हंसदूत
ऱुप गोस्वमिन्कृत हंसदूत
दुकूलं बिभ्राणो दलितहरितालद्युतिभरं
जवापुष्पश्रेणीरुचिरुचिरपादाम्बुजतलः ।
तमालश्यामाङ्गो दवहसितलीलाञ्चितमुखः
परानन्दाभोगः स्फुरतु हृदि मे को.अपि पुरुषः ॥१॥
यदा यातो गोपीहृदयमदनो नन्दसदनान्
मुकुन्दो गान्दिन्यास्तनयमनुविन्दन्मधुपुरीं ।
तदामान्क्षीच्चिन्तासरिति घनघूर्णापरिचयैर्
अगाधायां बाधामयपयसि राधा विरहिणी ॥२॥
कदाचित्खेदाग्निं विघटयितुमन्तर्गतमसौ
सहालीभिर्लेभे तरलितमना यामुनतटीं ।
चिरादस्याश्चित्तं परिचितकुटीरकलनाद्
अवस्था तस्तार स्फुटमथ सुषुप्तेः प्रियसखी ॥३॥
तदा निष्पन्दाङ्गी कलितनलिनीपल्लवकुलैः
परीणाहात्प्रेमनामकुशलशताशङ्किहृदयैः ।
दृगम्भोगम्भीरीकृतमिहिरपुत्रीलहरीभिः
विलीना धुलीनामुपरि परिवव्रे परिजनैः ॥४॥
ततस्तां न्यस्ताङ्गीमुरसि ललितायाः कमलिनी
पलाशैः कालिन्दीसलिलशिशिरैर्वीजिततनुं ।
परावृतश्वासाङ्कुरचलितकण्ठिं कलयतां
सखीसन्दोहानां प्रमदभरशाली ध्वनिरभूत् ॥५॥
निधायाङ्के पङ्केरुहदलविटङ्कस्य ललिता
ततो राधां नीराहरणसरणौ न्यस्तचरणा ।
मिलन्तं कालिन्दीपुलिनभुवि खेलाञ्चितगतिं
ददर्शाग्रे कंचिन्मधुरविरुतं श्वेतगरुतं ॥६॥
तदालोकस्तोकोच्छ्वसितहृदया सादरमसौ
प्रणामं शंसन्ती लघु लघु समासाद्य सविधं ।
धृतोत्कण्ठा सद्यो हरिसदसि सन्देशहरणे
वरं दूतं मेने तमतिललितं हन्त ललिता ॥७॥
अमर्षात्प्रेमेर्ष्यां सपदि दधती कंसमथने
प्रवृत्ता हंसाय स्वमभिलषितं शंसितुमसौ ।
न तस्या दोषो.अयं यदिह विहगं प्रार्थितवती
न कस्मिन्विश्रम्भं दिशति हरिभक्तिप्रणयिता ॥८॥
पवित्रेषु प्रायो विरचयसि तोयेषु वसतिं
प्रमोदं नालीके वहसि विशदात्मा स्वयमसि ।
ततो.अहं दुःखार्ता शरणमबला त्वां गतवती
न याच्ञा सत्पक्षे व्रजति हि कदाचिद्विफलतां ॥९॥
चिरं विस्मृत्यास्मान्विरहदहनज्वालविकलाः
कलावान्सानन्दं वसति मुखरायां मधुरिपुः ।
तदेतं सन्देशं स्वमनसि स्वमाधाय निखिलं
भवान्क्षिप्रं तस्य शरणपदवीं सङ्गमयतु ॥१०॥
निरस्तप्रत्यूहं भवतु भवतो वर्त्मनि शिवं
समुत्तिष्ठ क्षिप्रं मनसि मुदमाधाय सदरं ।
अधस्ताद्धावन्तो लघु लघु समुत्ताननयनैर्
भवन्तं वीक्षन्तां कुतुकतरला गोपशिशवः ॥११॥
स वैदग्धीसिन्धुः कठिनमतिना दानपतिना
यया निन्ये तूर्णं पशुपयुवतीजीवनपतिः ।
तया गन्तव्या ते निखिलजगदेकप्रथितया
पदव्या भव्यानां तिलक किल दाशार्हनगरी ॥१२॥
गलद्बाष्पासारप्लुतधवलगण्डा मृगदृशो
विदूयन्ते यत्र प्रमदमदनावेशविवशाः ।
त्वया विज्ञातव्या हरिचरणसङ्गप्रणयिनो
ध्रुवं सा चक्राङ्कीरतिसख शताङ्गस्य पदवी ॥१३॥
पिबन्जम्बूश्यामं मिहिरदुहितुर्वारि मधुरं
मृणालीर्भुञ्जानो हिमकरकणाक्ॐअलरुचः ।
क्षणं हृष्टस्तिष्ठन्निविडविटपे शाखिनि सखे
सुखेन प्रस्थानं रचयतु भवान्वृष्णिनगरे ॥१४॥
बलादाक्रन्दन्ती रतपथिकमक्रूरमिलितं
विदूरादाभीरीततिरनुययौ येन रमणं ।
तमादौ पन्थानं रचय चरितार्था भवतु ते
विराजन्ती सर्वोपरि परमहंसस्थितिरियं ॥१५॥
अकस्मादस्माकं हरिरपहरन्नंशुकचयं
यमारूढो गूढप्रणयलहरीं कन्दलयितुं ।
तवाश्रान्तस्यान्तःस्थगितरविबिम्बः किसलयैः
कदम्बः कादम्ब त्वरितमवलम्बः स भविता ॥१६॥
किरन्ती लावण्यं दिशि दिशि शिखण्डस्तवकिनी
दधाना साधीयः कनकविमलज्योतिवसनं ।
तमालश्यामाङ्गी सरलमुरलीचुम्बितमुखी
जगौ चित्रं यत्र प्रकटपरमानन्दलहरी ॥१७॥
तया भूयः क्रीडारभसविकसद्वल्लववधूर्
वपुर्वल्ली भ्रश्यन्मृगमदकणश्यामलिकया ।
विधातव्यो हल्लीसकदलितमल्ललतिकया
समन्तादुल्लासस्तव मनसि रासस्थलिकया ॥१८॥
तदन्ते वासन्तीविरचितमनङ्गोत्सवकला-
चतुःशालं शौरेः स्फुरति न दृशौ तत्र विकिरेः ।
तदालोकोद्भेदिप्रमदभवविस्मारितगति-
क्रिये जाते तावत्त्वयि बत हता गोपवनिता ॥१९॥
मम स्यादर्थानां क्षतिरिह विलम्बाद्यदपि ते
विलोकेथाः सर्वं तदपि हरिकेलिस्थलमिदं ।
तवेयं व्यर्था भवतु शुचिता कः स हि सखे
गुणो यश्चाणूरद्विषि मतिनिवेशाय न भवेत् ॥२०॥
सकृद्वंशीनादश्रवणमिलिताभीर्वनिता
रहःक्रीडासाक्षी प्रतिपदलतासद्मसुभगः ।
स धेनूनां बन्धुर्मधुमथनखट्टायितशिलः
करिष्यत्यानन्दं सपदि तव गोवर्धनगिरिः ॥२१॥
तमेवाद्रिं चक्राङ्कितकरपरिष्वङ्गिरसिकं
महीचक्रे शङ्केमहि शिखरिणां शेखरतया ।
अरातिं ज्ञातीनां ननु हरिहरं यः परिभवन्
यथार्थं स्वं नाम व्यधित गोवर्धन इति ॥२२॥
तमालस्यालोकाद्गिरि-परिसरे सन्ति चपलाः
पुलिन्द्यो गोविन्द-स्मरण-रभसोत्तप्त-वपुषः ।
शनैस्तासां तापं क्षणं अपनयन्यास्यति भवान्
अवश्यं कालिन्दी-सलिल-शिशिरैः पक्ष-पवनैः ॥२३॥
तदन्ते श्रीकान्तस्मरणसमरघाटीपुलकिता
कदम्बानां वाटी रसिकपरिपाटी स्फुरयति ।
त्वमासीनस्तस्यां न यदि परितो नन्दसि ततो
बभूव व्यर्था ते घनरसनिवासव्यसनिता ॥२४॥
शरन्मेघश्रेणीप्रतिभटमरिष्टासुरशिरश्
चिरं शुष्कं वृन्दावनपरिसरे द्रक्ष्यति भवान् ।
यदारोढुं दूरान्मिलति किल कैलासशिखरि-
भ्रमाक्रान्तस्वान्तो गिरिशसुहृदः किङ्करगणः ॥२५॥
रुवन्याहि स्वैरं चरमदशया चुम्बितरुचो
नितम्बिन्यो वृन्दावनभुवि सखे सन्ति बहवः ।
परावर्तिष्यन्ते तुलितमुरजिन्नूपुररवात्
तवाध्वानात्तासां बहिरपि गताः क्षिप्रमसवः ॥२६॥
त्वमासीनः शाखान्तरमिलितचण्डत्विषि सुखं
दधीथा भाण्डीरे क्षणमपि घनश्यामलरुचौ ।
ततो हंसं बिभ्रन्निखिलनभसश्चित्रमिषया
स वर्धिष्णुं विष्णुं कलितदरचक्रं तुलयिता ॥२७॥
त्वमष्टाभिर्नेत्रैर्विगलदमलप्रेमसलिलैर्
मुहुः सिक्तस्तम्बां चतुर चतुरास्यस्थितिभुवं ।
जिहीथाः विख्यातां स्फुतमिह भवद्बान्धवरथं
प्रविष्टं मंस्यन्ते विधिमटविदेव्यस्त्वयि गते ॥२८॥
उदञ्चन्नेत्राम्भःप्रसरलहरीपिच्छिलपथ-
स्खलत्पादन्यासप्रणिहितविलम्बाकुलधियः ।
हरौ यस्मिन्मग्ने त्वरितयमुनाकुलगमन-
स्पृहाक्षिप्ता गोप्यो ययुरनुपदं कामपि दशां ॥२९॥
मुहुर्लस्यक्रीडाप्रमदमिलदाहोपुरुषिका
विकाशेन भ्रष्टैः फणिमणिकुलैर्धूमलरुचौ ।
पुरस्तस्मिन्नीपद्रुमकुसुमकिञ्जल्कसुरभौ
त्वया पुण्ये पेयं मधुरमुदकं कालियह्रदे ॥३०॥
तृणावर्तारातेर्विरहदवसन्तापिततनोः
सदाभीरीवृन्दप्रणयबहुमानोन्नतिविदः ।
विधातव्यो नव्यस्तवकभरसंवर्धितशुचस्
त्वया वृन्दादेव्याः परमविनयाद्वन्दनविधिः ॥३१॥
इति क्रान्त्वा केकाकृतविरुतमेकादशवनं
घनीभूतं चुतैर्व्रज मधुवनं द्वादशमिदं ।
पुरी यस्मिन्नास्ते यदुकुलभुवां निर्मययशो-
भराणां धाराभिर्वलितधरित्रीपरिसरा ॥३२॥
निकेतैराकीर्णा गिरिशगिरिडिम्भप्रतिभटैर्
अवष्टम्भस्तम्भावलिविलसितैः पुष्पितवना ।
निविष्टा कालिन्दीतटभुवि तवाधासाति सखे
समस्तादानन्दं मधुरजलवृन्दा मधुपुरी ॥३३॥
वृषः शम्भोर्यस्यां दशति नवमेकत्र यवसं
विरिञ्चेरन्यस्मिन्गिलति कलहंसो विसलतां ।
क्वचित्क्रोञ्चारातेः कवलयति केकी विषधरं
विलीढे शल्लक्या वलरिपुकरी पल्लवमितः ॥३४॥
अरोधिष्ठाः कायान्न हि विचलितां प्रच्छदपटीं
विमुक्तामज्ञासीः पथि पथि न मुक्तावलिमपि ।
अयि श्रीगोविन्दस्मरणमदिरामत्तहृदये
सतीति ख्यातिस्ते हसति कुलटानां कुलमिदं ॥३५॥
असव्यं बिभ्राणा पदमधूतलाक्षारसमसौ
प्रयाताहं मुग्धे विरम मम वेशैः किमधुना ।
अमन्दादाशङ्के सखि पुरपुरन्ध्रिकलकलाद्
अलिन्दाग्रे वृन्दावनकुसुमधन्वा विजयते ॥३६॥
अयं लीलापाङ्गस्नपितपुरवीथीपरिसरो
नवाशोकोत्तंसश्चलति पुरतः कंसविजयी ।
किमस्मानेतस्मिन्मणिभवनपृष्ठाद्विनुदती
त्वमेका स्तब्धाक्षी स्थगयसि गवाक्षावलिमपि ॥३७॥
मुहुः शून्यां दृष्टिं वहसि ध्यायसि सदा
शृणोषि प्रत्यक्षं नवपरिजनविज्ञापनशतं ।
ततः शङ्के पङ्केरुहमुखि ययौ श्यामलरुचिः
स यूनो मूर्तं सम्भव नयनवीथीपथिकतां ॥३८॥
विलज्जं मा रोदीरिह सखि पुनर्यास्यति हरि-
स्तवापङ्गक्रीडानिविडपरिचर्याग्रहिलतां ।
इति स्वैरं यस्यां पथि पथि मुरारेरभिनव-
प्रवेशे नारीणां रतिरभसजल्पा ववृधिरे ॥३९॥
सखे साक्षाद्दामोदरवदनचन्द्रावकलन-
स्फुरत्प्रेमानन्दप्रकरलहरीचुम्बितधियः ।
मुहुरत्राभीरीसमुदयशिरोन्यस्तविपद-
स्तवाक्ष्णोरानन्दं विदधीत पुरा पौरवनिताः ॥४०॥
अथ भ्रामं भ्रामं क्रमघटनया सङ्कटतरान्
निवासान्वृष्णीनामनुसर पुरीमधवसितं ।
मुरारातेर्यत्र स्थगितगगणाभिर्विजयते
पताभिः सन्तापितभुवनमन्तःपुरवरं ॥४१॥
यदुत्सङ्गे तुङ्गस्फटिकरचिताः सन्ति परितो
मरालामाणिक्यप्रकरघटितत्रौटिचरणाः ।
सुहृद्बुद्ध्या हंसाः कलितमधुरस्याम्बुजभुवः
समर्यादं येषां सपदि परिचर्यां विदधीत ॥४२॥
चिरान्मृग्यन्तीनां पशुपरमणीनामपि कुलैर्
अलब्धं कालिन्दीपुलिनविपिने {लीनमण्डितः} ।
सदा लोकोल्लासिस्मितपरिचितास्यं सहचरि
स्फुरन्तं वीक्षिष्ये पुनरपि किमग्रे मुरभिदं ॥४३॥
विषादं मा कार्षीद्रुतिमवितत्थव्याहृतिरसौ
समागन्ता राधे धृतनवशिखण्डस्तव सखा ।
इति ब्रूते यस्यां शुकमिथुनमिन्द्रानुजकृते
यदाभीरिवृन्दैरुपधृतमभूदुद्धवकरे ॥४४॥
घनश्यामा भ्राम्यत्युपरि हरिहर्मस्य शिखिभिः
कृतस्तोत्रा मुग्धैरगुरुरचिता धूमलतिका ।
तदालोकाद्धीर स्फुरति तव चेन्मानसरुचिर्
जितं तर्हि स्वैरं जलसहनिवासप्रियतया ॥४५॥
ततो मध्ये कक्षं प्रति नवगवाक्षस्तवकिनं
चलन्मुक्तालम्बस्फुरितममलस्तम्भनिवहं ।
भवान्द्रष्टा हेमोल्लिखितदशमस्कन्धचरितो-
ल्लसद्भित्तिप्रान्तं मुरविजयिनः केलिनिलयं ॥४६॥
अलिन्दे यस्यास्ते मरकतमयी यष्टिरमला
शयालुर्यां रात्रौ मदकलकलापी कलयति ।
निराटङ्कस्त्स्याः शिखरमधिरुह्य श्रमनुदं
प्रतीक्षेथा भ्रातर्वरमवसरं यादवपतेः ॥४७॥
निविष्टः पलाङ्के मृदुलतरतुलीधवलिते
त्रिलोकलक्ष्मीणां ककुदि दरसातीकृततनूः ।
अमन्दं पूर्णेन्दुप्रतिममुपधानं प्रमुदितो
निधायाग्रे तस्मिन्नुपहितकफोनिद्वयभरं ॥४८॥
उदञ्चत्कालिन्दीसलिलसुभगं भावुकरुचिः
कपोलान्तः प्रेक्ष्यन्मणिमकरमुद्रामधुरिमा ।
वसानः कौशेयं जितकनकलक्ष्मी परिमलं
मुकुन्दस्ते साक्षात्प्रमदसुधया सेक्ष्यति दृशोः ॥४९॥
विकद्रुः पौराणीरखिलकुलवृद्धो यदुपतेर्
अदूरादासीनो मधुरभनितीर्गास्यति सदा ।
पुरस्तादाभीरीगणभयदनामा स कठिनो
मणिस्तम्भालम्बी कुरुकुलकथां सङ्कलयिता ॥५०॥
शिनीनामुत्तंसः कलितकृतवर्माप्युभयतः
प्रणेष्यते बालव्यजनयुगलान्दोलनविधिं ।
स जानुभ्यामष्टापदभुवनमवष्टभ्य भविता
गुरोः शिष्यो नूनं पदकमलसंवाहनरतः ॥५१॥
विहङ्गेन्द्रो युग्मीकृतकरसरोजो भुवि पुरः
कृतासङ्गो भावी प्रजविनि निर्देशे.अर्पितमनाः ।
छदद्वन्द्वे यस्य ध्वनति मथुरावासिबटवो
व्यदस्यन्ते सामस्वरजनितमन्योन्यकलहं ॥५२॥
न निर्वक्तुं दामोदरपदकनिष्ठाङ्गुलिनख-
द्युतीनां लावण्यं भवति चतुरास्यो.अपि चतुरः ।
तथापि स्त्रीप्रज्ञासुलभतरलत्वादहमसौ
प्रवृत्ता तन्मूर्तिस्तवरतिमहासाहसवशे ॥५३॥
विराजन्ते यस्यव्रजशिशुकुलस्तेयविकल-
स्वयम्भूचूडाग्रैर्लुलितशिखराः पादनखराः ।
क्षणं यानालोक्य प्रकटपरमानन्दविवशः
स देवर्षिर्मुक्तानपि तनुभृतः शोचति भृशं ॥५४॥
सरोजानां व्यूहः श्रियमभिलषन्यस्य पदयो-
र्ययौ रागाढ्यानां विधुरमुदवासव्रतविधिं ।
हिमं वन्दे नीचैरनुचितविधानव्यसनिनां
यदेषां प्राणान्तं दमनमनुवर्षं प्रणयति ॥५५॥
रुचीनमुल्लासैर्मरकतमयस्थूलकदली-
कदम्बाहंकारं कवलयति यस्योरुयुगलं ।
यदालानस्तम्भद्यूउतिमवललम्बे कलवतां
मदादुद्दामानां पशुपरमणीचित्तकरिणीं ॥५६॥
सखे यस्याभीरीनयनसफरीजीवनविधौ
निदानं गाम्भीर्यप्रसरकलिता नाभिसरसी ।
यतः कल्पस्यादौ सजलजनकोत्पत्तिवडभी-
गभीरान्तः कक्षाधृतभुवनमम्भोरुहमभूत् ॥५७॥
द्युतिं धत्ते यस्य त्रिवलिलतिकासङ्कटतरं
सखे दामश्रेणीक्षपणरचनाभिज्ञमुदरं ।
यशोदा यस्यान्तः सुरनरभुजङ्गैः परिवृतं
मुखद्वारा वारद्वयमवलुलोके त्रिभुवनं ॥५८॥
उरौ यस्य स्फारं स्फुरति वनमालावलयितं
वितन्वानं तन्वीजनमनसि सद्यो मनसिजं ।
मरीचीभिर्यस्मिन्रविनिवहतुल्यो.अपि वहते
सदा खद्योताभां भुवनमधुरः कौस्तुभमणिः ॥५९॥
समन्तादुन्मीलद्वलभिदुपलस्तम्भयुगल-
प्रभाजैत्रं केशिद्विजदलितकेयूरललितं ।
मदक्लाम्यद्गोपीपटलहटकण्ठग्रहपरं
भुजद्वन्द्व,ं यस्य स्फुटसुरभिगन्धं विजयते ॥६०॥
जिहीते साम्राज्यं जगति नवलावण्यलहरी
परीपाकस्यान्तर्मुदितमदनावेशमधुरं ।
नटद्भ्रूवल्लीकं स्मितनवसुधाकेलिसदनं
स्फुरन्मुक्तापङ्क्तिप्रतिमरदनं यस्य वदनं ॥६१॥
किमेभिर्व्याहारैः कलय कथयामि स्फुटमहं
सखे निःसन्देहं परिचयपदं केवलमिदं ।
परानन्दो यस्मिन्नयनपदवीभ्राजि भविता
त्वया विज्ञातव्या मधुररव सो.अयं मधुरिपुः ॥६२॥
विलोकेथाः कृष्णः मदकलमरालीरतिकला-
विमुग्ध व्यामुग्धं यदि पुरवधूविभ्रमभरैः ।
तदा नास्मान्ग्राम्याः प्रवणपदवीं तस्य गमयेः
सुधापूर्णं चेतः कथमपि न तक्रं मृगयते ॥६३॥
यदा वृन्दारण्यस्मरणलहरीहेतुरमणं
पिकानां वेवेष्टि प्रतिहरितमुच्चैः कुहुरुतं ।
वहन्ते वा वाताः स्फुरति गिरिमल्लीपरिमला-
स्तदैवास्माकीनां गिरमुपहरेथा मुरभिदि ॥६४॥
पुरातिष्ठन्गोष्ठान्निखिलरमणीभ्यः प्रियतया
भवान्यस्यां गोपीरमण विदधे गौरवभरं ।
सखी तस्या विज्ञापयति ललिता धीरललित
प्रणम्य श्रीपादाम्बुजकनकपीठीपरिसरे ॥६५॥
प्रयत्नादाबाल्यं नवकमलिनीपल्लवकुलै-
स्त्वया भूयो यस्याः कृतमहह संवर्धनमभूत् ।
चिरादूधोभारं स्फुरणपरमाक्रान्तजघना
बभूव प्रष्ठौही मुरमथन सेयं कपलिका ॥६६॥
समीपे नीपानां त्रिचतुरदला हन्त गमिता
त्वया या माकन्दप्रियसहचरीभावनियतिं ।
इयं सा वासन्ती गलदमलमाध्वीकपटली-
मिषादग्रे गोपीरमण रुदती रोदयती नः ॥६७॥
प्रसूतो देवक्या मधुमथन यः को.अपि पुरुषः
स यातो गोपालाभ्युदयपरमानन्दवसतिं ।
धृतो यो गान्धिन्या कठिनजठरे सम्प्रति ततः
समन्तादेवास्तं शिव शिव गता गोकुलकथा ॥६८॥
अरिष्टेनोद्धताः पशुपसुदृशो याति विपदं
तृणावर्ताक्रान्तो रचयति भयं चत्वरचयः ।
अमी व्य्ॐईभूता व्रजवसतिभूमी परिसरा
वहन्ते सन्तापं मुरहर विदूरं त्वयि गते ॥६९॥
त्वया नागन्तव्यं कथमपि हरे गोष्ठमधुना
लता श्रेणी वृन्दावनभुवि यतो.अभूद्विषमयी ।
प्रसूनानां गन्धं मधुमथन तदा वातनिहितं
भजन्सद्यो मूर्च्छां वहति निवहो गोपसुदृशां ॥७०॥
कथं सङ्गो.अस्माभिः सह समुचितः सम्प्रति हरे-
रयं ग्राम्या नार्यस्त्वमसि नृपकन्यार्चितपदः ।
गतः कालो यस्मिन्पशुपरमणीसङ्गमकृते
भवान्व्यग्रस्तस्थौ तमसि गृहवाटिविटपिनि ॥७१॥
वयं त्यक्ताः स्वामिन्यदि तव किं दूषणमिदं
निसर्गः श्यामानामयमतितरां दुष्परिहरः ।
कुहूकण्ठैरण्डावधि सह निवासात्परिचिता
विसृज्यन्ते सद्यः कलितनवपक्षैर्वलिभुजः ॥७२॥
अयं पूर्वो रङ्गः किल परिचितो यस्य तरसा
रसादाख्यातव्यं परिकलय तन्नाटकमिदं ।
मया प्रष्टव्यो.असि प्रथममिति वृन्दावनपते
किमाहा राधेति स्मरसि हतकं वर्णयुगलं ॥७३॥
अये कुञ्जद्रोणीकुहरगृहमेधिन्किमधुना
परोक्षं वक्ष्यन्ते पशुपरमणीदुर्नियतयः ।
प्रवीणा गोपीनां तव चरणपद्मे.अपि यदियं
ययौ राधा साधारणसमुचितप्रश्नपदवीं ॥७४॥
त्वया गोष्ठं गोष्ठीतिलक किल चेद्विस्मृतमिदं
न तूर्णं धूमोर्णापतिरपि विधत्ते यदि कृपां ।
अहर्वृन्दं वृन्दावनकुसुमपालीपरिमलैर्
दरालोकं शोकास्पदमिव कथं नेष्यति सखी ॥७५॥
तरङ्गैः कुर्वाणा शमनभगिनीलाघवमसौ
नदीं कांचिद्गोष्ठे नयनजलपूरैरजनयत् ।
इतीवास्या द्वेषादभिमतदशाप्रार्थनमयीं
मुरारे विज्ञप्तिं निशमयति मानी न शमनः ॥७६॥
कृताकृष्टिक्रीडं किमपि तव रूपं मम सखी
सकृद्दृष्ट्वा दूरादहितहितबोधोज्झितमतिः ।
हता सेयं प्रेमानलमनु विशन्ती सरभसं
पतङ्गीवात्मानं मुरहर मुहुर्दाहितवती ॥७७॥
मया वाच्यः किं वा त्वमिह निजदोषात्परमसौ
ययौ मन्दा वृन्दावनकुसुमबन्धो विधुरतां ।
यदर्थं दुःखाग्निर्विकृशति तमद्यापि हृदयान्
न यस्माद्दुर्मेधा लवमपि भवन्तं दवयति ॥७८॥
त्रिवक्राहो धन्या हृदयमिव ते स्वं पुरमसौ
समासाद्य स्वैरं यदिह विलसन्ती निवसति ।
ध्रुवं पुण्यभ्रंशादजनि सरलेयं मम सखी
प्रवेशस्तत्राभूत्क्षणमपि यदस्या न सुलभः ॥७९॥
किमाविष्टा भूतैः सपदि यदि वाक्रूरफणिना
क्षतापस्मारेण च्युतमतिरकस्मात्किमपतत् ।
इति व्यग्रैरस्यां गुरुभिरभितः कीचकरव-
श्रवादस्पन्दायां मुरहर विकल्पा विदधिरे ॥८०॥
नवीनेयं सम्प्रत्यकुशलपरीपाकलहरी-
निरीणर्ति स्वैरं मम सहचरीचित्तकुहरे ।
जगन्नेत्रश्रेणीमधुरमथुरायां निवसत-
श्चिरादार्ता वार्तामपि तव यदेषा न लभते ॥८१॥
जनान्सिद्धादशान्नमति भजते मान्त्रिकगणान्
विधत्ते शुश्रूषामधिकविनयेनौषधविदां ।
त्वदीक्षादीक्षायै परिचरति भक्त्या गिरिसुतां
मनीषा हि व्यग्रा किमपि शुभहेतुं न मनुते ॥८२॥
पशूनां पातारं भुजगरिपुपुत्रप्रणयिनं
स्मरोद्वर्धिक्रीडं निविडघनसारद्युतिहरं ।
सदाभ्यर्णे नन्दीश्वरगिरिभुवो रङ्गरसिकं
भवन्तं कंसारे भजति भवदाप्त्यै मम सखी ॥८३॥
भवन्तं सन्तप्ता विदलिततमालाङ्कुररसै-
र्विलिख्य भ्रूभङ्गीकृतमदनकोदण्डकदनं ।
निधासयन्ती कण्ठे तव निजभुजावल्लरीमसौ
धरन्यामुन्मीलज्जाडिमनिविडाङ्गी विलुठति ॥८४॥
कदाचिन्मूढेयं निविडभवदीयस्मृतिमदा-
दमन्दादात्मानं कलयति भवन्तं मम सखी ।
तथास्या राधाया विरहदहनाकल्पितधियो
मुरारे दुःसाध्या क्षणमपि न बाधा विरमति ॥८५॥
त्वया सन्तापानामुपरि परिमुक्तातिरभसा-
दिदानीमापेदे तदपि तव चेष्टां प्रियसखी ।
यदेषा कंसारे भिदुरहृदयं त्वामवयति
सतीनां मूर्धन्या भिदुरहृदयाभूदनुदिनं ॥८६॥
समक्षं सर्वेषां विहरसि मदाधिप्रणयिनाम्
इति श्रुत्वा नूनं गुरुतरसमाधिं कलयति ।
सदा कंसाराते भजसि यमिनां नेत्रपदवीम्
इति व्यक्तं सज्जीभवति यममालोचितुमपि ॥८७॥
मुरारे कालिन्दीसलिलदलदिन्दीवररुचे
मुकुन्द श्रीवृन्दावनमदन वृन्दारकमणे ।
व्रजानन्दिन्नन्दीश्वरदयित नन्दात्मज हरे
सदेति क्रन्दन्ती परिजनशुचं कन्दलयति ॥८८॥
समन्तादुत्तप्तस्तव विरहदावाग्निशिखरया
कृतोद्वेगः पञ्चाशुगमृगयुवेध व्यतिकरैः ।
तनूभूतं सद्यस्तनुवनमिदं हास्यति हरे
हठादद्य श्वो वा मम सहचरीप्राणहरिणः ॥८९॥
पयोराशिस्फीतत्विषि हिमकरोत्तंसमधुरे
दधाने दृग्भङ्ग्या स्मरविजयिरूपं मम सखी ।
हरे दत्तस्वान्ता भवति तदिमां किं प्रभवति
स्मरो हन्तुं किन्तु व्यथयति भवानेव कुतुकी ॥९०॥
विजानीमे भावं पशुपरमणीनां यदुमणे
न जानीमः कस्मात्तदपि तव माया रचयति ।
समन्तादध्यात्मं यदिह पवनव्याधेरलप-
द्बलादस्यास्तेन व्यसनकुलमेव द्विगुणितं ॥९१॥
गुरोरन्तेवासी स भजति यदूनां सचिवतां
सखीयं कालिन्दी किल भवति कालस्य भगिनी ।
भवेदन्यः को वा नरपतिपुरे मत्परिचितो
दशामस्याः शंसन्यदुतिलक यस्त्वामनुनयेत् ॥९२॥
विशीर्णाङ्गीमन्तर्व्रणविलुठनादुत्कलिकया
परीतां भूयस्या सततमुपरागव्यतिकरां ।
परिध्वस्तामोदां विरमितसमस्तालिकुतुकां
विधो पादस्पर्शादपि सुखय राधाकुमुदिनीं ॥९३॥
विपत्तिभ्यः प्राणान्कथमपि भवत्सङ्गमसुख-
स्पृहाधीना शौरे मम सहचरी रक्षितवती ।
अतिक्रान्ते सम्प्रत्यवधिदिवसे जीवनविधौ
हताशा निःशङ्कं वितरति दृशौ चुतमुकुले ॥९४॥
प्रतीकारारम्भश्लथमतिभिरुद्यत्परिणते-
र्विमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः ।
अमुञ्चन्ती सङ्गं कुवलयदृशः केवलमसौ
कलादद्य प्राणानवति भवाशासहचरी ॥९५॥
अये रासक्रीडारसिक मम सख्यां नवनवा
पुरा बद्धा येन प्रणयलहरी हन्त गहना ।
स चेन्मुक्तापेक्षस्त्वमपि धिगिमां तुलशकलं
यदेतस्या नासानिहितमिदमद्यापि चलति ॥९६॥
मुकुन्द भ्रान्ताक्षी किमपि यदसंकल्पितशतं
विधत्ते तद्वक्तुं जगति मनुजः कः प्रभवति ।
कदाचित्कल्याणी विलपति य उत्कण्ठितमति-
स्तदाख्यामि स्वामिन्गमय मकरोत्तंसपदवीं ॥९७॥
अभूत्को.अपि प्रेमा मयि मुररिपोर्यः सखि पुरा
परां कर्मापेक्षामपि तदवलम्बान्न गणयेत् ।
तथेदानीं हा धिक्समजनि तटस्थः स्फुटमहं
भजे लज्जां येन क्षणमपि पुनर्जीवितुमपि ॥९८॥
गरीयान्मे प्रेमा त्वयि परमिति स्नेहलघुता
न जीविष्यामीति प्रणयगरिमख्यापनविधिः ।
कथं नायासीति स्मरणपरिपाटीप्रकटनं
हरौ सन्देशाय प्रियसखि न मे वागवसरः ॥९९॥
अमी कुञ्जः पूर्वं न मम दधिरे कामपि मुदं
द्रुमालीयं चेतः सखि न कतिशो नन्दितवती ।
इदानीं पश्यैते युगपदपतापं विदधते
प्रभो मुक्तोपेक्षे भजति न हि को वा विमुखतां ॥१००॥
कदा प्रेमोन्मीलन्मदनमदिराक्षी समुदयात्
बलादाकर्षन्तं मधुरमुरलीकाकलिकया ।
मुहुर्भ्राम्यच्चिल्लीचुलुकितकुलस्त्रीव्रतमहं
विलोकेयं लीलामदमिलदपाङ्गी मुरभिदं ॥१०१॥
ययौ कालः कल्याण्यधिकलितकेली परिमलां
विलासार्थी यस्मिन्नचलकुहरे लीनवपुषं ।
स मां धृत्वा धूर्तः कृतकपटरोषां सखि हठा-
दकार्षीदाकर्षन्नुरसि शशिलेखाशतवृतां ॥१०२॥
राणद्भृङ्गश्रेणीसुहृदि शरदारम्भमधुरे
वनान्ते चान्द्रीभिः किरणलहरीभिर्धवलिते ।
कदा प्रेमोद्दण्डस्मरकलहवैतण्डिकमहं
करिष्ये गोविन्दं निविडभुजबन्धप्रणयिनं ॥१०३॥
मनो मे हा कष्टं ज्वलति किमहं हन्त करवै
न पारं नावारं किमपि कलयाम्यस्य जलधेः ।
इयं वन्दे मूर्ध्ना सपदि तमुपायं कथय मां
{पतामृष्ये} यस्माद्धृतिकणिकयापे क्षणिकया ॥१०४॥
प्रयातो मां हित्वा यदि कठिनचूडामणिरसौ
पर्यातु स्वच्छन्दं मम समयधर्मः किल गतिः ।
इदं सोढुं का वा प्रभवति यतः स्वप्नकपटा-
दिहायातो वृन्दावनभुवि कलान्मां रमयति ॥१०५॥
अनौचित्यं तस्य व्यथयति मनो हन्त मथुरां
त्वमासाद्य स्वैरं चपलहृदयं वारय हरिं ।
सखि स्वप्नारम्भे पुनरपि यथा विभ्रम मदा-
दिहायातो धूर्तः क्षपयति न मे किङ्किनिगुणं ॥१०६॥
अयि स्वप्नो दूरे विरमतु समक्षं शृणु हठा-
दविश्वस्ता मा भूरिह सखि मनोविभ्रमधिया ।
वयस्यस्ते गोवर्धनविपिनमासाद्य कुतुका-
दकाण्डे यद्भूयः स्मरकलहपाण्डित्यमतनोत् ॥१०७॥
अमर्षाद्धावन्तीं गहनकुहरे सूचितपथां
तुलाकोटिक्वानैश्चकितपदपातद्विगुणितैः ।
विधीर्षन्मां हर्षोत्तरलनयनान्तः स कुतुकी
न वंशीमज्ञासीद्भुवि करसरोजाद्विगलितां ॥१०८॥
अशक्तां गन्तव्ये कलितनवचेलाञ्चलतया
लतालीभिः पुष्पस्मितशवलिताभिर्विरुदतीं ।
परीहासारम्भी प्रियसखि स मां लम्बितमुखीं
प्रपेदे चुम्बाय स्फुरदधरबिम्बस्तव सखा ॥१०९॥
ततो.अहं धम्मिल्ले स्थगितमुरलीका सखि शनै-
रलीकामर्षेण भ्रमदविरलभ्रूरुदचलं ।
कचाकृष्टिक्रीडाक्रमपरिचिते चौर्यचरिते
हरिर्लब्धोपाधिः प्रसभमनयन्मां गिरिदरीं ॥११०॥
कदाचिद्वासन्तीकुहरभुवि धृष्टः सरभसं
हसन्पृष्ठालम्बी स्थगयति कराभ्यां मम दृशौ ।
दिधीर्षौ जातेर्ष्यं मयि सखि तदीयाङ्गुलिशिखां
न जाने कुत्रायं व्रजति कितवानां किल गुरुः ॥१११॥
अतीतेयं वार्ता विरमतु पुरः पश्य सरले
वयस्यस्ते सो.अयं स्मितमधुरिमोन्मृष्टवदनः ।
भुजस्तम्भोल्लासादभिमतपरीरम्भरभसः
स्मरक्रीडासिन्धुः क्षिपति मयि बन्धुककुसुमं ॥११२॥
तदुत्तिष्ठ व्रीडावति निविडमुक्तालतिकया
वधानेमं धूर्तं सखि मधुपुरीं याति न यथा ।
इति प्रेमोन्मीलद्भवदनुभवारूढजडिमा
सखीनामाक्रन्दं न किल कतिशः कन्दलयति ॥११३॥
अहो कष्ट्.अं बाल्यादहमिह सखीं दुष्टहृदया
मुहुर्मानग्रन्थिं सहजसरलां ग्राहितवती ।
तदारम्भाद्गोपीगणरतिगुरो निर्भरमसौ
न लेभे लुब्धापि त्वदमलभुजस्तम्भरभसं ॥११४॥
अलिन्दे कालिन्दीकमलसुरभौ कुञ्जवसते-
र्वसन्तीं वासन्तीनवपरिमलोद्गारिचिकुरां ।
त्वदुत्सङ्गे निद्रासुखमुकुलिताक्षीं पुनरिमां
कदाहं सेविष्ये किशलयकलापव्यजनिनी ॥११५॥
धृतानन्दांवृन्दावनपरिसरे शारदनिशा-
विलासोल्लासेन ग्लपितकवरीफुल्लकुसुमां ।
तव स्कन्धोपान्ते विनिहितभुजावल्लरिमहं
कदा कुञ्जे लीना रहसि विहसिष्यामि सुमुखीं ॥११६॥
विदूरादाहर्तुं कुसुममुपयामि त्वमधुना
पुरस्तीरे तीरे कलय तुलसीपल्लवमिदं ।
इति व्याजादेनां विदितभवदीयस्थितिरहं
कदा कुञ्जे गोपीरमण गमयिष्यामि समये ॥११७॥
इति श्रीकंसारेः पदकमलयोर्गोकुलकथां
निवेद्य प्रत्येकं भज परिजनेषु प्रणयितां ।
निजाङ्के कादम्बीसहचर वहन्मण्डनतया
न यानुच्चैः प्रेमप्रवणमनुजग्राह भगवान् ॥११८॥
मिलद्भङ्गीं हंसीरमण वनमालां प्रथमतो
मुदा क्षेमं पृच्छन्निदमुपहरेथा मम वचः ।
चिरं कंसारातेरुरसि सहवासप्रणयिनीं
किमेनामेनाक्षीं गुणवति विसस्मार भवती ॥११९॥
इदं किं वा हन्त स्मरसि रसिके खण्डनरुषा
परीताङ्गी गोवर्धनगिरिनितम्बे मम सखी ।
भिया सम्भ्रान्ताक्षं यदिह विचकर्ष त्वयि बला-
द्गृहीत्वा विभ्रश्यन्नवशिखिशिखं गोकुलपतिं ॥१२०॥
ततः सम्भाषेथाः श्रुतिमकरमुद्रामिति मुदा
भवत्यां कर्तव्यः किमिति कुशलप्रश्नजडिमा ।
रुचिस्मेरा या त्वं रचयसि सदा चुम्बनकलाम्
अपाङ्गेन स्पृष्टा सखि मुररिपोर्गण्डमुकुरे ॥१२१॥
निवासस्ते देवि श्रवणलतिकायामिति धिया
प्रयत्नात्त्वामेव प्रणयहृदया यामि शरणं ।
परोक्षं वृष्णीनां निभृतनिभृतं कर्णकुहरे
हरेः काकून्मिश्रां कथय सखि राधाविधुरतां ॥१२२॥
परीरम्भं प्रेम्णा मम सविनयं कौस्तुभमणौ
ब्रुवाणः कुर्वीथाः पतगवर विज्ञापनमिदं ।
अगाधा राधायामपि तव सखे विस्मृतिरभूत्
कथं वा कल्याणं वहति तरले हि प्रणयिता ॥१२३॥
मुहुः कूजत्काञ्चीमणिवलयमञ्जीरमुरली-
रवालम्बो भ्राम्यद्युवतीकुलगीतैः सुरमणे ।
स किं साक्षाद्भावी पुनरपि हरेस्ताण्डवरसै-
रमन्दः कालिन्दीपुलिनभुवि तौर्यात्रिकभरः ॥१२४॥
नवीनस्त्वं कम्बो पशुपरमणीभिः परिचयं
न धत्से राधायाः गुणगरिमगन्धो.अपि न कृती ।
तथापि त्वां याचे हृदयनिहितं दोहदमहं
वहन्ते हि क्लान्ते प्रणयमवदातप्रकृतयः ॥१२५॥
गृहीत्वा गोविन्दं जलधिहृदयानन्दन सखे
सुखेन श्रीवृन्दावनपरिसरे नन्दतु भवान् ।
कथं वा ते गोष्ठं भवतु दयितं हन्त बलवान्
यदेतस्मिन्वेणोर्जयति चिरसौभाग्यमहिमा ॥१२६॥
इति प्रेमोद्गारप्रवणमनुनीय क्रमवशां
परीवारान्भ्रातर्निशमयति चाणूरमथने ।
पुनः कोपोद्भिन्नप्रणयचटुलं तस्य निकटे
कथामाचक्षीथाः दशभिरवतारैर्विलसितां ॥१२७॥
ग्रहीतुं त्वां प्रेमामिषपरिवृतं चित्तवडिशं
महामीन क्षिप्रं नाधित रसपूरे मम सखी ।
विवेकाख्यं छित्त्वा गुणमथ तदग्रासि भवता
हताशेयं किं वा शिव शिव विधातुं प्रभवति ॥१२८॥
वराकीयं दृष्ट्वा सुभगवपुषो विभ्रमभरं
तवाभ्यर्णं भेजे परमकुतुकोल्लासितमतिः ।
तिरोधाय स्वाङ्गं प्रकटयसि यत्त्वं कठिनतां
तदेतत्किं न स्यात्तव कमठमूर्तेः समुचितं ॥१२९॥
सदा कंसारते स्फुरति चिरमद्यापि भवतः
स्फुटं क्रोडाकारे वपुषि निविडप्रेमलहरी ।
यतः सा सैरन्ध्री मलयरुहपङ्कप्रणयिनी
त्वया क्रोडीचक्रे परमरभसादात्मदयिता ॥१३०॥
चिरादन्तर्भूता नरहरिमयी मूर्तिरभित-
स्तदीयो व्यापारस्तव तु न ययौ विस्मृतिपथं ।
विनीतप्रह्लादस्त्वमिह परमक्रूरचरिते
प्रसक्तो यद्भूयः परहृदयभेदं जनयसि ॥१३१॥
यदात्मानं दर्पादगणितगुरुर्वामन मुदा
मनोराज्येनाढ्यं त्वयि वलितया कल्पितवती ।
प्रपेदे तस्येदं फलमुचितमेव प्रियसखी
विदूरे यत्क्षिप्ता प्रणयमयपाशे निगडिता ॥१३२॥
इयं नाथ क्रूरा भृगुपतनमकङ्क्षति ततो
यदस्यां कठिनां तव समुचितं तद्भृगुपते ।
असौ ते दुर्बोधा कृतिरिह भवद्विस्मृतिपथं
यतो जातः साक्षाद्गुरुरपि स नन्दीश्वरपतिः ॥१३३॥
निरानन्दा गावश्चिरमुपसृता दूषणकुलैः
खरायन्ते सद्यो रघुतिलक गोवर्धनतटीः ।
विराधत्वं घोषो व्रजति भवदीयप्रवसना-
दिदानीं मारीचः स्फुटमिह नरीणर्ति परितः ॥१३४॥
प्रसन्नः कालो.अयं पुनरुदयितुं रासभजनै-
र्विलासिन्नद्यापि स्फुटमनपराधा वयमपि ।
वितन्वानः कान्तिं वपुषि शरदाकाशवलितां
कृतो न त्वं सीरध्वज भजसि वृन्दावनमिदं ॥१३५॥
न रागं सर्वज्ञ क्वचिदपि विधत्ते रतिपतिं
मुहुर्द्वेष्टि द्रोहं कलयति बलादिष्टविधये ।
चिरं ध्यानासक्ता निवसति सदा सौगतरति-
स्तथाप्यस्यां हंहो सदयहृदय त्वं न दयसे ॥१३६॥
परिक्लेशम्लेच्छान्समदमधुपाली मधुरया
निकृन्तत्रोन्तप्रणयकलिकाखड्गलतया ।
त्वमासीनः कल्किन्निह चतुरगोपाहितरतिः
सदेशं कुर्वीथाः प्रतिमुदितवीराधिकमिदं ॥१३७॥
इति प्रेमोद्घाटसम्पुटितवचो भङ्गिरखिलं
त्वमावेद्य क्लिद्यन्मुखपरिसरो लोचनजलैः ।
ततो गोविन्दस्य प्रतिवचनमाध्वीकपदपी-
मुपासीनो दृग्भ्यां क्षणमवधीथाः खगपते ॥१३८॥
प्रणेतव्यो दृष्टेरनुभवपथं नन्दतनयो
विधेयो गोपीनां भुवनमहितानामुपकृतिः ।
इयं यामैर्गम्या चतुर मथुरापि त्रिचतुरै-
रिति द्वैधं नान्तः कलय कलहंसीकुलपते ॥१३९॥
अपूर्वा यस्यान्तर्विलसति मुदा सारलरुचि-
र्विवेक्तुं शक्येते सपदि मिलिते येन पयसी ।
कथं कारं युक्तो भवतु भवतस्तस्य कृतिना
विलम्बः कादम्बीरमण मथुरासङ्गमविधौ ॥१४०॥
प्रपन्नः प्रेमाणं प्रभवति सदा भागवतभाक्
पराचीनो जन्मावधिभवरसाद्भक्तिमधुरः ।
चिरं को.अपि श्रीमान्जयति विदितः शाकरतया
धुरीणो धीराणामधिधरणि वैयासकिरिव ॥१४१॥
रसानामाधारैरपरिचितदोषः सहृदयै-
र्मुरारातेः क्रीडानिविडघटनारूपमहितः ।
प्रबन्धो.अयं बन्धोरखिलजगतां तस्य सरसां
प्रभोरन्तः सान्द्रां प्रमदलहरीं पल्लवयतु ॥१४२॥
N/A
References :
हंसदूत
Last Updated : November 11, 2016
TOP