पस्पषाह्निक - भाग १०
पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे.
१०.१ - १-३३ - कथम् पुनः इदम् भगवतः पाणिनेः आचार्यस्य लक्षणम् प्रवृत्तम् ।
१०.१ - २-३३ - सिद्धे शब्दार्थसम्बन्धे ।
१०.१ - ३-३३ - सिद्धे शब्दे अर्थे सम्बन्धे च इति ।
१०.१ - ४-३३ - अथ सिद्धशब्दस्य कः पदार्थः ।
१०.१ - ५-३३ - नित्यपर्यायवाची सिद्धशब्दः ।
१०.१ - ६-३३ - कथम् ज्ञायते ।
१०.१ - ७-३३ - यत् कूटस्थेषु अविचालिषु भावेषु वर्तते ।
१०.१ - ८-३३ - तत् यथा सिद्धा द्यौः , सिद्धा पृथिवी सिद्धम् आकाशम् इति ।
१०.१ - ९-३३ - ननु च भोः कार्येषु अपि वर्तते ।
१०.१ - १०-३३ - तत् यथा सिद्धः ओदनः , सिद्धः सूपः सिद्धा यवागूः इति ।
१०.१ - ११-३३ - यावता कार्येषु अपि वर्तते तत्र कुतः एतत् नित्यपर्यायवाचिनः ग्रहणम् न पुनः कार्ये यः सिद्धशब्दः इति ।
१०.१ - १२-३३ - सङ्ग्रहे तावत् कार्यप्रतिद्वन्द्विभावात् मन्यामहे नित्यपर्यायवाचिनः ग्रहणम् इति ।
१०.१ - १३-३३ - इह अपि तत् एव ।
१०.१ - १४-३३ - अथ वा सन्ति एकपदानि अपि अवधारणानि ।
१०.१ - १५-३३ - तत् यथा ॒ अब्भक्षः वायुभक्षः इति ।
१०.१ - १६-३३ - अपः एव भक्षयति वायुम् एव भक्षयति इति गम्यते ।
१०.१ - १७-३३ - एवम् इह अपि सिद्धः एव न साध्यः इति ।
१०.१ - १८-३३ - अथ वा पूर्वपदलोपः अत्र द्रष्टव्यः ॒ अत्यन्तसिद्धः सिद्धः इति ।
१०.१ - १९-३३ - तत् यथा देवदत्तः दत्तः , सत्यभामा भामा इति ।
१०.१ - २०-३३ - अथ वा व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति नित्यपर्यायवाचिनः ग्रहणम् इति व्याख्यास्यामः ।
१०.१ - २१-३३ - किम् पुनः अनेन वर्ण्येन ।
१०.१ - २२-३३ - किम् न महता कण्ठेन नित्यशब्दः एव उपात्तः यस्मिन् उपादीयमाने असन्देहः स्यात् ।
१०.१ - २३-३३ - मङ्गलार्थम् ।
१०.१ - २४-३३ - माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् सिद्धशब्दम् आदितः प्रयुङ्क्ते ।
१०.१ - २५-३३ - मङ्गलादीनि हि शास्त्राणि प्रथन्ते वीरपुरुषकाणि च भवन्ति आयुष्मत्पुरुषकाणि च ।
१०.१ - २६-३३ - अध्येतारः च सिद्धार्थाः यथा स्युः इति ।
१०.१ - २७-३३ - अयम् खलु अपि नित्यशब्दः न अवश्यम् कूटस्थेषु अविचालिषु भावेषु वर्तते ।
१०.१ - २८-३३ - किम् तर्हि ।
१०.१ - २९-३३ - आभीक्ष्ण्ये अपि वर्तते ।
१०.१ - ३०-३३ - तत् यथा नित्यप्रहसितः नित्यप्रजल्पितः इति ।
१०.१ - ३१-३३ - यावता आभीक्ष्ण्ये अपि वर्तते तत्र अपि अन्येन एव अर्थः स्यात् व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।
१०.१ - ३२-३३ - पश्यति तु आचार्यः मङ्गलार्थः च एव सिद्धशब्दः आदितः प्रयुक्तः भविष्यति शक्ष्यामि च एनम् नित्यपर्यायवाचिनम् वर्णयितुम् इति ।
१०.१ - ३३-३३ - अतः सिद्धशब्दः एव उपात्तः न नित्यशब्दः
१०.२ - १-४७ - अथ कम् पुनः पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति ।
१०.२ - २-४७ - आकृतिम् इति आह ।
१०.२ - ३-४७ - कुतः एतत् ।
१०.२ - ४-४७ - आकृतिः हि नित्या ।
१०.२ - ५-४७ - द्रव्यम् अनित्यम् ।
१०.२ - ६-४७ - अथ द्रव्ये पदार्थे कथम् विग्रहः कर्तव्यः ।
१०.२ - ७-४७ - सिद्धे शब्दे अर्थसम्बन्धे च इति ।
१०.२ - ८-४७ - नित्यः हि अर्थवताम् अर्थैः अभिसम्बन्धः ।
१०.२ - ९-४७ - अथ वा द्रव्ये एव पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति. द्रव्यम् हि नित्यम् आकृतिः अनित्या ।
१०.२ - १०-४७ - कथम् ज्ञायते ।
१०.२ - ११-४७ - एवम् हि दृश्यते लोके ।
१०.२ - १२-४७ - मृत् कया चित् आकृत्या युक्ता पिण्डः भवति ।
१०.२ - १३-४७ - पिण्डाकृतिम् उपमृद्य घटिकाः किर्यन्ते ।
१०.२ - १४-४७ - घटिकाकृतिम् उपमृद्य कुण्डिकाः क्रियन्ते ।
१०.२ - १५-४७ - तथा सुवर्णम् कया चित् आकृत्या युक्तम् पिण्डः भवति ।
१०.२ - १६-४७ - पिण्डाकृतिम् उपमृद्य रुचकाः क्रियन्ते ।
१०.२ - १७-४७ - रुचकाकृतिम् उपमृद्य कटकाः क्रियन्ते ।
१०.२ - १८-४७ - कटकाकृतिम् उप्मृद्य स्वस्तिकाः क्रियन्ते ।
१०.२ - १९-४७ - पुनः आवृत्तः सुवर्णपिण्डः पुनः अपरया आकृत्या युक्तः खदिरागारसवर्णे कुण्डले भवतः ।
१०.२ - २०-४७ - आकृतिः अन्या च अन्या च भवति द्रव्यम् पुनः तद् एव ।
१०.२ - २१-४७ - आकृत्युपमर्देन द्रव्यम् एव अवशिष्यते ।
१०.२ - २२-४७ - आकृतौ अपि पदार्थे एषः विग्रहः न्याय्यः सिद्धे शब्दे अर्थे सम्बन्धे च इति ।
१०.२ - २३-४७ - ननु च उक्तम् आकृतिः अनित्या इति ।
१०.२ - २४-४७ - न एतत् अस्ति ।
१०.२ - २५-४७ - नित्या आकृतिः ।
१०.२ - २६-४७ - कथम् ।
१०.२ - २७-४७ - न क्व चित् उपरता इति कृत्वा सर्वत्र उपरता भवति ।
१०.२ - २८-४७ - द्रव्यान्तरस्था तु उपलभ्यते ।
१०.२ - २९-४७ - अथ वा न इदम् एव नित्यलक्षणम् ध्रुवम् कूटस्थम् अविचालि अनपायोपजनविकारि अनुत्पत्ति अवृद्धि अव्यययोगि इति तन् नित्यम् इति ।
१०.२ - ३०-४७ - तत् अपि नित्यम् यस्मिन् तत्त्वम् न विहन्यते ।
१०.२ - ३१-४७ - किम् पुनः तत्त्वम् ।
१०.२ - ३२-४७ - तद्भावः तत्त्वम् ।
१०.२ - ३३-४७ - आकृतौ अपि तत्त्वम् न विहन्यते ।
१०.२ - ३४-४७ - अथ वा किम् नः एतेन इदम् नित्यम् इदम् अनित्यम् इति ।
१०.२ - ३५-४७ - यत् नित्यम् तम् पदार्थम् मत्वा एषः विग्रहः क्रियते सिद्धे शब्दे अर्थे सम्बन्धे च इति ।
१०.२ - ३६-४७ - कथम् पुनः ज्ञायते सिद्धः शब्दः अर्थः सम्बन्धः च इति ।
१०.२ - ३७-४७ - लोकतः ।
१०.२ - ३८-४७ - यत् लोके अर्थम् उपादाय शब्दान् प्रयुञ्जते ।
१०.२ - ३९-४७ - न एषाम् निर्वृत्तौ यत्नम् कुर्वन्ति ।
१०.२ - ४०-४७ - ये पुनः कार्याः भावाः निर्वृत्तौ तावत् तेषाम् यत्नः क्रियते ।
१०.२ - ४१-४७ - तत् यथा ।
१०.२ - ४२-४७ - घटेन कार्यम् करिष्यन् कुम्भकारकुलम् गत्वा आह कुरु घटम् ।
१०.२ - ४३-४७ - कार्यम् अनेन करिष्यामि इति ।
१०.२ - ४४-४७ - न तद्वत् शब्दान् प्रयोक्ष्यमाणः वैयाकरणकुलम् गत्वा आह ।
१०.२ - ४५-४७ - कुरु शब्दान् ।
१०.२ - ४६-४७ - प्रयोक्ष्ये इति ।
१०.२ - ४७-४७ - तावति एव अर्थम् उपादाय शब्दान् प्रयुञ्जते ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP