नारायणीय - भाग ७

"नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते.


७-२४-१-१ हिरण्याक्षे पोत्रिप्रवरवपुषा देव! भवता
७-२४-१-२ हते शोलक्रोधग्लपितघृतिरेतस्य सहजः ।
७-२४-१-३ हिरण्यप्रारम्भः कशिपुरमरारातिसदसि
७-२४-१-४ प्रतिज्ञामातेने तव किल वधार्थं मुररिपो! ॥
७-२४-२-१ विधातारं घोरं स खलु तपसित्वा नचिरतः
७-२४-२-२ पुरः साक्षात्कुर्वन्सुरनरमृगाद्यैरनिधनं ।
७-२४-२-३ वरं लब्ध्वा दृप्तो जगदिह भवन्नायकमिदं
७-२४-२-४ परिक्षुन्दन्निन्द्रादहरत दिवं त्वामगणयन् ॥
७-२४-३-१ निहन्तुं त्वां भूयस्तव पदमवाप्तस्य च रिपोर्-
७-२४-३-२ बहिर्दृष्टेरन्तर्दधिथ हृदये सूक्ष्मवपुषा ।
७-२४-३-३ नदन्नुच्चैस्तत्राप्यखिलभुवनान्ते च मृगयन्
७-२४-३-४ भिया यातं मत्वा स खलु जितकाशी निववृते ॥
७-२४-४-१ ततोऽस्य प्रह्लादः समजनि सुतो गर्भवसतौ
७-२४-४-२ मुनेर्वीणापाणेरधिगतभबद्भक्तिमहिमा ।
७-२४-४-३ स वै जात्या दैत्यः शिशुरपि समेत्य त्वयि रतिं
७-२४-४-४ गतस्त्वद्भक्तानां वरद! परमोदाहरणतां ॥
७-२४-५-१ सुरारीणां हास्यं तव चरणदास्यं निजसुते
७-२४-५-२ स दृष्ट्वा दिष्टात्मा गुरुभिरशिशिक्षच्चिरममुं ।
७-२४-५-३ गुरुप्रोक्तं चासाविदमिदमभद्राय दृढमि-
७-२४-५-४ त्यपाकुर्वन्सर्वं तव चरणभक्त्यैव ववृधे ॥
७-२४-६-१ अधीतेषु श्रेष्ठं किमिति परिपृष्टेऽथ तनये
७-२४-६-२ भवद्भक्तिं वर्यामभिगदति पर्याकुलधृतिः ।
७-२४-६-३ गुरुभ्यो रोषित्वा सहजमतिरस्योत्यभिविदन्
७-२४-६-४ वधिपायानस्मिन्व्यततुत्भवत्पादशरणे ॥
७-२४-७-१ स शूलैराविद्धः सुबहु मथितो दिग्गजगणैर्-
७-२४-७-२ महासर्पैर्दष्टोऽप्यनशनगराहारविधुतः ।
७-२४-७-३ गिरिन्द्रावक्षिप्तोऽप्यहह परमात्मन्नयि विभो!
७-२४-७-४ त्वयि न्यस्तात्मत्वात्किमपि न निपीडामभजत ॥
७-२४-८-१ ततः शङ्काविष्टः स पुनरतिदुष्टोऽस्य जनको
७-२४-८-२ गुरूक्त्या तद्गेह किल वरुणपाशैस्तमरुणत् ।
७-२४-८-३ गुरोश्चासान्निध्ये स पुनरनुगान्दैत्यतनयान्
७-२४-८-४ भवद्भक्तेस्तत्त्वं परमपि विज्ञानमशिषत् ॥
७-२४-९-१ पिता शृण्वन्बालप्रकरमखिलं त्वत्स्तुतिपरं
७-२४-९-२ रुषान्धः प्राहैनं कुलहतक! कस्ते बलमिति ।
७-२४-९-३ बलं मे वैकुण्ठस्तव च जगतां चापि स बलं
७-२४-९-४ स एव त्रैलोक्यं सकलमिति धीरोऽयमगदीत् ॥
७-२४-१०-१ अरे! क्वासौ क्वासौ सकलजगदात्मा हरिरिति
७-२४-१०-२ प्रभिन्ते स्म स्तम्भं चलितकरवालो दितिसुतः ।
७-२४-१०-३ अतः पश्चाद्विष्णो! न हि वदितुमीशोऽस्मि सहसा
७-२४-१०-४ कृपात्मन्! विश्वात्मन्! पवनपुरवासिन्! मृडय मां ॥
७-२५-१-१ स्तम्भे घट्टयतो हिरण्यकशिपोः कर्णौ समाचूर्णय-
७-२५-१-२ न्नाधूर्णज्जगदण्दकुण्डकुहरो घोरस्तवाभूद्रवः ।
७-२५-१-३ श्रुत्वा यं किल दैत्यराजहृदये पूर्वं कदाप्यश्रुतं
७-२५-१-४ कम्पः कश्चन सम्पपात्चलितोऽप्यम्भोजभूर्विष्टपात् ॥
७-२५-२-१ दैत्ये दिक्षु विसृष्टचक्षुषि महासंराम्भिणी स्तम्भतः
७-२५-२-२ सम्भूतं न मृगात्मकं न मनुजाकारं वपुस्ते विभो! ।
७-२५-२-३ किं किं भीषणमेतदद्भुतमिति व्युद्भ्रान्तचित्तेऽसुरे
७-२५-२-४ विस्फुर्जद्धवलोग्रर्ॐअविकसद्वर्ष्मा समाजृम्भथाः ॥
७-२५-३-१ तप्तस्वर्णसवर्णघूर्णदतिरूक्षाक्षं सटाकेसर-
७-२५-३-२ प्रोत्कम्पप्रनिकुम्बिताम्बरमहो जीयात्तवेदं वपुः ।
७-२५-३-३ व्यात्तव्याप्तमहादरीसखमुखं खड्गोग्रवल्गन्महा-
७-२५-३-४ जिह्वानिर्गमदृश्यमानसुमहादंष्ट्रायुगोड्डामरं ॥
७-२५-४-१ उत्सर्पद्वलिभङ्गभीषुणहनुं ह्वस्वस्थवीयस्तर-
७-२५-४-२ ग्रीवं पीवरदोश्शतोद्गतनखक्रूरांशुदूरोल्बणं ।
७-२५-४-३ व्य्ॐओल्लङ्घिघनाघनोपमघनप्रध्वाननिर्धावित-
७-२५-४-४ स्पर्धालुप्रकरं नमामि भवतस्तन्नारसिंहं वपुः ॥
७-२५-५-१ नूनः वुष्णुरयं निहन्म्यमुमिति भ्राम्यद्गदाभीषणं
७-२५-५-२ दैत्येन्द्रं समुपाद्रवन्तमधृथा दोर्भ्यां पृथुभ्यामम्मुं ।
७-२५-५-३ वीरो निर्गलितोऽथ खड्गफलके गृह्णन्विचित्रश्रमान्
७-२५-५-४ व्यावृण्वन्पुनरापपात भुवनग्रासोद्यतं त्वामहो ॥
७-२५-६-१ भ्राम्यन्तं दितिहाधमं पुनरपि प्रोद्गृह्य दोर्भ्यां जवाद्
७-२५-६-२ द्वारेऽथोरुयुगे निपात्य नखरान्व्युत्न्खाय वक्षोभुवि ।
७-२५-६-३ निर्भिन्दन्नधिगर्भनिर्भरगलद्रक्ताम्बु बद्धोत्सवं
७-२५-६-४ पायं पायमुदैरयो बहुजगत्संहारिसिंहारवान् ॥
७-२५-७-१ त्यक्त्वा तं हतमाशु रक्तलहरीसिक्तोन्नमद्वर्ष्मणि
७-२५-७-२ प्रत्युत्पत्य समस्तदैत्यपटलीं चाखाद्यमाने त्वयि ।
७-२५-७-३ भ्राम्यद्भूमि विकम्पिताम्बुधिकुलं व्यालोलशैलोत्करं
७-२५-७-४ प्रोत्सर्पत्खचरं चराचरमहो दुःस्थामवस्थां दधौ ॥
७-२५-८-१ तावन्मांसवपाकरालवपुषं घोरान्त्रमालाधरं
७-२५-८-२ त्वां मध्येसभमिद्धरोषमुषितं दुर्वारगुर्वारवं ।
७-२५-८-३ अभ्येतुं न शशक कोऽपि भुवने दूरे स्थिता भीरवः
७-२५-८-४ सर्वे शर्वविरिञ्चवासवमुखाः प्रत्येकमस्तोषत ॥
७-२५-९-१ भूयोऽप्यक्षतरोषधाम्नि भवति ब्रह्माज्ञया बालके
७-२५-९-२ प्रह्लादे पदयोर्नमत्यपभये कारुण्यभाराकुलः ।
७-२५-९-३ शान्तस्त्वं करमस्य मूर्ध्नि समधाः स्तोत्रैरथोद्नायत-
७-२५-९-४ स्तस्याकामधियोऽपि तेनिथ वरं लोकाय चानुग्रहं ॥
७-२५-१०-१ एवं नाटितरौद्रचेष्टित! विभो! श्रीतापनीयाभिध-
७-२५-१०-२ श्रुत्यन्तस्फुटगीतसर्वमहिमन्नत्यन्तशुद्धाकृते! ।
७-२५-१०-३ तत्तादृङ्निखिलोत्तरं पुनरहो कस्त्वां परो लङ्घयेत्
७-२५-१०-४ प्रह्लादप्रिय! हे मरुत्पुरपते! सर्वामयात्पाहि मां ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP