संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|काव्य|आश्चर्यरासप्रबन्धः| भाग २ आश्चर्यरासप्रबन्धः भाग १ भाग २ भाग ३ आश्चर्यरासप्रबन्धः - भाग २ संस्कृत भाषेतील काव्य, महाकाव्य म्हणजे साहित्य विश्वातील मैलाचा दगड होय, काय आनंद मिळतो त्याचा रसास्वाद घेताना, स्वर्गसुखच. Tags : epicpoemकाव्यमहाकाव्यसंस्कृत भाग २ Translation - भाषांतर पश्यन्नपि स न पश्यति किञ्चित्शृण्वन्नपि न शृणोति स किञ्चित।त्वामनु चिन्तयते व्रजनाथःसन्ततविहितत्वद्गुणगाथः ॥१०१॥क्वासि प्रेयसि हा हा राधेमय्यनुकम्पां कुरु पुरुबाधे ।स्मृत्वा मामुपयाहि त्वरितंवृन्दाविपिनं कुरु सुखभरितम् ॥१०२॥अथवा सहजसुवत्सलहृदयेनायास्यसि कथमनुगतसदये ।तिष्ठसि कुञ्जे क्वापि निलीनारीतिरियंतव सुरसधुरीणा ॥१०३॥एवं प्रलपति बहुधा कृष्णस्त्वत्सङ्गमरसमात्रसतृष्णः ।त्वामुपनीय ध्यानात्पुरतः स भवति रसमयचेष्टानिरतः ॥१०४॥चन्द्रावल्याद्यखिलमनोज्ञव्रजवररामा अपि स रसज्ञः ।कृतचाटूक्तीः पश्यति न दृशाश्वसिति परं तव रतिरससतृषा ॥१०५॥नान्यतरुण्या वार्ताः कुरुते नान्यादत्तं पिबति न भुङ्क्ते ।अन्यास्पर्शनदर्शनविरुचिस्त्वत्परतायामास्ते स शुचिः ॥१०६॥विलसत्यतिकरुणं तव बन्धुर्धृतबाष्पौघो युवति मुखेन्दुः ।स्थिरचरसत्त्वान्यपि चक्रन्दुर्वृन्दाविपिनमश्रुजलसिन्धुः ॥१०७॥शोषं नेष्यति हरिवपुरुष्मातव वृन्दावनमथ रुचिराश्मा ।केलिगिरिस्ते द्रवतां यायात्प्लावितमखिलं वाश्रैर्भूयात॥१०८॥सकलं श्रीमद्वृन्दाविपिनंसकलं गोकुलमपि च व्यसनम् ।परमदुरन्तमद्य समुपैतिसकलप्राणधने परिषीदति ॥१०९॥तदुरुनितम्बे न कुरु विलम्बं चल सखि कृतमत्पाण्यवलम्बम् ।मदकलकादम्बकनिकुरम्बंतव गतिभङ्ग्या भजतु विडम्बम् ॥११०॥अथ दुर्धरतरमन्मथबाधाकिमपि गदितुमशकन्नहि राधा ।तद्दयितालिर्बहुरसवलितागिरमतिललितामवदल्ललिता ॥१११॥चल सुन्दरि किं बहुवचनेनवयमतितृप्ताः कृष्णगुणेन ।यैरनुभूतंतस्य न चरितंतच्छ्रवणं कुरु तद्गुणभरितम् ॥११२॥वक्रिमशालिश्यामलवपुषःकावस्था ऋजुशुचितायां मनसः ।कृत्रिम एव प्रेमविकारस्तस्य मृषा वा त्वद्व्याहारः ॥११३॥पश्य दूति बहुवल्लभ एष व्रजपुरतरुणीमोहनवेशः ।वेणुध्वनिहृतगोपीवृन्दःकथमिह सख्या मम सुखगन्धः ॥११४॥मनुते यदि दयितागणमुख्यांस मम सखीं निजपरमाभिख्याम् ।तत्कथमादौ न तया मिलितंप्राप्तानुज्ञोऽन्याभिर्न युतः ॥११५॥तदलमलं कपटैकपरेण प्रकटितमिथ्याप्रेमभरेण ।तेन दिनद्वयमेकीभवतापुनरथ परमौदास्यं भजता ॥११६॥किं चास्माकं कण्ठगतेषु प्राणेष्वन्यां व्रजवरतनुषु ।राधाभर्ता कथमिव शयनंनेष्यति धन्यमपि कृतकरुणम् ॥११७॥लक्ष्मीतत्पतिमोहन्यपि काव्रजभुव्यस्मत्सख्यनुचरिका ।भवितुं योग्या सह तत्पतिनाया निर्लज्जा कृतरतिकलना ॥११८॥गत्वा सर्वमिदं त्वं वर्णय कामुकमुकुटमणिं सखि सुखय ।स सुखं विहरतु सहबहुरामस्तादृशनिकटं न वयं यामः ॥११९॥क्रीडति स बहुकपटनाटिकयामुग्धव्रजपुरयुवतीघटया ।सुमुखि वयं तनुरागमनन्यंबिभ्रतमेव भजामो धन्यम् ॥१२०॥राधैकान्तिकभावो न भवेत्स यदि तदा स्यां सङ्गतिविभवे ।अस्तु निराशो मम तु सखीयंतादृशरतिहृद्गमयतु समयम् ॥१२१॥तत आगत्य तया परिकथितेसकले राधालीजनलपिते ।गोपीवेशस्थगितसमाजःस्वयमचलच्छ्रीव्रजयुवराजः ॥१२२॥दूतीगिरापि च यदा वृषभानुपुत्रीनैवागता रसविलासविधौ विदग्धा ।गत्वा तदा स्वयमसौ युवतीसुवेशस्तां प्रेमविह्वलतनुं हरिरानिनाय ॥१२३॥द्रुतमिव स गतो राधारामःतद्गुणचरितैः परमाभिरामः ।शिरसि निहिततच्चरणपरागःप्राह ललितमतिवलदनुरागः ॥१२४॥अहह महाद्भुतभाग्यविपाकेतव पदमतिदुर्लभमपि नाके ।अद्य दृशातितृषा परिदृष्टं स्पृष्टं जनिफलमखिलं जुष्टम् ॥१२५॥तव पदपङ्कजनखमणिचन्द्रज्योतिःप्रसराद्दिशि दिशि सान्द्रः ।स्स्वानन्दामृतसिन्धुरपारःस्यन्दत एवाद्भुतरससारः ॥१२६॥आश्चर्या ते रूपचमत्कृतिर्आश्चर्या ते रुचिरुच्छलति ।आश्चर्या ते मधुरवयःश्रीर्लास्यैर्हरिरपि मूर्च्छति सश्रीः ॥१२७॥जन्मनि जन्मनि दास्या अपि तेदास्यपदाशां का न हि कुरुते ।आस्तामपरं श्यामरसोऽपित्वत्पदकमले लभ्यः कोऽपि ॥१२८॥क्O,यमहो मम भाग्यविशेषःफलितो गलितस्तर्कोऽशेषः ।यदिह मया गतया हरिकार्येप्रापि परश्चिन्तामणिरार्ये ॥१२९॥रमयाप्यतिदुर्लभपदरजसांमृग्यो निरवधि गोकुलसुदृशाम् ।वृन्दावनविधुरपि तव दासीभाग्यकलायाश्चिरमभिलाषी ॥१३०॥नापेक्षा मम मोहनराजेतद्धितहेतोः कृतिमपि न भजे ।यन्मे त्वत्सङ्गादन्यदकाम्यंतदपि तदुक्तं कथये रम्यम् ॥१३१॥अयि वरसुन्दरि नागरि राधेकुरु हरिवचने हृदयमबाधे ।यन्मम मुखतः श्रवणपुटेनस्वदितं त्वां वशयेत रसेन ॥१३२॥पयस इव द्रवभावः सहजःप्रणयमहौघस्तव मयि सुनिजः ।सुमुखि तदद्य किमेवमसारंमयि कुरुषे गुणदोषविचारम् ॥१३३॥तव रसपुष्टिकृते व्रजरामा मुरलिरवेण हृता अभिरामाः ।तत्र वृथा किमुद्घटय दोषंभवतु प्राणेश्वरि भज तोषम् ॥१३४॥गोपकिशोर्यस्त्वद्भ्रमभुक्ताःकाश्चन थुत्कृत्याथ त्यक्ताः ।श्रुत्वा काश्चिदनुत्तमरूपास्त्यक्ता अनुभूयानुरूपाः ॥१३५॥अन्या दशपञ्चैकीभूय क्षिप्तह्रियो मां रह आनीय ।पाणौ पीतपटे वा धृत्वामत्ताः सकृदधरमधु पीत्वा ॥१३६॥एका कापि तवास्ते योग्याव्रज इति दूतीजनवाग्भङ्ग्या ।काचन काचन भुक्त्वा त्यक्तासाम्प्रतमत्र वयं सुविरक्ताः ॥१३७॥हरि हरि काममहाम्बुधिपारंका वा नेष्यति मां सविकारम् ।स्थितवानेवमहर्निशमन्तश्चिन्ताततिममिलन्निजकान्तः ॥१३८॥त्वद्वनमध्यसुप्तमतिविधुरंत्वं मा बोधितवत्यसि मधुरम् ।स्वात्मानं श्रीराधानाम्नींप्रकटितमच्चिन्तातिगधाम्नीम् ॥१३९॥स्वप्ने जागरणे वा प्रेयसि पूर्वमपि त्वं हृदि मे स्फुरसि ।बहिरिदमनुपलभ्य तव रूपंबम्भ्रमीमि कृतमिथ्यारोपम् ॥१४०॥सहजादेव तु दिव्या मुरली स्वयमधिगायति नामगुणालीः ।तव परमाद्भुतमधुरिमभरितादिननिशि न मया क्षणमपि रहिता ॥१४१॥गायति मुरली मम किमपूर्वंसन्ततमिति विस्मितधीरभवम् ।अहह पुरा करुणामयि सम्प्रतिधन्यतमां स्तौम्यनिशममुं प्रति ॥१४२॥अनया सहजत्वद्गुणरसयाप्य्अद्य कृतास्त्वयि काकुप्रचयाः ।दुस्तरकामकदनदलनायप्रेयसि कथमपि तव मिलनाय ॥१४३॥त्वन्नामैकपरा मम मुरलीस्वयमायन्मुग्धा कुलटाली ।तत्र न कुरु मयि दोषारोपंननु रसरूपमपि त्यज कोपम् ॥१४४॥त्वत्सङ्गमरसनिरसज्जीवःप्रणयिनि शङ्कारहितोऽतीव ।दीनदयार्तः कुतुकितहृदयःखेलाम्याहृतगोपीनिचयः ॥१४५॥सुप्रसन्नवदनां न निरीक्षेत्वां यदि कृतमज्जीवनरक्षे ।को नु तदा मम कौतुककामःकायादेरपि वृत्तिविरामः ॥१४६॥क्षान्तिस्नेहकृपामयप्रकृतेनिजभृत्ये मयि दीने प्रणते ।कर्णजापमपि कुर्वत्यालीनिकरे नेष्याप्यागःपटली ॥१४७॥अथ हतभाग्यतमे मयि राधेनाशु प्रसीदस्यमदपराधे ।त्वत्पदकाङ्कितवृन्दाविपिनेकापि दशा स्यान्मम मृगनयने ॥१४८॥श्रुत्वैवं हरिवाक्यकदम्बानेष्यसि यदि चल तिष्ठ सुखं वा ।मम तु भवत्याः श्रीपदकमलाद्इतरपदे धीस्तनुरपि न चला ॥१४९॥साश्रु सगद्गदमिति निगदन्तं कान्तावेशधरं निजकान्तम् ।विस्मयमूकास्वालिषु राधाप्राह सरसमिदमनुरागाद्धा ॥१५०॥श्यामलगोपकिशोरि त्वयि मेकृष्ण इवात्मा प्रीतिं चकमे ।क्व स्थितवयसि कालमियन्तंपुण्यैस्तव मुखमैक्षि सुकान्तम् ॥१५१॥प्रायस्तीव्रतरानुध्यातःकृष्णस्त्वं मम सुसखीभूतः ।इदमतिभद्रतरं यदशङ्कंसाधु निधास्ये प्रियतममङ्कम् ॥१५२॥यदि मम कथमपि तादृशवेशःस्मृतिपथमेयान्निजहृदयेशः ।बर्होत्तंसा वादितवंशा सुखयिष्यसि मां त्वं तद्वेशा ॥१५३॥यदपि परार्धान्हरिरपराधान्अकृत तथापि क्षमते राधा ।यत्ते वदनचन्द्रसौन्दर्यंस्वमपि ममाक्रीणादाश्चर्यम् ॥१५४॥एह्येहि स्फुटनीलसरोरुहसुकुमाराङ्गि सखीमुपगूह ।स्नेहोत्तरले मां हरिविरहप्रभवः शाम्यतु बत तनुदाहः ॥१५५॥इत्युक्त्वासीद्वृषभानुसुता सपदि विवृद्धप्रणयावशता ।प्राणपतिं पुलकाञ्चितगात्रापरिरभ्यास्ते मुकुलितनेत्रा ॥१५६॥अथ परिरभ्य हरिः परिचुम्बन्मुखमरसयदपि चाधरबिम्बम् ।कुचमुकुले नखराङ्कुरदायीकृष्णोऽभूत्पुनरिति वा कुस्मायी ॥१५७॥ज्ञातं ज्ञातमहो रसभरितंधूर्तमणे तव स्कलं चरितम् ।इति सहसितराधेरितहृष्टःकुञ्जगृहान्तः सपदि प्रविष्टः ॥१५८॥कलितयुवतिवेशो मानिनीमेत्य राधांहरिरनुनयकाकुव्याकुलोक्तिप्रपञ्चैः ।सपदि सहजवृद्धप्रीतिदत्ताङ्गसङ्गांस जयति परिहृष्यन्गाढमालिङ्ग्य कान्ताम् ॥१५९॥अथ सहजोज्ज्वलभावोज्जृम्भःप्रियया लम्भितभुजपरिरम्भः ।प्रकटतनुः स श्यामकिशोरस्तन्मिलितश्चलितो रतिचोरः ॥१६०॥तौ रसमूर्ती राधाकृष्णौ श्रीवृन्दावनराससतृष्णौ ।अतिशुशुभाते मोहनवेशौप्रतिपदविरचितकेलिविशेषौ ॥१६१॥गौरश्यामलमोहनमूर्तीनिरवधिवर्धिमदनरसपूर्ती ।निरुपमनवतारुण्यप्रवेशौरासविलासोचितवरवेशौ ॥१६२॥वेणीचूडारचितसुकेशौ मिथ उद्भवदतिमदनावेशौ ।अरुणपीतपटवरपरिधानौदिशि दिशि विसरद्दीप्तिवितानौ ॥१६३॥रतिरतिनायककोटिविलासौमधुरविलोकपरस्परहासौ ।मिथ आश्लेषितनिजतनुदेशौपुलकमुकुलकुलसततोन्मेषौ ॥१६४॥मिथ उरुविधकृतनर्मालापौनवनवनिर्मितकेलिकलापौ ।विविधभङ्गिगतिविजितमरालौनूपुररसनाक्वणितरसालौ ॥१६५॥रुचिरान्दोलनसुभुजमृणालौगलदोलायमानवरमालौ ।मिथ उत्पुलकभुजाकलितांसौसव्यतदन्यभुजाम्बुजवंशौ ॥१६६॥मिथ ईक्षितमुखचन्द्रसहासौ श्रुतपूरनिरतेरितवंशौ ।द्रुतकाञ्चनमरकतरुचिचौरौ सर्वाद्भुततमदिव्यकिशोरौ ॥१६७॥नित्यमधुरवृन्दावनकेलीशुद्धमहारसपूर्णगुणाली ।कलितमुरजवरतालसुवीणैर्नृत्यगीतवरवाद्यप्रवीणैः ।राधाकृष्णरसैकप्रथनैःसहितौ सुरसोल्लसितालिजनैः ॥१६८॥मणिमयपेटिकान्तरुपनिहितंरासविलासोपकरणजातम् ।आदायातिहर्षभरभरितास्तत्सेवैकपरा अनुयाताः ॥१६९॥शुद्धोज्ज्वलप्रेमरसैकशक्तितद्वत्स्वरूपौ सुखसारराशी ।तौ नः किशोरौ गौरनीलौखेलायतां चित्रमनोजलीलौ ॥१७०॥गत्वा तावथ वृन्दारण्यंस्वगतिपुरस्तादुत्सवशून्यम् ।परिचरणोल्लसितव्रजयुवतीमध्ये रेजतुरद्भुतदीप्ती ॥१७१॥काश्चन चक्रुः पदसंवाहंकाश्चन भेजुः सुरतोत्साहम् ।काश्चन गन्धैर्व्यालपन्नपराःकण्ठे निदधुर्माला रुचिराः ॥१७२॥चक्रुरथैका भृकुटिविलासंविदधुः काश्चन रतिपरिहासम् ।काश्चन मृदु मृदु विदधुर्व्यजनंका अपि चक्रुर्भूषारचनम् ॥१७३॥नागवल्लिदलमुज्ज्वलचन्द्रंदत्तवती काप्यधिमुखचन्द्रम् ।नवनवकामकलाविर्भावंव्यञ्जितवत्यः काश्चन भावम् ॥१७४॥मृदु मृदु वीणाद्यतिनिरवद्यंवादितवत्यः काश्चन वाद्यम् ।काश्चन सञ्जगू रसानुरागामधुरमुदञ्चितपञ्चमरागाः ॥१७५॥बहुविधहस्तकगतिलीलाभिःकाश्चन वलिता नृत्यकलाभिः ।प्रिययोरुपरि सुपुच्छच्छत्रंकाश्चन जगृहुः परमविचित्रम् ॥१७६॥वरनागरिकावरनागरयोर्उन्मदमदनरसप्रहसितयोः ।प्राप्य तयोः करपद्मात्प्रमदाःकमपि प्रसादं व्यलसन्प्रमुदाः ॥१७७॥छित्त्वा छित्त्वा वीटकभेदान्ललितलवङ्गक्रमुकच्छेदान।रसिकमिथुनमुपयोजितवत्यःकाश्चन काश्च पतद्ग्रहवत्यः ॥१७८॥कर्पूरादिसुवासितशीतंभृङारेण सलिलमुपनीतम् ।कृत्वा प्रियमिथुनेन निपीतंस्वं विदधुः काश्चन सुप्रीतम् ॥१७९॥आपुः काश्चन कण्ठगमालाःस्वाभरणानि च का अपि बालाः ।वरताम्बूलसुवीटकमन्याश्चर्वितमेव तु काश्चन धन्याः ॥१८०॥एकाः स्निग्धालिङ्गनमापुःकरधृत्यैव काश्च पर्यापुः ।काश्चन कर्णकथाभिर्मुदिताःकाश्चित्क्वचन श्लाघनमहिताः ॥१८१॥अथ सुरतोत्सुकरामावृन्दंदुर्धरकामार्तिभिरत्यन्धम् ।दृष्ट्वात्युत्कटभावविकारंराधा निजपतिमवददुदारम् ॥१८२॥अबलाः प्रिय विषमस्मरबाधास्तां तु न दित्सेत्त्रुटिमपि राधा ।तच्छृणु कथयाम्येकमुपायंरमयसि येन युवतिसमुदायम् ॥१८३॥कान्त कदाचिन्मम संकल्पःसमभूदकृतविचारोऽनल्पः ।बहुरूपं त्वां रमयितुमुरुभिर्बहुभी रूपैर्बहुविधरतिभिः ॥१८४॥अत्युत्कण्ठाभरभावनतस्त्वन्मद्रूपस्तोमोदयतः ।केलय उरुवैदग्ध्या विहितामानसपूर्तिः काप्यत उदिताः ॥१८५॥प्रियसखि किं नु करोषीत्युक्त्वागात्रे मम करघातं कृत्वा ।सख्या भग्नसमाधिर्नयनेउन्मील्याहसमखिलाकलने ॥१८६॥सम्प्रत्यपि च मुहूर्तं ध्यात्वाकुर्वे बहुरूपं रसयित्वा ।रूपैस्तैरभिरूपैर्नागरगोकुलयुवतिगणैस्त्वं विहर ॥१८७॥शैशव इष्टयोगमायादान्मम सङ्कल्पसिद्धिमतिरसदा ।त्वमनन्यानुरागपतिरभवस्तदस्तु सुखसीमानुभवः ॥१८८॥अथ चित्रेक्षणकुतुकिनि रमणेस्मयवति चाथ रहस्यालिगणे ।किञ्चित्स्मितरुचि मोहनवदनंदध्यौ राधा मुकुलितनयनम् ॥१८९॥प्रकटाः प्रियतममूर्तीर्मधुरादृष्टा लोभादतिकामधुरा ।कृत्वा स्वमपि च सा तावन्तंव्यसृजच्चुम्बितपरिरब्धं तम् ॥१९०॥अथ कलितप्रियपाणिसरोजाराधातीवविवृद्धमनोजा ।मञ्जुलकुञ्जविलोकनकपटाद्गहनवनं सहसैव प्रविष्टा ॥१९१॥स बहुरूपहरिररमत ताभिःप्रथमोज्ज्वलरसरभसयुताभिः ।रसिकशिरोमणिरतिरसिकाभिर्मधुरिमराशिरधिकमधुराभिः ॥१९२॥प्रथमसमागमह्रीभयवलितादूरात्तूष्णीमास्थितविनताः ।काश्चन निन्ये शयनमुदारःसानुनयं कृतबाहुप्रसारः ॥१९३॥किमपि करोमि न ते भज शयनंस्वजने किमिदमहो सङ्कुचनम् ।पायय किमपि वचोऽमृतमतुलंस्वीकुरु गन्धमाल्यताम्बुलम् ॥१९४॥कामपि धन्यामित्यनुनीयस्मितरुचिरुचिरां सहसानीय ।शयनं नेति सगद्गदवचनाम्अलमाश्लिष्याचुम्बत्प्रमनाः ॥१९५॥निद्राव्याजविमुद्रितनयानंवदनं चुम्बितमन्याः शयनम् ।प्राप्ताः स्वस्य हसन्नुरुपुलकःपर्यरभत नवनागरतिलकः ॥१९६॥नेतिवचनरचना अपि चान्याःकरकमले धृतवानतिधन्याः ।आनीयाङ्कमसौ कुसुमालीम्अरचयदलकचये वनमाली ॥१९७॥काश्चन हारलतार्पणकपटाद्उन्मदकरमृदितस्तनसुघटाः ।सुखमपि दुःखमिवाभिनयन्तीर्वीक्ष्य हरिः स जहास लसन्तीः ॥१९८॥कुचमुकुलादौ कृतनखलिखनःपीताधरदलकृतरददलनः ।तासामुत्तम्भितपुरुमदनःस हरिरखेलच्चुम्बितवदनः ॥१९९॥सहसा नीवीबन्धनमिलितंसम्भ्रमयुतयुवतीकरविधृतम् ।अतिदुर्धरमदनात्युत्तरालंतदतिविरेजे हरिकरकमलम् ॥२००॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP