योग यात्रा - दैवपुरुषाकाराध्याय
योग शास्त्र ऋषी मुनींनी जगाला शिकविले.
.यश् चक्षुर् जगतः सहस्रकरबद् धाम्नां च धामा ऽर्कवन्
.मोक्षद्वारम् अपावृत्तं च रविवद् ध्वान्तान्तकृत् सूर्यवत् ।
.आत्मा सर्वशरीरिणां सवितृवत् तिमांशुवत् कालकृत्
.साध्वीं नः स गिरं करोतु सविता यो ऽन्यैर् अतुल्योपमः ॥
.वक्ष्यामि भूपम् अधिकृत्य गुणोपपन्नं
.विज्ञातजन्मसमयं प्रविभ्क्तभाग्यम् ।
.अज्ञातसूतिम् अथवा ऽविदितैष्य भाग्यं
.सामुद्रयात्रिकनिमित्तशतैः पृथूक्तैः ॥
.कर्म ऽन्यजन्मजनितं(न्यजन्मनि कृतं) सद् असच् च दैवं
.तत् केवलं भवति जन्मनि सत्कुलाद्ये ।
.बाल्यात् परं विनयसौष्ठवपात्रता च(ऽपि)
.पुंदैवजा कृषिवद् इत्य् उपपाद्यम् एतत्(अत उद्यमेत) ॥
.सामन्तकालयसु(वसु)धोद्यममन्त्रभृत्यैर्
.दैवेन चेति कृषिवन् नृपतेः फलाप्तिः ।
.स्याच् छिद्रम् एकम् अपि चेत् तत एव सर्वं
.नाशं प्रयाति हि दृतेः स्रवणाद्(दृतेश् चरणाद्) इव ऽम्भः ॥
.ग्रहर्क्षतिथ्युद्गमराशिहोरा
.द्रेष्काणभागाद्यनुकूलमात्रम् ।
.भवेद् यियासोर् यदि सिद्धिहेतुः
.स्वयं भवेद् दैवविद् एव राजा ॥
.मन्त्राभिषेकमणिबन्धनशान्तिकर्म
.होमोपवाससुरयागजपादिमात्रम् ।
.स्यात् सिद्धिहेतुर् अथ चेद् विजगीआअतो(विजिगीषतो) ऽरीण्
.कस्मात् तदा नरपतिर् न भवेत् पुरोधाः ॥
.बुधार्थशास्त्राण्य्(बुद्ध्वा ऽर्थशास्त्राण्य्) अपि मन्त्रिणो ऽपि
.कुयुः प्रणामं न नरेश्वराणाम् ।
.यद्य् आभिजात्यद्विपवाजिपत्ति
.कोशाद्यपेक्षा न भवेत् प्रधाना ॥
.स्वदेशे सन्तुष्टः करितुरगकोशे सति न यो
.भवेद् यायी सैन्धैः(सो ऽन्यैः) कृतपरिभवो याति विलयम् ।
.स्वचक्रेणैव ऽसौ क्षपितधनराष्ट्रो भवति वा ।
.गतो यो नादत्ते(ऽन्यान् आदत्ते) सुनयचरितो नीतिविधूरान् ॥
.उलूकस्य ध्वांक्षो निशि वलिभुजां सो ऽह्नि वशगः
.स्थले नक्रं सिंहो मृगपम् उद्के हन्ति जलजः ।
.अबुध्या यः कालं व्रजति नृपतिर् देशम् अथवा(ओमित्तेद्)
.हते दर्पे वाक्यं स्मरति विदुषां सो ऽरिवशगः ॥
.रिपोः कृत्वा ऽवज्ञां जितम् इति विदित्वा मदबलान्
.न यत्नो हातव्यः शिखिविषसमो ऽल्पो ऽपि हि रिपुः ।
.प्रमत्तो ऽद्रेः कुञ्जाद् अयुतबलभागैर् अपि नरैर्
.हतो बद्धस्तम्भे कखति(बद्धः स्तम्भेकषति) मदलेखां द्विपपतिः ॥
.वप्रप्राकारयन्त्रप्रहरणपरिखातोय*मेयेन्धनाढ्यं(धान्येन्धनाढ्यं
.दुर्गं कृत्वा ऽऽत्मगुपतं(ऽऽत्मगुल्म) द्विपतुरगभिषक्शिल्पिविप्राभ्युपेतम् ।
.लुब्धत्रस्ताभिमानिप्रकुपितकुभृतां ज्ञातशीलैर् विहीनं
.कृत्वा शूराप्तसंस्थं परविषयम् इयाच् छुद्धपार्ष्णिर् नरेन्द्रः ॥
.बुध्वा शक्तिं स्वपरबलयोः सामम् एकप्रदानैः(सामभेकप्रदानैः)
.कृत्वोपायैर् व्यसनसमरोपायसंरक्षणैश्(गमनसमरोपायसंसर्पणैश्) च ।
.भक्त्या(साम्ना) साधून् धनविरहितान् अर्थलुब्धांश् च दानैर्
.नेयाद्(भेद्यान्) भेदैस् त्रिभिर् अपि न ये साधयेत् तांश् च दण्डैः ॥
.साम्नो जीवः सभृगुतनयो दण्डनाथौ कुजार्कौ
.दानस्येन्दुः शिखियमबुधाः सासुरा भेदनाथाः ।
.वीर्योपेतैर् उपचयकरैर् लग्नगैर् वीर्यगैर्(केन्द्रगैर्) वा
.तत् तत् सिद्धिं व्रजति तद् अहःस्व् आंशकैर्(अंशके) वापि तेषां ॥
.षाड्गुण्ये सन्धिर् आदौ परिपणरचितो विग्रहो ऽस्यापकारी(ऽस्यपाकारो)
.नैतौ चेद् आसनं तत् परपुरगमनं सर्वसैनेय्न यानम् ।
.सैन्यार्द्धेनाभियुक्ते परपुरम् अपि यत् तद् द्विधायानम् उक्तं
.संश्लेषो ऽन्यत्र यः स्यात् स खलु निगदितः संश्रयो ऽन्यो(ऽन्त्यो) गुणानम् ॥
.मध्याह्ने ऽर्कस् तुहिनकिरणो नित्यम् आक्रन्दसंज्ञः
.पौरः पूर्वे भवति दिनकृद् यायिसंज्ञो ऽन्त्यसंस्थाः(ऽन्त्यसंस्थः) ।
.जीवः सौरिस्(सौरस्) तुहिनकिरणास्यात्मजश् चेति पौराः
.केतुर् यायी सभृगुजकुजः सिद्धिकानन्दनश् च ॥
.यानं यायिभिर् आसनं शुभकरैर् वीर्यान्वितैर् नागरैर्
.द्वैधीभावम् इयाद् यदा शुभकराः पौराः सयायिग्रहाः ।
.सौम्यैः सन्धिर् असद्ग्रहैश् च बलिभिर् युद्धे ऽनुकूलैर् जयः
.सर्वैर् अप्य् अशुभप्रदैर् नरपतिर् दैवाम्बितं संश्रयेत् ॥
.कोशो हि राज्यतरुमूलम् अतो ऽस्य शाखाः
.पक्षी विपक्ष इव किं निधनः(विधनं) करोति ।
.अन्नाद् इवेन्द्रियगणो वसुतस् तथा ऽन्नं
.तत्प्राप्तिरक्षणविवृद्धिषु यत्नवान् स्यात् ॥
.नीचाचिराढ्यनृपवल्लभतस्करेभ्यो
.राष्ट्रं नृपेण परिरक्ष्यम् अतो ऽस्य कोशः ।
.काले करप्रणयनं च यथोचितानां
.तन्(तं) नार्थयेद् भवति येन जनापवादः ॥
.यात्रा नृपस्य शरदीष्टफला मधौ च
.छिद्रे रिपोर् न नियमो ऽस्ति(ऽत्र) च केचिद् आहुः ।
.छिद्रे ऽप्य् अरेर् भवति दैवयुतस्य सिद्धिः
.सामान्यम् आमिषम् इदं प्रतिभूमिपानाम् ॥
.शत्रोर् वधाय सचिवं शुभदैवयुक्तम्
.आज्ञापयेन् नृपतिर् आत्मनि दैवहीने ।
.जह्यान् न चार्थम् अति(अपि) दैवपरो ऽपि भूत्वा
.दृष्टे द्विपे द्विपपदानुसृतिः किम् अर्थम् ॥
.कालो ऽभ्युपैति सकृद् एव नरं कथंचित्
.प्राप्नोति तन् न समयं(स पुनः) खलु कालकांक्सी ।
.कालेन गोचरगतान् अनपेक्ष्य भक्ष्यान्
.मन्दक्रमो ऽप्य् अजगरः समुपैति सिद्धिम् ॥
.दुर्गस्थितं फलम् अपक्वम् अनल्पयत्नात्(अनल्पयत्नं)
.संसिद्धिम् अप्य् उपकरोति गुणं न पुंसाम् ।
.साधारणं स्वपतितं च भवेद् यतो ऽतः
.काले ऽभियुक्तपतितं रसवत् सुखाय ॥
N/A
References : N/A
Last Updated : November 14, 2011
TOP