रामचरितमहाकाव्य - द्वितीयः सर्गः
संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.या काव्याचे कवी आहेत, अभिनन्द.
तां अनीक्षितचरीं अधीरतां आत्मनोऽथ विनियम्य लक्ष्मणः ।
सान्त्वनार्थं इति वाचं अब्रवीत्तीव्रमन्युरयमूढं अग्रजं॥ २.१॥
कार्यं आर्य परिशिष्टं उच्यतां मुच्यतां इदं अयोगजं तमः ।
राजतूद्यमदिवाकरोदयस्मेरं आशु मुखपङ्कजं तव ॥२.२॥
आसितुं समय एष नावयोर्मोहं इत्थं अवलम्बितुं न च ।
उत्सहस्व ननु हृष्यतां चिरादिष्वधीनं अधुनाभिकाङ्क्षितं॥ २.३॥
केवलं फलभुजो न तस्य नस्तस्करस्य निलयेऽस्ति निश्चयः ।
अभ्युपैतु रविनन्दनः क्षणादन्धकारं इदं अप्यपैष्यति ॥२.४॥
औरसानपि सुतानरीनिव घ्नन्ति कारणवशान्महीभुजः ।
निग्रहादनुजविद्विषः कपेः किं पृथग्जन इवानुतप्यसे ॥२.५॥
क्रीडतां मृगवनेषु धन्विनां जीवकोटिकदनेऽपि का क्षतिः ।
खिद्यसे किं अनिशं प्रयोजनादेकवानरवधः कुतः कृतः ॥२.६॥
तस्य च प्रवयसो जटायुषः स्वर्गिणः किं अधुनानुशोच्यते ।
येन जर्जरकलेवरव्ययात्क्रीतं इन्दुकिरणोज्ज्वलं यशः ॥२.७॥
एतदेकं अतिवाह्यतां अहः श्वो न स प्लवगराट्प्रतीक्ष्यते ।
तत्प्रसीद परितो विचीयतात्मनैव सनगार्णवावनिः ॥२.८॥
तत्कबन्धशबरीहनूमतां आवयोरजनि सङ्गतं यथा ।
इष्टशंसि वनशैलपान्थयोः किं तथान्यदपि नापतेत्पुनः ॥२.९॥
यत्र यत्र तव सिद्धिरग्रतः कः करिष्यति न ते समीहितं ।
उज्ज्वले कृतविदां न केवलं तेन वर्त्मनि दुरात्मना स्थितं॥ २.१०॥
सम्भवत्यभिमरः पुरेऽथवा तस्य तीव्रं अयशः किं उच्यते ।
दुःखं उत्खनति कण्टकावलीरङ्गसन्धिषु नवः किलेश्वरः ॥२.११॥
सम्प्रति प्रथमं आर्य गृह्यतां तत्प्रवृत्तिं उपलब्धुं उद्यमः ।
मर्षणीयपरिलम्बदूषणः सोऽधुनाप्यकपटो घटते चेथ् ॥ २.१२॥
मुञ्च मोहं अवतीर्यतां इतः सेव्यतां इयं अनाविला नदी ।
एष गच्छति जवाज्जपारुणो वारुणीं अरुणसारथिर्दिशं॥ २.१३॥
उन्मिमील रघुनन्दनश्चिरात्तन्निशम्य वचनं चमत्कृतः ।
अप्ययोगविधुरा न शेरते संमुखीनविधयस्तथाविधाः ॥२.१४॥
मुक्तमोहं अवलोक्य लक्ष्मणस्तं मृगाङ्कं इव मेघनिर्गतं ।
आददेऽथ शशिकान्तभूधरस्यन्दबिन्दुशिशिरां सरस्वतीं॥ २.१५॥
एष पश्य पतितो नभस्तलादस्तशैलगहनेषु नश्यति ।
सन्ध्यया चरमदिक्प्रगल्भया भग्नसान्द्रकरपञ्जरः खगः ॥२.१६॥
शक्यं अर्चितुं अनुच्चपाणिभिः पाशपाणिनगरीनिवासिभिः ।
सानुरोध इव दूरबन्धुरो बन्धुजीवकुसुमारुणो रविः ॥२.१७॥
एष मुक्तकरपाटवो रविर्नाटयत्यनुगुणत्वं अप्पतौ ।
आपदि प्रकृतिरुज्झिता वरं नाश्रयस्य विसदृग्विचेष्टितं॥ २.१८॥
बिम्बमूलरुचिरा रवेरमी रेचयन्ति गगनं गभस्तयः ।
पूरयन्ति च महीं महीरुहां आयताः प्रतिशरीरयष्टयः ॥२.१९॥
अग्रतः शिखरशाखिसंहतेश्छाययोपचितयापसारितः ।
पृष्ठतोऽतिनिभृतं महीभृतां आतपः कटकं आशु नोज्झति ॥२.२०॥
स्वीकरोति शनकैरनोकहच्छायं अद्रिशिखरस्थलीरपि ।
हीयते निजवपुष्यपि क्रमादातपस्य ममता तपस्विनः ॥२.२१॥
अप्पतेर्दिशि विचेष्टते रविर्व्याकुलाः शकुनयः स्वनन्त्यमी ।
ध्वान्तदृष्टिविषदर्शनाद्दिने दुर्निवारनिधने निमीलति ॥२.२२॥
कीर्यते कृतरवैः खगव्रजैरेष तल्लतटचैत्यपादपः ।
सायं अध्वनिकटे निरर्गलः सज्जनालय इव प्रवासिभिः ॥२.२३॥
यान्ति खिन्नजनसेव्यतां अमी स्ॐय सोर्मिशुचिवालुकाचयाः ।
प्रान्तसुप्तकलहंसपङ्क्तयः स्वैरनीरमरुतो नदीतटाः ॥२.२४॥
धिक्तटान्तवसतीन्सितच्छदान्पश्यतः कमलषण्डवैशसं ।
स्त्ॐइ तं दिवसं आर्य केवलं योऽस्तं एति समं अब्जबन्धुना ॥२.२५॥
दन्तमूलनिहितैकसल्लकीपल्लवोऽलसविलोकितानुगः ।
एष मुक्तगिरिकन्दरः शनैर्वारि वारणपतिः प्रतिष्ठते ॥२.२६॥
शीलयन्ति करिणः स्ववासितावारि सैरिभसमूहरेचितं ।
मालतीवनविकासवासिता वान्ति पल्वलतटान्तवायवः ॥२.२७॥
संत्यजन्ति मसृणं सरःसरित्तल्लमूलसलिलानि सैरिभाः ।
सम्भजन्ति सहसा भयद्रुतैरीक्षिताः कुररसारसैरिभाः ॥२.२८॥
संमुखीनघनपत्रबन्धनात्पश्य पङ्कजवनादनारतं ।
पीतकोशमकरन्दसंचयाः संचरन्ति मधुपाः कुमुद्वतीं॥ २.२९॥
नोपनीतमुखमुद्रं अम्बुजं मुक्तमुद्रं अथ नैव कैरवं ।
एतदीक्षितपरस्परं पुनः पत्रियुग्मं अपनिद्रवैशसं॥ २.३०॥
रोधसः पुलिनं अब्जिनीं ततस्तां अतीत्य भजते कुमुद्वतीं ।
तत्र तप्त इव गाहते पयः सायं आर्द्रविरहो विहङ्गमः ॥२.३१॥
स्वीकृतं न नलिनैर्निमीलितं न स्फुटं कुमुदकुड्मलस्मितं ।
एतदीक्षितपरस्परं परं मूढं अम्भसि विहङ्गमद्वयं॥ २.३२॥
जर्जरं त्यजति वासरप्लवं न प्रसारयति मन्थरान्करान् ।
एत्यदृष्टं अवलम्ब्य केवलं व्य्ॐअवारिनिधिशेषं अंशुमान्॥ २.३३॥
श्रावितागमं इव द्विजारवैर्ध्वान्तं ॐ इति जगत्प्रतीच्छति ।
त्रातुं ऊष्मरहितः क्षमोऽधुना न स्वमण्डलं अपि प्रभाकरः ॥२.३४॥
दृश्यतां उदयति स्म यादृशस्तादृशस्तरणिरस्तं ईयते ।
उत्सवव्यसनयोः प्रभुर्विधिर्विक्रियासु महतां अनीश्वरः ॥२.३५॥
स्फीतं अब्जकुलं ईक्ष्यतां इतस्तल्लं उल्लसितहंससारसं ।
निश्चलाच्छपरिमण्डलोदकप्रान्तमन्थरमृणालकण्टकं॥ २.३६॥
शीलयन्त्यचलमेखलास्वमी शीतलासु रुरवो निरुद्यमाः ।
पूर्वशष्पकबलानुवर्तिनः स्तोकचञ्चलमुखाः सुखासिकां॥ २.३७॥
दीधितीः परिचिताः परित्यजत्यब्जिनीरपि च नानुरुध्यते ।
सन्ध्यया वरुणदिग्वधूं अनुप्रापितः कं अपि रागं अंशुमान्॥ २.३८॥
द्यऊ रवीन्दुरहितापि निर्मला भूरवृक्षसलिलापि शीतला ।
अन्तरालं अवलम्ब्य शोभते वासरक्षणदयोः क्षणं जगथ् ॥ २.३९॥
निर्झरोऽयं इयं आपगा सरः पल्वलं च विमलं विभात्यदः ।
यत्र चित्तं इह पर्युपास्यतां तत्र तत्रभवती पितृप्रसूः ॥२.४०॥
इत्युभौ व्यवहितान्तरव्यथौ तौ समाप्य समयोचितं विधिं ।
सत्कृतिं दधतुरानने मिथः प्रार्थनां किं अपि रामलक्ष्मणौ ॥२.४१॥
यत्र वाति न कुमुद्वतीमरुत्क्ॐउदी बत न यत्र वीक्ष्यते ।
तं निरूपितसमन्तं अञ्जसा भेजतुः परिसरं रघूद्वहौ ॥२.४२॥
दृष्टिपाणितलप्पातशोधितां उद्धृतस्थगितकण्टकावटां ।
अस्तृणान्नवतृणेन मेदिनां रामभद्रशयनाय लक्ष्मणः ॥२.४३॥
निर्णिनेज सहसा सुषुप्सतः पादपद्मयुगं अग्रजन्मनः ।
स्वांशुकोद्धृतजलं कराब्जयोः कौशलाच्च समवाहयत्पुनः ॥२.४४॥
अध्वजर्जरितराजलक्षणं लक्ष्मणश्चरणं अग्रजन्मनः ।
आममर्श चिरं अश्रु वर्तयन्केवलोपकरणेन पाणिना ॥२.४५॥
स्वैरं अग्रकरजैर्विवृत्य च व्याकुलां समनयज्जटाटवीं ।
अङ्गदेशं अनयद्विधूय च स्रस्तरातिसृतं अञ्चलं त्वचः ॥२.४६॥
पार्श्वयोरुपदधे महेषुधी आददे शिरसि पूजितं धनुः ।
उन्ममार्ज धुतसंहृतेन च स्वाञ्चलेन पुनरुक्तं आस्तरं॥ २.४७॥
इत्यजस्रं अनुजातसेवया जीयमानवनवासयातनः ।
स्वप्तुकाम इव सालसेन्द्रियः संविवेश रघुनन्दनः क्षणं॥ २.४८॥
मीलितोन्मिषितलोचनः शनैर्जागरूकं अवलोक्य सोऽनुजं ।
उच्चवामकरपङ्कजोदरन्यस्तमौलिरवदन्मितं वचः ॥२.४९॥
गच्छ वत्स शयनीयं आत्मनः क्लिश्यसे कृशतरः कियच्चिरं ।
निद्रया विशदतां व्रज क्षणं न क्षमः प्रतिनिशीथजागरः ॥२.५०॥
प्रातरस्ति बहु कृत्यं आवयोर्भ्रातरात्मनि किं अस्यतत्परः ।
चिन्त्यतां उषसि तस्य संगतिः शीतलस्य कपिचक्रवर्तिनः ॥२.५१॥
आस्पदाधिगमगर्वितोऽस्तु वाप्यस्तु वानुदितभूतिविक्रियः ।
आवयोः समयबद्धयोः पुनो निश्चयार्थं अधिगम्य एव सः ॥२.५२॥
तद्विभातु रजनी सुखेन ते यास्यतः प्लवगराजमन्दिरं ।
पक्षयोर्यदनुरूपमुक्तयोस्तत्तदैव च समर्थयिष्यते ॥२.५३॥
ऊचिवानिति बभूव निर्वचाः कुड्मलीकृतविलोचनोत्पलः ।
अध्यशेत चरणाम्बुजान्तिकं तस्य जोषं अनघो जघन्यजः ॥२.५४॥
तत्र तत्र च शयानयोश्चिराद्वीरयोर्विगतसाध्वसा इव ।
उद्धतैर्ददुरुलूकहुंकृतैरन्धकारजयघोषणां द्रुमाः ॥२.५५॥
व्याततोडुदशनापि मुच्यसे न त्वं अर्कचिरसंस्तुताधुना ।
इत्यरिष्टरिपुकूजितैस्तमो द्यां ब्रुवाणं इव दूरं उद्ययौ ॥२.५६॥
केवलं शकुनयो न नीडगाः शाखिनोऽपि शयिताः समन्ततः ।
जज्ञिरे तिमिरतस्करावलीलुप्यमानविभवाश्च भूभृतः ॥२.५७॥
न स्थली न पुलिनं न सिन्धवो नाचला न तरवश्चकाशिरे ।
दूषितद्वितयवादं उद्बभावेकं एव तिमिरं विभूतिमथ् ॥ २.५८॥
तत्र मुग्धपृषतस्तमोघने पार्श्वगां अपि मृगीं अहारयथ् ।
प्राप कोकयुवतिर्यदृच्छया पत्युराधितरलस्य संगमं॥ २.५९॥
वृद्धं अङ्कं अनयच्छिशुभ्रमाच्चुम्बति स्म दयितेति यूथपं ।
स्वीयं अप्युदितसंशयः शनैरङ्गं अङ्गं अमृशद्वलीमुखः ॥२.६०॥
सर्वतः परिगतेव पर्वतैराचितेव तरुभिर्निरन्तरं ।
आप्लुतेव सलिलैरितस्ततः शक्यते स्म चिरसंस्तुतापि भूः ॥२.६१॥
दिक्षु दक्षं अवनावनाकुलं खेऽतिखेलं अटवीषु भीषणं ।
मत्तं अद्रिषु दरीषु दुर्जयं प्रादुरास विषमे समं तमः ॥२.६२॥
भेजुरैक्यं इव तुल्यवैशसाः सायं एव मलिनैर्मुखैर्दिशः ।
गृह्यमाणशिखरा तमश्चयैर्द्यौः पपात वसुधासखीतले ॥२.६३॥
प्रत्यभान्न पुरतो न पृष्ठतः पार्श्वयोश्च विशदं न किंचन ।
व्यानशे भुवनं अञ्जनाचलप्रस्थपङ्क्तिनिबिडं निशातमः ॥२.६४॥
न द्वितीयं अनुभूयते स्म वस्त्वन्तिकादपि तमस्तिरस्कृतं ।
केवलात्मविषयं तदाभवज्ज्ञानं उल्बपरिवासिनां इव ॥२.६५॥
दूरमिश्रितपरस्पराङ्गकैरप्ययोगजनितज्वरैरिव ।
दुर्लभाननविलोकनामृतैर्दूयते स्म मिथुनैर्मिथो भृशं॥ २.६६॥
सोऽतिशीतहिमशीकरो मरुन्नूनं उल्मुकचयानवाकिरथ् ।
यच्चुकूज भृशं आर्तिकाहलं चक्रवाकयुवतिस्तपस्विनी ॥२.६७॥
उच्चचार न वनस्थलीष्वसौ मर्मरः पतितपत्रनिस्वनः ।
नाविरास करिकृष्टसल्लकीभङ्गयोनिरसकृच्चटत्कृतिः ॥२.६८॥
तस्थुरास्थितमनुष्यमूर्तयो यामिका इव विदूरतोऽद्रयः ।
प्रह्वबालविटपाग्रपाणयस्तौ परीत्य तरवः सिषेविरे ॥२.६९॥
द्राङ्निदाघं अनुदद्रजोऽधुनाद्विश्लथां बृहतिकां असारयथ् ।
प्रत्यपद्यत वनानिलस्तयोरेकसन्निहितयामिकव्रतं॥ २.७०॥
सानुजस्य तमसि प्रमीलतस्तस्य भाविममताहृता इव ।
उज्ज्वलायतविषाणसूचिताश्चक्रिरे परिकरं मतङ्गजाः ॥२.७१॥
दीपकृत्यं अकरोदुपान्तिके निष्प्रकम्परुचिरोषधीगणः ।
तेनुरद्रिवनमध्यसुप्तयोर्मङ्गलानि वनदेवतास्तयोः ॥२.७२॥
एहि जानकि भुजान्तरं खरः प्रस्तरोऽयं असि किं पराङ्मुखी ।
मत्कपोलं उपधाय सुप्यतां अप्रसक्तिरियती कदा नु ते ॥२.७३॥
क्षिप्तं अंशुकं इदं मयोरसि प्रीयतां तव निरानन्दः स्तनः ।
नीविनोदिनि करे कुरु क्षमां आयताक्षि नुदसीव किं पुनः ॥२.७४॥
सुप्तवाक्यं इति मैथिलीपतेर्मैथिलीविरहदूयमानया ।
दिक्सखीनिवहवारितास्रया शुश्रुवे वसुधयोपसन्नया ॥२.७५॥
मद्बिभेति विरही रघूद्वहो मद्विना च न जगत्प्रमोदते ।
तत्कर्ॐइ किं इतीव चिन्तयन्नोज्जगाम सहसा निशाकरः ॥२.७६॥
न स्म भाति किं अपि स्फुटं पुरः किंचिदीरितकरेण केवलं ।
दृश्यते स्म दिवि दूरवर्तिना तर्ज्यमानं इव केनचित्तमः ॥२.७७॥
जायते स्म घनमालतीगुणश्रेणिगर्भकबरीमनोहरं ।
मेघवाहनदिगङ्गनामुखे मुग्धचन्द्रकरकर्बुरं तमः ॥२.७८॥
सानुरागं उपगूढं अग्रिमैरंशुभिः शशभृतो दवीयसः ।
उन्ननाम नमुचिद्विषो दिशि स्रस्तस्तंतमसभारं अम्बरं॥ २.७९॥
उज्ज्वलाग्रकिरणप्रवेशकप्रोक्तसत्वरसमागमोऽपि सन् ।
प्रेक्ष्यते स्म जनितोत्सुकश्चिराद्व्य्ॐअरङ्गमुखसंमुखः शशी ॥२.८०॥
औदयेन शशिनो गभस्तिना भिन्नशेषतिमिरं व्यराजत ।
मृज्यमानं इव शक्रदिङ्मुखं कुङ्कुमेन मृगनाभोयोगिन्॥ २.८१॥
तं बभार न विधुर्नवोदयं किं तु कुङ्कुमविलेपनारुणं ।
एकं उत्सुकवशात्पयोधरं व्याचकार हरिदिग्विलासिनी ॥२.८२॥
आत्तजैत्रनिजपुष्पधन्वनो मन्मथस्य भुवनानि जेष्यतः ।
उन्ननाम पुरतः शशिच्छलात्पूर्णरुक्मकलशः पयोनिधेः ॥२.८३॥
दिक्सरागमुखसन्निधापितस्फीतचन्द्रचषका शतक्रतोः ।
क्षीबभावं इव बिभ्रती बभौ विश्लथाच्छतिमिरांशुकोच्चया ॥२.८४॥
नन्दयन्भुवनं उन्मुखं चिरान्मन्दयन्स्मरविरुद्धं उद्यमं ।
क्रन्दयन्विरहिणो विहङ्गमान्सान्द्रयन्प्रमदं इन्दुरुद्ययौ ॥२.८५॥
लोचनालिनिवहैकपङ्कजं चित्तहंसशयनीयसैकतं ।
उज्जगाम रतिकेलिमन्दिरं यामिनीयुवतिजीवितं शशी ॥२.८६॥
आलिलिङ्ग रजनीं अहासयद्बिद्यमानमुकुलां कुमुद्वतीं ।
अग्रहीदुडुवधूकरान्करैर्द्यां प्रसादं अनयत्समं शस्शी ॥२.८७॥
आददे वियदलाञ्छनव्रतं लाञ्छनं निजं अगूहदंशुभिः ।
प्राहिणोदपसृतासु क्ॐउदीं दिक्षु दक्षतनयापरिग्रही ॥२.८८॥
व्याप्य दूरं अथ निर्मलं वियद्वीतपङ्कं इव पङ्कजाकरं ।
रेजुरग्रकिरणाः क्षपापतेः पूतकोकनदकन्दक्ॐअलाः ॥२.८९॥
खे ककुप्सु भुवि च क्षपापतेः पेतुरूढनिचया मरीचयः ।
यत्र तत्र कुहराणि कानिचित्कम्पमानं अविशन्निशातमः ॥२.९०॥
क्षिप्तं इन्दुरुचिभिर्व्यलम्बत त्र्यम्बकस्य शिखिनश्च दिङ्मुखे ।
तत्र नुन्नं अनुबन्धनिःसहं कान्दिशीकं इव निष्ठितं तमः ॥२.९१॥
कन्दराणि च महामहीभृतां कोटराणि च जरन्महीरुहां ।
अध्युवास कमलोदराणि च ध्वान्तं अध्वगवधूमुखानि च ॥२.९२॥
स्वीचकार करकोटिलालनालम्बितोडुततिमेखलां दिवं ।
रागभङ्गं अतिसंस्तवाद्गतां देवराजदिशं इन्दुरत्यजथ् ॥ २.९३॥
आततान गगनाङ्गणाधिकैर्मेदिनीं अमृतवर्षिभिर्विधुः ।
विप्रयुक्तजनधूमकेतुभिः केतकाग्रशुचिभिर्मरीचिभिः ॥२.९४॥
संकुचद्भिरभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतं ।
उद्यता जयिनि कामिनीमुखे तेन साहसं अनुष्ठितं पुनः ॥२.९५॥
उच्चखान रुषं उच्चमण्डलः खण्डनां अगमयद्विषह्यतां ।
मानपङ्कं अपनीय कामिनीः कान्तहस्तं अनयन्निशापतिः ॥२.९६॥
व्यक्तवर्त्मबिलवाहिनीवनग्रामगुल्मगहनाद्रिभेदया ।
स्ॐयताधिकविशेषयाजनि ज्योत्स्नया दिवसनिःस्पृहो जनः ॥२.९७॥
पीयते स्म कुमुदं न लोचनैश्चन्द्रिका तपति रोहितच्छदं ।
प्रादुरास परं उत्पिबन्नलिः सौरभं निरवलम्बं अम्बुनि ॥२.९८॥
एकिकेव निजवृन्दमध्यगाप्युच्चुकूज सभया सितच्छदी ।
दन्तमूलं असकृच्च संशयादाममर्श करिणः करेणुका ॥२.९९॥
केतकीषु कदलीषु वालुकास्वश्मसु स्फुटितकैरवेऽम्भसि ।
लम्भितेव लहरीपरम्परां उल्ललास शशिकान्तिवाहिनी ॥२.१००॥
प्राप्तसूक्ष्मघनपल्लवान्तरैश्चित्रिताः शशिकरैरितस्ततः ।
बिभ्रति स्म तरुमूलशायिनः शम्बराः पृषतयूथविभ्रमं॥ २.१०१॥
कृच्छ्रलब्धनगशृङ्गसन्धयो दत्तमन्मथजयाभिसन्धयः ।
मैथिलीतरवधूदुरासदं राघवाङ्कं अविशच्छशित्विषः ॥२.१०२॥
जागर्षि काश्मरि निषीदसि कोविदार कुत्रासि वत्स कृतमाल तमाल पश्य ।
किं वर्तते रघुपतेरिति सत्वराभिरुक्तं द्रुमौघं अवलोक्य वनस्थलीभिः ॥२.१०३॥
अन्योन्यदूरपरिषक्तविशालसान्द्रशाखाशतैस्तरुभिरन्तरयांबभूवे ।
उद्भूतघोरविरहज्वरलङ्घितस्य चन्द्रातपः स खलु दाशरथेरपथ्यः ॥२.१०४॥
कुमुदवनं अहेतु त्यक्तनिद्रं तदासीद्गगनं उडुवितानैर्धिग्वृथैव प्रफुल्लं ।
अजनि जगदधीशस्यागृहीतेस्तदानीं विधुरपि विधवस्त्रीयौवनोद्भेदशोच्यः ॥२.१०५॥
श्वसिति जनकपुत्री सत्वरो भानुपुत्रः कपिपतिरुपसन्नं सुप्रभातं तवेति ।
जगुरिव रघुनाथायार्धबुद्धाः स्वनन्तो मधुरं अपररात्रे पत्रिणः केऽपि केऽपि ॥२.१०६॥
इत्यभिनन्दकृतौ रामचरिते महाकाव्ये सन्ध्यातमश्चन्द्रोदयवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥
कवीनां किं दत्तैर्नृपपशुभिरन्यैरवसरे परं पृथ्वीपालः क्षणं अपि स कर्णो वितरतु ।
अनात्तं तत्त्वज्ञैरपि सुविपुलार्थव्ययभिया प्रतिष्ठां येनोच्चैर्जगति गमितं रामचरितं॥
पालान्वयाम्बुजवनैकविरोचनाय तस्मै नमोऽस्तु युवराजनरेश्वराय ।
कोटिप्रदानघटितोज्ज्वलकीर्तिमूर्तिर्येनामरत्वपदवीं गमितोऽभिनन्दः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP