नारायणीय - भाग १
"नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते.
१-१-१-१ सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां
१-१-१-२ निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानं ।
१-१-१-३ अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्त्वं
१-१-१-४ तत्तावद्भाति साक्षाद्गुरुपवनपुरे हन्त भाग्यं जनानां ॥
१-१-२-१ एवं दुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्
१-१-२-२ तन्वा वाचा धिया वा भजति बत जनः क्षुद्रतैव स्फुटेयं ।
१-१-२-३ एते तावद्वयं तु स्थिरतरमनसा विश्वपीडापहत्यै
१-१-२-४ निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयामः ॥
१-१-३-१ सत्त्वं यत्तत्पुराभ्यामपरिकलनतो मिर्मलं तेन तावद्
१-१-३-२ भूतैर्भूतेनिद्रयैस्ते वपुरिति बहुशः श्रूयते व्यासवाक्यं ।
१-१-३-३ तत्स्वच्छत्वाद्यदच्छादितपरसुखचिद्जर्भनिर्भासरूपं
१-१-३-४ तस्मिन्धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥
१-१-४-१ निष्कम्पे नित्यपूर्णे निरवधि परमानन्दपीयूषरूपे
१-१-४-२ निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।
१-१-४-३ कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा
१-१-४-४ कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन्! ॥
१-१-५-१ निर्व्यापारोऽपि निष्कारणमज! भजसे यत्क्रियामीक्षणाख्यां
१-१-५-२ तेनैवोदेति लीना प्रकृतिरसतिकल्पापि कल्पादिकाले ।
१-१-५-३ तस्याः संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं
१-१-५-४ स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ! वैकुण्टःअ! रूपं ॥
१-१-६-१ तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं
१-१-६-२ लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारं ।
१-१-६-३ लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दोहमन्तः
१-१-६-४ सिञ्चत्सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ! ॥
१-१-७-१ कष्ता ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजामित्येवं
१-१-७-२ पूर्वमालोचितमजित! मया नैवमद्याभिजाने ।
१-१-७-३ नो चेज्जीवाः कथं वा सधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं
१-१-७-४ नेत्रैः श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥
१-१-८-१ नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यार्थितानप्यर्थान्
१-१-८-२ कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च ।
१-१-८-३ इत्थं निश्शेषलभ्यो निरवधिकफलः पारिजातो हरे! त्वं
१-१-८-४ क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयं ॥
१-१-९-१ कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-
१-१-९-२ दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वं ।
१-१-९-३ त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतनाः स्फीतभाग्यास्त्वं
१-१-९-४ चात्मारां एवेत्यतुलगुणगणाधार! शौरे! नमस्ते ॥
१-१-१०-१ एश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां
१-१-१०-२ तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतं ।
१-१-१०-३ अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता
१-१-१०-४ तद्वातागारवासिन्! मुरहर! भगवच्छब्दमुख्याश्रयोऽसि ॥
१-२-१-१ सूर्यस्पर्धिकिरीटमूर्ध्वतिलकप्रोद्भासिफालान्तरं
१-२-१-२ कारुण्याकुलनेत्रमार्द्रहसितोल्लासं सुनासापुटं ।
१-२-१-३ गण्डोद्यन्मकराभकुण्डलयुगं कण्ठोज्ज्वलत्कौस्तुभं
१-२-१-४ त्वद्रूपं वनमाल्यहीरपटलश्रीवत्सदीप्रं भजे ॥
१-२-२-१ केयूराङ्गदकङ्कणोत्तममहारत्नाङ्गुलीयाङ्कितश्रीमद्बाहुचतुष्कसङ्गतगदाशङ्खारिपङ्केरुहां ।
१-२-२-२ काञ्चित्काञ्चिनकाञ्चिलाच्छितलसत्पीताम्बरालम्बिनीमालम्बे विमलाम्बुजद्युतिपदां मूर्तिं तवार्तिच्छिदं ॥
१-२-३-१ यत्त्रैलोक्यमहीयसोऽपि महितं सम्मोहनं मोहनात्
१-२-३-२ कान्तं कान्तिनिधानतोऽपि मधुरं माधुर्यधुर्यादपि ।
१-२-३-३ सौन्दर्योत्तरतोऽपि सुन्दरतरं त्वद्रूपमाश्चर्यतोऽप्याश्चर्यं
१-२-३-४ भुवने न कस्य कुतुकं पुष्णाति विष्णो! विभो! ॥
१-२-४-१ तत्तादृङ्मधुरात्मकं तव वपुः सम्प्राप्य सम्पन्मयी
१-२-४-२ सा देवी परमोत्सुका चिरतरं नास्ते स्वभक्तेष्वपि ।
१-२-४-३ तेनास्या बत कष्टमच्युत्! विभो! त्वद्रूपमानोज्ञकप्रेमस्थैर्यमयादचापलबलाच्चापल्यवार्तोदभूत् ॥
१-२-५-१ लक्ष्मीस्तावकरामणीयकहृतैवेयं परेष्वस्थिरेत्
१-२-५-२ यस्मिन्नन्यदपि प्रमाणमधुना वक्ष्यामि लक्ष्मीपते! ।
१-२-५-३ ये त्वद्ध्य्नगुणानुकीर्तनरसासक्ता हि भक्ता जनास्
१-२-५-४ तेष्वेषा वसति स्थिरैव दयितप्रस्तावदत्तादरा ॥
१-२-६-१ एवम्भूतमनोज्ञतानवसुधानिष्यन्दसन्दोहनं
१-२-६-२ त्वद्रूपं परचिद्रसायनमयं चेतोहरं शृण्वतां ।
१-२-६-३ सद्यः प्रेरयते मतिं मदयते र्ॐआञ्चयत्य्ङ्गकं
१-२-६-४ व्यासिञ्चत्यपि शीतबाष्पविसरैरानन्दमूर्च्छोद्भवैः ॥
१-२-७-१ एवम्भूततया हि भक्त्यभिहितो योगः स योगद्वयत्
१-२-७-२ कर्मज्ञानमयाद्भृशोत्तमतरो योगीश्वरैर्गीयते ।
१-२-७-३ सौन्दर्यैकरसात्मके त्वयि खलु प्रेमप्रकर्षात्मिका
१-२-७-४ भक्तिर्निःश्रममेव विश्वपुरुषैर्लभ्या रमावल्लम्! ॥
१-२-८-१ निष्कामं नियतस्वधर्मचरणं यत्कर्मयोगाभिधं
१-२-८-२ तद्दूरेत्यफलं यदौपनिषदज्ञानोपलभ्यं पुनः ।
१-२-८-३ तत्त्वव्यक्ततया सुदुर्गमतरं चित्तस्य तस्माद्विभो!
१-२-८-४ त्वत्प्रेमात्मकभक्तिरेव सततं स्वदीयसी श्रेयसी ॥
१-२-९-१ अत्यायासकराणि कर्मपटलान्याचर्य निर्यन्मला
१-२-९-२ बोधे भक्तिपथेऽथवाप्युविततामायान्ति किं तावता ।
१-२-९-३ क्लिष्ट्वा तर्कपथे परं तव वपुर्ब्रह्माख्यमन्ये पुनश्
१-२-९-४ चित्तार्द्रत्वमृते विचिन्त्य बहुभिः सिध्यन्ति जन्मान्तरैः ॥
१-२-१०-१ त्वद्भक्तिस्तु कथारसामृतज्ञरीनिर्मज्जनेन स्वयं
१-२-१०-२ सिध्यन्ति विमलप्रषोधपदवीमक्लेशतस्तन्वती ।
१-२-१०-३ सद्यः सिद्धिकरी जयत्ययि विभो! सैवास्तु मे त्वत्पद-
१-२-१०-४ प्रेमप्रौढिरसार्द्रता द्रुततरं वातालयाधीश्वर! ॥
१-३-१-१ पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः
१-३-१-२ स्मरन्तो रूपं ते वरद! कठयन्तो गुणकठाः ।
१-३-१-३ चरन्तो ये भक्तास्त्वपि खलु रमन्ते परममु-
१-३-१-४ नहं धन्यान्मन्ये समधिगतसर्वाभिलषितान् ॥
१-३-२-१ गदक्लिष्टं कष्टं तव चरणसेवारसभरे-
१-३-२-२ऽप्यनासक्तं चित्तं भवति बत विष्णो! कुरु दयां ।
१-३-२-३ भवत्पादाम्भोजस्मरणरसिको नामनिवहा-
१-३-२-४ नहं गायंगायं कुहचन विवत्स्यामि विजने ॥
१-३-३-१ कृपा ते जाता चेत्किमिव न हि लभ्यं तनुभृतां
१-३-३-२ मदीयक्लेशौघप्रशमनदशा नाम कियती ।
१-३-३-३ न के के लोकेऽस्मिन्ननिशमयि शोकाभिरहिता
१-३-३-४ भवद्भक्ता मुक्ताः सुखगतिमसक्ता विदधते ॥
१-३-४-१ मुनिप्रौढा रूढा जगति खलु गूढात्मगतयो
१-३-४-२ भवत्पादाम्भोजस्मरणविरुजो नारद्मुखाः ।
१-३-४-३ चरन्तीश्! स्वैरं सततपरिनिर्भातपरचित्-
१-३-४-४ सदानन्दाद्वैतप्रसरपरिमग्नाः किमपरं ॥
१-३-५-१ भवद्भक्तिः स्फीता भवतु मम सैव प्रशमये-
१-३-५-२ दशेषक्लेशौघं न खलु हृदि सन्देहकणिका ।
१-३-५-३ न चेद्व्यासस्योक्तिस्तव च वचनं नैगमवचो
१-३-५-४ भवेन्मिथ्या रथ्यापुरुषवचनप्रायमखिलं ॥
१-३-६-१ भवद्भक्तिस्तावत्प्रमुखमधुरा त्वाद्गुणरसात्
१-३-६-२ मिमप्यारूढा चेदखिलपरितापप्रशमनी ।
१-३-६-३ पूनश्चान्ते स्वान्ते विमलपरि बोधोदयमिलन्
१-३-६-४ महानन्दाद्वैतं दिशति किमतः प्रार्थ्यमपरं ॥
१-३-७-१ विधूय क्लेशान्मे कुरु चरणयुग्मं धृतरसं
१-३-७-२ भवत्क्षेत्रप्राप्तौ करमपि च ते पूजनविधौ ।
१-३-७-३ भवन्मूर्त्यालोके नयनमथ ते पादतुलसी-
१-३-७-४ परिघ्राणे घ्राणं श्रवणमपि ते चारुचरिते ॥
१-३-८-१ प्रभूताधिव्याधिप्रसभवलिते मामकहृदि
१-३-८-२ त्वदीयं तद्रूपं परमरसचिद्रूपमुदियात् ।
१-३-८-३ उदञ्चद्र्ॐआञ्चो गलितबहुहर्षाश्रूनिवहो
१-३-८-४ यथा विस्मर्यासं दुरुपशमपीडापरिभवन् ॥
१-३-९-१ मरुद्गेहाधीश्! त्वयि खलु पराञ्चोऽपि सुखिनो
१-३-९-२ भवत्स्नेही सोऽहं सुबहु परितप्ये च किमिदं ।
१-३-९-३ अकीर्तिस्ते मा भूद्वरद! गदभारं प्रशमयन्
१-३-९-४ भवत्भक्तोत्तंसं झटिति कुरु मां कंसदमन! ॥
१-३-१०-१ किमुक्तैर्भूयोभिस्तव हि करुणा यावदुदियादहं
१-३-१०-२ तावद्देव! प्रहितविविधार्तप्रलपितः ।
१-३-१०-३ पुरः क्लृप्ते पादे वरद! तव नेष्यामि दिवसान्
१-३-१०-४ यथाशक्ति व्यक्तं नतिनुतिनिषेवा विरचयन् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP