अजामिलमोक्षप्रबन्धः
संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. अजामिलमोक्षप्रबन्धः काव्याचे कवी आहेत,श्रीनारायणभट्ट.
नाराय्णेति चतुरक्षरमेव पुंसां
कैवल्यमाकलयतेति विधूय पापम् ।
सङ्केतितं निजसुतेऽप्यवशो यदुक्त्वा
लेभे परां गतिमजामिलभूमिदेवः ॥१॥
अमानुषतपोबलो हरिपदाम्बुजे भक्तिमान्
यमादिपरिशीलनादिह नितान्तशान्तान्तरः ।
अजामिल इति श्रुतस्सकलवेदशास्त्रार्थविद्
द्विजातिमकुटीमणिः समुदभूदभूतोपमः ॥२॥
वेदेषु प्रथितान्विधाय विधिवद्धर्मान्गृहस्थाश्रमी
नीत्वा कञ्चन कालमञ्चितसुखं शुश्रूषामाणो गुरून।
एकस्मिन्दिवसे स्वतातवचसा कर्मोदितानादराद्
आनेतुं स समित्कुशान्वनमुदूधोत्साहमाधौकत ॥३॥
गद्यम् । तत्र खलु विचित्रतरतरुलतानिकरनिरन्तरे मधुरमधुकरझङ्कारमुखरितदिगन्तरे वनाभ्यन्तरे स्वल्पमपि निमित्तमुद्दिश्य क्रमरहितमनप्लं जल्पता विनिस्रस्तं वस्त्रमपि निस्त्रपमगणयतारचितबहुतरघोषमकारणमेव हसता प्रस्वरमुद्गायतान्तरान्तरा प्रियाहृदयावर्जनाय मन्थरतरमिवालपता लीलायामधिकलोलेन लोलायमानाङ्गेन केनापि हालापिबेन दृढतरमालिङ्गमानां परिशिथिलकुन्तलभारां मदविघूर्णितलोचनां मदकलितगानबन्धुरां विवशीकृतयुवजनहृदन्तरां प्रेयजनसपीतिसमुपजातसुधामाधुर्यां मधुमदद्विगुणीकृतमदनवेगसमुदञ्चितघर्मकणाकुञ्चितरोमञ्चकञ्चुकितसकलावयवां मुद्रानुरागसमुद्रममग्नामभद्रास्पदभूतां कामपि शूद्रां समद्राक्षीत॥
सदाचारासक्तः सततमपि धर्मैकनिरतः
प्रकृत्या निर्दोषः प्रचुरतरधैर्योऽपि तरसा ।
स तां दृष्ट्वैवारात्स्मरशरपरीपाकविषमाम्
अवस्थामपेदे कमिह भुवि कामो न लघयेत॥४॥
चित्तं तस्यां प्रसक्तं वशयितुमख्लैरेष यत्नैरशक्तः
स्मृत्वा तामेव भूयः समजनि विरतः स्वस्य धर्माद्द्विजन्मा ।
पित्र्यैरन्यायलब्धैरपि धननिवाहैस्तोषयित्वा निवासं
चक्रे तस्याः सकाशे विहरणरसिकः सन्ततं मन्मथान्धः ॥५॥
साध्वीं भार्यां स्वतातं प्रवयसमनुपेतावलम्बामथाम्बां
त्यक्त्वा तत्प्रीतिहेतोरनुचितमपि चौरादिकं कर्म कृत्वा ।
लब्धैरर्थैरजस्रं प्रणयविवशधीस्तत्कुटुम्बं प्रपुष्णन्
निर्लज्जोऽसावनाषीद्बहुसमयमहो स्त्रीपिशाची मतिघ्नी ॥६॥
तस्यामासन्नथ दश सुता भूसुरस्यास्य दैवाद्
अन्त्यस्तेषामगमदभिधां हन्त नारायणेति ।
पूर्वादृष्टैरिह किमु तदीयैर्मुकुन्दस्य यद्वा
नाम्नामेवं कथयितुमिदं दुष्क्तेर्निष्कृतित्वम् ॥७॥
स तदनु दशमित्वं प्राप्य नारायणाख्ये
रतिमकुरुत तस्मिन्बालके केलिलोले ।
अविरतमपि पश्यन्नस्य लीलाविशेषम्
अयमहह जडात्मा मोहसिन्धुं जगाहे ॥८॥
गद्यम् । ततश्चान्त्यकाले सम्प्राप्ते सोऽपि दुःसहामर्षातिभीषणात्यन्तरक्तोद्वृत्ताम्बरीषसदृक्षेक्षणोदित्वराशुशुक्षणिस्फुलिङ्गपिशङ्गितपुरोभागानतिपरुषितताम्रोर्ध्वप्रसारितनिशिततरशिरोरुहशकलितजीमूतजालान्चण्डतरभुजदण्डमण्डितमहत्तमदण्डोद्भ्रमणनिपुणातिनिष्ठुरात्तहसाटोपस्फुटं दृशमानारालविकटदंष्ट्राकरालानसितवर्णानतिभयङ्करानन्तककिङ्करानन्तिके समालोक्य निर्भरभयावेशविवशीभूताशायः पुरा किञ्चिदच्युतस्मृतिवासनाबलात्क्रीडालोलुपं बालकमुद्दिश्य निजगलार्पितपाशावकर्षणनिरुद्धाश्वासं विच्छिनाक्षरं नारायणेत्यभाणीत॥
इत्थं व्यर्थीकृतायुः स तु मृतिसमये नेतुमात्मानमाराद्
आयातान्वीक्ष्य लोकत्रितयभयकरान्प्रेतराजस्य दूतान।
पूर्वस्या वासनाया बलत इह कृतानेकपापोऽपि भूयः
सोच्चैर्नारायणेति स्वसुतमतिभयादाजुहावाकुलात्मा ॥९॥
गद्यम् । तावदेव नामकीर्तनमेवंविधामवस्थां गतस्य तस्य मुखतः समुपाकर्ण्य परिकल्पितपालनीयाधयो महितसुषमाभरणरमणीयविलोकनाः करकलितशङ्खचक्रगदापङ्केरुहा महामेरव इव समुल्लसितचामीकरद्युतिपीताम्बराः सत्काव्यसन्दर्भा इव महितगुणालङ्कारपरिभासुरा वारयोषजन इव मनोहराङ्गरागा रविकरौघा इव दोषावसानदृश्यमाना मा भैषीरिति मा भैषीरिति जलदघोषगभीरया गिरा करुणातरङ्गितैरपाङ्गपातैरपि तमतीव हर्षयन्तः परमपुरुषपार्षदास्त्वरिततरमभिपेतुः ॥
तावदेव चतुरः पुरो भुवि चतुर्भुजानुरुकृपामृत
स्यन्दिमञ्जुतरमन्दहासशिशिरीकृताखिलदिगन्तरान।
मीनकुण्डलकिरीटहारवनमाल्यपीतवसनोज्ज्वलान्
नीलनीरदविलोभनीयस्सुषमान्ददर्श हरिपार्षदान॥१०॥
विकर्षतस्ततस्तांस्ते सम्पश्याजामिलं गले ।
विमुञ्चतेति रुरुधुस्तरसा विष्णुपार्षदाः ॥११॥
अथ रुद्धा हरिदूतैर्यमभृत्याः कलितविस्मयास्तरसा ।
विरलेतरबहुमानादेवमवोचन्गभीरया वाचा ॥१२॥
के वा यूयं न देवाः किमु पुनरुपदेवाः किमन्ये महान्तो
वेषाकारप्रकारः कथयति भवतां भव्यतां दिव्यतां च ।
प्राणानेतस्य नानाविधदुरितवतो यातनां नेतुकामान्
अस्मान्कस्मादिदानीमरुधत च विभोर्धर्मराजस्य दूतान॥१३॥
वैवस्वतस्य भृत्यानामेवं वाचं निशम्य ते ।
इत्थमूचुर्हरेर्दूता मुग्धस्मेरमुखाम्बुजाः ॥१४॥
पृच्छामः साधु युषंआनिदमखिलविभोर्धर्मराजस्य दूतान्
कीदृग्धर्मस्वरूपः कथयत विषयः कोऽपि दण्डस्य लोके ।
सर्वे किं न्वस्य दण्ड्या जगति यदपरं किं नु धर्मैकनिष्ठं
यद्वा किं ते नु सम्यग्दुरितमहरहो ये वितन्वन्त्यधर्मम् ॥१५॥
गद्यम् । अथ ते यथाश्रुतं प्रत्यवदन॥
आम्नायैर्विहितोऽयमत्र भुवने धर्मोऽनिषिद्धोऽपरैः
वेदास्तेऽपि जगत्त्रयीमयतनुर्देवस्नारायणः ।
तस्मिन्धर्मपथे चरन्नविषयो दण्डस्य पुण्यप्रभो
योऽन्यस्मिन्निरतः पुमान्स तु बुधैर्दण्ड्योऽत्र निर्णीयताम् ॥१६॥
अयं च पितरौ त्यज स्वगृहिणीं च साध्वीं पुना
रमस्व कुलटायुतो विरम धर्मतः स्वीयतः ।
प्रपोषय कुटुम्बकं परधनं मुषाणावहं
विनिन्द्यमिति नाकरोत्किमिह कर्म कामातुरः ॥१७॥
पुनरपि हरिदूता याम्यदूतानवोचन्
जननशतसहस्रैर्दुष्कृतौघे कृतेऽपि ।
यदिह सकृदनेन व्याहृतं नाम विष्णोर्
विदितमहह किं नो निष्कृतिस्तत्कृता वः ॥१८॥
न्èनामघं दहति नाम हरेरबुद्ध्याप्य्
आख्यातमामयमिवाउषधमग्निरेधः ।
आम्नायभृत्यमखिलं शमलं पुनाति
सेवा हरेस्तु सह वासनया लुनाति ॥१९॥
इत्थं तद्वचनं गभीरमधुरं धर्म्यं निशम्याकुलास्
ते वैवस्वतकिङ्करास्सरभसं जग्मुः स्वतातान्तिकम् ।
श्रीनारायणपार्षदेषु च गतेष्वम्भोजनेत्रामृत
स्वान्तः सोऽपि तपश्चरन्निह पुनश्चागात्स्वरूपं हरेः ॥२०॥
इत्यजामिलमोक्षं समाप्तम् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP