रामचरितमहाकाव्य - प्रथमः सर्गः
संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.
अथ माल्यवतः प्रस्थे काकुत्स्थस्य वियोगिनः ।
दुर्निवाराश्रुसंवेगो जगाम जलदागमः ॥१.१॥
शशाम वृष्टिर्मेघानां उत्सङ्गे तस्य भूभृतः ।
विरराम न रामस्य धारासन्ततिरश्रुणः ॥१.२॥
इतस्ततः परिणतिं भेजे बर्हिणकूजितं ।
हा प्रिये राजपुत्रीति न रामपरिदेवितं॥ १.३॥
काप्यभिख्या विरजसोः सूर्याचन्द्रमसोरभूथ् ।
दाशरथ्योस्तथैवासीदयोगोपहता रुचिः ॥१.४॥
निर्मलेन्दु नभो रेजे विकचाब्जं बभौ सरः ।
परं पर्यश्रुवदनौ मम्लतुर्भ्रातरावुभौ ॥१.५॥
स्मर्तव्यकलिकाजालं जज्ञे कुटजकाननं ।
आसीत्तथैव तु मनो रामस्योत्कलिकाकुलं॥ १.६॥
प्रपेदे पुनरुद्भेदः शुचिना कच्छकेतकैः ।
उपक्रियायाः सदृशं नारेभे रविसूनुना ॥१.७॥
आकृष्टमालतीगन्धः सिषेवे राघवं मरुथ् ।
आनीतमैथिलीवार्तस्तं आर्तं न तु मारुतिः ॥१.८॥
रामाय पूरापगमव्यक्तोद्देशाश्चकाशिरे ।
आस्तेऽस्मासु न सीतेति शंसन्त्य इव निम्नगाः ॥१.९॥
यदार्द्रविरहो रामः प्रापितः प्राणसंशयं ।
नूनं तेनानुतापेन जग्मुर्जलदराजयः ॥१.१०॥
द्यौर्मुक्तमेघावरणा सवितर्कोन्मुखं मुहुः ।
ययाचे सारसरुतैर्विचारं इव राघवं॥ १.११॥
दिशो ददृशिरे तेन स्तेनं तं परिमार्गता ।
मार्गदानापराधिन्यो गता दूरं भयादिव ॥१.१२॥
तस्याकृतिविशेषस्य विशेषात्कष्टं ईदृशं ।
कच्छाः काशच्छलादूहुरितीव पलितागमं॥ १.१३॥
पश्यन्त्या इव कष्टां तां अवस्थां मैथिलीपतेः ।
शुष्कपङ्कचयव्याजाद्विदद्रे हृदयं भुवः ॥१.१४॥
वृष्टिविच्छेदजातेन तानवेनासमाप्तिना ।
प्रपेदिरे जलधरास्तस्य सब्रह्मचारितां॥ १.१५॥
ययौ विरहसंवर्तः पद्मिनीराजहंसयोः ।
अपारदुःखार्णवयोर्न सीतारामभद्रयोः ॥१.१६॥
शान्तनिर्झरझात्कारधाराः शिखरिणो बभुः ।
रामस्य विशदालापशुश्रूषानिभृता इव ॥१.१७॥
तस्य चक्रुश्चमत्कारं व्यतीतसमया अपि ।
स्मिताभमुकुलोद्भेदाः कदम्बवनराजयः ॥१.१८॥
अदृश्यन्त पुरस्तेन खेलाः खञ्जनपङ्क्तयः ।
अस्मर्यन्त च निश्वस्य प्रियानयनविभ्रमाः ॥१.१९॥
अब्रवीदथ कालज्ञस्तत्कालप्रतिपत्तये ।
प्रणम्य लक्ष्मणो रामं रामाविरहनिःसहं॥ १.२०॥
जातं विभातं अमलं पश्य प्रावृण्णिशा गता ।
उत्साहकमलस्यायं विकासावसरस्तव ॥१.२१॥
उच्छ्रयं तीरतरवो रवेरूर्जं अभीषवः ।
मदं गोपतयो गृह्णन्त्यभियोगं जिगीषवः ॥१.२२॥
प्रसीद दीयतां कर्णः कूजद्भिः कुररैरमी ।
प्रार्थयन्तीव संचारं तटाः कर्दमदुर्गताः ॥१.२३॥
भुवि भास्वदभीषूणां त्वदिषूणां च शत्रुषु ।
अयं सम्पतितुं कालः स दुष्कालोऽतिवाहितः ॥१.२४॥
सुदूरोन्नतपर्यन्तास्तीर्यन्ते संक्रमैरिव ।
अनल्पगाधाः सरितस्तरुभिः पूरपातितैः ॥१.२५॥
आविष्कृतविशुद्धिभ्यां नद्यः सुमहिला इव ।
कुलाभ्यां इव कूलाभ्यां आपत्स्वपि चकासति ॥१.२६॥
जलजानां सुमनसां वयसां जलसेविनां ।
अस्य प्रतिजलाधारं सामग्र्यं अवलोक्यते ॥१.२७॥
युयुत्सारभसोत्खातसरित्खातकरोधसः ।
कुकुद्मन्तो मदकलाः कलयन्ति जगन्त्यधः ॥१.२८॥
विश्वेश कुरु विश्वासं आवर्तन्ते न ते घनाः ।
अमी श्यामलयन्त्याशाः शुकाः शालिवनोन्मुखाः ॥१.२९॥
मृगाः सम्प्रति शालेयं सम्पन्नं सम्पतन्त्यमी ।
साकेतं अधितिष्ठन्तं अर्थिनस्त्वां इवोन्मुखाः ॥१.३०॥
कार्यदिग्गृह्यतां कापि किं आर्य स्थीयते वृथा ।
एवं एवायं अस्माकं इष्टोऽपि किं उपैष्यति ॥१.३१॥
विजयाय भवासीनो मय्यर्पितवपुर्भरः ।
मूर्च्छानुवलनव्यस्तः प्रस्तरस्त्यज्यतां अयं॥ १.३२॥
प्रतीष्टोपत्यकासालदलाग्रजलबिन्दवः ।
सार्यन्तां क्षणं उद्धूय स्थगितांसतटा जटाः ॥१.३३॥
मुहूर्तं क्रियतां आर्य कपोलविरही करः ।
व्युषितो वल्कलग्रन्थिरंसादुन्मोच्यतां अयं॥ १.३४॥
इतो वितत्य दीयन्तां इषवः क्लिन्नयन्त्रणाः ।
निर्मुक्तार्द्रजरच्चैलं आदत्तां आयतं धनुः ॥१.३५॥
इतोऽवतीर्यतां प्रास्थादस्वास्थ्यं इदं उज्झ्यतां ।
जहीषुभिर्दशग्रीवं दशदिग्वेधशोधितैः ॥१.३६॥
ऋजुरादीयतां पन्थाः कार्यकन्था गरीयसी ।
उत्सार्यतां इदं दूरं तमः किंकार्यतामयं॥ १.३७॥
आर्यायाः शिवं एवास्ति शत्रुर्निहत एव ते ।
अलं दत्त्वावसादाय त्रैलोक्यशरणं वपुः ॥१.३८॥
राक्षसापशदः कोऽसौ त्वयि सज्यशरासने ।
अनेन तेऽवसादेन दूरं आरोपितः पुनः ॥१.३९॥
अश्रुवेगैः प्रमीलाभिर्विलापैरखिलः स ते ।
आमृष्टदेहयात्रस्य मासः प्रौष्ठपदो गतः ॥१.४०॥
क्रियतां अधुनोत्साहश्चिन्त्यतां निधनं द्विषः ।
कः स्वबाहुसहायानां महतां आत्मनिग्रहः ॥१.४१॥
भद्रं भाद्रपदच्छेदच्छिन्नाभ्राजिनरज्जवे ।
तुभ्यं पुरुषनागाय निर्विघ्नतरसेऽधुना ॥१.४२॥
प्रसीद कुरु भूयोऽपि देहयात्रां यथा तथा ।
अनुल्लङ्घितविज्ञप्तिर्लक्ष्मणोऽवरजेषु ते ॥१.४३॥
अगाधं धैर्यं आर्यस्य त्रिषु लोकेषु गीयते ।
जनमात्रोचितः कोऽयं आकल्पकपरिग्रहः ॥१.४४॥
अरोपशमितोदग्रजामदग्न्याग्नितेजसः ।
प्रतीच्छति शरासारं तवार्य रुषितस्य कः ॥१.४५॥
स्वकृत्यभारसन्न्यासी यावदित्थं विषीदसि ।
तावदन्तकदंष्ट्राणां अरातिरतिथिर्न ते ॥१.४६॥
आततायी स विज्ञातो जीवत्यार्येति च श्रुतं ।
प्राप्तो यात्रासहः कालः कालक्षेपस्य को गुणः ॥१.४७॥
न ज्ञायते परं व्यक्तं अरेर्मायाविनः पदं ।
तन्मार्गणं च सुहृदा सुग्रीवेण प्रतिश्रुतं॥ १.४८॥
दिङ्मुखाहूतविख्यातकपियूथः कपीश्वरः ।
क्षणान्नूनं असवार्यपादमूले पतिष्यति ॥१.४९॥
शालिपिङ्गमहीपृष्ठस्पर्धयेव भविष्यति ।
रंहस्विहरिसंघातसम्पातकपिलं नभः ॥१.५०॥
तेषां आरोषरुचिरैरचिरान्मुखमण्डलैः ।
द्रक्ष्यते तरुणादित्यशतच्छन्नं इवाम्बरं॥ १.५१॥
अहो दीप्तिरहो कान्तिरहो शीलं अहो बलं ।
अहो शक्तिरहो भक्तिरहो प्रज्ञा हनूमतः ॥१.५२॥
प्रगल्भेनाप्रमत्तेन तेनाभ्यन्तरमन्त्रिणा ।
नूनं अस्मत्कृते स्वप्तुं सुग्रीवाय न दीयते ॥१.५३॥
स च प्रत्युपकाराय त्वरयत्येनं आदृतः ।
ध्रुवं बुद्धिवयोवृद्धः सचिवो जाम्बवानपि ॥१.५४॥
तदेवं हेतुना केन वानरेन्द्रो विलम्बते ।
नासौ कृतघ्नस्य भवेद्गुणवद्भृत्यसंग्रहः ॥१.५५॥
आगन्तव्यं ध्रुवं तेन मार्गितार्या प्रवृत्तिना ।
प्रपन्नपरकृत्यानां अत्युष्णो हि समुद्यमः ॥१.५६॥
त्वत्प्रसादाप्तसम्भोगसुखसंमीलितेन वा ।
न तेनामूर्ददृशिरे दिशः प्रोषितकालिकाः ॥१.५७॥
कियच्चिरं पुनरसौ तस्य न श्रुतिं एष्यति ।
क्रीडातटाकहंसानां निनादो मदमूर्छितः ॥१.५८॥
उक्तैः किं अथ भूयोभिरद्य श्वो वागमिष्यति ।
पर्युत्सुकितकिष्किन्धः सत्यसन्धो हरीश्वरः ॥१.५९॥
व्यतिरेकेऽपि यत्कार्यं तदप्यार्य प्रधार्यतां ।
गृह्यतां कार्यसिद्धिर्नस्तद्विलम्बतिरस्कृता ॥१.६०॥
यस्तथोपकृतः पूर्वं आर्येणार्याकृतेऽधुना ।
स शीतलः स्यादथवा परचित्तानि वेत्ति कः ॥१.६१॥
स प्रतिश्रुतं अर्थं नः स्फीतो विस्मृतवानिव ।
गत्वाशु स्मार्यतां आर्य कार्यतप्तस्य का क्षमा ॥१.६२॥
तं अहं बोधयिष्यामि दण्डगर्भाभिरुक्तिभिः ।
साम संमीलयत्येव सुखसक्तान्प्रमादिनः ॥१.६३॥
प्रसीद जीयतां मोहः कोऽहं इत्यवधीयतां ।
द्रुतं उत्तीर्ण एवास्ते व्यसनाब्धिः कियानयं॥ १.६४॥
सूनृतैरिति स्ॐइत्रेः प्रीतः पीयूषवर्षिभिः ।
तं अन्तर्वेदनावेगं जिगायेव रघूद्वहः ॥१.६५॥
उन्मीलयामास दृशौ दिशः किंचिदलोकत ।
उन्ननाम च तल्पान्तान्मोचयन्पक्ष्मला जटाः ॥१.६६॥
सत्वरप्रह्वस्ॐइत्रिचीरोत्सारितरेणुनि ।
शुचिनि क्वचिदासन्ने निषसाद शिलातले ॥१.६७॥
उपविष्टस्तदा रामो न रेजे सीतया विना ।
ध्वजो निर्वैजयन्तीकः पौरन्दर इवोच्छ्रितः ॥१.६८॥
अनूपविष्टं अनुजं दनुजारिं इवाद्रिजिथ् ।
प्रत्यभाषत वात्सल्यगद्गदानि पदानि सः ॥१.६९॥
एह्येहि प्रियसंलाप ह्लादयालिङ्गितेन मां ।
रुद्धं रुद्धं उपैत्यश्रु त्वां अपीक्षे न लक्ष्मण ॥१.७०॥
हा वत्स भवतोऽपीयं अवस्थाङ्गेषु वर्तते ।
ध्रियतां रामहतकः क्लेशयन्नेकबान्धवं॥ १.७१॥
नास्ति वत्स चिकित्सास्य व्याधेर्विधुरजन्मनः ।
यस्य यापनया क्षीणं इदं ते सान्त्वनामृतं॥ १.७२॥
नैकदुर्वारघोराधिघट्टनाचलिता अपि ।
तवाश्वासनया वत्स न गच्छन्ति ममासवः ॥१.७३॥
पितुर्नः प्रियमित्रस्य लूनपक्षस्य मद्द्विषा ।
संस्मरन्नोत्सहे वत्स मर्मच्छेदं जटायुषः ॥१.७४॥
तातस्य तातमित्रस्य वत्सवत्सलयोस्तयोः ।
अहं एव गतः पापो निधनाय निमित्ततां॥ १.७५॥
प्रियापहारजः शाम्येत्सम्यगुन्मूलिते रिपौ ।
मन्युर्देहावधिरयं तातमित्रविपत्तिभूः ॥१.७६॥
नभस्तलात्खगपतौ पतति च्छिन्नपक्षतौ ।
कोऽपरस्तां मम सुहृन्मा भैषीरित्यभाषत ॥१.७७॥
स्याद्वत्स रामहतकात्क्लीबः कः पुरुषोऽपरः ।
एकपत्नीं अनुगतां अरातेर्यो न रक्षति ॥१.७८॥
तया तेषु तपस्विन्या सीदतोरावयोरपि ।
दण्डकारण्यकष्टेषु मुखं न विधुरीकृतं॥ १.७९॥
विदेहराजस्य सुता स्नुषा दशरथस्य सा ।
हतरामस्य जायेति भ्रमति स्म वने वने ॥१.८०॥
स्वं अप्यपुष्णता कायं अपि जायां अरक्षता ।
मया समः श्रुतः कोऽपि जातः क्लीबो रघोः कुले ॥१.८१॥
त्वं केवलं न सुभ्राता तथा विलपता मुहुः ।
तिर्यञ्चोऽपि मयामुष्मिन्वने लक्ष्मण रोदिताः ॥१.८२॥
दिक्षु सन्नद्धमेघासु मम घोराधिसाक्षिणां ।
अवहन्निर्झरनिभान्नगानां अश्रुनिम्नगाः ॥१.८३॥
आरादाकर्णितस्निग्धनवाब्दनिनदैरपि ।
मत्कारुण्यादरण्येऽपि नानृत्यत कलापिभिः ॥१.८४॥
सत्यं एष्यति सुग्रीवः सत्यं जीवति जानकी ।
त्वद्वचो न विपर्येति भ्रातर्ब्रूहि पुनः पुनः ॥१.८५॥
त्वद्वाक्यशीकरैरेभिर्निरुद्धबहिरुद्गमः ।
ममान्तर्लेढि मर्माणि सीताविरहमुर्मुरः ॥१.८६॥
तस्मादपि दहत्युच्चैरयं मां अपरः शिखी ।
यद्वनौकसि निर्वैरे मुक्तो वालिनि मार्गणः ॥१.८७॥
गुर्वी पुनश्च लज्जेयं उत्तमर्णैरिवाधुना ।
मार्गितव्यो यदस्माभिः प्लवगाः प्रत्युपक्रियां॥ १.८८॥
नास्ति प्रत्युपकाराशा तत्र नश्चपले कपौ ।
येनातिलघुनोत्तुङ्गो लङ्घितः सत्यपादपः ॥१.८९॥
उत्तिष्ठ वत्स गच्छावः साधयामोऽन्यतोऽधुना ।
नवैश्वर्यसुखव्यग्रः सुग्रीवो नागं इष्यति ॥१.९०॥
तपस्वी रमतां एवं चिराद्दारैः समागतः ।
स पीड्यमानः प्रणयाद्विरसः किं करिष्यति ॥१.९१॥
किं च वत्स दशासाम्याज्जाताः स्मः सुहृदः पुरा ।
तस्याधुना तु विस्तीर्णविभवान्धस्य के वयं॥ १.९२॥
गृहीतसाधुवर्त्मापि सद्यः सम्प्राप्य सम्पदं ।
पतति स्खलितोऽतीव प्रमत्तः प्रहते पथि ॥१.९३॥
स वत्स विरलो जन्तुर्विपत्कालप्रतिश्रुतं ।
सद्यः सम्पन्मदो यस्य न विलुम्पति चेतसि ॥१.९४॥
अस्तु साधुरसाधुर्वा न विचार्यः स मेऽधुना ।
वत्स नोत्सहते चेतस्तत्र दोग्धुं उपक्रियां॥ १.९५॥
असावनागतः श्रेयानागच्छन्वत्स वार्यतां ।
प्रवेशयन्ति सुहृदं न धीराः स्वार्थसंकटे ॥१.९६॥
कर्तव्योपकृतिः सद्भिर्यत्र तत्र विपद्गते ।
अविमृश्य कृतोऽस्माभिः स पुनः कृपणः पणः ॥१.९७॥
किं क्षिप्तं अचलप्रान्तादन्तःसुप्तशिवाशतं ।
निर्देशपुरुषेणेव कङ्कालं दुन्दुभेर्मया ॥१.९८॥
कस्यार्थस्य कृते विद्धाः सप्त सालास्तपस्विनः ।
स मा प्रत्येतु वैधेयः किं न साधितं अन्यतः ॥१.९९॥
अक्षात्रं क्षत्रिययुवा को नु राम इव क्षिपेथ् ।
विशिखं वालिनि व्यग्रे सुग्रीवस्य पशोः कृते ॥१.१००॥
न परित्यज्यते मार्गस्तावन्निर्वाच्यकर्दमः ।
यावत्पिहितकष्टाय कार्यायात्मा न दीयते ॥१.१०१॥
इष्वैकया मया विद्धो बालिशेन वलीमुखः ।
अनुद्धाराः शरास्तेन रोपिता मयि वाङ्मयाः ॥१.१०२॥
अनवाप्तविपत्पारः स्मरिष्यामि कियन्ति वा ।
वत्स कालोचितं शाधि न रामः किंचिदीक्षते ॥१.१०३॥
अवलम्बस्व मां भ्रातः सीतास्मरणनिस्सहं ।
दूरं पुनः प्रभवता मनो मोहेन लुप्यते ॥१.१०४॥
सनाथोभयपार्श्वस्य त्वया वत्स तया च मे ।
वनेषु च सतः कष्टं अजनिष्ट न किंचन ॥१.१०५॥
हा भीरु हा प्रियतमे हा मद्विरहकातरे ।
क्वासीत्यर्धोक्तिनिस्संज्ञो जगाम स महीतलं॥ १.१०६॥
मातः कैकेयि तुष्टासि भुङ्क्ष्व राज्यं अकण्टकं ।
वदन्नित्यपतत्तस्य लक्ष्मणश्चरणाब्जयोः ॥१.१०७॥
ततस्तौ साश्रुनयनौ मृगैर्विधुरवीक्षितौ ।
निपेततुर्दिव इव भ्रष्टौ विधुरवी क्षितौ ॥१.१०८॥
इति निपतितयोस्तयोर्द्वयोर्दशरथनन्दनयोर्महीतले ।
दशभिरपि दिगङ्गनामुखैरधृतिवशादिव तत्यजे रुचिः ॥१.१०९॥
एते निकामरसिकस्य जयन्ति पादाः श्रीहारवर्षयुवराजमहीतलेन्दोः ।
यैर्द्वादशार्ककिरणोत्करदुर्निवारः सृष्टोऽभिनन्दकुमुदस्य महाविकासः ॥१.११०॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये प्रथमः सर्गः समाप्तः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP