शिशुपालवधम्‌ - प्रकरण २

संस्कृत महाकवी माघ रचित शिशुपालवधम्‍ काव्य वाचल्याने साक्षात्‍ महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो.


यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरं ।
अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥२.१॥

सार्थमुध्धवसीरिभ्यामथासावसदत्सदः
गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियं ॥२.२॥

जाज्वल्यमाना जगतः शान्तये समुपेयुषी
व्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी ॥२.३॥

रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे ।
एकाकिनोऽपि परितः पौरुषेयवृता इव ॥२.४॥

अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी ।
तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा ॥२.५॥

गुरुद्वयाय गुरुणोरुभयोरथ कार्ययोः ।
हरिविप्रतिषेधं तममाचचक्षे विचक्षणः ॥२.६॥

द्योतितान्तःसभैः कुन्दकुड्मलाग्रदतः स्मितैः ।
स्नपितेवाभवत्तस्य शुद्धवर्णा सरस्वती ॥२.७॥

भवद्गिरामवसरप्रदानाय वचांसि नः ।
पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः ॥२.८॥

करदीकृतभूपालो भ्रातृभिर्जित्वरैर्दिशां ।
विनाप्यस्मदलंभूष्णुरिज्यायै तपसः सुतः ॥२.९॥

उत्तिष्ठमानस्तु परो नोपेक्ष्यः पत्यमिच्छता ।
समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥२.१०॥

न दूये सात्वतीसूनुर्यन्मह्यमपराध्यति ।
यत्तु दह्यन्ते लोकमदो दुःखाकरोतिमां ॥२.११॥

मम तावन्मतमिदं श्रूयतामङ्ग वामपि ।
ज्ञातसारोऽपि खल्वेकः संदिग्धे कार्यवस्तुनि ॥२.१२॥

यावदर्थपदां वाचमेवमादाय माधवः ।
विरराम महीयांसः प्रकृत्या मितभाषिणः ॥२.१३॥

ततः सपत्नापनयस्मरणानुशयस्फुरा ।
ओष्ठेन रामो रामोष्ठबिम्बचुम्बनचुञ्चुना ॥२.१४॥

विवक्षितामर्थविदस्तत्क्षणप्रतिसंहृतां ।
प्रापयन्पवनव्याधेर्गिरमुत्तरपक्षतां ॥२.१५॥

घूर्णयन्मदिरास्वादमदपाटलितद्युती ।
रेवतीवदनोच्छिष्टपरिपूतपुटे दृशौ ॥२.१६॥

आश्लेषलोलुपवधूस्तनकार्कश्यसाक्षिणीं ।
म्लापयन्नभिमानोष्णैर्वनमालां मुखानिलैः ॥२.१७॥

दधत्संन्ध्यारुणव्य्ॐअस्फुरत्तारानुकारिणीः ।
द्वषद्वेषोपरक्ताङ्गसङ्गिनीः स्वेदविप्रुषः ॥२.१८॥

प्रोल्लसत्कुणडलप्रोतपद्मरागदलत्विषा ।
कृष्णोत्तरासङ्गरुचं विदधच्चौतपल्लवीं ॥२.१९॥

ककुद्मिकन्यावक्त्रान्तर्वासलब्धाधिवासया ।
मुखमोदं मदिरया  कृतानुव्याधमुद्वमन् ॥२.२०॥

जगादवदनछद्मपद्मपर्यन्तपातिनः ।
नयन्मधुलिहः श्वैत्यमुदग्रदशनांशुभिः ॥२.२१॥

यद्वासुदेवेनादीनमनादीनवमीरितं ।
वचसस्तस्य सपदि क्रिया केवलमुत्तरं ॥२.२२॥

नैतल्लघ्वपि भूयस्या वचो वाचातिशय्यते ।
इन्धनौघधगप्यग्नित्विषा नात्येति पूषणं ॥२.२३॥

संक्षिप्तस्याप्यतोऽस्यैव वाक्यस्यार्थगरीयसः ।
सुविस्तरतरा वाचो भूष्यभूता भवन्तु मो ॥२.२४॥

विरोधिवचसो मूकान्वगीशानपि कुर्वते ।
जडानप्यनुल्ॐआर्थान्प्रवाचः कृतिनां गिरः ॥२.२५॥

षड्गुणाः शक्तयस्तिस्रः सिद्धयोदयास्त्रयः ।
ग्रन्धानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलं ॥२.२६॥

अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा ।
निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितं ॥२.२७॥

सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकं ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृतां ॥२.२८॥

मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।
चिरं न स्थातुं परेभ्यो भेदशङ्कया ॥२.२९॥

आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति ।
तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥२.३०॥

तृप्तियोगः परेणापिमहिम्ना न महात्मनां ।
पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतोऽत्र महार्णवः ॥२.३१॥

संपदासुस्थिरंमन्यो भवति स्वल्पयापि यः ।
कृतकृत्यो विधिर्मन्ये न वर्धयन्ति तस्य तां ॥२.३२॥

शमूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः ।
प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥२.३३॥

विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥२.३४॥

ध्रियतेयावदेकोऽपि रिपुस्तावत्कुतः सुखं ।
पुरः क्लश्नाति स्ॐअं हि सैंहिकेयोऽसुरद्रुहां ॥२.३५॥

सखागरीयान्शत्रुश्छकृत्रिमस्तौ हि कार्यतः ।
स्याताममित्रौ मित्रेच सहजप्रकृतावपि ॥२.३६॥

उपकर्त्ररिणा संधिर्न मित्रेणापकारिणा ।
उपकारापकारौ हि लक्ष्यं लक्षममेतयोः ॥२.३७॥

त्वयाविप्रकृतश्चैद्यो रुक्मिणीं हरताहरे ।
बद्धमूलस्यमूलं हि महद्वैरतरोः स्त्रियः ॥२.३८॥

त्वयि भ्ॐअं गते जेतुमरौत्सीत्स पुरीमिमां ।
प्रोषितार्यमणं मेरोरन्धकारस्तटीमिव ॥२.३९॥

आलाप्यालमिदं बभ्रोयत्स दारानपाहरथ् ।
कथापि खलु पापानामलमश्रेयसे यतः ॥२.४०॥

विराद्ध एवं भमता विराद्धा बहुधा च नः ।
निर्वत्यतेऽरिः क्रियया स श्रुतश्रवसः सुतः ॥२.४१॥

विधायवैरं सामर्षेनरेऽरौ यः उदासते ।
प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतं ॥२.४२॥

मनागनभ्यवृत्या वा कामं क्षाम्यततु यः क्षमी ।
क्रयासमभिहारेण विराद्यन्तं क्षमेत कः ॥२.४३॥

अन्यदा भूषणं पुंसः क्षमा लज्जेव योषितः ।
पराक्रमः परिभवे वैयात्यं सुरतेष्विव ॥२.४४॥

माजीवन्यः परावज्ञादुखदग्धोऽपि जीवति ।
तस्याजननिरेवास्तु जननीक्लेशकारिणः ॥२.४५॥

पदाहतं यदुत्थाय मूर्धानमधिरोहति ।
स्वस्थादेववपमानेऽपि देहिनस्तद्वरं रजः ॥२.४६॥

असंपादयतः कञ्चिदर्थं जातिक्रियागुणैः ।
यदृच्छशब्दवत्पुंसः संज्ञायै जन्म केवलं ॥२.४७॥

तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावागाधता ।
अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥२.४८॥

तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यथ् ।
हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलं ॥२.४९॥

स्वयं प्रणतेऽल्पेऽपि परवायावुपेयुषी ।
निदर्शनमसाराणां लघुर्बहुतृणं नरः ॥२.५०॥

तेजस्विमध्ये तेजस्वी दवीयानपि गण्यते ।
पञ्चम पञ्चपसस्तपनो जातवेदसां ॥२.५१॥

अकृत्वा हेलया पादमुच्चैर्मूर्धसु विद्वषां ।
कथङ्कारमनालम्बा कीर्तिद्यामधिरोहति ॥२.५२॥

अङ्गाधिरोपितश्चन्द्रमा मृगलाञ्छनः ।
केशरी निष्ठुराक्षिप्तमृगयूथो मृगाधिपः ॥२.५३॥

चतुर्थोपायसाध्येतु रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः कोऽम्भसा परिषिञ्चति ॥२.५४॥

सामवादाः सकोपस्य तस्य प्रत्युत दीपकाः ।
प्रतप्तस्येव सहसा सर्पिषस्तोयबिन्दवः ॥२.५५॥

गुणानामायथातथ्यादर्थं विप्लावयन्ति ये ।
अमात्यव्यञ्जनाराज्ञां दूष्यास्ते शत्रुसंज्ञिताः ॥२.५६॥

स्वशक्त्युपचये केचित्परस्य व्यसनेऽपरे ।
यानमाहुस्तदासीनं त्वामुत्थापयति द्वयं ॥२.५७॥

लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।
यादवाम्भोनिधीन्रुन्धे वेलेव भवतः क्षमा ॥२.५८॥

विजयस्वयि सेनायाः साक्षिमात्रेऽपादिश्यतां ।
फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥२.५९॥

हृतेहिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
चिरस्य मित्त्रव्यसनि सुदमो दमघोषजः ॥२.६०॥

नीतिरापदि यद्गम्यः परस्तन्मानिनो ह्रिये ।
विधुर्विधुन्तस्येव पूर्णस्तस्योत्सवाय सः ॥२.६१॥

अन्यदुच्छृङ्घलं सत्वमन्यत्छ्छास्त्रनियन्त्रितं ।
सामानाधिकरण्यं हि तेजस्तमिरयोः कुतः ॥२.६२॥

इन्द्रप्रस्थगमस्तावत्कारि मा सन्तु चेदयः ।
आस्माकदन्तिसान्निध्याद्वामनीभूतभूरुहः ॥२.६३॥

निरुद्धवीवधासारप्रसारा गा इव व्रजं ।
उपरुन्धन्तु दाशार्हाः पुरीं माहिष्मतीं द्विषः ॥२.६४॥

यजतां पाण्डवः  स्वर्गमवत्विन्द्रस्पस्विनः ।
वयं हनाम द्विषतः सर्वः स्वार्थं समीहते ॥२.६५॥

प्राप्यतां विद्युतां संपद्संपर्कादर्करोचिषां ।
शस्त्रैद्विषच्छिरश्छेदप्रोच्छलच्छोणितोक्षितैः ॥२.६६॥

इतिसंरम्भिणो वाणीर्बलस्यालेख्यदेवताः ।
सभाभित्तिप्रतिध्वनैर्भयादन्ववदन्निव ॥२.६७॥

निशम्य ताः शेषगवीरमभिधातुमधोक्षजः ।
शिष्याय बृहतां प्रत्युः प्रस्तावमदिशद्दृशा ॥२.६८॥

भारतीमाहितभरामथानुद्धतमुद्धवः ।
तथ्यामुतथ्यानुजवज्जगादाग्रे गदाग्रजं ॥२.६९॥

संप्रत्यसांप्रतं वक्तुमुक्ते मुसलपाणिना ।
निर्धारितेर्ऽथे लेखेनखलूक्त्वा खलुवाचिकं ॥२.७०॥

तथापि यन्मय्यपि ते गुरुरित्यस्ति गौरवं ।
तत्प्रयोजककर्तृत्वमुपैति मम जल्पतः ॥२.७१॥

वर्णै कतिपयैरेव ग्रथितस्य स्वरैरिव ।
अनन्ता वाङ्मयस्याहो गेयस्येव विचित्रता ॥२.७२॥

बह्वपि स्वेच्छया कामं प्रकीर्णमभिधीयते ।
अनुज्झितर्थसंबन्धः प्रबन्धो दुरुदाहरः ॥२.७३॥

म्रदीयसीमपि घनामनल्पगुणकल्पितां ।
प्रसारयन्ति कुशलाश्चित्रां वाचं पटीमिव ॥२.७४॥

विशेषविदुषः शास्त्रं यत्तवोद्ग्राह्यते पुरः ।
हेतुः परिचयस्थैर्ये वक्तुर्गुणनिकैव सा ॥२.७५॥

पज्ञोत्साहवतः स्वामी यतेताधातुमात्मनि ।
तौ हि मूलमुदेष्यन्त्या जिगीषोरात्मसंपदः ॥२.७६॥

सोपधानां धियं धीराः स्थेयसीं खट्वयन्ति ये ।
तत्रानिशं निषम्ण्णास्ते जानते जातु न श्रमंं ॥२.७७॥

स्पृशन्ति शरवत्तीक्ष्णस्तोकमन्तर्विशन्ति च ।
बहुस्पृशापि स्थूलेन स्थीयते बहिरश्मवथ् ॥ २.७८॥

आरभन्तेऽल्पमेवाज्ञाः कामं व्यग्रा भवन्ति च ।
महारम्भाः कृतधियस्तिष्ठन्ति च निराकुलाः ॥२.७९॥

उपायमस्थितस्यापि नश्यन्त्यर्थाः प्रमाद्यतः ।
हन्ति नोपशयस्थोऽपि शयालुर्मृगयुर्मृगान् ॥२.८०॥

उदेतुमत्यजन्नीहां राजसु द्वदशस्वपि ।
जिगीषुरेको दिनकृदादित्येष्विव कल्पते ॥२.८१॥

बुद्धिशस्त्रः प्रकृत्यङ्गो घनसंवृतिकञ्चुकः ।
चारेक्षणो दूतमुखः पपुरुषः कोऽपि पार्थिवः ॥२.८२॥

तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः ।
नैकमोजः प्रसादो वा रसभावविदः कवेः ॥२.८३॥

कृतापचारोऽपि परैरनाविष्कृतविक्रियः ।
असाध्यः कुरुते वा रसभावविदः कवेः ॥२.८४॥

मृदुव्यवहितं तेजो भोक्तमर्थान्प्रकल्पते ।
प्रदीपः स्नेहमादत्ते दशयाभ्यन्तरस्थया ॥२.८५॥

नालम्बते नैष्ठिकतां न निषीदति पौरुषे ।
शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ॥२.८६॥

स्थायिनोर्ऽथे प्रवर्तन्ते भावाः संचारिणो यथा ।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ॥२.८७॥

तन्त्रवापविदा योगैर्मण्डलान्यधिष्ठिता ।
सुनिग्रहानरेन्द्रेण फणीन्द्रा इव शत्रवः ॥२.८८॥

करप्रचेयामुत्तुङ्गः प्रभुशक्तिं प्रतीयसीं ।
प्रज्ञाबलबृहन्मूलः फलत्युत्साहपादपः ॥२.८९॥

अल्पत्वात्प्रबलत्वाद्वंशस्येवेतरे स्वराः ।
विजीगीषोनृपतयः प्रयान्ति परिवारतां ॥२.९०॥

अप्यनारभमाणस्य विभोरुत्पादिताः परैः ।
व्रजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥२.९१॥

यातव्यपार्ष्णिग्राहादिमालायामधिकद्युतिः ।
एकार्थतन्तुप्रोतायां नायको नायकायते ॥२.९२॥

षाड्गुण्यमुपयुञ्जीत शक्त्यपेक्षो रसायनं ।
भवन्त्यस्येवमङ्गानि स्थास्नूनि बलवन्ति च ॥२.९३॥

स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनां ।
अयथाबलमारम्भो निदानं क्षयसंपदः ॥२.९४॥

तदीशितारं चेदिनां भवांस्तमवमंस्त मा ।
निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥२.९५॥

मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।
राजयक्ष्मेव रोगाणां समूह स महीभृतां ॥२.९६॥

संपादितफलस्तेन सपक्षः परभेदनः ।
कार्मुकेणेवगुणिना बाणः संधानमेष्यति ॥२.९७॥

ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।
तमःस्वभावस्ते ।प्येनं प्रदोषमनुयायिनः ॥२.९८॥

उपजापः कृतस्तेन तानाकोपवतस्त्वयि ।
आशु दीपयिताल्पोऽपि साग्नीनेधानिवानिलः ॥२.९९॥

बृहत्सहायः कार्यान्तं क्षोदीयानपि गच्छति ।
संभूयाम्भोधिमभ्येति महानद्या नगापगा ॥२.१००॥

तस्य मित्राण्यमित्रास्ते ये च ये चोभये नृपाः ।
अबियुक्तं त्वयैनं ते गन्तारस्त्वामतः परे ॥२.१०१॥

मखविघ्नाय सकलमित्थमित्युत्थाप्य राजकं ।
हन्त जातमजातारेः प्रथमेन त्वयारिणा ॥२.१०२॥

संभाव्य त्वामतिभरक्षमस्कन्धं सबान्धवः ।
सहायमध्वरधुरां धर्मराजो विवक्षते ॥२.१०३॥

महात्मनोऽनुगृह्णन्ति भजमानान्रिपूनपि ।
सपन्तीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगा ॥२.१०४॥

चिरादपि बलात्कारो बलिनः सिद्धयेऽरिषु ।
छन्दानुवृत्तिदुःःसाध्याः सुहृदो विमनीकृताः ॥२.१०५॥

मन्यसेऽरिवधः श्रेयान्प्रीतये नाकिनामिति ।
पुरोडाशभुजामिष्टमिष्टं कर्तुमलन्तरां ॥२.१०६॥

अमृतं नाम यत्सन्तो मन्त्रजिह्वेषु जुह्वति ।
शोभैव मन्दरक्षुब्धक्षुभिताम्भोधिवर्णना ॥२.१०७॥

सहिष्ये शतमागांसि सूनोस्त इति यत्वया ।
प्रतीक्ष्यन्तत्प्रतीक्ष्यायै पितृष्वस्रे प्रतिश्रुतं ॥२.१०८॥

तीक्ष्णा नारुन्तुदा बुद्धिः कर्म शान्तं प्रतापवथ् ।
नोपतापि मनः सोषमवागेका वाग्मिनः सतः ॥२.१०९॥

स्वयङ्कृतप्रसादस्य तस्याह्नो भानुमानिव ।
समयावधिमप्राप्यय नान्तायालं भवानपि ॥२.११०॥

कृत्वा कृत्यविदस्तीर्थेष्वन्तः प्रणिधयः पदं ।
विदां कुर्वन्तु महतस्तलं विद्विषम्भसः ॥२.१११॥

अनुत्सूत्रपदन्यासा सद्वृत्ति सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरस्पशा ॥२.११२॥

अज्ञातदोषैर्देषज्ञैरुद्दूष्योभयवेतनैः ।
भेद्याः शत्रोरभिव्यक्तशासनैः सामवायिकाः ॥२.११३॥

उपेयिवांसि कर्तारः पुरीमाजातशत्रवीं ।
राजन्यकान्युपायज्ञैरेकार्थानि चरैस्तव ॥२.११४॥

सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।
वैरायितारस्तरलाः स्वयं मत्सरिणस्तरले ॥२.११५॥

य इहात्मविदो विपक्षमध्ये सह संवृद्धियुजोऽपि भूभुजः स्युः ।
बलिपुष्टकुलादिवान्यपुष्टैः पृथगस्मादचिरेण भाविता तैः ॥२.११६॥

सहजदोषचापलसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः ।
तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः ॥२.११७॥

इति विशकलितार्थमौद्धवींवाचमेनामनुगतनयमार्गमर्गलां दुर्नयस्य ।
जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरःस्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान्सः ॥२.११८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP