर्हि इयम् परिभाषा कर्तव्या धातोः कार्यम् उच्यमानम् तत्प्रत्यये भवति इति ।

२८ - ३० - सा तर्हि एषा परिभाषा कर्तव्या ।

२९ - ३० - न कर्तव्या ।

३० - ३० - आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् भ्रौणहत्ये तत्वम् शास्ति

१ - २६ - वृद्धौ अज्ग्रहणम् गोऽर्थम् ।

२ - २६ - वृद्धौ अज्ग्रहणम् क्रियते गोतः वृधिः यथा स्यात् ।

३ - २६ - गौः इति ।

४ - २६ - न एतत् अस्ति प्रयोजनम् ।

५ - २६ - णित्करणसामर्थ्यात् एव अत्र वृद्धिः भविष्यति ।

६ - २६ - अथ योगविभागः किमर्थः न ञ्णिति अतः उपधायाः इति एव उच्येत ।

७ - २६ - का रूपसिद्धः चायकः , लावकः , कारकः ।

८ - २६ - गुणे कृते अयवः रपरत्वे च अतः उपधायाः इति एव सिद्धम् ।

९ - २६ - योगविभागः सखिव्यञ्जनाद्यर्थः ।

१० - २६ - योगविभागः क्रियते सख्यर्थः व्यञ्जनाद्यर्थः च ।

११ - २६ - सख्यर्थः तावत् ।

१२ - २६ - सखायौ , सखायः ।

१३ - २६ - व्यञ्जनाद्यर्थः ।

१४ - २६ - जैत्रम् , यौत्रम् , च्यौत्रम् ।

१५ - २६ - योगविभागे च इदानीम् सखिव्यञ्जनाद्यर्थे क्रियमाणे अज्ग्रहणम् अपि कर्तव्यम् भवति ।

१६ - २६ - किम् प्रयोजनम् ।

१७ - २६ - गोर्थम् ।

१८ - २६ - ननु च उक्तम् णित्करणसामर्थ्यात् एव अत्र वृद्धिः भविष्यति इति ।

१९ - २६ - अस्ति अन्यत् णित्करणसय प्रयोजनम् ।

२० - २६ - किम् ।

२१ - २६ - गावौ , गावः ।

२२ - २६ - अवादेशे कृते अतः उपधायाः इति वृद्धिः यथा स्यात् ।

२३ - २६ - यत् तु सौ णित्करणम् तत् अनवकाशम् तस्य अनवकाशत्वात् एव वृद्धिः भविष्यति ।

२४ - २६ - यथा एव खलु अपि णित्करणसामर्थ्यात् अनिकः अपि वृद्धिः प्रार्थ्यते एवम् तत्वम् अपि प्राप्नोति ।

२५ - २६ - तत्वम् अपि हि ञ्णिति इति उच्यते ।

२६ - २६ - तस्मात् अज्ग्रहणम् कर्तव्यम्

१ - २८ - अज्ग्रहणम् कर्तव्यम् ।

२ - २८ - ननु च क्रियते एव ।

३ - २८ - द्वितीयम् कर्तव्यम् यथा अचामादिग्रहणम् अज्विशेषणम् विज्ञायेत ।

४ - २८ - अचाम् आदेः अचः इति ।

५ - २८ - अथ अक्रियमाणे अज्ग्रहणे कस्य अचामादिग्रहणम् विशेषणम् स्यात् ।

६ - २८ - इग्विशेषणम् इति आह ।

७ - २८ - अचाम् आदेः इकः इति ।

८ - २८ - तत्र कः दोषः ।

९ - २८ - इह एव स्यात् ।

१० - २८ - ऐत्कायनः , औपगवः ।

११ - २८ - इह न स्यात् ।

१२ - २८ - गार्ग्यः , वात्स्यः इति ।

१३ - २८ - तत् तर्हि अज्ग्रहणम् कर्तव्यम् ।

१४ - २८ - न कर्तव्यम् ।

१५ - २८ - प्रकृतम् अनुवर्तते ।

१६ - २८ - क्व प्रकृतम् ।

१७ - २८ - अचः ञ्णिति इति ।

१८ - २८ - यदि तत् अनुवर्तते अतः उपधायाः अचः इति अज्मात्रस्य उपधायाः वृद्धिः प्रसज्येत ।

१९ - २८ - छेदकः इति ।

२० - २८ - अकारेण तपरेण अचम् विशेषयिष्यामः ।

२१ - २८ - अचः अतः इति ।

२२ - २८ - इह इदानीम् अचः इति एव अनुवर्तते अतः इति निवृत्तम् ।

२३ - २८ - अथ वा मण्डूकगतयः अधिकाराः ।

२४ - २८ - यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

२५ - २८ - अथ वा एकयोगः करिष्यते ।

२६ - २८ - अचः ञ्णिति अतः उपधायाः ।

२७ - २८ - ततः तद्धितेषु अचाम् आदेः इति ।

२८ - २८ - न च एकयोगे अनुवृत्तिः भवति

१ - १७ - तद्धितेषु अचामादिवृद्धौ अन्त्योपधलक्षणप्रतिषेधः ।

२ - १७ - तद्धितेषु अचामादिवृद्धौ अन्त्योपधलक्षणायाः वृद्धेः प्रतिषेधः वक्तव्यः ।

३ - १७ - क्रौष्टुः जागतः इति ।

४ - १७ - ननु च अचामादिवृद्धिः अन्त्योपधलक्षणाम् वृद्धिम् बाधिष्यते ।

५ - १७ - कथम् अन्यस्य उच्यमाना अन्यस्य बाधिका स्यात् ।

६ - १७ - असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् ।

७ - १७ - लोकविज्ञानात् सिद्धम् ।

८ - १७ - सति अपि सम्भवे बाधनम् भवति ।

९ - १७ - तत् यथा ।

१० - १७ - ब्राह्मणेभ्यः दधि दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति ।

११ - १७ - एवम् इह अपि सति अपि सम्भवे अचामादिवृद्धिः अन्त्योपधलक्षणाम् वृद्धिम् बाधिष्यते ।

१२ - १७ - विषमः उपन्यासः ।

१३ - १७ - न अप्राप्ते दधिदाने तक्रदानम् आरभ्यते तत् प्राप्ते आरभ्यमाणम् बाधकम् भविष्यति ।

१४ - १७ - इह पुनः अप्राप्तायाम् अन्त्योपधलक्षणायाम् वृद्धौ अचामादिवृद्धिः आरभ्यते ।

१५ - १७ - सुश्रुत् , सौश्रुतः इति ।

१६ - १७ - पुष्करसद्ग्रहणात् वा ।

१७ - १७ - अथ वा यत् अयम् अनुशतिकादिषु पुष्करसच्शब्दम् पठति तत् ज्ञापयति आचार्यः अचामादिवृद्धौ अन्त्योपधलक्षणा वृद्धिः न भवति इति

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP