नारायणीय - भाग ३
"नारायणीय" काव्याचे कवी नारायण भट्ट संस्कृत भाषेतील एक प्रकांड पंडित, प्रतिभाशाली कवी होते.
३-८-१-१ एवं तावत्प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा ।
३-८-१-२ ब्रह्मा भूयस्त्वत्त एवाप्य वेदान्सृष्टिं चक्रे पूर्वकल्पोपमानां ॥
३-८-२-१ सोऽयं चतुर्युगसहस्रमितान्यहानि
३-८-२-२ तावन्मिताश्च रजनीर्बहुशो निनाय ।
३-८-२-३ निद्रात्यसौ त्वयि निलीय समं स्वसृष्टैर्
३-८-२-४ नैमित्तिकप्रलयमाहुरतोऽस्य रात्रिं ॥
३-८-३-१ अस्मादृशां पुनरहर्मुखकृत्यतुल्यां
३-८-३-२ सृष्टिं करोत्यनुदिनं स भवत्प्रसादात् ।
३-८-३-३ प्राग्ब्राह्मकल्पजनुषां च परायुषां तु
३-८-३-४ सुप्तप्रबोधनसमास्ति तदा विसृष्टिः ॥
३-८-४-१ पञ्चाशदब्दमधुना स्ववयोर्धरूपम्
३-८-४-२ एकं परार्धमतिवृत्य हि वर्ततेऽसौ ।
३-८-४-३ तत्रान्त्यरात्रिजनितान्कथयामि भूमन्!
३-८-४-४ पश्चाद्दिनावतरणे च भवद्विलासान् ॥
३-८-५-१ दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये ।
३-८-५-२ जगन्ति च त्वज्जठरं समीयुस्तदेदमेकार्णवमास विश्वं ॥
३-८-६-१ तवैव वेषे फणिराजि शेषे जलैकशेषे भुवने स्म शेषे ।
३-८-६-२ आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥
३-८-७-१ कालाख्यशक्तिं प्रलयावसाने प्रबोधयेत्यादिशता किलादौ ।
३-८-७-२ त्वया प्रसुप्तं परिसुप्तशक्तिव्रजेन तत्राखिलजीवधाम्ना ॥
३-८-८-१ चतुर्युगाणां च सहस्रमेवं त्वयि प्रसुप्ते पुनरद्वितीये ।
३-८-८-२ कालाख्यशक्तिः प्रथमप्रबुद्धा प्रावोधयत्त्वां किल विश्वनाथ ॥
३-८-९-१ विबुध्य च त्वं जलगर्भशायिन्! विलोक्य लोकानखिलान्प्रलीनान् ।
३-८-९-२ तेष्वेव सूक्ष्मात्मतया निजान्तः स्थितेषु विश्वेषु ददाथ दृष्टिं ॥
३-८-१०-१ ततस्त्वदीयादयि! नाभिरन्ध्रादुदञ्चितं किञ्चन दिव्यपद्मं ।
३-८-१०-२ निलीननिश्शेषपदार्थमालासङ्क्षेपरूपं मुकुलायमानं ॥
३-८-११-१ तदेतदम्भोरुहकुड्मलं ते कलेबरात्तोयपथे प्ररूडःअं ।
३-८-११-२ बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥
३-८-१२-१ संफुल्लपत्रे नितरां विचित्रे तस्मिन्भवद्वीर्यधृते सरोजे ।
३-८-१२-२ स पद्मजन्मा विधिराविरासीत्स्वयंप्रबुद्धाखिलवेदराशिः ॥
३-८-१३-१ अस्मिन्परात्मन्! ननु पाद्मकल्पे त्वमित्थमुत्थापितपद्मयोनिः ।
३-८-१३-२ अनन्तभुमा मम रोगराशिं निरुन्धि वातालयवास्! विष्णो! ॥
३-९-१-१ स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे
३-९-१-२ कुतः स्विदिदमम्बुधावुदितमित्यनालोकायन् ।
३-९-१-३ तदीक्षणकुतूहलात्प्रतिदिशं विवृत्ताननश्
३-९-१-४ चतुर्वदनतामगाद्विकसदष्टदृष्ट्यम्बुजां ॥
३-९-२-१ महार्णवविघूर्ण्तं कमलमेव तत्केवलं
३-९-२-२ विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
३-९-२-३ क एष कमलोदरे महति निस्सहायो ह्यहं
३-९-२-४ कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥
३-९-३-१ अमुष्य हि सरोरुहः किमपि कारणं सम्भवेद्
३-९-३-२ इतिस्म कृतनिश्चयः स खलु नालरन्ध्राध्वना ।
३-९-३-३ सयोगबलविद्यया समवरूढवान्प्रौढधीस्
३-९-३-४ त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ॥
३-९-४-१ ततः सकलनालिकाविवरमार्गगो मार्गयन्
३-९-४-२ प्रय्स्य शतवत्सरं किमपि नैव सन्दृष्टवान् ।
३-९-४-३ निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
३-९-४-४ समाधिबलमादधे भवदनुग्रहैकाग्रही ॥
३-९-५-१ शतेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्
३-९-५-२ प्रबोधविश्दीकृतः स खलु पद्मिनीसम्भवः ।
३-९-५-३ अदृष्टचरमद्भुतं तव हि रूपमन्तर्दृशा
३-९-५-४ व्यचष्ट परितुष्टधीर्भुजगभोगभागाश्रयं ॥
३-९-६-१ किरीटमकृटोल्लसत्कटकहारकेयूरयुग्
३-९-६-२ मणिस्फुरितमेखलं सुपरिवीतपीताम्बरं ।
३-९-६-३ कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं
३-९-६-४ वपुस्तदयि! भावये कमलजन्मने दर्शितं ॥
३-९-७-१ श्रुतिप्रकरदर्शितप्रचुरवैभव! श्रीपते!
३-९-७-२ हरे! जय जय प्रभो! पदमुपैषि दिष्ट्या दृशोः ।
३-९-७-३ कुरुष्व धियमाशु मे भुवननिर्मितौ कर्मठाम्
३-९-७-४ इति द्रुहिणवर्णितस्वगुणबंहिमा पाहि मां ॥
३-९-८-१ लभस्व भुवनत्रयीरचनदक्षतामक्षतां
३-९-८-२ गृहाण मदनुग्रहं कुरु तपश्च भूयो विधे! ।
३-९-८-३ भवत्वखिलसाधनी मयि च भक्तिरत्युत्कटे-
३-९-८-४ त्युदीर्य गिरमादधा मुदितचेतसं वेधसं ॥
३-९-९-१ शतं कृततपास्ततः स खलु दिव्यसंवत्सरा-
३-९-९-२ नवाप्य च तपोबलं मतिबलं च पूर्वाधिकं ।
३-९-९-३ उदीक्ष्य किल कम्पितं पयसि पङ्कजं वायुना
३-९-९-४ भवत्बलविजृम्भितः पवनपाथसी पीतवान् ॥
३-९-१०-१ तवैव कृपया पुनः सरसिजेन तेनैव स
३-९-१०-२ प्रकल्प्य भुवनत्रयीं प्रववृते प्रजानिर्मितौ ।
३-९-१०-३ तथाविधकृपाभरो गुरुमरुत्पुराधीश्वर!
३-९-१०-४ त्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॥
३-१०-१-१ वैकुण्टःअ! वर्धितबलोऽथ भवत्प्रसादा-
३-१०-१-२ दम्भोजयोनिरसृजत्किल जीवदेहान् ।
३-१०-१-३ स्थास्नूनि भूरुहमयानि तथा तिरश्चां
३-१०-१-४ जातीर्मनुष्यनिवहानपि देवभेदान् ॥
३-१०-२-१ मिथ्याग्रहास्मिमतिरागविकोपभीतिर्
३-१०-२-२ अज्ञानवृत्तिमिति पञ्चविधां स सृष्ट्वा ।
३-१०-२-३ उद्दामतामसपदार्थविधानदूनस्
३-१०-२-४ तेने त्वदीयचरणस्मरणं विशुद्ध्यै ॥
३-१०-३-१ तावत्ससर्ज मनसा सनकं सनन्दं
३-१०-३-२ भूयं सनातनमुनिं च सनत्कुमारं ।
३-१०-३-३ ते सृष्टिकर्मणि तु तेन नियुज्यमानास्
३-१०-३-४ त्वत्पादभक्तिरसिका जगृहुर्न वाणीं ॥
३-१०-४-१ तावत्प्रकोपमुदितं प्रतिरुन्धतोऽस्य
३-१०-४-२ भ्रूमध्यतोऽजनि मृडो भवदेकदेशः ।
३-१०-४-३ नामानि मे कुरु पदानि च हा विरिञ्चेत्
३-१०-४-४ यदौ रुरोद्किल तेन स रुद्रनामा ॥
३-१०-५-१ एकादशाह्वयतया च विभिन्नरूपं
३-१०-५-२ रुद्रं विधाय दयिता वनिताश्च दत्त्वा ।
३-१०-५-३ तावन्त्यदत्त च पदानि भवत्प्रणुन्नः
३-१०-५-४ प्राह प्रजाविरचनाय च सदारं तं ॥
३-१०-६-१ रुद्राभिसृष्तभयदाकृतिरुद्रसङ्घ-
३-१०-६-२ संपूर्यमाणाभुवनत्रयभीतचेताः ।
३-१०-६-३ मा मा प्रजाः सृज तपश्चर मङ्गलायेत्
३-१०-६-४ याचष्ट तं कमलभूर्भवदीरितात्मा ॥
३-१०-७-१ तस्याथ सर्गरसिकस्य मरीचिरत्रिस्
३-१०-७-२ तत्राङ्गिराः क्रतुमिनिः पुलहः पुलस्त्यः ।
३-१०-७-३ अङ्गादजयत भृगुश्च वसिष्ठदक्षौ
३-१०-७-४ श्रीनारदश्च भगवान्भवदङ्घ्रिदासः ॥
३-१०-८-१ धर्मादिकानभ्सृजन्नथ कर्दमं च
३-१०-८-२ वाणीं विधाय विधिरङ्गजसङ्कुलोऽभूत् ।
३-१०-८-३ त्वद्बोधितैः सनकदक्षमुखैस्तनूजैर्
३-१०-८-४ उद्बोधितश्च विरराम तमो विमुञ्चन् ॥
३-१०-९-१ देवान्पुराणनिवहानपि सर्वविद्याः
३-१०-९-२ कुर्वन्निजाननगणाच्चतुराननोऽसौ ।
३-१०-९-३ पुत्रेषु तेषु विनिधाय स सर्गवृद्धिम्
३-१०-९-४ अप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥
३-१०-१०-१ जानन्नुपायमथ देहमजो विभज्य
३-१०-१०-२ स्त्रीपुंसभावमभजन्मनुतद्वधूभ्यां ।
३-१०-१०-३ ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
३-१०-१०-४ गोविन्द! मारुतपुराधिप! रुन्धि रोगान् ॥
३-११-१-१ क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते ।
३-११-१-२ भवद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश! ॥
३-११-२-१ मनोज्ञनैः श्रेयसकाननाद्यैरनेकवापमिणिमन्दिरैश्च ।
३-११-२-२ अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥
३-११-३-१ भवद्दिदृक्षून्भवनं विविक्षून्द्वाःस्थौ जयस्तान्विजयोऽप्यरुन्धां ।
३-११-३-२ तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ॥
३-११-४-१ वैकुण्ठलोकानुचितप्रचेष्तौ कष्टौ युवां दैत्यगतिं भजेतं ।
३-११-४-२ इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिर्नोऽस्त्विति नेमतुस्तान् ॥
३-११-५-१ तेदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष! ।
३-११-५-२ खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तीनभिराममूर्त्या ॥
३-११-६-१ प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ ।
३-११-६-२ संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपां न्यगादीः ॥
३-११-७-१ त्वदीयभृत्यौ किल काश्यपात्तौ सुरारिवीरावुदितौ दितौ द्वौ ।
३-११-७-२ सन्ध्यासमुत्पादनकष्टचेष्तौ यमौ च लोकस्य यमाविवायौ ॥
३-११-८-१ हिरण्यपूर्वः कशिपुः किलैकः पुरो हिरण्याक्ष इति प्रतीतः ।
३-११-८-२ उभौ भवन्नाथमशेषलोकं रुषा न्यरुन्धां निजवासनान्धौ ॥
३-११-९-१ तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी ।
३-११-९-२ भवत्प्रियां क्ष्मां सलिले निमज्ज्य चचार गर्वाद्विनदन्गदावान् ॥
३-११-१०-१ ततो जलेशात्सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वां ।
३-११-१०-२ भक्तैकदृश्यः स कृपानिधे! त्वं निरुन्धि रोगान्मरुदालयेश! ॥
३-१२-१-१ स्वायम्भुवो मनुरथो जनसर्गशीलो
३-१२-१-२ दृष्ट्वा महीमसमये सलिले निमघ्नां ।ष्
३-१२-१-३ स्रष्टारमाप शरणं भवदङ्घ्रिसेवा-
३-१२-१-४ तुष्टाशयं मुनिजनैः सह सत्यलोके ॥
३-१२-२-१ कष्टं प्रजाः सृजति मय्यवनी निमग्ना
३-१२-२-२ स्थानं सरोजभव! कल्पय तत्प्रजानां ।
३-१२-२-३ इत्येवमेष कथितो मनुनि स्वयम्भू-
३-१२-२-४ रम्भोरुहाक्ष! तव पादयुगं व्यचिन्तीत् ॥
३-१२-३-१ हा हा विभो! जलमहं न्यपिबं पुरस्ताद्
३-१२-३-२ अद्यापि मज्जति मही किमहं कर्ॐइ ।
३-१२-३-३ इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य
३-१२-३-४ नासापुटात्समभवः शिशुकोलरूपी ॥
३-१२-४-१ अङ्गुष्टःअमात्रवपुरुत्पतितः पुरस्ताद्
३-१२-४-२ भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वं ।
३-१२-४-३ अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चैर्
३-१२-४-४ विस्मेरतां विधिरगात्सह सूनुभिः स्वैः ॥
३-१२-५-१ कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे
३-१२-५-२ घोणापुटात्किमु भवेदजितस्य माया ।
३-१२-५-३ इत्थं विचिन्तयति धातरिशैलमात्रः
३-१२-५-४ सद्यो भवन्किल जगर्जिथ घोरघोरं ॥
३-१२-६-१ तं ते निनादमुपकर्ण्य जनस्तपःस्थाः
३-१२-६-२ सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तं ।
३-१२-६-३ तत्स्तोत्रहर्षुलमनाः परिणद्य भूयस्
३-१२-६-४ तोयाशयं विपुलमूर्तिरवातरस्त्वं ॥
३-१२-७-१ ऊर्ध्वप्रसारिपरिधूम्राविधूतर्ॐआ
३-१२-७-२ प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः ।
३-१२-७-३ तूर्णप्रदीर्णजलदः परिघूर्णदक्ष्णा
३-१२-७-४ स्तोत्न्मुनीच्छिशिरयन्नवतेरिथ त्वं ॥
३-१२-८-१ अन्तर्जलं तदनु सङ्कुलनक्रचक्रं
३-१२-८-२ भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालं ।
३-१२-८-३ आविश्य भीषणरवेण रसातलस्था-
३-१२-८-४ नाकम्पयन्वसुमतीमगवेषयस्त्वं ॥
३-१२-९-१ दृष्ट्वाथ दैत्यहतकेन रसातलान्ते
३-१२-९-२ संवेशितां झटिति कूटकिटिर्विभो! त्वं ।
३-१२-९-३ आपातुकानविगणय्य सुरारिखेटान्
३-१२-९-४ दंष्ट्राङ्कुरेण वसुधामदधाः सलीलं ॥
३-१२-१०-१ अभ्युद्धरन्नथ धरां दशनाग्रलग्न-
३-१२-१०-२ मुस्ताङ्कुराङ्कित इवाधिकपीवरात्मा ।
३-१२-१०-३ उद्धातघोरसलिलाज्जलधेरुदञ्चन्
३-१२-१०-४ क्तीडावराहवपुरीश्वर! पाहि रोगात् ॥
३-१३-१-१ हिरण्याक्षं तावद्वरद! भवदन्वेषणपरं
३-१३-१-२ चरन्तं सांवर्ते पयसि निजजङ्घापरिमिते ।
३-१३-१-३ भवद्भुक्तो गत्वा कपटपटुधीर्नारदमुनिः
३-१३-१-४ शनैरूचे नन्दन्दनुजमपि निन्दंस्तव बलं ॥
३-१३-२-१ स मायावी विष्णुर्हरति भवदीयं वसुमतीं
३-१३-२-२ प्रभो! कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
३-१३-२-३ नदन्क्वासौ क्वासाविति स मुनिना दर्शितप्थो
३-१३-२-४ भवन्तं संप्रापद्धरणिधरमुद्यन्तमुदकात् ॥
३-१३-३-१ अहो आरण्योऽयं मृग इति हसन्तं बहुतरैर्
३-१३-३-२ दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन्! ।
३-१३-३-३ महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा
३-१३-३-४ पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥
३-१३-४-१ गदापाणौ दैत्ये त्वमपि हि गृहीतोन्नतगदो
३-१३-४-२ नियुद्धेन क्रीडन्घटघटरवोद्घुष्टवियता ।
३-१३-४-३ रणालोकैत्सुक्यान्मिलति सुरसङ्घे द्रुतममुं
३-१३-४-४ निरुन्ध्याः सन्ध्यातः प्रथममिति धात्रा जगदिषे ॥
३-१३-५-१ गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो
३-१३-५-२ गदाघाताद्भूमौ झटिति पतितायामहह भोः! ।
३-१३-५-३ मृदुस्मेरास्यस्त्वं दनुजकुलनिर्मूलनचणं
३-१३-५-४ महाचक्रं स्मृत्वा करभुवि दधानो रुरुचिषे ॥
३-१३-६-१ ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
३-१३-६-२ त्वयिच्छिन्दत्येनत्करकलितचक्रप्रहरणात् ।
३-१३-६-३ समारुष्टो मुष्ट्या स खलु वितुदंस्त्वां समतमोद्
३-१३-६-४ गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥
३-१३-७-१ भवच्चक्रज्योतिष्कणलवनिपातेन विधुते
३-१३-७-२ ततो मायाचक्रे विततघनरोषान्धमनसं ।
३-१३-७-३ गरिष्ठाभिर्मुष्टिप्रहृतिभिरभिघ्नन्तमसुरं
३-१३-७-४ कराग्रेण स्वेन श्रवणपदमूले निरवधीः ॥
३-१३-८-१ महाकायः सोऽयं तव करसरोजप्रमथितो
३-१३-८-२ गलद्रक्तो वक्त्रादपतदृषिभिः श्लाघितहतिः ।
३-१३-८-३ तदा त्वामुदामप्रमदभरविद्योतिहृदया
३-१३-८-४ मुनीन्द्राः सान्द्राभिः स्तुतिभिरनुवन्नध्वरतनं ॥
३-१३-९-१ त्वचि च्छन्दो र्ॐअस्वपि कुशगणश्चक्षुषि घृतं
३-१३-९-२ चतुर्होतारोऽङ्घ्रौ स्रुगपि वदने चोदर इडा ।
३-१३-९-३ ग्रहा जिह्वायां ते परपुरुष! कर्णे च चमसा
३-१३-९-४ विभो! स्ॐओ वीर्यं वरद! गलदेशेऽप्युपसन्दः ॥
३-१३-१०-१ मुनीन्द्रैरित्यादिस्तवनमुखरैर्मोदितमना
३-१३-१०-२ महीयस्या मूर्त्या विमलतरकीर्त्या च विलसन् ।
३-१३-१०-३ स्वधिष्ण्यं संप्राप्तः सुखरसविहारी मधुरिपो!
३-१३-१०-४ निरुन्ध्या रोगं मे सकलमपि वातालयपते! ॥
३-१४-१-१ समनुस्मृततावकाङ्घ्रियुग्मः स मनुः पङ्कजसम्भवाङ्गजन्मा ।
३-१४-१-२ निजमन्तरमन्तरायहीनं चरितं ते कथयन्सुखं निनाय ॥
३-१४-२-१ समये खलु तत्र कर्दमाख्यो द्रुहिणच्छायभवस्तदीयवाचा ।
३-१४-२-२ घृतसर्गरसो निसर्गरम्यं भगवंस्त्वामयुतं समाः सिषेवे ॥
३-१४-३-१ गरुडोपरि कालमेघकम्रं विलसत्केलिसरोजपाणिपद्मं ।
३-१४-३-२ हसितोल्लसिताननं विभो! त्वं वपुराविष्कुरुषे स्म कर्दमाय ॥
३-१४-४-१ स्तुवते पुलकावृताय तस्मै मनुपुत्रीं दयितां नवापि पुत्रीः ।
३-१४-४-२ कपिलं च सुतं स्वमेव पश्चात्स्वगतिं चाप्यनुगृह्य निर्गतोऽभूः ॥
३-१४-५-१ स मनुः शतरूपया महिष्या गुणवत्या सुतया च देवहूत्या ।
३-१४-५-२ भवदीरितनारदोपदिष्टः समगात्कर्दममागतिप्रतीक्षं ॥
३-१४-६-१ मनुनोपहृतां च देवहूतिं तरुणीरत्नमवाप्य कर्दमोऽसौ ।
३-१४-६-२ भवदर्चननिर्वृतोऽपि तस्यां दृढशुश्रूषणया दधौ प्रसादं ॥
३-१४-७-१ सपुनस्त्वदुपासनप्रभावाद्दयिताकामकृते कृते विमाने ।
३-१४-७-२ वनिताकुलसङ्कुले नवात्मा व्यहरद्देवपथेषु देवहूत्या ॥
३-१४-८-१ शतवर्षमथ व्यतीत्य सोऽयं नव कन्याः समवाप्य धन्यरूपाः ।
३-१४-८-२ वनयानसमुद्यतोऽपि कान्ताहितकृत्त्वज्जननोत्सुको न्यवात्सीत् ॥
३-१४-९-१ निजभर्तृगिरा भवन्निषेवानिरतायामथ देव! देवहूत्यां ।
३-१४-९-२ कपिलस्त्वमजायथा जनानां प्रथयिष्यन्परमात्मतत्त्वविद्यां ॥
३-१४-१०-१ वनमेयुषि कर्दमे प्रसन्ने मतसर्वस्वमुपादिशञ्जनन्यै ।
३-१४-१०-२ कपिलात्मक! वायुमदिरेश्! त्वरितं त्वं परिपाहि मां गदौघात् ॥
३-१५-१-१ मतिरिह गुणसक्ता बन्धकृत्तेष्वसक्ता
३-१५-१-२ त्वमृतकृदुपरुन्धे भक्तियोगस्तु सक्तिं ।
३-१५-१-३ महदनुगमलभ्या भक्तिरेवात्र साध्या
३-१५-१-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
३-१५-२-१ प्रकृतिमहदहङ्काराश्च मात्राश्च भूतान्यपि
३-१५-२-२ हृदपि दशाक्षी पूरुषः पञ्चविंशः ।
३-१५-२-३ इति विदितविभागो मुच्यतेऽसौ प्रकृत्यां
३-१५-२-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
३-१५-३-१ प्रकृतिगतगुणौघैर्नाज्यते पूरुषोऽयं
३-१५-३-२ यदि तु सजति तस्यां तद्गुणास्तं भजेरन् ।
३-१५-३-३ मदनुभजनतत्त्वालोचनैः साप्यपेयात्
३-१५-३-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
३-१५-४-१ विमलमतिरुपात्तैरासनाद्यैर्मदङ्गं
३-१५-४-२ गुरुडसमधिरूढं दिव्यभूषायुधाङ्कं ।
३-१५-४-३ रुचितुलिततमालं शीलयेतानुवेलं
३-१५-४-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
३-१५-५-१ मम गुणगुणलीलाकर्णनैः कीर्तिनाद्यैर्
३-१५-५-२ मयि सुरसरिदोघप्रख्यचित्तानुवृत्तिः ।
३-१५-५-३ भवति परमभक्तिः सा हि मृत्योर्विजेत्री
३-१५-५-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
३-१५-६-१ अहह बहुलहिंसासञ्चितार्थैः कुडुम्बं
३-१५-६-२ प्रतिदिनमनुपुष्णन्स्त्रीजितो बाललाली ।
३-१५-६-३ विशति हि गृहसक्तो यातनां मय्यभक्तः
३-१५-६-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
३-१५-७-१ युवतिजठरखिन्नो जातबोधोऽप्यकाण्डे
३-१५-७-२ प्रसवगलितबोधः पीडयोल्लङ्घ्य बाल्यं ।
३-१५-७-३ पुनरपि बत मुह्यत्येव तारुण्यकाले
३-१५-७-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
३-१५-८-१ पितृसुरगणयाजी धार्मिको यो गृहस्थः
३-१५-८-२ स च निपतति काले दक्षिणाध्वोपगामी ।
३-१५-८-३ मयि निहितमकां कर्म तूदक्पथार्थं
३-१५-८-४ कपिलतनुरिति त्वं देवहूत्यै न्यगादीः ॥
३-१५-९-१ इति सुविदितवेद्यां देव! हे देवहूतिं
३-१५-९-२ कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः ।
३-१५-९-३ विमलमतिरथासौ भक्तियोगेन मुक्ता
३-१५-९-४ त्वमपि जनहितीर्थं वर्तसे प्रागुदीच्यां ॥
३-१५-१०-१ परम! किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं
३-१५-१०-२ सकलभयविनेत्रीं सर्वकामोपनेत्रीं ।
३-१५-१०-३ वदसि खलु दृढं त्वं त्वद्विधूयामयान्मे
३-१५-१०-४ गुरुपवनपुरेश्! त्वय्युपाधत्स्व भक्तिं ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP