पस्पषाह्निक - भाग १५
पस्पषाह्निक संस्कृतमधील एक दुर्मिळ ग्रंथ आहे.
१५ - १-८० - अथ किमर्थः वर्णानाम् उपदेशः ।
१५ - २-८० - वृत्तिसमवायार्थः उपदेशः । वृत्तिसमवायार्थः वर्णानाम् उपदेशः कर्तव्यः ।
१५ - ३-८० - किम् इदम् वृत्तिसमवयार्थः इति ।
१५ - ४-८० - वृत्तये समवायः वृत्तिसमवायः , वृत्त्यर्थः वा समवायः वृत्तिसमवायः , वृत्तिप्रयोजनः वा वृत्तिसमवयः ।
१५ - ५-८० - का पुनः वृत्तिः ।
१५ - ६-८० - शास्त्रप्रवृत्तिः ।
१५ - ७-८० - अथ कः समवयः ।
१५ - ८-८० - वर्णानाम् आनुपूर्व्येण सन्निवेशः ।
१५ - ९-८० - अथ कः उपदेशः ।
१५ - १०-८० - उच्चारणम् ।
१५ - ११-८० - कुतः एतत् ।
१५ - १२-८० - दिशिः उच्चारणक्रियः ।
१५ - १३-८० - उच्चार्य हि वर्णान् आह ॒ उपदिष्टाः इमे वर्णाः इति ।
१५ - १४-८० - अनुबन्धकरणार्थः च । अनुबन्धकरणार्थः च वर्णानाम् उपदेशः कर्तव्यः ।
१५ - १५-८० - अनुबन्धान् आसङ्क्ष्यामि इति ।
१५ - १६-८० - न हि अनुपदिश्य वर्णान् अनुबन्धाः शक्याः आसङ्क्तुम् ।
१५ - १७-८० - सः एषः वर्णानाम् उपदेशः वृत्तिसमवायार्थः च अनुबन्धकरणार्थः च ।
१५ - १८-८० - वृत्तिसमवायः च अनुबन्धकरणार्थः च प्रत्याहारार्थम् ।
१५ - १९-८० - प्रत्याहारः वृत्त्यर्थः ।
१५ - २०-८० - इष्टबुद्ध्यर्थः च ।
१५ - २१-८० - इष्टबुद्ध्यर्थः च वर्णानाम् उपदेशः ।
१५ - २२-८० - इष्टान् वर्णान् भोत्स्ये इति ।
१५ - २३-८० - इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः । इष्टबुद्ध्यर्थः च इति चेत् उदात्तानुदात्तस्वरितानुनासिक्दीर्घप्लुतानाम् अपि उपदेशः कर्तव्यः ।
१५ - २४-८० - एवङ्गुणाः अपि हि वर्णाः इष्यन्ते ।
१५ - २५-८० - आकृत्युपदेशात् सिद्धम् ।
१५ - २६-८० - आकृत्युपदेशात् सिद्धम् एतत् ।
१५ - २७-८० - अवर्णाकृतिः उपदिष्टा सर्वम् अवर्णकुलम् ग्रहीष्यति ।
१५ - २८-८० - तथा इवर्णकुलाकृतिः ।
१५ - २९-८० - तथा उवर्णकुलाकृतिः ।
१५ - ३०-८० - आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः ।
१५ - ३१-८० - आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः वक्तव्यः ।
१५ - ३२-८० - के पुनः संवृतादयः ।
१५ - ३३-८० - संवृतः कलः ध्मातः एणीकृतः अम्बूकृतः अर्धकः ग्रस्तः निरस्तः प्रगीतः उपगीतः क्ष्विण्णः रोमशः इति ।
१५ - ३४-८० - अपरः आह ॒ ग्रस्तम् निरस्तम् अविलम्बितम् निर्हतम् अम्बूकृतम् ध्मातम् अथो विकम्पितम् सन्दष्टम् एणीकृतम् अर्धकम् द्रुतम् विकीर्णम् एताः स्वरदोषभावनाः इति ।
१५ - ३५-८० - अतः अन्ये व्यञ्जनदोषाः ।
१५ - ३६-८० - न एषः दोषः ।
१५ - ३७-८० - गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति ।
१५ - ३८-८० - अस्ति अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् ।
१५ - ३९-८० - किम् ।
१५ - ४०-८० - समुदायानाम् साधुत्वम् यथा स्यात् इति ।
१५ - ४१-८० - एवम् तर्हि अष्टादशधा भिन्नाम् निवृत्तकलादिकाम् अवर्णस्य प्रत्यापत्तिम् वक्ष्यामि ।
१५ - ४२-८० - सा तर्हि वक्तव्या ।
१५ - ४३-८० - लिङ्गार्था तु प्रत्यापत्तिः ।
१५ - ४४-८० - लिङ्गार्थ सा तर्हि भविष्यति ।
१५ - ४५-८० - तत् तर्हि वक्तव्यम् ।
१५ - ४६-८० - यदि अपि एतत् उच्यते अथ वा एतर्हि अनुबन्धशतम् न उच्चार्यम् इत्सञ्ज्ञा च न वक्तव्या लोपः च न वक्तव्यः ।
१५ - ४७-८० - यत् अनुबन्धैः क्रियते तत् कलादिभिः करिष्यति ।
१५ - ४८-८० - सिध्यति एवम् अपाणिनीयम् तु भवति ।
१५ - ४९-८० - यथान्यासम् एव अस्तु ।
१५ - ५०-८० - ननु च उक्तम् आकृत्युपदेशात् सिद्धम् इति चेत् संवृतादीनाम् प्रतिषेधः इति ।परिहृतम् एतत् गर्गादिबिदादिपाठात् संवृतादीनाम् निवृत्तिः भविष्यति ।
१५ - ५१-८० - ननु च अन्यत् गर्गादिबिदादिपाठे प्रयोजनम् उक्तम् ।
१५ - ५२-८० - किम् ।
१५ - ५३-८० - समुदायानाम् साधुत्वम् यथा स्यात् इति ।
१५ - ५४-८० - एवम् तर्हि उभयम् अनेन क्रियते ।
१५ - ५५-८० - पाठः च एव विशेष्यते कलादयः च निवर्त्यन्ते ।
१५ - ५६-८० - कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।
१५ - ५७-८० - लभ्यम् इति आह ।
१५ - ५८-८० - कथम् ।
१५ - ५९-८० - द्विगताः अपि हेतवः भवन्ति ।
१५ - ६०-८० - तत् यथा ॒ आम्राः च सिक्ताः पितरः च प्रीणिताः इति ।
१५ - ६१-८० - तथा वाक्यानि अपि ड्विष्ठानि भवन्ति ।
१५ - ६२-८० - श्वेतः धावति , अलम्बुसानाम् याता इति ।
१५ - ६३-८० - अथ वा इदम् तावत् अयम् प्रष्टव्यः ।
१५ - ६४-८० - क्वे इमे संवृतादयः श्रूयेरन् इति ।
१५ - ६५-८० - आगमेषु ।
१५ - ६६-८० - आगमाः शुद्धाः पठ्यन्ते ।
१५ - ६७-८० - विकारेषु तर्हि ।
१५ - ६८-८० - विकाराः शुद्धाः पठ्यन्ते ।
१५ - ६९-८० - प्रत्ययेषु तर्हि ।
१५ - ७०-८० - प्रत्ययाः शुद्धाः पठ्यन्ते ।
१५ - ७१-८० - धातुषु तर्हि ।
१५ - ७२-८० - धातवः अपि शुद्धाः पठ्यन्ते ।
१५ - ७३-८० - प्रातिपदिकेषु तर्हि ।
१५ - ७४-८० - प्रातिपदिकानि अपि शुद्धानि पठ्यन्ते ।
१५ - ७५-८० - यानि तर्हि अग्रहणानि प्रातिपदिकानि ।
१५ - ७६-८० - एतेषाम् अपि स्वरवर्णानुपूर्वीज्ञानार्थः उपदेशः कर्तव्यः ।
१५ - ७७-८० - शशः षषः इति मा भूत् ।
१५ - ७८-८० - पलाशः पलाषः इति मा भूत् ।
१५ - ७९-८० - मञ्चकः मञ्जकः इति मा भूत् ।
१५ - ८०-८० - आगमाः च विकाराः च प्रत्ययाः सह धातुभिः उच्चार्यन्ते ततः तेषु न इमे प्राप्ताः कलादयः ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP