ऊद्धवसन्देश

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.


सान्द्रीभूतैर्नवविटपिनां पुष्पितानां वितानै
र्लक्ष्मीवत्तां दधति मथुरापत्तने दत्तनेत्रः ।
कृष्णः क्रीडाभवनवडभीमूर्ध्नि विद्योतमानो
दध्यौ सद्यस्तरलहृदयो गोकुलारण्यमैत्रीम् ॥१॥

श्वासोल्लासैरथ तरलितस्थूलनालीकमालः
कुर्वन्पूर्णानयनपयसां चक्रवालैः प्रणालीः ।
स्मारं स्मारं प्रणयनिविडां वल्लवीकेलिलक्ष्मीं
दीर्घोत्कण्ठाजटिलहृदयस्तत्र चित्रायितो.अभूत॥२॥

अन्तःस्वान्ते क्षणमथ परामृष्य पाराभिलाषी
कष्टाम्भोधेर्भवनशिखरे कुट्टिमान्तर्निविष्टः ।
सोत्कण्ठो.अभूदभिमतकथां शंसितुं कंसभेदी
नेदिष्टाय प्रणयलहरी बद्धवागुद्धवाय ॥३॥

त्वं सर्वेषां मम गुणनिधे बान्धवानां प्रधानं
त्वत्तो मन्त्रैः श्रियमविचलां यादवाः साधयन्ति ।
इत्याश्वासादभिमतविधौ कामये त्वां नियोक्तुं
न्यस्तः साधीयसि सफलतामर्थभारो हि धत्ते ॥४॥

संरम्भेण क्षितिपतिगिरां लम्भिते गर्वितानां
वृन्दारण्यान्मयि मधुपुरीं गान्दिनीनन्दनेन ।
वल्लव्यस्ताः विरहदहनज्वालिकामण्डलीनां
अन्तर्लीनाण् कथमपि सखे जीवितं धारयन्ति ॥५॥

प्राणेभ्यो मे प्रणयवसतिर्मित्र तत्रापि राधा
धातुः सृष्टौ मधुरिमधराधारणादद्वितीया ।
वाचोयुक्तिस्तवकितपदैरद्य सेयं सखीनां
गाढाश्वासैर्विधुरविधरं प्राणभारं बिभर्ति ॥६॥

गत्वा नन्दीश्वरशिखरिणो मेखलां रत्नभूतां
त्वं वल्लीभिर्वलयितनगां वल्लवाधीशपल्लीम् ।
तां दष्टाङ्गीं विरहफणिना प्राणयन्प्रीणयार्तां
वार्तामन्त्रध्वनिभिरथ मे मन्त्रिचूडामणीन्द्र ॥७॥

तिष्ठन्ति एते जगति बहवस्त्वत्विधानां विधातुं
चेतः पूर्तिं ननु जनपदामूर्तिभिर्मे सनाथाः ।
भूयो भूयः प्रियसख शपे तुभ्यमव्याजतो.अहं
भूरन्या मे हृदि सुखकरा गोष्ठतः कापि नास्ति ॥८॥

मद्विश्लेषज्वलनपटलीज्वालया जर्जराङ्गीः
सर्वे तस्मिन्निधनपदवीं शाखिनो.अप्याश्रयिष्यन।
गोपीनेत्रावलिविगलितैर्भूरिभिर्बाष्पवारां
पूरैस्तेषां यदि निरवधिर्नाभिषेको.अभविष्यत॥९॥

आत्मक्लेशैरपि नहि तथा मेरुतुङ्गैर्व्यथन्ते
वल्लव्यस्ताः प्रियसख यथा मद्व्यथालेशतो.अपि ।
दुर्वारां मे विरहविहितां निह्नुवानस्तथापि
प्रेमग्रन्थिं त्वमतिपृथुलं तासु विख्यापयेथाः ॥१०॥

भ्रातर्नन्दीश्वरगिरिमितः यास्यतस्ते विदूरं
पन्थाः श्रीमानयमकुटिलः कथ्यते पथरूपी ।
प्रीये सद्यस्त्वयि निपतिते गोकुलानन्दसिन्धौ
सन्तस्तुष्टे सुहृदि हि निजां तुष्टिमेवामनन्ति ॥११॥

अग्रे गौरीपतिमनुसरेः पत्तनान्तर्वसन्तं
गोकर्णाख्यं व्यसनजलधौ कर्णधारं नराणाम् ।
यस्याभ्यर्णे सह रविजया संगमो जङ्गमानां
आविष्कुर्वन्नभिमतधुरां धीर सारस्वतो.असि ॥१२॥

आरूढस्ते नयनपदवीं तन्निधन्यासि सो.अयं
गोपीनग्नं करणमुरलीकाकलीकः कलावान।
इत्यालापस्फुरितवदनैर्यत्र नारीकदम्बै
र्दृग्भङ्गीभिः प्रथममथुरासंगमे चुम्बितो.अस्मि ॥१३

तस्मादन्तर्विरचितपरानन्दपूराददूरां
याहि प्रीत्या सपदि पदवीमम्बिकाकाननस्य ।
यत्रानन्दोत्सवमकरवं सर्पतः सर्पताया
नन्दं विद्याधरमपि पुरा मोचयन्वल्लवीनाम् ॥१४

भूयोभिस्त्वं किल कुवलयापीडदन्तावघातै
रेतां निम्नोन्नतपरिसरां स्यन्दने वर्तमानः ।
मुञ्चोत्तुङ्गां मिहिरदुहितुर्धीरतीरान्तभूमिं
मन्दाक्रान्तां न खलु पदवीं साधवः शीलयन्ति ॥१५

मुञ्चासव्ये विहगरुचिरं किंचिदस्मादुदञ्चं
राजत्तीरं नवसुमनसां राजिभिस्तीर्थराजम् ।
यत्रापूर्वं किमपि कलयां चक्रतुर्मत्प्रभावा
दाभीराणां कुलमपि तथा गान्दिनीनन्दनो.अपि ॥१६॥

यज्वानस्ते यदपि भवतः विप्रिया हेलनान्मे
नम्रस्तेषां तदपि भवनद्वाररथ्यां जिहीथाः ।
गायन्तीनां मदनुरचितं तत्र विप्राङ्गनानां
आलोकाय स्पृहयसि न चेदध्वभावैर्जितो.असि ॥१७॥

तद्विख्यातं स्फुटविटपिनां मण्डलेनाभिपूर्णं
तूर्णं गच्छेः उपपुरिपुरः कोटिकाख्यं प्रदेशम् ।
यत्र प्राप्ते मयि विकिरती नेत्रमुद्यानपाली
शालीनापि प्रकटितभुजामूलमल्पं जहास ॥१८॥

इत्थं क्रान्त्वा पुरपरिसरान्याहि सट्टीकराख्यं
पट्टीभूतं भ्रमरनृपतेः पुष्पितारण्यमारात।
श्रीदामानं सुभग गडुरीकृत्य यत्राधिरूढः
क्रीडाकारी दधदुरुभुजां द्वादशाहं वसामि ॥१९॥

मुग्धे श्यामः कलयति युवा पश्य मामेव न त्वाम्
इति उल्लासैरहमहमिकां सर्वतः कुर्वतीभिः ।
यानालम्बी सरलनयनालोकमैत्रीभराणां
ग्रामीणाभिर्युवतिभिरहं यत्र पात्रीकृतो.अस्मि ॥२०॥

मुञ्चन्सव्ये बहलबहुलां काननस्योपशल्यं
तं चोत्तुङ्गं ह्रदपरिसरं दक्षिणे कालियस्य ।
फुल्लाभिस्त्वं पिहितमिहिरद्योतमन्तर्लताभि
र्धीराध्वानं विमलसरसीराजिभाजं भजेथाः ॥२१॥

वल्लीचित्रं व्रजमृगहरं तं व्रजस्योपशल्ये
कल्ये क्रीडावनविहरणोत्कण्ठया गच्छतो मे ।
यत्रोदञ्चत्कलवलयितैर्वेणुगीतैर्मृगाणां
तूर्णं राजीरजनिविरहव्याकुलानामहारि ॥२२॥

आनम्राणां हसितमुकुलैः फुल्लगण्डस्थलानां
दूराद्दृष्टिं स्फुटसुमनसां स्यन्दने मुञ्चतीनाम् ।
ते वैदग्धीपरिमलकिरः यत्र सीमन्तिनीनां
सस्नुर्बाणावलिविलसिता रुद्धलक्षाः कटाक्षाः ॥२३॥

स श्रीमान्प्रसवति रथी माधवः राधिकायाः
प्रेम स्थूलं करणकुटिलालोकभङ्गीविलासः ।
इति औत्सुक्याद्वरयुवतिभिः स्मारितोद्दामनर्मा
घर्माम्भोभिर्वृततनुरहं यत्र चित्रायितो.अस्मि ॥२४॥

लीलास्वप्नो मम विजयते यत्र नागेन्द्रभोगे
घोषस्तोत्रं तव जनयिता योजनद्वन्द्वचुम्बी ।
दिव्येनालं निखिलजगतीं सर्पिषा तर्पयन्ती
भ्रातर्भूम्ना विलसति विधेः गोमयी यत्र सृष्टिः ॥२५॥

कक्षां लक्षावधिभिरभितः कासरोभिः परीतां
तां संनद्धव्रजविजयिनीं शाल्मलाख्यां भजेथाः ।
वीथ्यां वीथ्यां पृथुकनिकरा यत्र मित्रानुवेलं
खेलन्तस्ताननुविदधते विक्रमान्मे क्रमेण ॥२६॥

दूरादेष प्रणयति पुरा लब्धसाहारनामा
प्रेमानन्दं तव नयनयोः औपनन्दो निवासः ।
जङ्घालेन क्षितिपतिपुरीं स्यन्दनेनानुविन्दन्
यत्राहारं प्रियमकरवं हारि हैयङ्गवीनम् ॥२७॥

गोपेन्द्रस्य व्रजपरिसरे लब्धतुष्टिर्लभेथा
स्तां विख्यातां कलितमहिलाचारुहेलां रहेलाम् ।
यामासाद्य प्रहितमुरलीकाकलीदूतिको.अहं
सायं गोपीकुलमकरवं सामि नेपथ्यनद्धम् ॥२८॥

यत्र प्रीतानहमकरवं मित्रभावेन शावान्
हारं हारं विदितसमयः वल्लवीतां दधीनि ।
शाखिव्रातः स खलु वलितः प्रीतशाराभिधस्ते
देशः क्लेशं पथिषु रथिनो दारयिष्यत्युदारम् ॥२९॥

सो.अयं रम्भानटनचटुलैः सेव्यमानो मरुद्भिः
कम्राशोकोत्तमसुमनसां निर्भरामोदधारी ।
पीयूषेण स्फुरितवसतिस्तामुदञ्चद्गुरुश्री
र्लोकातीतः किल मदयिता वल्लवेन्द्रस्य लोकः ॥३०॥

पश्यन्तीनां चकितचकितं लब्धसङ्गं शताङ्गे
मामुत्तुङ्गव्यसनविसरैः काममुन्मादितानाम् ।
तासां विद्युत्तरलवपुषां वल्लवीनां प्रपाता
द्विद्युत्कारीं कथयति जनो दक्षिणां यस्य कक्षाम् ॥३१॥

यत्राक्रूरः प्रणयनिविडोत्कटःअया गुण्ठितात्मा
रङ्गाङ्गोष्ठाङ्गणमनुसरन्मामलोकिष्ट बन्धुम् ।
तत्बाष्पाम्भः कुलपरिचयारब्धजृम्भैः कदम्बैः
सा संवीता विलसति तटी यत्र सौयात्रिकाख्या ॥३२॥

धावद्बालावलिकरतलप्रोच्चलद्वालधीनां
यत्रोत्तुङ्गस्फटिकपटलस्पर्धिदेहद्युतीनाम् ।
घ्रायं घ्रायं नवतृणशिखां मुञ्चतीनां वलन्ते
वत्सालीनां चटुलपटुलं शश्वदाटीकनानि ॥३३॥

आभीरीणां नयनसरणीसङ्गमादेव तासां
सद्यो मोट्टायितमधुरिमोल्लासभङ्गीविघाता ।
पीठीभूतो मम परिमलोद्गारगोष्ठो गरीयान्
यत्रास्थानीमनुविजयते पाण्डुरो गण्डशैलः ॥३४॥

रेणुर्नायं प्रसरति गवां धूमधारा कृशानो
र्वेणुर्नासौ गहनकुहरे कीचकः रोरवीति ।
पश्योन्मत्ते रविरभिययौ नाधुनापि प्रतीचीं
मा चाञ्चव्यं कलय कुचयोः पत्रवल्लीं तनोमि ॥३५॥

दूरे वंशीध्वनिरुदयते हन्त मा धाव ताव
द्धूम्रेदानीमपि नहि गवां लक्ष्यते धूमलेखा ।
अस्ति द्वारे गुरुरपि ततो लम्बितां स्तम्भयन्ती
क्षीरे नीवीं त्वमिह तरसा याहि गेहान्तरालम् ॥३६॥

आप्रत्यूषादपि सुमनसां वीचिभिर्ग्रथ्यमाना
धत्ते नासौ सखि कथमहः वैजयन्ती समाप्तिम् ।
धिन्वन्गोपीनयनशिखिनः व्योमकक्षां जगाहे
सो.अयं मुग्धे निविडधवलो धूलिचक्राम्बुवाहः ॥३७॥

अस्मिन्भूयः विसृमरवपुःसौरभे सौरभेयी
धूलेः जालैः शवलितशिरो मालतीचक्रवाले ।
अन्तर्गोष्ठं प्रविशति हरौ हन्त कस्या न चेत
स्तृष्णां धत्ते जरति मुखरे किं वृथा रारटीषि ॥३८॥

मा मन्दाक्षं कुरु गुरुजनाद्देहलीं गेहमध्या
देहि क्लान्ता दिवसमखिलं हन्त विश्लेषतो.असि ।
एष स्मेरो मिलति मृदुले वल्लवीचित्तहारी
हारी गुञ्जावलिभिरलिभिर्लीढगन्धो मुकुन्दः ॥३९॥

सौरिर्गोष्ठाङ्गणमनुसरन्शि¤जितैरेव मुग्धः
किङ्किण्यास्ते परिहर दृशोस्ताण्डवं मण्डिताङ्गि ।
आराद्गीतैः कलपरिमिषन्माधुरीकैः कुरङ्गे
लब्धे सद्यः सखि विवशतां वागुरां कस्तनोति ॥४०॥

यान्त्या लीलोद्भटकलतुलाकोटि सद्यस्त्वयासौ
लब्धा चन्द्रावलि सखि कुतः शब्दभेदाख्यविद्या ।
पश्योपेन्द्रः सदनपदवीं वल्लवैन्द्रस्य मुञ्चन्
अन्तर्भिन्नो मुहुरिह यया सम्भ्रमाद्बम्भ्रमीति ॥४१॥

सा सोत्कण्ठं वसति वसतेः वत्सला द्वारि देवी
वल्लीस्तोमैः क्षणमिह मुखाम्भोजलक्ष्मीं विधेहि ।
दूराच्चेतोमणिमपहरनेष भव्याङ्गि दिव्यो
बिब्बोकस्ते मुरविजयिनः वर्त्म पाती बभूव ॥४२॥

यष्टिर्भूमौ लुठति तरसा श्रंसते पश्य वंशी
कंसारातेः स्खलनममलं शृङ्गमङ्गीकरोति ।
दूरान्नन्दः कलयति पुरो ह्रेपयामुं न राधे
बन्धे देवि स्थगय चपलापाङ्गभङ्गीवितानम् ॥४३॥

तिष्ठन्गोष्ठाङ्गणभुवि मुहुर्लोचनान्तं विधत्ते
जातोत्कण्ठस्तव सखि ःअरिर्देहलीवेदिकायाम् ।
मिथ्यामानोन्नतिकवलिते किं गवाक्षार्पिताक्षी
स्वान्तं हन्त ग्लपयसि बहिः प्रीणय प्राणनाथम् ॥४४॥

पश्य व्रीदां सकपटमसौ तन्वती नः पुरस्ता
द्द्वारे गौरी न सरति मुहुः शौरिणाकारितापि ।
आकृष्टाया गहनकुहरे वेणुविद्याविनोदै
र्जानाति अस्याः पुनो.अनुपमं विक्रमं कुञ्जवीथी ॥४५॥

इत्थं साचिस्मितरुचिभृतां यत्र संध्यानुबन्ध
मामुद्दिश्य स्मरपरिमलं बिभ्रतीनामदभ्रम् ।
पौनःपुन्याद्विविधहृदयोत्तुङ्गभावानुसङ्गी
लीलाजल्पः कुवलयदृशां प्रेमपूर्णः पुरासीत॥४६॥

दामाकृष्टिद्विगुणितकरारण्यविद्योतितानां
घर्माम्भोभिर्दरवलयितस्मेरगण्डस्थलानाम् ।
भालोपान्तप्रचलतलकश्रेणिभाजां मदीयैः
कीर्तिस्तोमैर्मुखरितमुखाम्भोजलक्ष्मीभराणाम् ॥४७।

हेलाचञ्चद्वलयरणितग्रन्थितैर्मन्थनीनां
ध्वानोन्मिश्रैर्मसृणमसृणं मन्थतीनां दधीनि ।
गीतैस्तासां कुवलयदृशं यत्र रात्रेः विरामे
प्रेमोत्तानैर्मम समजनि स्वप्नलीलासमाप्तिः ॥४८॥

निर्माय त्वं वितर फलकं हारि कंसारिमूर्त्या
वारं वारं दिशसि यदि मां माननिर्वाहनाय ।
यत्पश्यन्ती भवनकुहरे रुद्धकर्णान्तराहं
साहंकारा प्रियसखि सुखं यापयिष्यामि यामम् ॥४९॥

सन्ति स्फीता व्रजयुवतयस्त्वत्विनोदानुकूला
रागिणि अग्रे मम सहचरी न त्वया घट्टनीया ।
दृष्ट्वाभ्यर्णे शठकुलगुरुं त्वां कटाक्षार्धचन्द्रान्
भ्रूकोदण्डे घटयति जवात्पश्य संरम्भिणी इयम् ॥५०॥

मा भूयस्त्वं वद रविसुतातीरधूर्तस्य वार्तां
गन्तव्या मे न खलु तरले दूति सीमापि तस्य ।
विख्याताहं जगति कठिना यत्पिधत्ते मदङ्गं
रोमाञ्चो.अयं सपदि पवनो हैमनस्तत्र हेतुः ॥५१॥

कामं दूरे वसतु पटिमा चाटुवृन्दस्तत्रायं
राज्यं स्वामिन्विरचय मम प्राङ्गणं मा प्रयासीः ।
हन्त क्लान्ता मम सहचरी रात्रिमेकाकिनी इयं
नीता कुञ्जे निखिलपशुपीनागरोज्जागरेण ॥५२॥

मेदिन्यां ते लुठति दयिता मालती म्लानपुष्पा
तिष्ठन्द्वारे रमणिविमनाः खिद्यते पद्मनाभः ।
त्वं चोन्निद्रा क्षपयसि निशां रोदयन्ती वयस्या
माने कस्ते नवमधुरिमा तं तु नालोकयामि ॥५३॥

मद्वक्त्राम्भोरुहपरिमलोन्मत्तसेवानुबन्धे
पत्युः कृष्णभ्रमर कुरुषे किंतरामन्तरायम् ।
तृष्णाभिस्त्वं यदि कलरुतव्यग्रचित्तस्तताग्रे
पुष्पैः पाण्डुछविमविरलैर्याहि पुंनागकुञ्जम् ॥५४॥

अत्रायान्तं चलमपि हरिं लोकयन्ती बलिष्ठां
त्वामालम्ब्य प्रियसखि घने नास्मि कुञ्जे निलीना ।
अस्मान्मुग्धे हृदयनिहितादद्य पीताम्बरात्ते
वक्रो नान्यः कुचपरिचये मत्पुरो मा व्यथिष्ठाः ॥५५॥

मां पुष्पाणामवचयमिषाद्दूरमानीय कुञ्जं
स्मित्वा धूर्ते किमिति रभसादुच्चकैर्गायसि त्वम् ।
शङ्कामन्तर्न रचय मुधा गीतं तनोमि
स्फीतं वृन्दावनभुवि मुहुः कृष्णसारोत्सवाय ॥५६॥

वारंआरं व्रजसि सलिलछद्मना पद्मबन्धोः
पुत्रीं ज्ञातस्तव सखि रसं पुण्डरीके क्षणो.असौ ।
चेतः काम्या भवति विशदासारसाली न वामे
तेन स्मेरं मुहुरभिलषामि अच्युतं रक्तपद्मम् ॥५७॥

पश्यामि अन्तर्विहितवसतिं त्वामरालाङ्गनानां
अत्र चौरे स्पृहयसि कथं कृष्णकण्ठग्रहाय ।
साधु ब्र्_षे सखि मदकलो मां शिखण्डज्ज्वलः यं
कुञ्जे दृष्ट्वा भुजगदमनोद्दामदर्पो.अभ्युपैति ॥५८॥

बाले चन्द्रावलि नहि बहिर्भूय भूयः प्रदोषे
गेहाद्तृष्णावति कुरु पुरः कृष्णवर्त्मावलोकम् ।
सर्वस्यान्तर्जडिमदमने पावके नाद्य लब्धे
मुग्धे सिद्धिर्मम रसवती प्रक्रिया न प्रयाति ॥५९॥

हस्तेनाद्य प्रियसखि लसत्पुष्कराभेन दूरात्
कृष्णेनाहं मदकलदृशा कम्पिताङ्गी विकृष्टा ।
नीचैर्जल्प भ्रमति पुरतो भ्रान्तचित्ते गुरुस्ते
हूं कालिन्दौ पुलिनविपिने दीप्रदन्तीइश्वरेण ॥६०॥

वृन्दारण्ये मम विदधिरे निर्भरोत्कण्ठितानि
क्रीडोल्लासैः सपदि ःअरिणा हा मया किं विधेयम् ।
ज्ञातं धूर्ते स्पृहयसि मुहुर्नन्दपुत्राय तस्मै
मा शङ्किष्ठाः सखि मम रसो दिव्यसारंगतो.अभूत॥६१॥

इत्थंभूता बह्विधपदारम्भगम्भीरगर्भा
कर्णानां मे स्फुटतरतया कोटिभिः पातुमिष्टा ।
आसीत्तासां प्र्यसख पुरा यत्र कल्याणवाचां
प्रेमोल्लासप्रकटनकला कर्मठा नर्मगोष्ठी ॥६२॥

केयं श्यामा स्फुरति सरले गोपकन्या किमर्थं
प्राप्ता सख्यं तव मृगयते निर्मितासौ वयस्या ।
आलिङ्गामूं मुहुरिति तथा कुर्वती मां विदित्वा
नारीवेशं ह्रियमुपययौ मानिनी यत्र राधा ॥६३॥

यत्रोत्तुङ्गाः करपरिचयं शश्वदासेदिवांसो
भूयांसो मे विमलदृषदां कल्पिता मण्डलीभिः ।
बन्धायोद्यत्तरलतरसां तर्णकानां निखाताः
कीलाः कूलस्थलवलयिनो भान्ति पद्माकराणाम् ॥६४॥

नो जानीमः कठिनविधिना मद्विधानां कपाले
गोपालीनां किल विलिखिता कीदृशी वर्णलेखा ।
यः संध्यायां सुमुखि मिलितो गोकुले राजदूतः
सो.अयं कर्णे निभृतनिभृतं माधवं वावदीति ॥६५॥

एष क्षत्ता व्रजनरपतेः आज्ञया गोकुले अस्मिन्
बाले प्रातो नगरगतये घोषणामातनोति ।
दुष्टं भूयः स्फुरति च बलादीक्षणं दक्षिणं मे
तेन स्वान्तं स्फुटति चटुलं हन्त भाव्यं न जाने ॥६६॥

प्रातः यात्रां नरपतिपुरे तथ्यमाकर्ण्य शौरे
रायामाय प्रियसखि मया यामिनी प्रार्थिताभूत।
पश्य क्षिप्रं प्रथितलघिमा पापिनी इयं प्रभाता
जायन्ते हि प्रचुर्तमसो नानुकूलाः परेषु ॥६७॥

यावद्व्यक्तिं न किल भजते गान्दिनेयानुबन्ध
स्तावन्नत्वा सुमुखि भवतीं किंचिदभ्यर्थयिष्ये ।
पुष्पैर्यस्या मुहुरकरवं कर्णपूरान्मुरारेः
सेयं फुल्ला गृहपरिसरे मालती पालनीया ॥६८॥

नावैषि त्वं पतितमशनिं मूर्ध्नि निर्मीयमाणाम्
एनां कस्ते सखि शिखरिणीं हन्त पाता हतासि ।
तूर्णं मुग्धे बहिरनुसर प्राङ्गणं गेहमध्या
दध्यारूढो जिगमिषुरसौ स्यन्दनं नन्दसूनुः ॥६९॥

आसीदार्ये पशुपपटलीमन्तरा नान्तरायः
प्रापुः पापा न च विकलतां पादभङ्गैस्तुरङ्गाः ।
ध्वस्तो नाभूदयमपि मनाक्स्यन्दने चक्रबन्धः
सत्यं गन्ता मधुपुरमसौ हन्त किं केशिहन्ता ॥७०॥

आरादग्रे कलय नृपतेः दूत निर्धूतलज्जा
सज्जा तन्वी किमपि विषमं साहसं कर्तुमिच्छुः ।
यानाद्यावद्विसृजसि पुरः चन्द्रहासं न कृष्णं
हस्ताद्तावद्विसृजति सखी चन्द्रहासं न कृष्णम् ॥७१॥

मुग्धे पश्य क्षणमपि हरिं नेत्रमुन्मीलयन्ती
मोहेन त्वं विरचय मुहुर्नात्मनः वञ्चनानि ।
शृण्वन्काकूत्करमपि पुरो हन्त सीमन्तिनीनां
क्रूरस्तूर्णं विनुदति रथं दूरमाक्रूरनामा ॥७२॥

पश्य क्षामोदरि तव मुखालोकजन्मा हि शोको
वारं वारं ःअरिनयनयोर्बाष्पमन्तस्तनोति ।
धावत्वाजिस्फुरदुरुखुरोत्तानितानां वितानो
धूलीनां तु श्रयति विसरनेष मिथ्याकलङ्कः ॥७३॥

कृष्णं मुष्णनकरुणबलाद्गोपनारीवधार्थी
मा मर्यादां यदुकुलभुवां भिन्धिरे गान्दिनेयः ।
इत्युत्तुङ्गा मम मधुपुरे यात्रया तत्र तासां
वित्रस्तानां परिववलिरे वल्लवीनां विलापाः ॥७४॥

शश्वन्नीराहरणकपटप्राप्तगोपालनारी
गूढक्रीडावसतिनिविडछायकुञ्जोपगूढः ।
यत्रादूरे विलसति महान्बद्धरोलम्बसद्मा
पद्मामोदस्नपितपवनः पावनाख्यस्तडागः ॥७५॥

लीलाक्रान्तैर्मुरविजयिनः सर्वतः पादपातै
र्वैलक्षण्यं किमपि जगतामन्तः आकर्षि नीताः ।
एते नन्दीश्वरपरिसरा नेत्रवीथीं भजन्त
स्तीव्रं मातः किमपि दहनं चेतसि ज्वालयन्ति ॥७६॥

अस्ति प्रेम्नां त्वयि परिमलो मांसलः कंसशत्रो
रद्य श्वः वा स तव भविता हारिहारानुकारी ।
दम्भोलीनामपि सुवदने गर्भनिर्भेददक्षै
रेभिः कामं किमु विलपितैर्बान्धवान्दन्दहीषि ॥७७॥

मा कार्पण्याद्विरचय वृथा बाष्पमोक्षं हताशे
कृष्णाश्लिष्टां तनुमनुपमां स्वैच्छया न त्यजामि ।
ज्वालस्तीव्रः विरहदहनादाप्तजन्मा बलान्मे
मर्मोन्माथी लघुतरमिमां पातयन्दन्दहीति ॥७८॥

कारुण्याब्धौ क्षिपसि जगतीं हा किमेभिर्विलापै
र्धेहि स्थैर्यं मनसि यदभूरध्वगे बद्धरागा ।
स्मृत्वा वाणीमपि यदि निजां सव्रजं नाजिहीते
धूर्तो.अस्माकं त्रिजगति ततस्तन्वि निर्दोषताभूत॥७९॥

क्वायं गन्ता मधुरिपुरितो गोकुलादस्मदीयः
काले वंस्ये सुखमिति मया हन्त मानः व्यधायि ।
का जानीते यदिह खलताचातुरीदीक्सितेन
प्रेक्षेप्तव्यं शिरसि कुलिशं गान्दिनीनन्दनेन ॥८०॥

न क्षोदीयानपि सखि मम प्रेमगन्धो मुकुन्दे
क्रन्दन्तीं मां निजशुभगताख्यापनाय प्रतीहि ।
खेलत्वम्शीवलयिनमनालोक्य तं वक्त्रबिम्बं
ध्वस्तालम्बा यदहमहह प्राणकीटं बिभर्मि ॥८१॥

आशापाशैः सखि नवनवैः कुर्वती प्राणबन्धं
जात्या भीरुः कति पुनो.अहं वासराणि क्षयिष्ये ।
एते वृन्दावनविटपिनः स्मारयन्तः विलासान्
उत्फुल्लास्तान्मम किल बलान्मर्म निर्मूलयन्ति ॥८२॥

सा विश्राम्यन्मनसिजधनुर्विभ्रमोद्बोधविद्या
चिल्लीवल्लिभ्रमिमधुरिमोद्दामसम्पद्भिरिष्टा ।
एतामार्तिं मम शमयिता स्मेरता सङ्कराङ्गी
प्रेमोत्तुङ्गाः किमु मुरभिदो भङ्गुरापाङ्गसङ्गी ॥८३॥

कामं दूरे सहचरि वरीवर्ति यत्कंसवैरी
न इदं लोकोत्तरमपि विपद्दुर्दिनं मे दुनोति ।
आशाकीलो हृदि किल वृतः प्राणरोधी तु यो मे
सो.अयं पीडां निविडवडवावह्नितीव्रस्तनोति ॥८४॥

तत्र स्फीताधरमधुभरे शीतलोत्सङ्गसङ्गे
सौन्दर्येणोल्लसितवपुषि स्फारसौरभ्यपूरे ।
नर्मारम्भस्थपुट्तवचःकन्दले नन्दसूनौ
मोदिष्यन्ते मम सखि कदा हन्त पञ्चैन्द्रियाणि ॥८५॥

भिन्दनक्ष्णोः किल कलुषतां श्यामलः
श्यामलाभिर्लिम्पन्तीभिर्गिरिपरिसरं माधुरीणां छटाभिः ।
आविर्भावी गुरुतरचमत्कारभाजः कदा मे
खेलनग्रे निखिलकरुणनन्दनो नन्दसूनुः ॥८६॥

आनम्रायां मयि निजमुखालोकलक्ष्मीप्रसादं
खेदश्रेणीविरचितमनो लाघवायां विधेहि ।
सेवाभाग्ये यदपि न विभः योग्यता मे तथापि
स्मारं स्मारं तव करुणतापूरमेवं ब्रवीमि ॥८७॥

क्रीडातल्पे निहितवपुषः कल्पिते पुष्पजालैः
स्मित्वा स्मित्वा प्रणयरभसात्कुर्वतो नर्मभङ्गीम् ।
विन्यस्यन्ती तव किल मुखे पूगफालीं विधास्ये
कुञ्जद्रोण्यामहमिह कदा देव सेवाविनोदम् ॥८८॥

इति उन्नद्धः पशुपरमणीमण्डलीनां विलापै
र्भूयो भूयः करुणकरुणैरद्य कीर्णान्तरस्य ।
उद्यत्बाष्पा त्यजति परितः रुद्धकर्णा कराभ्यां
दूरात्पान्थावलिरपि सुखे यस्य सीमोपकण्ठम् ॥८९॥

युक्तं शृङ्गीकनकनिकरालिङ्गिताङ्गैस्तुरङ्गै
र्दृष्ट्वा नन्दीश्वरतटभुवि स्यन्दनं ते मिलन्तम् ।
मामाशङ्क्य स्फुटमुपगतं संनिधातव्यमारात्
धावन्तीभिस्तरलारलं राधिकायाः सखीभिः ॥९०॥

गोपालीनामपि वपुरलंकारलीलां दधानो
येषां नव्यः किसलयगणः रागिणं मां चकार ।
भ्राम्यत्भृङ्गावलिषु भवता तेषु शस्ताशिषां मे
वृन्दं वृन्दावनविटपिषु प्राज्ञविज्ञापनीयम् ॥९१॥

मत्ता वंशीनिनदमधुभिस्तूर्णगा स्तणकानां
ता मुञ्चन्त्यः प्रणयमभितः सस्रुरस्रुताक्ष्यः ।
तासामुच्चैः मम परिपठन्कामतो नामधेयं
क्षेमं पृच्छेस्त्वमथ निचये नीचकैर्नैचकीनाम् ॥९२॥

डिम्भव्यूहं हतवति विधौ तत्तताह्वस्तत्_ अहं
स्तन्यं यासां मधुरमधवं वत्सरं वत्सलानाम् ।
वारं वारं मम नतिगणान्विज्ञ विज्ञापयेथा       
नम्रस्तासां जठरपशुपीमण्डलीनां पदेषु ॥९३॥

आमोदं मे मधुर दधिरे मामहंपूर्विकाभि
र्दूरे यान्तं कुसुमितवनालोकनाय स्पृशन्तः ।
श्रीदामाद्याः प्रियसहचर्_ओ हन्त मत्नामतस्ते
पौनःपुन्यान्निपुण भवता तुङ्गमालिङ्गनीयाः ॥९४॥

हत्वा रङ्गस्थलभुवि मया धीर कंसं नृशंसं
काकून्मिश्रैः शपथशतकैर्गोकुलं प्रेषितस्य ।
आनम्रस्त्वं चरणयुगलं वल्लवैन्द्रस्य कामं
नामग्राहं मम गुणनिधे वन्दमानो दधीथाः ॥९५॥

तां वन्देथा मम सविनयं नामतः क्षामगात्रीम्
आक्रोशन्तीं खलनरपतिं साङ्गुलीभङ्गमुच्चैः ।
अन्तश्चिन्ताविलुलितमुखीं हा मतेकप्रसूतिं
सर्वाङ्गैस्त्वं कलितवसुधालम्बमम्बां यशोदाम् ॥९६॥

या निश्वासोद्गम्वलयिनं हारवं मुञ्चमाना
खेदोदयं मम गुणकथामन्तरेणान्तरेण ।
क्षामीभृता क्षितिपतिपुरीवर्त्मविन्यस्तनेत्रा
बाष्पोद्गारस्नपितवसना वासराणि क्षिपन्ती ॥९७॥

अक्रूराख्ये हृतवति हठाज्जीवनं मां निदाघे
विन्दन्तीनामुहुरविरलाकारमन्तर्विदारम् ।
सद्यः शुष्यत्मुखवनरुहां वल्लवीदीर्घिकाणां
आसामासामृदमनुसृताः प्राणकूर्माः वसन्ति ॥९८॥

तासां बद्धाञ्जलिरनुसरैरन्तिकं यन्त्रितात्मा
शङ्काभिस्त्वं क्लमपरिणमत्विक्रियाणां प्रियाणाम् ।
दूत्यं कुर्वनसि गुणनिधे सापराधस्य यन्मे
भर्तुर्दोषादपि हि कुशल्_ओ हन्त दुष्यन्ति भृत्याः ॥९९॥

मन्नेपथ्यस्तवकितभवत्वीक्षणेनाकुलानां
तुङ्गातङ्गोत्तरलितमनःकल्पनाजल्पभाजाम् ।
तिष्ठनासां पथि नयनयोः निःसलाकं गतानां
संदेशं मे लघु लघु सखे हारिनं व्याहरेथाः ॥१००॥

यः कालिन्दीवनविहरणोद्दामकामः कलावान्
वृन्दारण्यान्नरपतिपुरं गान्दिनीयेन नीतः ।
कुर्वन्दूत्यं प्रणयसचिवस्तस्य गोपेन्द्रसूनो
र्देवीनां वः सपदि सविधं लब्धवानुद्धवो.अस्मि ॥१०१॥

तापोन्नद्धश्वसितपटलीदूयमानाधरश्री
र्मुक्तक्रीडो धवलिमधुराहिण्डिरक्षामगण्डः ।
स्मारं स्मारं गुणपरिमलं हन्त वः क्लान्तचेताः
सो.अयं कान्तः किमपि सरलाः सुन्दरं संदिदेश ॥१०२॥

कच्चिद्भीतं न भजत मुहुर्दानवेभ्यः पुरावत्
कल्याणं वः सरलहृदयाः कच्चिदुल्लालसीति ।
कच्चिद्यूयं स्मरथ सरसं तत्र क्षित्तानुकूलं
कुञ्जे कुञ्जे कृतमथ मया तं च सेवाप्रपञ्चम् ॥१०३॥

नीतः यत्नाद्विविधविनयैर्बन्धनं बन्धुताभिः
कर्तुं भूयः किमपि कुशलं पत्तने वर्तमानः ।
ध्यायं ध्यायं नवनवमहं सौहृदं वः सुकण्ठ्यो
गाढोत्कण्ठक्लमपरवशं वासराणि क्षिपामि ॥१०४॥

ज्ञातं ज्ञातं विरमत चिरं त्वादृशीनां चरित्रं
याभ्यस्तीव्रां समजनि मनोभेदिनी वेदनेयम् ।
चक्रुर्वक्रं मयि किल तथा प्रेमपूरं भवत्यः
येनोद्भ्रान्तस्त्रुटिमपि बलादुत्सहे नाद्य नेतुम् ॥१०५॥

रासोल्लासान्निशि निशि चिरं स्वप्नवृन्दापदेशा
द्वृन्दारण्ये सुरभिणि मया सार्धमास्वादयन्ते ।
भूयो भूयस्तदपि च परित्यागित्_ओ दूषणं मे
शंसन्त्यः किं कुटिलहृदया न त्रपन्ते भवत्यः ॥१०६॥

ते ते चन्द्रावलि रसभरभ्रान्तनेत्रान्तमैत्री
वैचित्रीभिस्त्रिभुवनजये दत्तहस्तावलम्बाः ।
उत्सर्पन्तः स्मरणसरणीं हन्त ते भ्रूविलासा
निःशङ्कं मे हृदयमधुना प्रांशवः श्रंसयन्ति ॥१०७॥

तत्तत्तन्वि स्मरसि विपिने फुल्लशाखे विशाखे
कर्षन्नीवीं तव मुहुरहं वीक्ष्य वृद्धां मिलन्तीम् ।
कल्याणीं मे वितर कितवे हन्त चेलान्तराले
गुप्तां गुञ्जावलिमिति वदन्यद्विलक्षस्ततासम् ॥१०८॥

तां वैदग्धीपरिमलकथामुद्गिरन्ती सखीषु
क्लान्तिं दूरे क्षपयसि निजां हन्त धन्यासि धन्ये ।
ध्यायन्नाहं तमिह नगरे देवि लोकं विलोके
प्रीत्या यत्र व्यसनविधुरं वक्तुमुन्मुद्रयामि ॥१०९॥

गम्भीराणि प्रमदगुरुभिर्गूढनर्मप्रबन्धै
र्माध्वीकानां मधुरिममहाकीर्तिवैध्वंसनानि ।
सोत्कण्ठं मे स्मरति हृदयं श्यामले कोमलानि
प्रेमोत्तुङ्गस्मितपरिचितानि अद्य ते जल्पितानि ॥११०॥

पद्मे पद्मस्तुतसुखिलतासद्मनि छद्मनिद्रां
लब्धे लुब्धा मयि मुरलिकां हर्तुकामा त्वमासीः ।
धृत्वा पाणौ मुहुरथ मया कञ्चकं मुञ्चता ते
यत्प्रारब्धं किमपि तदिदं स्वान्तमन्तः पिनष्टि ॥१११॥

न्यस्ताङ्गी मे सुरभिनि भुजस्तम्भयोः अन्तराले
भूयोभिस्तं रहसि ललिते केलिभिर्लालितासि ।
अन्तश्चिन्ताविधुरमधुना पाम्शुपुञ्जे लुठन्ती
हन्त म्लाना रचयसि कथं प्राणसंधारणानि ॥११३॥

यः सेवाभिर्मुदमुदयिनीं तत्र भद्राङ्गि भद्रे
नीतस्ताभिर्निशि निशि मनःकर्षिणीभिस्त्वयासीत।
स प्रेष्ठस्ते नवपरिचयादिङ्गितस्यानभिज्ञैः
कृष्णस्तुष्णीं पुरपरिजनैः सेव्यमानो दुनोति ॥११४॥

सोढव्यं ते कथमपि बलाच्चक्षुषी मुद्रयित्वा
तीव्रोत्तापं हतमनसिजोद्दामविक्रान्तचक्रम् ।
द्वित्रैरेव प्रियसखि दिनैः सेव्यतां देवि शव्ये
यास्यामि त्वत्प्रणयचटुलभ्रूयुगाडम्बराणाम् ॥११५॥

इत्थं तासामनुनयकलापेशलः क्लेशहारी
संदेशं मे कुवलयदृशां कर्णपूरं विधाय ।
त्वं मत्चेतोभवनवडभीप्रौढपारावतीं तां
राधामन्तः क्लमकवलितां संभ्रमेणाजिहीथाः ॥११६॥

सा पल्यङ्के किशलयदलैः कल्पिते तत्र सुप्ता
गुप्ता नीरस्तवकिततृशां चक्रवालैः सखीनाम् ।
द्रष्टव्या ते क्रशिमकलिताकण्ठनालोपकण्ठ
स्पन्देनान्तर्वपुरनुमितप्राणसङ्गा वराङ्गी ॥११७॥

मालां मैत्रीविदुरमदुरः सङ्गसौरभ्यसभ्यां
आसन्तीभिर्विरचितसुखीं पञ्चवर्णां गृहाण ।
आरूढायाः परिणतिदशां तादृशीं सारसाक्ष्याः
साक्षादेतत्परिमलं ऋते कः प्रबोधे समर्थः ॥११८॥

माल्यामोदव्यतिकरबहिर्बोधितायाः सबाष्पं
नेत्रद्वन्द्वं दिशि दिशि मुहुर्विक्षिपन्त्याः विलक्षम् ।
तस्याः प्रोद्यत्पलककलिकादन्तुरायाः पुरस्ता
न्मन्दं मन्दं विनयमसृणस्त्वं विनम्रो जिहीथाः ॥११९॥

धृत्वा मालां किशलयततेः अञ्चले न्यञ्चतङ्गी
भ्रूसंज्ञाभिः सपदि सचिवीकृत्य तस्या वयस्याः ।
दूत्यं स्वस्य प्रणयहृदयसत्त्वं निवेद्यानवद्यं
धीमन्सद्यो मम कथयितुं वाचिकं प्रक्रमेथाः ॥१२०॥

यः सर्वस्मात्तव किल गुरुस्त्वं च यस्यासि धीरे
प्राणेभ्यस्त्वं प्रणयवसतिर्यस्य यः स्यात्तवापि ।
स त्वां धृत्वा मनसि विधुरे हन्त संधुक्षमाणः
कृष्णस्तृष्णाचटुलचटुलं देवि संदेदिशीति ॥१२१॥

सख्युर्लक्ष्मीमुखि मतमुरीकृत्य दूरीभविष्णो
र्धत्ते प्राणाननुपदविपद्विद्धचित्तापि साध्वी ।
मुक्तछाया मुहुरसुमनाः क्षौणिपृष्ठे लुठन्ती
बद्धापेक्षं विलसति गते माधवे माधवी इयम् ॥१२२॥

नीते शोषं विरहरविणा सर्वतो हृत्तडागे
जाने कण्ठस्थलविलुठितप्राणमीनासि तन्वि ।
दूरे संप्रति अविरलसुहृत्मारुतैर्वारितो.अहं
कृष्णाम्भोधौ विलसतमृतालंकृतः किं करिष्ये ॥१२३॥

नायं स्वप्नो निशि निशि भवेद्यत्त्वया सङ्गतिर्मे
पशामोदं विधुमुखि निराबाधमास्वादयामि ।
किन्तु ज्ञातं त्वयि विजयते काचिदाकृष्टिविद्या
यां शंसन्ती हरसि तरसा मामदूराद्यदूनाम् ॥१२४॥

लब्धान्दोलः प्रणयरभसादेष ताम्रौष्ठि नम्रः
प्रम्लायन्तीं किमपि भवतीं याचते नन्दसूनुः ।
प्रेमोद्दामप्रमदपदवी साक्षिणी शैलकक्षे
द्रष्टव्या ते कथमपि न सा माधवी कुञ्जवीथी ॥१२५॥

विन्दन्वंशीस्फुरितवदनो नेत्रवीथीमकस्मा
दन्तर्बाधाकवलितधियो धातुभिर्धूमलो.अहम् ।
क्रीडाकुञ्जे लुठितवपुषः श्रान्तमानन्दधारा
कल्लोलैस्ते रहसि सहसोत्फुल्लमुल्लास्यिष्ये ॥१२६॥

प्रेमोन्नाहादहमधिवहन्बाष्पधारामकाण्डे
गण्डोत्सङ्गे स्मरपरिभवैः पाण्डुरे दत्तचुम्बः ।
कुर्वन्कण्ठग्रहविलसितं नन्दयिष्यामि सत्यं
सान्द्रेण त्वां सहचरि परिष्वङ्गरङ्गोत्सवेन ॥१२७॥

इत्थं तीव्रव्यसनजलधेः पारसीमामिवासां
संदेशैर्मे धृतगरिमभिर्दर्शयन्दूरदर्शी ।
भूयः कुर्वन्कुवलयदृशां तत्र चितानुकूलं
कालं कंचित्त्वमतुलमते गोकुलान्तर्नयेथाः ॥१२८॥

गोपेन्द्रस्य व्रजभुवि सखे केवलं यात्रया ते
नार्थः सिद्ध्येन्मम बहुमतः किन्तु बाढं तव एव ।
प्रेमोल्लासं परिकलयतां गोपसीमन्तिनीनां
स्मर्तव्या मे सपदि भवता भारतीसारतेयम् ॥१२९॥

गोष्ठक्रीडोल्लसितमनसो निर्व्यलीकानुरागात्
कुर्वाणस्य प्रथितमथुरामण्डले ताण्डवानि ।
भूयः रूपाश्रयपदसरोजन्मनः स्वामिनो.अयं
तस्योद्दामं वहतु हृदयानन्दपूरं प्रबन्धः ॥१३०॥

श्रीदामाद्यैः शिशुसहचरैर्बाल्यखेलामकार्षी
द्गोपालीभिः सह युवतिभी रासकेलिं चकार ।
दुष्टान्दैत्यानपि बहुतरान्हेलया यो जघान
स श्रीकृष्णस्तरुणकरुणस्तारयेद्वो भवाब्धिम् ॥१३१॥

N/A

References :

ऊद्धवसन्देश
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP