योगयात्रा - अश्वेङ्गिताध्याय

योग शास्त्र ऋषी मुनींनी जगाला शिकविले.


दीर्घग्रीवाक्षिकूतस् त्रिकहृदयपृथुस् ताम्रताल्वोष्ठजिह्वः
सूक्ष्मत्वक्केशवालः सुशफगतिमुखो ह्रस्वकर्णोष्ठपुच्छः ।
जंघाजानूरुवृत्तः समसितदशनश् चारुसंस्थानरूपो
वाजी सर्वाङ्गशुद्धो भवति नरपतेः शत्रुनाशाय नित्यम् ॥
उत्सर्गान् न शुभदम् आसनापरस्थं वामे च ज्वलनम् अतो ऽपरं प्रशस्तम् ।
सर्वाङ्गज्वलनम् अवृद्धिदं हयानां द्वे वर्षे दहनकणाश् च धूपनं वा ॥
अन्तःपुरं नाशम् उपैति मेढ्रे कोशक्षयं यात्य् उदरे प्रदीप्ते ।
पायौ च पुच्छे च पराजयः स्याद् वक्त्रोत्तमाङ्गज्वलने जयश् च ॥
स्कन्धासनांशज्वलनं जयाय बन्धाय पादज्वलनं प्रदिष्टम् ।
ललाटवक्षोऽक्षिभुजे च धूमः पराभवाय ज्वलनं जयाय ॥
नासापुटप्रोथशिरोऽश्रुपातनेत्रे च रात्रौ ज्वलनं जयाय ।
पालाशताम्रासितकर्बुराणां नित्यं शुकाभस्य सितस्य चेष्टम् ॥
प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद् विना
कम्पो वा वदनाच् च रक्तपतनं धूमस्य वा संभवः ।
अस्वप्नश् च विरुध्यता निशि दिवा निद्रालसध्यानता
सादो ऽधोमुखता विचेष्टितम् इदं नेष्टं स्मृतं वाजिनाम् ॥
आरोहणम् अन्यवाजिनां पर्याणादियुतस्य वाजिनः ।
उपवाह्य तुरङ्गमस्य वा कल्पस्यैव विपन्न शोभना ॥
क्रौञ्चवद् रिपुवधाय ह्रेषितं ग्रीवया त्व् अचलया च सोन्मुखम् ।
स्निग्धम् उच्चम् अनुनादि हृष्टवद् ग्रासरुद्धवदनश् च वाजिभिः ॥
पूर्णपात्रदधिविप्रदेवता गन्धपुष्पफलकाञ्चनादि च ।
द्रव्यमिष्टम् अथवापरं भवेद् ह्रेषता यदि समीपतो जयः ॥
भक्ष्यपानखलिनाभिनन्दिनः पत्युर् औपयिकनन्दिनो ऽथवा ।  
सव्यपार्श्वगतदृष्टयो ऽथवा वाञ्छिरार्थफलदास् तुरङ्गमाः ॥
वामैश् च पादैर् अभिताडयन्तो महीं प्रवासाय भवन्ति भर्त्तुः ।
सन्ध्यासु दीप्ताम् अवलोकयन्तो ह्रेषन्ति चेद् वन्धपराजयाय ॥
अतीव ह्रेषन्ति किरन्ति बालान् निद्रारताश् च प्रवदन्ति यात्राम् ।
रोमत्यजा दीनखरस्वरांश् च प्रांशून् ग्रसन्तश् च भयाय दिष्टाः ॥
समुद्गवद् दक्षिणपार्श्वशायिनः पादं समुत्क्षिप्य च दक्षिणं स्थिताः ।
जयाय शेषेष्व् अपि वाहनेष्व् इदं फलं यथासंभवम् आदिशेद् बुधः ॥
आरोहति क्षितिपतौ विनयोपपन्नो यात्रा ऽनुगो ऽन्यतुरगं प्रति ह्रेषितश् च ।
वक्रेण वा स्पृशति दक्षिणम् आत्मपार्श्वं यो ऽश्वः स भर्तुर् अचिरात् प्रचिनोति लक्ष्मीम् ॥
मुहुर्मुहुर् मूत्रशकृत् करोति न ताड्यमानो ऽप्य् अनुलोमयायी ।
अकार्यभीतो ऽश्रुविलोचनश् च शिवं न भर्त्तुस् तुरगो ऽभिधत्ते ॥

N/A

References : N/A
Last Updated : November 14, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP