रामचरितमहाकाव्य - तृतीयः सर्गः

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.या काव्याचे कवी आहेत, अभिनन्द.


अथ प्रबुद्धः प्रथमं विबुद्धं आसीनं आदाय तदङ्घ्रियुग्मं  ।
प्रकामनिद्राभिगमाभिरामो रामः सुमित्रासुतं इत्युवाच ॥३.१॥

किं इत्थं एव क्षपितो निशीथः कच्चिन्मुहूरार्धं असि प्रसुप्तः   ।
अस्मिन्प्रसादावसरे धियां च प्रतिष्ठितश्चेतसि कस्तवार्थः ॥३.२॥

वनौकसस्तस्य नवेश्वरस्य भावावबोधाय पुनर्विमृश्य   ।
यत्प्राप्तकालं तदुदाहराशु प्रस्थानकालोऽयं अतिप्रशस्तः ॥३.३॥

स्वकार्यलाभस्तिमितः कपिश्चेन्न कश्चिदर्थोऽनुसृतेन तेन   ।
रिपऊपेतं वरं अर्थिभावाद्विकारसंदेहसहे न मित्रे ॥३.४॥

कार्यान्तराशारहितेन तेन व्यक्तं खलेनाद्य वयं निरस्ताः   ।
दत्तः प्रदीर्घाग्रहणाभिधानो येनायं आरादपि नोऽर्धचन्द्रः ॥३.५॥

रुद्धस्तपस्वी स कथं न कैश्चिन्मोहान्धकूपे निपतन्मदान्धः   ।
किं देशकास्तेऽपि हनूमदाद्याः सद्यः पदं प्राप्य समं विपन्नाः ॥३.६॥

रिष्टं न दृष्टं पवमानसूनोर्न चाग्निसूनोर्न च वालिसूनोः   ।
सर्वेऽपि किंकारणं एकदैव प्रमीतकल्पाः कपिदारकास्ते ॥३.७॥

स दुर्निवारो हरिरद्य शेतां आस्वादितैश्वर्यमधुर्मदेन   ।
कथं पुनर्जागरकाल एव सुप्तास्तदाप्ता इति मे वितर्कः ॥३.८॥

देवात्प्रसूतेन हिमेतरांशोरूर्जस्वलैस्तैः सखिभिर्वृतेन   ।
उदारदेहद्युतिनास्मदर्थे निरन्वयं तेन तमः प्रपन्नं॥ ३.९॥

अहो महन्मोहजं अन्धकारं येनाद्य मध्येसभं उद्धुरेण   ।
उत्सार्य तान्मन्त्रिमणिप्रदीपान्प्लवङ्गराजः प्रसभं गृहीतः ॥३.१०॥

लोभस्य मोहस्य मनोभवस्य मदस्य चातिप्रसरो न रुद्धः   ।
रुद्धः परं पूर्णमनोरथेन तेनाद्य नः प्रत्युपकारवेगः ॥३.११॥

सम्राट्पदस्थस्य पदादपेताः सम्प्रीतये सम्प्रति मा स्म भूमः   ।
दृष्टास्त्रसारा अपि तस्य भीरोः किं भीतये वत्स वयं न भूताः ॥३.१२॥

स्थाने निरस्तः सुधियाग्रजेन स तेन मायामसृणो दुरात्मा   ।
मया मदान्धेन पुनर्वृथैव क्रोष्टा मृगेन्द्रस्य पदेऽभिषिक्तः ॥३.१३॥

निर्वेशनिर्यातनशाठ्यनिद्रां नीचेषु दण्डः परुषो निहन्ति   ।
तथापि दाक्षिण्यविलम्बितव्यं इदं धनुस्तं प्रति मामकीनं॥ ३.१४॥

यावन्न विश्राम्यति वेगजन्मा दिक्षु ध्वनिर्वालिभिदः शरस्य   ।
तावत्पुनस्तङ्क इह त्रिलोक्यां आक्रान्तकिष्किन्धं उपक्रमेत ॥३.१५॥

अस्मासु नावेदयति स्म गर्वात्कुर्वीत शेषारिवधं भुजाभ्यां  ।
विधाय सौराज्यं असऊपेयादित्यर्थिता पश्यति न प्रमाणं॥ ३.१६॥

तदेष मे निर्मलसर्गसर्गः षड्वर्गरुद्धो रिपुवत्स हेयः   ।
नासौ निषिद्धस्तव यानपक्षो मया बत प्रागसमाहितेन ॥३.१७॥

असंशयं स प्रतिहारपालीससम्भ्रमावेदितसन्निकर्षं  ।
त्वां प्रत्यसूयां हृदयेन धास्यत्युपस्थितान्तःपुरविप्रयोगः ॥३.१८॥

तद्वक्त्रं आर्केस्तरुणार्कताम्रं त्वत्प्रीतिवाक्यैरकृतप्रमोदं  ।
भविष्यति प्रत्युपकारभारनिर्वाहचिन्तागमसान्धकारं॥ ३.१९॥

स्मरिष्यति त्वां न स बोध्यमानोऽप्यालोकयिष्यत्यथवा न पृष्टः   ।
प्रत्येषि कान्ताजनमध्यवर्ती स चिन्तयास्मद्गतयाधुनास्ते ॥३.२०॥

आवां यदैवाद्रितटे निविष्टौ स कालिकां वीक्ष्य पुरीं प्रविष्टः   ।
आमृष्टं आसीच्चपलेन तेन सौहार्दं अस्मद्विषयं तदैव ॥३.२१॥

अहःस्वमीषु क्षण एव नासीदासीन्न संदेशहरोऽनुरूपः   ।
इत्यादि स व्यक्तं अलीकं एव त्वत्प्रीत्युपालम्भपदेषु वक्ता ॥३.२२॥

कृतावहेलः प्रणयप्रसन्नं निरुत्तरः सत्वरकार्यवादं  ।
प्रेक्षिष्यते रोषलवानुरक्तं वलीमुखः शुष्कमुखो मुखं ते ॥३.२३॥

तस्यागमाद्यः सहसा भविष्यत्यर्थस्य तस्याभवनं ममास्तु   ।
बाधिष्यते वालिवधातिरिक्तस्तद्वेश्मयात्रानुशयः सदा नौ ॥३.२४॥

स प्राक्तनो नूनं अनर्थभाजा नीतस्तलं तेन हितैषिवर्गः   ।
उत्थापितैर्दूरं असाविदानीं दिवानिशं दीव्यति दुर्विदग्धैः ॥३.२५॥

अक्षा मृगाक्ष्यो मृगया मधूनि प्रेक्षाश्च तस्याद्य हरन्ति कालं  ।
न प्राप्नुवन्ति क्षणं आप्तवाचः सदादृताश्चारणचाटुवादाः ॥३.२६॥

वदन्ति भीताः सचिवा न किंचित्किं चिन्तयास्मद्गतया विटानां  ।
स्वयं न सम्प्रत्यनुसंदधाति पूर्वापरं कामपरः स राजा ॥३.२७॥

न सूरयो न स्थविरा न धीराः पुरःस्थिताः प्राश्निकतां प्रयान्ति   ।
संतिष्ठते संसदि संशयानः पृष्ठोपविष्टासु विलासिनीषु ॥३.२८॥

इत्थंगते तत्र गतस्य केन मन्युस्तवोदीर्णरयो निवार्यः   ।
विचायमाणो न गुणाय नः स्यादसौ कपीनां कदनानुबन्धः ॥३.२९॥

प्रपन्नशाठ्यस्य हठोपनामादानेष्यमाणस्य गुणं न वीक्षे   ।
तथाविधा हि द्विषतां स्तवेन कषन्ति कर्णौ परं अन्तिकस्थाः ॥३.३०॥

स्पृष्.ओ न चेद्विक्रियया कयापि नोपस्थितः कार्यवशादिदानीं  ।
एतु स्वयं न क्रियते वृथैव स त्वद्बलात्कारनिरुद्धशोभः ॥३.३१॥

यथावयोस्तातजटायुषोक्तं उक्तं कबन्धेन यथा च तेन   ।
तथोपयास्यत्यचिरादवश्यं आहूतचक्रो हरिचक्रवर्ती ॥३.३२॥

यत्सत्यं आदित्यसमुद्भवत्वादुद्भूतिं एष्यन्ति गुणास्तदीयाः   ।
तुलाग्रसम्पातविलम्बदोषे तस्मिन्विसंवादं अहं न शङ्के ॥३.३३॥

विरोपतप्तस्य विदेशवासादाजग्मुषस्तस्य निजाधिवासं  ।
इयन्त्यहान्युत्सुकबन्धुवर्गसंवर्गणव्यग्रतयैव यान्ति ॥३.३४॥

स नूनं आयास्यति वानरेन्द्रः संदेशकार्पण्यं असंमतं मे   ।
सर्वस्वभूतं विसृजन्ति वत्स कार्यातिपातेऽपि न धैर्यं आर्याः ॥३.३५॥

व्यतीतविघ्नः सुहृदर्थनिघ्नो न शीतलः स्थास्यति किं गतेन   ।
स त्वर्यमाणस्त्वरमाण एव धैर्यस्य नः पारं अवाप्स्यतीव ॥३.३६॥

धिगस्तु मां तं प्रति विप्रतीपं आशङ्कितं तद्बहु येन यद्वा   ।
स्वकार्यदोलासु जनोऽल्पभाग्यः प्राङ्निश्चिनोति व्यतिरेकं एव ॥३.३७॥

इत्थं न मां प्रत्युपपत्तिं एति तत्राद्यपक्षद्वितयेऽपि यात्रा   ।
वरं विसोढानि कियन्त्यपीह सङ्ख्यातकालाभ्यधिकान्यहानि ॥३.३८॥

स्वालोचितं वक्तु भवानिदानीं इत्यनुष्ठेयं असंशयं यथ् ।
बाल्यात्प्रभृत्येव तवोत्तरा धीर्न पूर्वपक्षेऽभिनिवेशं एति ॥३.३९॥

इति प्रसन्नां गिरं अग्रजस्य श्रुत्वा चिराद्वीतविषादपङ्कः   ।
मुखश्रियैवोज्ज्वलयाभिनन्दन्निदं सुमित्रातनयो जगाद ॥३.४०॥

समर्थितं साधु समस्तं एव कृती कपिः किं बहुनोदितेन   ।
प्रव्यक्तं अप्येतददोषदृष्ट्या गृहीतं आर्येण न यत्तदागः ॥३.४१॥

तस्योर्जितेनातिरवेरवद्यं नैवेक्षतेऽन्तःकरणं ममापि   ।
अयं पुनस्तेन कुतो न जानाम्यतिक्रमः कालकृतो न दृष्टः ॥३.४२॥

विसर्जिता वा पुनरागमाय समापतन्त्यद्य न ते नलाद्याः   ।
समाहरतिउद्यतवित्तवर्षो वर्षान्तरेभ्यः प्रवरान्हरीन्वा ॥३.४३॥

अष्टादशद्वीपकपीन्द्रमौलिर्मौलानसौ वालिवधप्रलीनान्  ।
नैकाभ्युपायोपहितानिदानीं उत प्रतीच्छत्यतिसत्क्रियाभिः ॥३.४४॥

अप्राप्तसंतोषं असंविभक्तसम्भुक्तसर्वस्वं अनुप्लवेषु   ।
अथादिशत्यर्पितसारकोशः प्रकामपाथेयपरिग्रहाय ॥३.४५॥

अथो स भीतातुरबालवृद्धान्वृद्धोपसेवी सनिभं नियुङ्क्ते   ।
यथायथं सद्मनि पद्मसंख्यासमेतशाखामृगयूथनाथः ॥३.४६॥

तदित्थं उत्थानसमाकुलत्वान्न त्वर्यमाणोऽपि स दूषणाय   ।
आर्येण तत्राप्यसमागतस्य छायाच्युतिः कैव निरूपिता मे ॥३.४७॥

ज्ञेयोऽस्ति नः पूर्वं अरेरुदन्तस्ततस्तदन्ताय विधेयं अस्ति   ।
इत्याकुलत्वान्मम तावदार्य कार्योपतप्तिः क्षमते न धैर्यं॥ ३.४८॥

अनर्थिभावादुपचारवादादाकारगुप्तेश्च परीभवन्ति   ।
यथातथार्थप्रतिपादनेन प्रयान्ति मित्राणि निरन्तरत्वं॥ ३.४९॥

मिथः प्रसादस्खलनादुपाधेरुपैति सख्यं खलयोः खिलत्वं  ।
गृह्णाति सत्पूरुषयोर्न दोषं औदार्यसंवादकृता तु मैत्री ॥३.५०॥

निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे   ।
विशङ्कितान्योन्यभयं विदूरान्नमस्क्रियां अर्हति सौहृदं तथ् ॥ ३.५१॥

विस्रब्धं आज्ञापय किं कर्ॐइ कथं घटेन प्लवगाधिराजः   ।
यत्किंचिदादिश्य निभेन किं मां निषेधसि क्लेशं इवेक्षमाणः ॥३.५२॥

स्थितोऽस्मि तावद्दिनं एतदेष्यत्यन्येद्युराज्ञां तव न प्रतीक्षे   ।
आर्योऽनुरोधान्न युनक्ति यत्र तत्राहं अम्बानियमात्स्वतन्त्रः ॥३.५३॥

तदेष निष्क्रम्य तथा कर्ॐइ तत्पूर्वसङ्गः प्लवगो यथाशु   ।
तं वैरिसंहारमहोपकारं आर्याय निर्यातयितुं यतेन ॥३.५४॥

धिक्तं धनुष्पाणिं अनुप्लवं मां मुधा मनःपर्युषितावलेपं  ।
अन्वीक्षते यस्य ममावसादादार्यः सहायान्तरं अन्तरज्ञः ॥३.५५॥

धिक्शाततां सन्नतपर्वतां धिग्धिक्पातवेगं च ममाशुगानां  ।
अलक्षितोद्देशं अपि द्विषन्तं निहत्य नायान्ति हि यत्क्षणेन ॥३.५६॥

खरादिरक्षःकदनेषु दीर्घं अमी परिज्ञातरसाः किं अन्यथ् ।
असृग्भुजां भोक्तुं असृक्त्वरन्तां भूयोऽपि भूचन्द्र तवार्धचन्द्राः ॥३.५७॥

आताटकासंज्ञपनात्प्रपन्नस्त्वयैष वर्णाश्रमरक्षणाय   ।
समाप्यतां शेषनिबर्हणेन क्षपाचराणां निधनाधिकारः ॥३.५८॥

उद्धृत्य घोरायुधवृन्दवृष्टिं अनुष्ठितां ओघशरव्ययेन   ।
स राक्षसेभ्योऽम्बरगोचरेभ्यस्त्रातस्त्वयैकेन मखो महर्षेः ॥३.५९॥

तं कालकल्पं कियता श्रमेण तथावधीर्मार्गरुधं विराधं  ।
आसन्मुहूर्ताः कति च घ्नतस्ते सैन्यं जनस्थानपतेः स्वरस्य ॥३.६०॥

आसीत्क्षुरप्रस्य कियान्विलम्बः क्रूरेषु तेषु त्रिशिरःशिरःसु   ।
कतीषवो दूषणदेहयात्रानिवारणार्थं च रणे विसृष्टाः ॥३.६१॥

कस्यावलम्बादकरोत्परासुं मारीचं उच्चावचमायं आर्यः   ।
ज्ञाता च दिक्संज्ञपितस्त्वयैव क्षपाचराणां अधिपश्च सोऽपि ॥३.६२॥

इत्यप्रपञ्चोदितकारणानि मिथस्तयोस्तथ्यगुणग्रहाणि   ।
नेदुः स्तुवाना इव सूनृतानि खगाः कुलायेषु कृतैकमत्याः ॥३.६३॥

आरोप्य सन्ध्यां दिशि वज्रपाणेः पर्यस्य चन्द्रं ककुभि प्रतीच्यां  ।
उत्सङ्गितोडुप्रकरा खगानां आदाय निद्रां रजनी जगाम ॥३.६४॥

कविश्च जीवश्च सुतश्च भूमेः स दक्षिणाशातिलको मुनिश्च   ।
आसन्नसूर्यांशुभयद्रुतस्य क्षणं ररक्षुर्भगणस्य पृष्ठं॥ ३.६५॥

दिग्दर्शयामास मुखं सरागं न यावदैन्द्री गणिकेव मत्ता   ।
तावद्द्विजेशोऽङ्कं इयाय सिन्धोः सन्ध्यासुराशीकरसेकशङ्की ॥३.६६॥

विसर्जितोडुः क्षणं इन्दुरासीदासीदुपान्तेष्वपि नान्धकारं  ।
भृशं दिशीन्द्रस्य रराज सन्ध्या सिन्दूरिणीव ग्रहराजमुद्रा ॥३.६७॥

उच्चेतुं उच्चैरुडुकुड्मलानि व्याकुर्वती रागं अतिप्रगाढं  ।
शाखां इवालम्ब्य दिशं मघोनः सन्ध्या वियद्भूरुहं आरुरोह ॥३.६८॥

शेषोडुपुष्पस्तबकोच्चयाय संजातरागातिशयेव सन्ध्या   ।
अप्युच्चकैः पूर्वमहीध्रमूर्ध्नि स्थित्वा वियद्भूरुहं आरुरोह ॥३.६९॥
(तदेवेदम्)

विसृज्य पाण्डुच्छदनौघतुल्यं तारागणं व्य्ॐअतरुस्तदानीं  ।
बभार सन्ध्यारुचिमञ्जरीणां जालानि बालाधरक्ॐअलानि ॥३.७०॥

उत्सारितेवाभ्रकरेणुकुम्भाज्जम्भारियुग्याधिकृतैर्मरुद्भिः   ।
ततान सन्ध्येति समुल्लसन्ती नभोङ्गणं रङ्गविकारधूलिः ॥३.७१॥

संवित्तयस्तत्त्वविगाहशुभ्राः सांसारिके राग इवाधिरूढे   ।
शनैः शनैर्म्लानरुचो ममज्जुस्ताराः प्रसर्पत्यरुणे चिरेण ॥३.७२॥

कैः शिक्षिता वर्तयितुं तदासीदुन्मीलितं तूलिकयेव चित्रं  ।
तरङ्गवत्तुङ्गशरद्घनालीविसंस्थुले व्य्ॐअनि बालसन्ध्या ॥३.७३॥

प्रत्युप्तमात्रं दिशि देवभर्तुरभ्यक्तखण्डाभ्रतरङ्गमालं  ।
बभौ विसर्पत्ययसीव तैलं नभस्तले बालपतङ्गतेजः ॥३.७४॥

प्रसत्तिनिर्व्यूढसुधामयूखं खं उष्णरश्मावपि रक्तिं ऊहे   ।
भरं प्रतीच्छन्ति महोदयानां पात्राणि पर्यायवशंवदानि ॥३.७५॥

तापिञ्छकल्पः ककुभि प्रतीच्यां आच्छादयामास मृगो मृगाङ्कं  ।
दूराधिरूढं जनं आपदीव प्रकाशमानोऽतिशयादवर्णः ॥३.७६॥

प्रदीप्तसन्ध्याग्नि नदद्द्विजौघं निरंशुकध्वस्तपराङ्मुखेन्दु   ।
वियद्विलुप्तोडुकुलं तदाभूच्चक्रान्तराक्रान्तपुरोपमेयं॥ ३.७७॥

मिथः कृतालोकमहोत्सवानां कृतारवः सारसदम्पतीनां  ।
न बालभानोः किरणादभैषीन्नदीषु नीहारमयोऽन्धकारः ॥३.७८॥

ततार संतीर्य हिमान्धकारं तता रसन्ती सरितः खगाली   ।
रक्तारविन्दस्य रजोभिरार्द्रैरक्ता रविं वारिणि वीक्षमाणा ॥३.७९॥

स्मरव्ययक्लान्तवलत्पुलिन्दीसर्वाङ्गसंवाहकलाविदग्धः   ।
विलम्ब्य कोशेषु कुशेशयानां ससार कासारतरङ्गवातः ॥३.८०॥

अतीत्य शैत्यं तटवालुकानां कोष्णासु सस्नुर्मुनयो नदीषु   ।
अपां अपूर्यन्त च नैर्झरीणां कुटा गिरिग्रामकुटुम्बिनीभिः ॥३.८१॥

जातप्रकाशासु बहिःस्थलीषु प्रकामचारोत्सवजागरूकः   ।
इभो भुवि प्रस्खलदग्रहस्तः सस्मार शय्योदरकुञ्जशय्यां॥ ३.८२॥

समेत्य जृम्भानुपदं स्वयूथ्यैर्मिथः क्षणं लीढतुषारलेपाः   ।
प्रतस्थिरे दिग्वलयं विलोक्य यथायथं कच्छभुवः कुरङ्गाः ॥३.८३॥

अदृश्यतारात्तरलैः स्थलीषु वनेचराणां पृतना कुरङ्गैः   ।
पपौ रवेः संज्वलितोग्रभासं भुजङ्गं औघः श्रितनाकुरन्ध्रैः ॥३.८४॥

स्थलं कुरङ्गीनयनैरनिद्रैरुन्मुक्तमुद्रैर्जलजैर्जलं च   ।
विलोलतारैस्तरलद्विरेफैरुवाह भेदं न मिथस्तदानीं॥ ३.८५॥

जृम्भाभराद्दूरविसंगतानां मुद्राविलम्बेन दलावलीनां  ।
निर्विश्य निःशेषं अलिः परागं अगादबद्धः कुमुदाकरेभ्यः ॥३.८६॥

विवेश गर्तं गतं उत्तमोहिरुच्चैः पदं सन्ततं उत्तमो हि   ।
आसीन्महः सम्पदि तुङ्गतायां नभो न कैश्चिद्गदितुं गतायां॥ ३.८७॥

नैःसङ्ग्यं आलम्ब्यत कैरवेषु यैः शान्तिमद्भिः शनकई रवेषु   ।
सौजन्यं अम्भोजगृहे समेतैश्चिराद्द्विरेफैर्जगृहे समे तैः ॥३.८८॥

रेजेऽरविन्दैररविन्दबन्धोः संदर्शने दर्शितहर्षवेगैः ।
विधोर्विषेहे विरहः कथंचिन्निद्रावलम्बात्कुमुदाकरेण ॥३.८९॥

ऊहे जलैराहितकोपरागः क्षोभादल्नीनां नलिनीपरागः ।
व्यसर्जयद्द्यां विवृतापरागः शशी चिरादध्युषितापरागः ॥३.९०॥

यथा विलुप्तोडुकदम्बकायां बालार्कपादैर्दिवि दीप्यते स्म   ।
तथैव सुप्ताखिलकैरवायां रक्तारविन्दैरभितः सरस्यां ॥ ३.९१॥

मुखेन भाति स्म सहस्रपत्रं मित्रोदयालोकविकस्वरेण   ।
मञ्जुस्वनानां अलिमार्गणानां स्वयंग्रहायैअव्विमुद्रकोशं ॥ ३.९२॥

श्लथेन केचिद्विविशुर्मुखेन तलेन केचिद्दलसंहतीनां  ।
मधूत्सुकानां मधुपव्रजानां अब्जेषु न द्वारविनिश्चयोऽभूथ् ॥३.९३॥

लुलोठ धूलीषु पपौ मधूनि पक्ष्माणि लीढानि पुनर्लिलेह ।
आगन्तवे स्तोकं अपि द्विरेफः स्थितो ददौ नान्तरं अब्जमध्ये ॥३.९४॥

भेजे विनिद्रां नलिनीं न कूलान्न शीलयामास नवार्कभासं  ।
प्रियां प्रतीयाय तथैव मूढां खगः स्वबोधागमसाभ्यसूयः ॥३.९५॥

बहूनसौ पत्ररथस्तपस्वी चकार चाटूनुपकण्ठलीनः ।
दृशं प्रमीलापगमात्कषायां उन्मीलयामास चिरेण चक्री ॥३.९६॥

पारं तुषारक्षणसान्धकारं अपि स्मरार्तित्वरितः पवित्री   ।
श्रुतप्रियाह्न्वानरवः प्रतस्थे सीमन्तयन्नब्जवनं विनिद्रं॥ ३.९७॥

जगाम भञ्जन्Kअमलानि कोकः कोकीपरिष्वङ्गमनोरथोत्कः ।
साप्युत्सुका तत्क्षणं आजगाम विलोकयन्ती वनं उत्पलानां॥ ३.९८॥

कुर्वाणयोः सरसि पद्मवनावनद्धे भिन्नाध्वनोर्वितथं एव गतागतानि   ।
संवादिदिक्पतितयोः पततोः कथंचिद्द्वन्द्वं चिराद्घटितं अर्धपथे बभूव ॥३.९९॥

व्यस्मर्यतां ऋतमरीचिकराभितापः प्रातः पतत्रिमिथुनैस्तपनं विलोक्य ।
जात्यैव शीतलं अथोष्णं अलं न किंचिच्चित्रा गतिर्जगति जन्तुदशावशेन ॥३.१००॥

कर्तव्यनिर्णयविरूढमनःप्रसादशंसिस्मितेन मुखचन्द्रमसा विराजन्  ।
रामः प्रभातपवनाहितवीचिकम्पां पम्पां इयाय सरसीं सह लक्ष्मणेन ॥३.१०१॥

पार्श्वस्थावरजससम्भ्रमोपनीतप्रत्यग्रस्फुटितविलोहितारविन्दः ।
सुस्नातः कृतविधिरञ्जसोपतस्थे काकुत्स्थः कनकरसावदातं अर्कं॥ ३.१०२॥

तौ दीर्घं विधिवदुपास्य पूर्वसन्ध्यां पूष्णीषत्प्रकटितरश्मिबर्बरीके ।
आसातां रहितमहीरुहोपकण्ठऊद्वेल्लस्तिमितजटावनौ वनान्ते ॥३.१०३॥

इत्यभिनन्दकविकृतौ रामचरिते महाकाव्ये मन्त्रविनिश्चयपूर्वकप्रातःस्सन्ध्यावर्णनो नाम तृतीयः सर्गः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP