आश्चर्यरासप्रबन्धः - भाग १

संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.


जयति जयति राधापाङ्गसङ्गीभुजङ्गी
कवलित ऊरुबाधामूर्च्छितोऽनन्यसाध्यः ।
तदधरसुधयोच्चैर्जीवितः श्यामधामा
तदतिविषविषङ्गेनैव कश्चित्किशोरः ॥१॥

जयति जयति वृन्दारण्यचन्द्रोऽतिचित्रोन्
मदरसमयरासोल्लाससम्भ्रान्तमूर्तिः ।
प्रमदमदनलीलामोहनः श्यामधामा
निरुपमसुखसीमाभीररामाभिरामः ॥२॥

अस्ति महाद्भुतवृन्दारण्यं
सन्ततवाहिमहारसवन्यम् ।
परममनोहरपरमसुपुण्यं
रसमयसकलधाममूर्धन्यम् ॥३॥

सकलगुणानां स्फुरदतिभूमि
प्रोज्ज्वलचिन्तामणि मयभूमि ।
श्रुतिदुर्गमतृणमात्रविभूति
स्फीतमहासुखसिन्ध्वनुभूति ॥४॥

प्रकृतिपरे परिपूर्णानन्दे
महसि महाद्भुतहरिरसकन्दे ।
भ्राजमानमखिलोज्ज्वलरम्यं
मधुरविशदहरिभावसुगम्यम् ॥५॥

मुख्यरसात्मकपरमाकारं
विमलमनोजबीजरुचिसारम् ।
मायाविद्यापारमपारं
राधामाधवनित्यविहारम् ॥६॥

राधामधुपतिचारुपदाङ्कैर्
अङ्कितमतुलसुधारसपङ्कैः ।
स्वच्छसुशीतलमृदुलसुवासं
बिभ्रदवनितलमद्भुतभासम् ॥७॥

क्वचन परागपुञ्जकमनीयं
क्वच मकरन्दपूररमणीयम् ।
क्वचन गलितकुसुमैः कृतशोभं
क्व च मणिकर्पूररजरुचिराभम् ॥८॥

सन्ततफलकुसुमादिविचित्रैः
कोटिमहासुरपादपजैत्रैः ।
गुल्मलतातरुभिः सुपवित्रैर्
मण्डितमीशजुषामपि चित्रैः ॥९॥

कुसुमितपल्लवितद्रुमवल्लि
स्फुटितकदम्बककिंशुकमल्लि ।
स्मेरकुमुदकरवीरविराजि
प्रहसितकेतकचम्पकराजि ॥१०॥

विकसितकुटजकुन्दमन्दारं
सुफलितपनसपूगसहकारम् ।
हरिचरणप्रियतुलसीविपिनैः
शोभमानमूरुपरिमलमसृणैः ॥११॥

विलसज्जातीयूथिकमतुलं
विकचस्थलपङ्कजबकवञ्जुलम् ।
सन्ततसन्तानकसन्तानं
वरहरिचन्दन चन्दनविपिनम् ॥१२॥

पारिजातवनपरमामोदं
राधाकृष्णजनितबहुमोदम् ।
कुरुवकमरुवकमाधविकाभिर्
दमनकदाडिममालतिकाभिः ॥१३॥

शेफलिकया नवमालिकया
शोभितमपि बहुविधझिण्टिकया ।
ललितलवङ्गवनैरतिमधुरं
नवपुन्नागनागरुचिरुचिरम् ॥१४॥

स्तवकितनवकाशोकवनालि
स्मेरशिरीषपरिस्फुटपाण्टलि ।
बन्धुरमभिनवबन्धुकविपिनैः
शोभितमभितस्तिलकम्लानैः ॥१५॥

निजनिजविभवैः प्रतिपदं
अधिकं विलसदनन्तजातितरुलतिकम् ।
निरवधिवर्धिमधुरगुणसिन्धु
सुविचिरनिन्दितकोटिरबिन्दु ॥१६॥

वापीकूपतडागैर्ललितं
मणिमयकेलिमहीधरमहितम् ।
रासोचितमणिकुट्टिमराजं
रञ्जयदेकविमलरसराजम् ॥१७॥

रक्तकनककर्पूरपरागं
बिभ्रद्रविजापुलिनसुभागम् ।
राधामाधवकेलिनिकुञ्जं
दधदतिमञ्जुरगुञ्जदलिपुञ्जम् ॥१८॥

मदकलकोकिलपञ्चमरागं
स्थिरचरनिकरमूर्च्छदनुरागम् ।
मदशिखण्डिकृतताण्डवरङ्गं
चकितचकितपरिलोलकुरङ्गम् ॥१९॥

परमविचित्रतराकृतिर्रावैः
खगपशुभिर्बहुभिर्बहुभावैः ।
शोभितमपि प्चुकसारीनिचयैर्
वरदम्पत्योः स्वपदविनेयैः ॥२०॥

अत्यद्भुततमऋतुषट्कश्रि
श्रंसितनैः श्रेयसि विपिनश्रि ।
मन्दसुगन्धसुशीतलमरुता
जुष्टममृतयमुनाम्भसि विशता ॥२१॥

आद्यविशुद्धमहारसरूपं
खेलदेकवरमन्मथभूपम् ।
सान्द्रानन्दपरमरसकाष्ठं
राधानागरभावगरिष्ठम् ॥२२॥

अधिललितादिकसुललितभावं
प्रकटितसहजरसवदनुभावम् ।
निखिलनिगमगणदुर्गममहिम
प्रेमानन्दचमत्कृतिसीम ॥२३॥

शारदचन्द्रकरखचितं
स्फीतरसाम्बुधिवीचीनिचितम् ।
अधिरजननीमुखमुज्ज्वलवेशः
कोऽपि किशोरस्तत्र प्रविवेश ॥२४॥

महाचमत्कारनिधानरूप
विलासभूषादिभिरत्यपूर्वः ।
रासोत्सवाय प्रविशन्प्रदोषे
वृन्दावनं नन्दति कृष्णचन्द्रः ॥२५॥

रसमयलीलः कुवलयनीलः
सकलयुवतिमोहनगुणशीलः ।
कुञ्चितकेशसकलकलेशः
पीतपटाञ्चितपृथुकटिदेशः ॥२६॥

मकराकृतिमणिकुण्डलदोलः
स्फुरदतिरुचिकल्लोलकपोलः ।
मुक्तारत्नविचित्रनिचोलः
स्मररसमधुरविलोचनखेलः ॥२७॥

रत्नतिलकरुचिरञ्जितभालः
स्निग्धचपलकुटिलालकजालः ।
कलितललिततरबहुविधमालः
केलिकलारभसातिरसालः ॥२८॥

प्रमुदितवदनमनोहरहासः
कम्बुकण्ठतटपदकविलासः ।
विरचितयुवतिविमोहनचूडश्
चित्रमाल्यकृतबर्हापीडः ॥२९॥

पीनोरसि लसदुरुमणिहारः
स्फुटदङ्गदकङ्कणधारः ।
सुभगनितम्बरणन्मणिरसनः
परिहितरासोचितवरवसनः ॥३०॥

मणिमञ्जीरमञ्जुरुतचरणः
प्रसृमरपादोङ्गदमणिकिरणः ।
श्रवणविराजितरत्नवतंसः
करधृतमणिमयमोहनवंशः ॥३१॥

राधानुस्मृतिमुहुरुत्पुलकः
सकलरसिकवरनागरतिलकः ।
प्रत्यङ्गाद्भुतसुषमासिन्धुः
प्रतिपदवर्धितवर्धिमदनरससिन्धुः ॥३२॥

प्रोद्वेलाद्भुतमधुरिमसिन्धुः
प्रकटमहारसमयगुणसिन्धुः ।
मत्तमतङ्गजलङ्गिमगमनः
परमरसैकनिमज्जितभुवनः ।
काश्मीरागुरुचन्दनलिप्तः
श्यामतनुर्मणिभूषणदीप्तः ॥३३॥

त्रिभङ्गीविन्यासस्थिततनुकदम्बद्रुमतले
यदा राधानामाङ्कितमधुरसङ्केतमुरलीम् ।
निधाय श्रीबिम्बाधरवरपुटे नागरगुरुर्
जगौ गोप्योऽधावन्नभिकमभि तर्ह्येव विवशाः ॥३४॥

अथ नीपकल्पतरुमूलगतः
कलिल्तत्रिभङ्गललिताङ्गयुतः ।
अरुणाधरे निहितवेणुवरः
कलमुज्जगौ स रसिकप्रवरः ॥३५॥

श्रुत्वा माधवमुरलीनिनादं
तत्क्षणमुज्झितगुरुजनवादम् ।
ध्वन्यभिमुखमनुधावितवत्यः
प्रतिदिशमभिनवगोपयुवत्यः ॥३६॥

काश्चिद्व्यत्यस्ताम्बरभरणाः
काश्चन नूपुरैकयुतचरणाः ।
अपरा अञ्जितैकवरनयनाः
का अपि परिहृतनिजपतिशयनाः ॥३७॥

स्नानमथोद्वर्तनमनुलेपं
नीविनिबन्धनमार्जनलेपम् ।
कुर्वत्योतिजवाद्ययुरपराः
काश्चिदथार्धप्रसाधितचिकुराः ॥३८॥

काश्चिद्गुर्वादिषु भुञ्जानेष्व्
अपि पर्विवेषं हित्वा याने ।
चक्रुर्मतिमतिखण्डितलज्जाः
केवलवांशिकसङ्गमसज्जाः ॥३९॥

काश्चन हारग्रथने सक्ताः
सूत्रकरःअ ययुरत्यनुरक्ताः ।
मुग्धा दुग्धावर्तननिरता
ययुरपरा अपि हरिरसभरिताः ॥४०॥

लोकवेदविधिकृतसमुपेक्षा
दूरदलितगृहदेहापेक्षाः ।
प्रेममहाग्रहगाढगृहीता
हरिमभिसस्रुर्व्रजपुरवनिताः ॥४१॥

गण्डलोलमणिकुण्डलसुषमाः
मुक्तकवरभरविगलितकुसुमाः ।
विपुलनितम्बस्तनभरविकलास्
तनुरुचिप्रकटीकृतबहुचपलाः ॥४२॥

उपरि विनिर्मितशतशतचन्द्रमा
मध्यरचितचलहेमगिरीन्द्राः ।
भुवि विहितस्थलपङ्कजवलना
रेजुर्दिशि दिशि ता व्रजललनाः ॥४३॥

नूपुरकाञ्चीवलयघटानां
झङ्कृतमुखरितसकलदिशानाम् ।
जङ्गमकलकलतायितवपुषां
रेजे राजिः सा व्रजसुदृशाम् ॥४४॥

युवतिषु या निजपतिसम्भुक्ता
दैवादन्तर्गृहयातास्ताः ।
गोपैर्दृढतरपिहिते द्वारे
प्रतिहतगतयः पेतुरगारे ॥४५॥

अशुभं पुरुषान्तरसङ्गकृतं
कृत्वा हरिविरहार्त्या निहतम् ।
परममहामङ्गलसुनिदानं
चक्रुर्मधुपतिमधुरध्यानम् ॥४६॥

शुद्धमहारसचिद्घनदेहा
हरिपरबहिरन्तरसकलेहाः ।
सपदि प्राप्ताः प्रेष्ठपदान्तं
ताश्च तदा रुचिरास्तु नितान्तम् ॥४७॥

एवं व्रजवरयुवतीवृन्दैः
श्यामकिशोरः प्रेममदान्धैः ।
हरिगतिरिन्दिरयापि न दृष्टा
प्रापि मदनरसमात्रनिविष्टाः ॥४८॥

न लोकवेदव्यवहारमात्रं
न गेहदेहद्रविणात्मजादि ।
यत्राविदंस्ता न पथोऽपथो वा
स कोऽपि जीयादिह कृष्णभावः ॥४९॥

श्रीवृषभानोर्निष्कुटयाता
तद्दुहिता त्रिभुवनविख्याता ।
राधेत्यनुपमरसमयमहिमा
शुद्धमहारतिमधुरिमसीमा ॥५०॥

स्वस्वविभवसुचमत्कृततनुभिः
पुरुषोत्तमशक्तिभिरमिताभिः ।
दूरतरादपि कृतदास्याशा
सकलपरमसुखकृतपरिहासा ॥५१॥

आशैशवमतिमुग्धप्राया
श्यामिकादिकलनाकुलकाया ।
सहजमहाद्भुतहर्यनुरागा
संव्यवहारमात्रसविरागा ॥५२॥

स्वप्नेक्षितरमणात्मसमाधिः
प्रलपितसञ्जनितात्युपलब्धिः ।
क्षणमतिकम्पा क्षणमतिपुलका
जडवत्क्षणमाश्रितसख्यका ॥५३॥

विलसति नवघन आगतमूर्च्छा
सभयसभयवीक्षितशिखिपुच्छा ।
क्षणमत्यार्त्या सुस्वररुदिता
क्षणमपि बहुशः क्षितितललुठिता ॥५४॥

क्षणमुत्सृजति सकलाभरणं
क्षणमति गृह्णत्यालीचरणम् ।
क्षणमभिधाय यामि यमुनामिति
निगदति वाच्योऽसौ मम नम इति ॥५५॥

क्षणमुल्लसिता सहसोरुहसिता
विततभुजोच्छायाश्लेषरता ।
क्षणमभिदधती कृतकाकुनतिर्
धृष्टोपालि न लज्जय मेति ॥५६॥

माधवनामरूपगुणगानैश्
चित्रपटादिष्वाकृतिलिखनैः ।
प्रतिमुहुरपि चाश्वासवचोभिः
कथमपि यापितसमयालीभिः ॥५७॥

सा श्रुतिगतहरिमुरलीसुकला
विकला धावदुपेक्षितसकला ।
श्याममिलनरससम्भ्रमवलिता
प्रतिमुहुरुद्यत्पुलकैर्निचिता ॥५८॥

रसगरिमोज्ज्वलगौरवरक्षा
कारणविरचितबहुतरशिक्षा ।
वारितवत्यपि मन्मथविवशाम्
आलिस्तां धृतपाणिः सहसा ॥५९॥

तासु सकलगोकुलवनितासु
प्रणयमहासम्भ्रममिलितासु ।
प्रेक्ष्य न जीवौषधनिजकान्तां
प्राप हरिर्विरहातुलचिन्ताम् ॥६०॥

श्रुत्वापि वेणुनिनादं स्वसखीजनेन
सम्मानरक्षणकृते बहुदत्तशिक्षा ।
राधा समागतवती न यदा तदेक
प्राणस्तदा हरिरभूदुरुदुःखचिन्तः ॥६१॥

दर्शितलोकवेदबहुभीतिः
प्रियविनिवर्तितयुवतीविततिः ।
समवददत्यनुरागरसान्धा
हरिपदकृतदृढजीवनिबद्धा ॥६२॥

विषमिव सकलविषयमपहाय
त्वत्पदमाश्रितमतुलसुखाय ।
प्रेष्ण्ठतमाखिलमर्मकृपाशीं
मा वद मा वद निष्ठुरवाणीम् ॥६३॥

सकलेन्द्रियमनसामनिवृत्तिः
प्रिय भवतैव हृताखिलवृत्तिः ।
को न्विह लोकः कः परलोकः
क्व तदा स्मरणं क्व नु वा करणम् ॥६४॥

यद्यनिवृत्तिं प्रविशति लोकः
परमासह्यनरकनिकरौकः ।
कोऽपि तदपि किमु तव चरणाशां
प्रत्यपि कुरुते हन्त जिहासाम् ॥६५॥

त्वच्चरणाम्बुजमकरन्दाशा
यद्धृदि समभूत्सहजविलासा ।
दर्शय परममहाभयलोभान्
अहह स्वात्मनि भवति विशोभा ॥६६॥

पतिसुतगेहस्वजनधनाद्यं
त्यक्तं वान्तवदखिलमवद्यम् ।
पुनरपि दुःसहमपि तत्स्मरणं
तव यदि न कृपा वरमिह मारणम् ॥६७॥

त्वत्पदपङ्कजरजसा धन्ये
त्यक्त्वा तनुमिह वृन्दारण्ये ।
प्राप्स्यामस्त्वां ध्रुवमभिरामं
त्यज दुरवग्रह नागर कामम् ॥६८॥

प्रेमोत्कण्ठ्यसगद्गदमित्थं
व्रजतरुणीमुखचन्द्रसमुत्थम् ।
पीत्वा वचनसुधारससारं
राधापतिरिदमवददुदारम् ॥६९॥

चन्द्रावलीप्रभृतिसर्वविदग्धगोपी
वृन्देऽपि संमिलितवत्यतिमन्मथान्धे ।
श्रीराधिकाविरहदीन उपेक्ष्य पूर्वं
पश्चादनन्यविषया न्ययुनक्प्रियार्थे ॥७०॥

अतिनिर्भरतरमद्भाववतीर्
नाहमुपेक्षे कथमपि भवतीः ।
किन्तु विना मम जीवनराधां
कृन्तति किमपि च नान्तरबाधाम् ॥७१॥

तद्दयिता रचयत बहुयत्नं
सा मम कण्ठविभूषणरत्नम् ।
मिलति यथा न चिरेण भवत्यः
साधु तथा विदधत्वतिमत्यः ॥७२॥

अथ स विचार्य व्रजवनिताभिः
कापि निपुणमतिरतिमुदिताभिः ।
प्रहिता द्रुतमुपवनगतराधं
समुपेत्याह वलत्स्मरबाधाम् ॥७३॥

श्रीवृषभानुभवनमणिमञ्जरि
राधे जननयनामृतलहरि ।
क्वापि न लोके क्वापि तुला ते
व्रजजनभाग्यात्परमिह जाते ॥७४॥

अयि मयि कृपयापाङ्गमुदञ्चय
सेश्वरविश्वं मद्वशतां नय ।
सेन्हावेशगलज्जलनयने
क्षणमवधानं कुरु मम वचने ॥७५॥

परमरसे तव यदपि निमग्नं
क्वचिदपि भवति मनो नहि लग्नम् ।
तदपि महाकरुणार्द्रप्रकृते
श्रवणं देहि मनाङ्मम गदिते ॥७६॥

एकः श्यामलदिव्यकिशोरः
श्रीशप्रमुखमनोमणिचोरः ।
अस्ति व्रजवृन्दावनसेवी
तं लभते कापि न देवी ॥७७॥

कमलादिकवरतरुणीवृन्दैः
सततविमृग्यः कृतनिरबद्धैः ।
स तव पदाम्बुजपरिमललुब्धः
षट्पद इव विभ्राम्यति मुग्धः ॥७८॥

राधे तस्य तु तत्त्वरहस्यं
त्वच्छ्रुतिमूले शंस्यमवश्यम् ।
यत्केनापि कदापि मनागपि
नादृश्यत पराभवदृशापि ॥७९॥

केवलकामरसात्मक एष
केवलमधुरकिशोरकवेषः ।
केवलगोपयुवतिरतितृष्णः
परमधुरिम्णा नाम्ना कृष्णः ॥८०॥

कामपि गोपीमपि कामयते
न खलु रमाद्या रमणीर्मनुते ।
गोकुलमखिलमसौ दिनरजनीर्
विचिनोति क्व नु का नवरमणी ॥८१॥

वलतश्छलतोऽन्यैरपि योगैः
साधितगोपवधूसम्भोगैः ।
निरवधि कामाम्बोधेः पारं
गच्छन्नस्ति कश्च एवारम् ॥८२॥

तत्र तु स्निग्धजनानुग्रहतस्
तस्याकारान्तरमपि दधतः ।
प्राप्य रहसि नवतरुणीनिकटं
तन्निजरूपमुदैक्षि प्रकटम् ॥८३॥

किं बहुना बहुनागररीतेस्
तस्याप्यैक्षि शिशुत्वानुकृतेः ।
गोप्योत्सङ्गेऽधररसलौल्यं
कुचकोरकमनु करचाञ्चल्यम् ॥८४॥

स हि नवकिशोरीदर्शं
व्रजवीथ्यादिष्वकृतविमर्शम् ।
लुञ्चितकञ्चुककुचयुगमर्दः
श्लिष्यति चुम्बति सहसा मत्तः ॥८५॥

सुतया मिलति मिलत्यपि वध्वा
मिलति भगिन्याप्यथ पथि रुद्धा ।
तदपि महामोहनवदनेक्षा
स्थगितास्तस्थुर्वल्लवमुख्याः ॥८६॥

काश्चिद्वशयति कामकलाभिः
का अपि नृत्यगीतविद्याभिः ।
काश्चन तरलीकुरुते मुरली
वादनखुरलीभिर्वनमाली ॥८७॥

काश्चन तत्पतिवेशविनोदैः
काश्चिद्ग्रहभीत्याद्यपनोदैः ।
काश्चन दूतिकया बहुमानैः
काश्चिद्वंशीहारणधरणैः ॥८८॥

काश्चित्स्वयमनुनयनैर्धन्या
द्यूतजितास्तत्पतितस्त्वन्याः ।
आकर्षति काश्चन मन्त्राद्यैः
काश्चन चीरहारहरणाद्यैः ॥८९॥

वमभुवि पुष्पावचयनसक्ताः
काश्चन चौर्यारोपाद्भुक्ताः ।
अन्याश्चित्रेक्षणकुतुकेन
भीषणजन्तुरूपभजनेन ॥९०॥

देवनटीरूपचरणेन
मोहयतीन्द्रजालरचनेन ।
अन्या स नयन्यमुनापारं
रतिमेवातरमात्तोदारम् ॥९१॥

गोकुलकुलजवधूटिकया सह
न कया सङ्गतिरस्य बभूव ह ।
उन्मदमदनरसैकप्रकृतेस्
तदपि मनोऽस्य न निर्वृतिमयते ॥९२॥

स कदाचिन्नववृन्दाविपिनं
प्राविशदेकः स्मररससदनम् ।
क्वापि कदम्बतले स्मरखिन्नः
सुप्तस्तत्प्रशमननिर्विण्णः ॥९३॥

स्वप्ने दर्शनमस्य त्वमगा
लीलाखेलपराद्भुतरसदा ।
किमपि च लज्जानतवदना
सा गदितवती मधुरं सविलासा ॥९४॥

किं कथये त्वां जीवितनाथ
राधा त्वत्प्रेमैव ननाथ ।
त्वं तु व्रजयुवतीभिर्विहरसि
मां निजकान्तां नैव स्मरसि ॥९५॥

इत्याकर्ण्य परमरससारं
त्वद्वचनामृतमसमोदारम् ।
यावत्प्ररुदन्पदयोः पतति
तावज्जागरितो भुवि लुठति ॥९६॥

तदवधि परमाविष्टः स युवा
व्रजमथ वृन्दावनमन्यद्वा ।
राधा राधेत्यविरतजापः
प्राटति राधाध्यायुरुतापः ॥९७॥

प्रथमोद्देशं तव सुसखीतः
श्रुत्वा तद्भावं च प्रतीतः ।
अन्योपायैर्मिलनमपश्यन्
वेणुरवैस्त्वाह्वयदतिहृष्यन॥९८॥

तं तु महामोहनमुरलीध्वनिम्
आकर्ण्यैव लोकनिगमाध्वनि ।
दृढतरहेयधियो व्रजवनिता
आययुरस्यान्तिकमपि न मताः ॥९९॥

अपि न कटाक्षनिरीक्षणमासु
त्वत्प्रणयी कुरुतेऽनुरतासु ।
अनिशम्यैवाद्भुतरसभावं
खिन्नस्त्वत्पदनूपुररावम् ॥१००॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP