आश्चर्यरासप्रबन्धः - भाग ३
संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच.
रेमे मधुपतिरथ ललनाभिर्
बहुविधसुरतबद्धरचनाभिः ।
रतिरसरभसोल्लसिततदूरुः
स्पर्शनबहुपर्पाटीचारुः ॥२०१॥
उच्छृङ्खलरतिखेलाश्रान्तः
प्रोन्मदरतिरभसोद्यतकान्तः ।
तन्मुखवीक्षणकृतपरिहासः
स्मेरमुखोऽमोदत सविलासः ॥२०२॥
इत्थं विहरति राधारमणे
वलदभिमाने युवतिविताने ।
तानि पिधाय सकरूपानि
कापि विजह्रे राधाजानिः ॥२०३॥
आनीय गोपतरुणीर्मुरलीरवेण
राधामपि प्रचुरकाकुभिरागमय्य ।
तासां स्वक्ÿप्तरतिसन्ततिजाभिमान
शान्त्यै कृपानिधिरथ प्रिययैक आसीत॥२०४॥
कृष्णमदृष्ट्वा गोप्योऽनवधौ
सपदि निमग्नाः शोकपयोधौ ।
हा नाथेति व्याकुलवचनाश्
चेरुः परितो विह्वलकरणाः ॥२०५॥
चिन्मयमन्तरुदितहरिरूपं
मूर्तमिवाच्युतसुरतसरूपम् ।
वृन्दाविपिनलतातरुवृन्दं
ताः पप्रच्छुर्निजसुखकन्दम् ॥२०६॥
भो अश्वत्थप्लक्षवटा वः
किं दृष्टो हरिरानतभावः ।
स हि नश्चोरितहृदयो यातः
प्रेमहसितदृकशरसङ्घातः ॥२०७॥
भो भोश्चम्पककेशरनाग
प्रियकाशोकबकुलपुन्नाग ।
जम्बूकुरवकपनसरसाल
क्रमुककूतजबकतालतमाल ॥२०८॥
अहह महान्तो यूयं सदया
वयमपि विरहव्याकुलहृदयाः ।
कथयत मानवतीहृतमान
स्मितवदनस्य हरेः पदवीं नः ॥२०९॥
अयि सखि माधवि मालति मल्लि
जाति यूथि नीलिनि शेफालि ।
मा गोपयत गोपकुलतिलकं
कृतकरसंस्पर्शं किल रसिकम् ॥२१०॥
अयि कल्याणि तुलसि हरिचरणा
म्बुजदयिते त्वं कुरु वः करुणाम् ।
क्वास्ते वद नो जीवितबन्धुः
सकलकलानिधिरतिरससिन्धुः ॥२११॥
अथ काश्चन हरिलीलाललिता
अनुकृतवत्यो मिथ आवलिताः ।
अत्यावेशाद्विस्मृतदेहाः
काश्चन भेजुर्मधुरतदीहाः ॥२१२॥
द्रुमलतिकाः पुनरपि पृच्छन्त्यह्
कुञ्जं कुञ्जं मुहुरभियान्त्यः ।
ददृशुः क्व च पदपङ्क्तिं ललितां
ध्वजवज्राङ्कुशपद्मादियुताम् ॥२१३॥
ज्ञात्वा हरिपदचिह्नं रामा
मृगयन्त्यस्तैरत्यभिरामाः ।
अन्या अपि पदलक्ष्मश्रेणीर्
ददृशुरिवाद्भुतमधुरिमवेणीः ॥२१४॥
श्रीराधाया इति निर्धारं
कृत्वा बहुविधविहितविचारम् ।
ऊचुस्तत्पङ्कजयुगले
वलदतिभावा रसभरवहले ॥२१५॥
अन्तर्हिते दयितया सह कृष्णचन्द्रे
गोप्यो महानिविडशोकतमोभिरन्धाः ।
पृष्ट्वा मुहुर्द्रुमलता अनुकृत्य लीलां
दृष्ट्वा पदानि तु तयोः समवर्णयंस्ताः ॥२१६॥
कृष्णपदाङ्कं पश्यत कामं
राधापदलक्ष्म्याप्यभिरामम् ।
सख्य इदं खलु दर्शितमनया
दीनतमास्वतिनिर्भरकृपया ॥२१७॥
प्रेष्ठतमांसार्पितभुजवल्लिः
परमोज्ज्वलरसकल्पकवल्लिः ।
राधा ध्रुवमिह लीलागतिभिश्
चलिता मृदु मृदु नूपुररुतिभिः ॥२१८॥
गन्तुमशक्तामत्र तु कान्तां
स्कन्धे कृत्वा चपलदृगन्ताम् ।
उदवहदतिपुलकितसर्वाङ्गः
प्रोज्जृम्भितरतिरङ्गतरङ्गः ॥२१९॥
स्कन्धादवरोप्यात्र तु कान्तां
प्रार्थितपुष्पां चलदलकान्ताम् ।
प्रेयस्यर्थे हरिरुल्लसितः
कुसुमान्यवचितवानथ परितः ॥२२०॥
उपविश्याथ स उत्पुलकोरु
द्वयमध्यगदयितामतिचारुः ।
गुम्फितवान्कुसुमैर्वरवेणीश्
चक्रे चान्याभरणश्रेणीः ॥२२१॥
सख्यः पश्यत मञ्जुलकुञ्जे
ध्रुवमिह गुञ्जन्मधुकरपुञ्जे ।
प्राविशतां तौ सुरतसतृष्णौ
मदकलमूर्ती राधाकृष्णौ ॥२२२॥
पश्यत पश्यत किशलयशयनं
सफलीकुरुताद्यैव च नयनम् ।
सुरतविमर्दाद्विलुइतमीक्ष्यं
त्रुटितकुसुमकञ्चुकशिखिपक्षम् ॥२२३॥
इत्थं परममहारसधाम्नोर्
बहुविधपदकैर्बहुमधुरिम्णोः ।
ताः समलङ्कृतसुस्थलजातं
वीक्ष्य वीक्ष्य सुखमापुरमातम् ॥२२४॥
श्रीराधापि स्वपदैकरसा
बुध्वा ता अतिकरुणाविवशा ।
रुष्टेवाह प्रियमतिकृपणं
त्वं चल नहि मे शक्यं चलनम् ॥२२५॥
भीतभीत इव मृदु मृदु वदति
स्कन्धं मम चिरमारोहेति ।
आक्षिपदेव रचितबहुलीलं
सा निजपतिमपि सत्वरशीलम् ॥२२६॥
स चतुरचूडामणिरालक्ष्य
प्रेयस्या हृद्गतमविलक्ष्यः ।
तत्क्षणमभवत्सा तु तदैव
प्राप्तवती खलु मूर्च्छनमेव ॥२२७॥
हरिरपि प्रकटः पुलकयुताभ्यां
तामुत्थाप्यालिङ्ग्य भुजाभ्याम् ।
अकृत तदुक्तः पुनरन्तर्धिं
व्हिहिततदङ्गस्पर्शिसमृद्धिम् ॥२२८॥
दृष्ट्वा तामथ निजजीवातुं
दीनतमामिव पृष्ट्वा हेतुम् ।
श्रुत्वा तन्मुखतः स्वहितार्था
वाचस्ता अभवंस्तु कृतार्थाः ॥२२९॥
स्वस्वामिन्या पुनरपि सहिताः
कालिन्दीये पुलिने याताः ।
द्रष्टुं राधा सहितविहारं
संजगुरार्ताः कृष्णमुदारम् ॥२३०॥
श्रुत्वा बहुविधकातरवचनं
तासां राधाप्रणयारचनम् ।
आविरास हरिरतुलविलासः
प्रमदासदसि सुधारसहासः ॥२३१॥
राधया सहजवत्सलात्मना
स्वीकृते व्रजविलासिनीगणे ।
स्वात्मभावकृतभाववैभवैः
प्रादुरास रसिकेन्द्रशेखरः ॥२३२॥
काचित्सुवलितललितप्रकाण्डं
स्वांसे न्यधित कृष्णभुजदण्डम् ।
काचन भुवि पतितातिप्रणयाश्
चरणमवृत निजवेणीलतया ॥२३३॥
तप्ता हरिपदपङ्कजयुगलं
काचन निदधावधिकुचमुकुलम् ।
अन्या निमिषितनेत्रयुगेण
प्रियमुखमपिबत्तर्षभरेण ॥२३४॥
अपरा पुनरपगमनाद्भीता
करयुगलेन प्रणयपरीता ।
श्रीहस्ताम्बुजमतिशयरुचिरं
समधृत नागरमौलेः सुचिरम् ॥२३५॥
कापि विलोचनरन्ध्रेणालं
कृत्वा हृदि परिरभ्य रसालम् ।
योगीवास्ते परमानन्दा
मृतह्रदमग्ना चिरमस्पन्दा ॥२३६॥
श्रीराधारसपोषणनिरतास्
तत्सुखसिन्धुनिमज्जनमुदिताः ।
प्रिययोर्लीलां गोपयुवताश्
चित्रतरामवतारितवत्यः ॥२३७॥
स हरिर्व्रजनवयुवतिसमाजे
तदुरुनिचोलोपरि संरेजे ।
साङ्गसङ्गनिजकान्तासहितस्
तासामास सपर्यामुदितः ॥२३८॥
बहुवाग्भङ्ग्या व्रजनवसुदृशां
सहजप्रेमविवेचकमनसाम् ।
प्रीतः स्वारसिकं निजभावं
प्रकटितवानथ विरहाभावम् ॥२३९॥
व्रजाङ्गनाभिर्मिलितः स कृष्णः
श्रीराधयातीव विराजमानः ।
तासामुरुप्रेमकथाभितृप्तो
रासोत्सवयोल्लासितो बभूव ॥२४०॥
अथ कर्पूरपूररुचिरुचिरे
यमुनालहरीशीकरशिशिरे ।
उन्मदमधुकरकोकिलकीरे
वहदतिपरिमलमलयसमीरे ॥२४१॥
परितः स्फुटनवकैरवनलिने
विपुलकलिन्दसुतावरपुलिने ।
अद्भुतकल्पतरुभिरतिसुभगे
केलिसुसाधनवर्षिभिरनघे ॥२४२॥
बहुदीपिनि दिवि शारदचन्द्रे
पररसभाजि चराचरवृन्दे ।
द्राघीयसि तद्रजनीयामे
धुन्वति दह्नुरद्भुतनवकामे ॥२४३॥
सुरनरकिन्नरगन्धर्वाद्यैर्
वलिते निर्मितगीतसुवाद्यैः ।
नभसि रचित पुरुचित्रविताने
विलसति बहुविधदिव्यविमाने ॥२४४॥
सङ्गीतकपरपारगताभिर्
बहुविधनृत्यकलातुलिताभिः ।
गौरतनुच्छविभरितहरिद्भिः
कृष्णसुधाब्धिप्रीतिसरिद्भिः ॥२४५॥
नाट्योचितभूषणवसनाभिः
कटितटबद्धरसनाभिः ।
हर्षोत्पुलकिततनुलतिकाभिः
चित्रारुणनवकञ्चुलिकाभिः ॥२४६॥
जघनान्दोलितवेणिलताभिः
रत्नतिलकरञ्जितभालाभिः ।
समणिकनकमौक्तिकनासाभिः
मृदुलकपोलविचलदलकाभिः ॥२४७॥
मुक्तापङ्क्तिद्युतिदशनाभिः
सुरुचिरचिबुकदन्तवसनाभिः ।
मुष्टिमेयकृशतरमध्याभिः
स्मरनृपसिंहासनजघनाभिः ॥२४८॥
बद्धपरस्परचारुकराभिः
कङ्कणगणझङ्कृतिरुचिराभिः ।
भ्राजद्ग्रैवेयकहाराभिश्
चरणरणितमणिमञ्जीराभिः ॥२४९॥
व्रजनगरोज्ज्वलवरतरुणीभिर्
निर्मलरसमणिवरखनिभिः ।
युगयुगमध्ये स्मरसंरम्भि
श्रीमन्नागरकण्ठधृताभिः ॥२५०॥
रचितेऽत्यद्भुतमण्डलराजे
वर्षति कुसुमं सिद्धसमाजे ।
राधाकृष्णोन्मदरसभासः
प्रादुरास परमाद्भुतरासः ॥२५१॥
रतिरसपरसीमश्रीतनो राधिकायाश्
चरणकमललब्धप्रौढतादात्म्यभावैः ।
व्यरचि रुचिररासश्चित्रतत्तत्कलौघैर्
व्रजनवतरुणीनां मण्डलैर्माधवेन ॥२५२॥
अथ संववृधे सोऽद्भुतरासः
प्रोन्मदमदनकोटिकृतहासः ।
उन्मदराधिक उन्मदकृष्णः
प्रोन्मदयुवतिगणोन्मदतृष्णः ॥२५३॥
सकलनिगमगणसुचमत्कारः
सकलेश्वरगणरचितविचारः ।
परमाश्चर्यप्रेमविकारः
परमानन्दमहोत्सवसारः ॥२५४॥
कृष्णरसैकस्फुरदुल्लासः
परमाकाशगतध्वनिभासः ।
दशदिक्प्रसृमरवरपटवासः
परममहापरिमलभरिताशः ॥२५५॥
भूषणवसनतनुच्छविवर्ष
प्रोल्लसदखिलभुवनरतिहर्षः ।
केलिचमत्कृतिपरमोत्कर्षः
सकलपुमर्थप्रथितनिकर्षः ॥२५६॥
सरभसचक्रभ्रमणविलासः
स्मरवशयुवतिपरस्परहासः ।
प्रकटोन्मदनवमन्मथकोटिः
प्रकटमहाद्भुतरतिपरिपाटिः ॥२५७॥
किङ्किणिनूपुरवलयघटानां
वीणावेणुतालमुरजानाम् ।
प्रेमोत्तारमधुरतरगान
प्रणयिसमुत्थिततुमुलस्वानः ॥२५८॥
गगनस्थगितसगणशरदिन्दुः
स्तम्भितसुरसुतादिकसिन्धुः ।
सुखविह्वलखगमृगपशुजातिः
पुलकवलिततरुवल्लीविततिः ॥२५९॥
द्रवमयविगलद्गिरिपाषाणः
सुरसपवनकृतसख्यभिमानः ।
मूर्च्छितमुक्तनीविसुरवनितः
खचरवृष्टकुसुमोघैर्निचितः ॥२६०॥
प्रोच्छलदतुलमहारसजलधिर्
भग्नमुनीश्वरपरमसमाधिः ।
केलिकलोत्सवपरमप्रथिमा
कृष्णप्रेमसमुन्नतिसीमा ॥२६१॥
स्मरोन्मदैर्गोकुलसुन्दरीगणैः
समुत्थितो रासविलाससम्भ्रमः ।
सीमा परा प्रेमचमत्कृतीनां
स कोऽपि राधारसिकस्य जीयात॥२६२॥
तासां रासरभसवशमनसां
विपुलपुलकपरिपूरितवपुषाम् ।
प्रियपरिरम्भोन्मदमदनानां
किमपि न संवृतकुचवसनानाम् ॥२६३॥
मुक्तवेणिविगलत्कुसुमानां
तरलितमुक्तावलिरसनानाम् ।
प्रचलितकुण्डलगण्डतटानां
विश्लथनीविप्रकटजघनानाम् ॥२६४॥
त्रुटितचारुकुचकञ्चुलिकानां
छिन्नमाल्यमणिहारसराणाम् ।
श्रमजलपूरितसकलतनूनां
म्लिष्टविलेपाञ्जनतिलकानाम् ॥२६५॥
प्रियतमपरिचुम्बितवदनानां
प्रियतमनखरोल्लिखितकुचानाम् ।
प्रियतमभुजयुगकलितगलानां
प्रियतममृष्टश्रमसलिलानाम् ॥२६६॥
राधासन्धितकञ्चुलिकानां
राधाग्रथितरुचिरनीवीनाम् ।
राधास्नेहैकात्म्यधनानां
शतगुणवर्धिपरमसुषमाणाम् ॥२६७॥
माधवमधुराधरमधुपानां
मुहुरतिदुर्धरमदनमदानाम् ।
परकाष्ठां गत उन्मदललितः
कोऽपि सुखाम्भोनिधिरुच्छलितः ॥२६८॥
गायन्तीनां दयितमिथुनं सानुरागैः सुरागैर्
नृत्यन्तीनां प्रमदमदनोद्दामलीलाकलाभिः ।
श्रीराधायाश्चरणकमलस्नेहतादात्म्यभाजां
रासक्रीडासुखमनुपमं वल्लवीनां बभूव ॥२६९॥
तत्र यदा सुरतैकसतृष्णौ
मण्डलमध्ये राधाकृष्णौ ।
मिलितौ ननृततुरथवा क्रमशः
कोऽपि तदासीद्रासे सुरसः ॥२७०॥
वाद्यगीतपरयुवतीवृन्दे
पूर्णचमत्कृतिपरमानन्दे ।
तददर्शयत सुनागरमिथुनं
स्वस्वसुशिक्षा अधिरसनटनम् ॥२७१॥
राधातत्प्रिययोरभवंस्ता
एकैकाङ्गेऽद्भुतरसवलिताः ।
चलनविभङ्गीरतिसुविचित्रा
वीक्ष्य वीक्ष्य चिरमनुकृतचित्राः ॥२७२॥
सङ्गीतकबहुभङ्गीसारं
कमपि विहारं परमोदारम् ।
राधातन्नागरयोर्मधुरं
दृष्ट्वा मूर्च्छद्वनमपि सुचिरम् ॥२७३॥
रसमयनृत्यकलाद्भुतसङ्गी
तुङ्गितनवरतिरङ्गतरङ्गी ।
राधामाधवयो रतिललितं
कोऽपि विलासः समभःदुदितम् ॥२७४॥
अलकचिबुककुचकरसंस्पर्शी
नीविधरणमधुरामृतकर्षी ।
परमचित्रपरिरम्भणचुम्बं
शुशुभे तल्ललितं रसजृम्भम् ॥२७५॥
मूर्च्छितमलुठद्गोपीवृन्दं
मूर्च्छितमपतत्खगपशुवृन्दम् ।
मूर्च्छामाप लतातरुवृन्दं
सर्वममूर्च्छत्तत्र रसान्धम् ॥२७६॥
अथ रसिकेन्द्रः श्रितनिजकान्तः
सुतुमुलरासक्रीडाश्रान्तः ।
अविशद्वारि सगोपीवृन्दः
करिणीगणवृत इव कलभेन्द्रः ॥२७७॥
तत्र रचितपरमाद्भुतकेलिः
शुशुभे स रसिकमण्डलमौलिः ।
राधापक्षव्रजयुवतीभिः
पर्युक्षित उद्वसितमुखीभिः ॥२७८॥
क्रीडित्वा बहु सलिलोत्तीर्णः
पुनरन्याम्बरभूषणपूर्णः ।
कुङ्कुमलिप्तः प्रियया दीप्तः
कुञ्जशयनमधि स सुखं सुप्तः ॥२७९॥
एवमपारं शारदरजनीर्
अखिला एव व्रजनवतरुणीः ।
आनीयारचि राधापतिना रासो
नवनवरतिवशमतिना ॥२८०॥
परमरससमुद्रोज्जृम्भणस्यातिकाष्ठा
परमपुरुषलीलारूपशोभातिकाष्ठा ।
परमविलसदाद्यप्रेमसौभाग्यभूमा
जयति परपुमर्थोत्कर्षसीमा स रासः ॥२८१॥
शुद्धभावस्पृहावत्या मत्या कृष्णैकदत्तया ।
अद्भुतोऽयं मया रासप्रबन्धः प्रकटीकृतः ॥२८२॥
यथास्फूर्ति मया रासविलासो राधिकापतेः ।
वर्णितः स्वमुदे तेन मुदिताः सन्तु साधवः ॥२८३॥
इमं रासप्रबन्धं यो गायेत्कृष्णानुरक्तधीः ।
लुठन्ति तत्पदतले पुमर्थाः सर्व उत्तमाः ॥२८४॥
इति श्रीप्रबोधसरस्वती विरचितः आश्चर्यरासप्रबन्धः ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP