योगयात्रा - शकुनाध्याय

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


छुछुन्दरी शूकरिका शिवा च श्यामा रला पिङ्गलिका ऽन्यपुष्टा ।
वामा प्रशस्ता गृहगोधिका च पुंसंज्ञका ये च पतत्रिणः स्युः ॥
श्येनो रुरुः पूर्णकुटः कपिश् च श्रीकर्णछिक्कारकपिप्पिका ऽजाः ।
स्त्रीसंज्ञका ये च शिखिद्विपौ च याने हिता दक्षिणभागसंस्थाः ॥
आस्फोटिताक्ष्वेडितशङ्खतूर्यपुंयाहवेदध्वनिगीतशब्दाः ।
वामाः प्रयाणे शुभदा नराणाम् आक्रन्दितं दक्षिणतः परेषाम् ॥
भारद्वाज्यजवर्हिचाषनकुलाः सङ्कीर्त्तनाद् दर्शनात्
क्रोशन्तश् च शुभप्रदा न सरटो दृष्टः शिवाय क्वचित् ।
गोधाशूकरजाहकाहिशशकाः पाषा रुतालोकने
धन्यं कीर्त्तनम् ऋक्षवानरफलं तद् व्यत्ययाच् छोभनम् ॥
नकुलस्य मृगस्य पक्षिणां वामाद् दक्षिणभागसेवनम् ।
शुभदं श्वशृगालयोर् इदं व्यत्यासेन फलं प्रशस्यते ॥
चाषो नकुलश् च वामगौ दिवसार्धात् परतः शुभप्रदौ ।
मृगवच् च वनेषु कुक्कुराः शतपत्रो ऽस्तमये च दक्षिणः ॥
नष्टावलोकनसमागमयुद्धक्रमवेश्मप्रवेशम् अनुजेश्वरदर्शनेषु ।
यानप्रतीपविधिना शुभदा भवन्ति केचिज् जगुर् गमनवन् नृपदर्शनेषु ॥
निरुपहतमनोज्ञवृक्षसंस्थः शुचिरुचिरावनिसस्यसंस्थिताश् च ।
शुभतिथिदिवसर्क्षलग्नकालेष्व् अशुभफलो ऽपि शुभप्रदः प्रदिष्टः ॥
प्रभग्नशुष्कद्रुमकण्टकेषु श्मशानभस्मास्थितुषाकुलेषु ।
प्राकारशून्यालयदुर्दृशेषु सौम्यो ऽपि पापः शकुनः प्रदिष्टः ॥
अङ्गारिणी दिग् रविणा प्रमुक्ता यस्यां रविस् तिष्ठति सा प्रदीप्ता ।
प्रधूमिता यास्यति यां दिनेशः शेषाश् च शान्ताः शुभदाश् च ताः स्युः ॥
यातं मुक्तायां साम्प्रतं दीपितायाम् एष्यं ज्ञेयं धूमितायाम् अनिष्टम् ।
शान्तास्व् एवं दिक्षु तत्पञ्चमासु प्रत्यासन्नं शेषयोः शान्तदीप्तम् ॥
पिशिताशुचिभोजनः प्रदीप्तस् तृणफलभुक् च निसर्गतः प्रशान्तः ।
उभयः कथितस् तथान्नभोजी दिक्स्थानोदयकालतश् च चिन्त्याः ॥
द्वन्द्वार्त्तरोगार्दितभीतमत्तवैरार्त्तयुद्धामिषकांक्षिणश् च ।
सीमान्तनद्यन्तरिताश् च सेर्वे न चिन्तनीयाः सदसत्फलेषु ॥
रिक्तो ऽनुकूलः कलशो जलार्थम् अभ्युद्यतः सिद्धिकरः प्रयाणे ।
विद्यार्थिनां चौर्यसमुद्यतानां वणिक्क्रियाभ्युद्यमिनाम् अतीव ॥
श्यामाश्येनशशघ्नवञ्जलशिखिश्रीकर्णचक्राह्वयाश्
चाषाण्दीरकखञ्जरीटकशुकाः ध्वांक्षः कपोतास् त्रयः ।
भारद्वाजकुलालकुक्कुटखरा हारीतगृध्रौ कपिस्
फेटौ कुक्कुरपूर्णकूटचटकाश् चोक्ता दिवासंचराः ॥
लोमासिका पिङ्गलछप्पिकाख्यौ वल्गुल्युलूकौ शशकश् च रात्रौ ।
सर्वे स्वकालोत्क्रमचारिणः स्युर् दशस्य नाशाय नृपान् तदा वा ॥
हयनरभुजगोष्ट्रद्वीपिसिंहर्क्षगोधावृकनकुलकुरङ्गश्वाजगोव्याघ्रहंसाः ।
पृषतमृगशृगालश्वाविधाख्या ऽन्यपुष्टा द्युनिशम् अपि विडालः सारसः शूकरश् च ॥
द्युनिशोभयचारिणः स्वकाले पुरवनमिश्रचराः स्वभूमिसंस्थाः ।
सफला विफला विपर्ययस्था गमनेप्सोः पुरपार्थिवाशुभास् ते ॥
यानं धुरेण पतितं बृहती च कन्या गर्भेण चातिमहता पुरतः स्थितो स्त्री ।
आगच्छ तिष्ठ विश गच्छसि वा किम् अर्थं शब्दाः स्थिरश् च गमनं प्रतिषेधयन्ति ॥
गान्धारषड्जऋषभाः खलु मध्यमश् च याने स्वराः शुभकरा न तु ये ऽत्र शेषाः ।
ग्रामौ शुभाव् अपि च मध्यमषड्जसञ्ज्ञौ गान्धारगीतम् अपि भद्रम् उशन्ति देवाः ॥
सर्वत्र पापं क्षुतम् उद्दिशन्ति गोस् तु क्षुतं मृत्युकरं यियासोः ।
मार्जाररावस्खलनं च यातुर् वस्त्रस्य भङ्गश् च न शोभनानि ॥
जलकरश्वकरौ न शुभौ प्राग्घातकशस्त्रकरौ यमदिक्स्थौ ।
षण्ढकमद्यकराव् अपि पश्चात् आसनसीरखलैः सह चोदक् ॥
द्रव्याणि शुक्लानि तुरङ्गमश् च पूर्वेण याम्येन शवं समासम् ।
पश्चात् कुमारी दधि चातिशस्तं सौम्येन गोब्राह्मणसाधवश् च ॥
यः पूर्णकूटः सकरायिकाख्यो वामः प्रशस्तः स च पूर्वदेशे ।
काकः शुभो दक्षिणतश् च तेषाम् अन्येषु देशेषु विपर्ययेण ॥
वामे शस्तो धन्वनः सिद्धिदाता प्रोत्तुङ्गश् चेद् धस्तमात्रम् जयाय ।
आकायश् चेद् उन्नतो वामभागे पृथ्वीलाभं धन्वनागः करोति ॥
नरतुरगगजातपत्रकुम्भध्वजशयनासनपुष्पचामराणि ।
व्रजति यदि पुरो ऽवमूत्र्य यातुः क्षपयति शत्रुबलं ततो नरेन्द्रः ॥
विषकण्टकिशुष्कवृक्षलोष्टान् अवमूत्र्यास्थिचितेन याति चेच् छ्वा ।
न शुभो ऽभिमुखो भषन् विधुन्वन् युध्यन् गां विलिखन् नखैर् वमंश् च ॥
उत्तानापादः स्वपते च पापो विलोक्य सूर्यं विरुवंश् च दीनम् ।
शुष्कास्थिलाभाभिमुखश् च कष्टो मांसादिभिः पूर्णमुखश् च शस्तः ॥
पूर्णाननो यस्य क्रोति चाषः प्रदक्षिणं स्वस्तिकम् एव वा खे ।
लाभो महान्तस्य पराभवाय कालेन भङ्गो विजयो जयो ऽस्य ॥
कार्यन्तु मूलशकुने ऽन्तरजे तद् अह्नि विन्द्यात् फलं नियतम् एवम् इमे विचिन्त्याः ।
प्रारंभयानसमयेषु तथा प्रवेशे ग्राह्यं क्षुतन् न शुभदं क्वचिद् अप्य् उशन्ति ॥
क्रोशाद् ऊर्ध्वं शकुनविरुतं निष्फलं प्राहुर् एके
तत्रानिष्टे प्रथमशकुने मानयेत् पञ्च षट् च ।
प्राणायामान् नृपतिर् अशुभे षोडशैवं द्वितीये
प्रत्यागच्छेत् स्वभवनम् अतो यद्य् अनिष्टस् तृतीयः ॥
शुभं दशापाकम् अविघ्नसिद्धिं मूलाभिरक्षाम् अथवा सहायान् ।
दुष्टस्य संसिद्धिम् अनामयत्वं वदन्ति ते मानयितुर् नृपस्य ॥

N/A

References : N/A
Last Updated : November 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP