संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|काव्य|शिशुपालवधम्| प्रकरण १३ शिशुपालवधम् प्रकरण १ प्रकरण २ प्रकरण ३ प्रकरण ४ प्रकरण ५ प्रकरण ६ प्रकरण ७ प्रकरण ८ प्रकरण ९ प्रकरण १० प्रकरण ११ प्रकरण १२ प्रकरण १३ प्रकरण १४ प्रकरण १५ प्रकरण १६ प्रकरण १७ प्रकरण १८ प्रकरण १९ प्रकरण २० शिशुपालवधम् - प्रकरण १३ संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो. Tags : maghapoemकाव्यमाघशिशुपालवधसंस्कृत प्रकरण १३ Translation - भाषांतर यमुनामतीतमथ शुश्रुवानमुमुं तपसस्तनूज इति नाधुनोच्यते ।स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ॥१३.१॥यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि ।सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्यनिर्ययौ ॥१३.२॥रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः ।समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंज्ञया ॥१३.३॥अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः ।जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः ॥१३.४॥द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः ।ननृतुश्च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः ॥१३.५॥व्रजतोरपि प्रणयपूर्वमेकतामसुरारिपाण्डुसुतसैन्ययोस्तदा ।ररुषे विषाणिभिरनुक्षणंमिथो मदमूढबुद्धिषु विवेकिता कुतः? ॥१३.६॥अवलोक एव नृपतेः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः ।अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः ॥१३.७॥वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना ।भुवनैर्नतोऽपि विहितात्त्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ॥१३.८॥मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलं ।क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत ॥१३.९॥न ममौ कपाटतटविस्तृतं तनौ मुरवैरिमवक्ष उरसि क्षमाभुजः ।भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितोऽभिषस्वजे ॥१३.१०॥गतया निरन्तरनिवासमध्युरः परिनाभि नूनमवमुच्य वारिजं ।कुरराजनिर्दय निपीडनाभयान्मुखमध्यरोहि मुरविद्विषः श्रिया ॥१३.११॥शिरसि स्म जिघ्रति सुरारिबन्धने छलवामनं विनयवामनं तदा ।यशसेव वीर्यविजितामरद्रुमप्रसवेन वासितशिरोरुहे नृपः ॥१३.१२॥सुखवेदनाहृषितर्ॐअकूपया शिथिलीकृतेऽपि वसुदेवजन्मनि ।कुरुभर्तुरङ्गलतया न तत्यजे विकसत्कदम्बनिकुरम्बचारुता ॥१३.१३॥इतरानपि क्षितिभुजोऽनुजन्मनः प्रमनाः प्रमोदपरिफुल्लचक्षुषः ।स यथोचितं जनसभाजनोचितः प्रसभोद्धृतासुरसभोऽसभाजयथ् ॥१३.१४॥समपेत्य तुल्यमहसः शिलाघनान्घनपक्षदीर्घतरबाहुशालिनः ।परिशिश्लिषुः क्षितिपतीन्क्षितीश्वराः कुलिशात्परेण गिरयो गिरीनिव ॥१३.१५॥इभकुम्भतुंङ्गकठिनेतरेतरस्तनभारदूरविनिवारितोदराः ।परिफुल्लगण्डफलकाः परस्परं परिरेभिरे कुकुरकौरवस्त्रियः ॥१३.१६॥रथवाजिपत्तिकरिणीसमाकुलं तदनीकयोः समगत द्वयं मिथः ।दधिरे पृथक्करिण एव दूरतो महतां हि सर्वमथवा जनातिगं ॥१३.१७॥अधिरुह्यतामिति महीभृतोदितः कपिकेतुनार्पितकरो रथं हरिः ।अवलम्बितैलविलपाणिपल्लवः श्रयति स्म मेघमिव मेघवाहनः ॥१३.१८॥रथमास्थितस्य च पुराभिवर्तिनस्तिसृणां पुरामिव रिपोर्मुरद्विषः ।अथ धर्ममूर्तिरनुरागभावितः स्वयमादित प्रवयणं प्रजापतिः ॥१३.१९॥शनकैरथास्य तनुजालकान्तरस्फुरितक्षपाकरकरोत्कराकृति ।पृथुफेनकूटमिव निम्नगापतेर्मरुतश्च सूनुरघुवत्प्रकीर्णकं ॥१३.२०॥विकसत्कलायकुसुमासितद्युतेरलघूडुपाण्डु जगतामधीशितुः ।यमुनाह्रदोपरिगहंसमण्डलद्युतिजिष्णु जिष्णुरभृतोष्णवारणं ॥१३.२१॥पवनात्मजेन्द्रसुतमध्यवर्तिना नितरामरोचि रुचिरेण चक्रिणा ।दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुना ॥१३.२२॥वशिनं क्षितेरयनयाविवेश्वरं नियमो यमश्च नियतं यतिं यथा ।विजयश्रिया वृतमिवार्कमारुतावनुसस्रतुस्तमथ दस्रयोः सुतौ ॥१३.२३॥मुदितैस्तदेति दितिजन्मनांरिपावविनीयसम्भ्रमविकासिभक्तिभिः ।उपसेदिवद्भिरुपदेष्टरीव तैर्ववृते विनीतमविनीतशासिभिः ॥१३.२४॥गतयोरभेदमिति सैन्ययोस्तयोरथ भानुतजह्नुतनयाम्भसोरिव ।प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ॥१३.२५॥मखमाक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः ।उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ॥१३.२६॥प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः ।रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः ॥१३.२७॥असकृद्गृहीतबहुदेहसम्भवस्तदसौ विभक्तनवगोपुरान्तरं ।पुरुषः पुरं प्रविशति स्म पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः ॥१३.२८॥तनुभिस्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः ।प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः ॥१३.२९॥अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः ।अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोषितः ॥१३.३०॥अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः ।दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्त्यः ॥१३.३१॥रभसेन हारपददन्तकाञ्चयः प्रतिमूर्धजं निहितकर्णपूरकाः ।परिवर्तिताम्बरयुगाः समापतन्वलयीकृतश्रवणपूरकाः स्त्रियः ॥१३.३२॥व्यतनोदपास्य चरणं प्रसाधिकाकरपल्लवाद्रसवशेन काचन ।द्रुतयावकैकपदचित्रितावनिं पदवीं गतेव गिरिजा हरार्धतां ॥१३.३३॥व्यचलन्विशङ्कटकटीरकस्थलीशिखरस्खलन्मुखरमेखलाकुलाः ।भवनानि तुङ्गतपनीयसंक्रमक्रमणक्वणत्कनकनूपुराः स्त्रियः ॥१३.३४॥अधिरुक्ममन्दिरगवाक्षमुल्लसत्सदृशो रराज मुरजिद्दिदृक्षया ।वदनारविन्दमुदयाद्रिकन्दराविवरोदरस्थतमिवेन्दुमण्डलं ॥१३.३५॥अधिरूढया निजनिकेतमुच्चकैः पवनावधूतवसनान्तयैकया ।विहितोपशोभमुपयाति माधवे नगरं व्यरोचत पताकयेव तथ् ॥१३.३६॥करयुग्मपद्ममुकुलापवर्जितैः प्रतिवेश्म लाजकुसमैरवाकिरन् ।अवदीर्णशुक्तिपुटमुक्तमौक्तिकप्रकरैरिव प्रियरथाङ्गमङ्गनाः ॥१३.३७॥हिममुक्तचन्द्ररुचिरः सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः ।अभवत्प्रसादितसुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ॥१३.३८॥धरणीधरेन्द्रहितुर्भयादसौविषमेक्षणः स्फुटममूर्न पश्यति ।मदनेनवीतभयमित्यधिष्ठिताः क्षणमीक्षते स्म स पुरोविलासिनीः ॥१३.३९॥विपुलेन सागरशयस्यकुक्षिणा भुवनानि यस्य पपिरे युगक्षये ।मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥१३.४०॥अधिकोन्नमद्घनपयोधरं मुहुः प्रचलत्कलापिकलशङ्खकस्वना ।अभिकृष्णमङ्गुलिमुखेन काचन द्रुतमेककर्णविवरं व्यघट्टयथ् ॥१३.४१॥परिपाटलाब्जदलचारुणासकृच्चलिताङ्गुलीकिसलयेन पाणिना ।सशिरःप्रकम्पमपरा रिपुं मधोरनुदीर्णवर्णनिभृतार्थमाह्वयथ् ॥१३.४२॥नलिनान्तिकोपहितपल्लवश्रिया व्यवधाय चारु मुखमेकपाणिना ।स्फुरिताङ्गुलीविवरनिःसृतोल्लसद्दशनप्रभाङ्गुरमजृम्भतापरा ॥१३.४३॥वलयार्पितासितमहोपलप्रभाबहुलीकृतप्रतनुर्ॐअराजिना ।हरिवीक्षणाक्षणिकचक्षुषान्यया करपल्लवेन गलदम्बरं दधे ॥१३.४४॥निजसौरभभ्रमितभृङ्गपक्षतिव्यजनानिलक्षयितघर्मवारिणः ।अभिशौरि काचिदनिमेषदृष्टिना पुरदेवतेव वपुषा व्यभाव्यत ॥१३.४५॥अभियाति नः सतृष एव चक्षुषो हरिरित्यखिद्यत नितम्बिनीजनः ।न विवेद यः सततमेनमीक्षते न वितृष्णतां व्रजति खल्वसावपि ॥१३.४६॥अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत ।गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ॥१३.४७॥अलसैर्मदेन सुदृशः शरीरकैः स्वगृहान्प्रति प्रतिययुः शनैः शनैः ।अलघुप्रसारित विलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः ॥१३.४८॥नवगन्धवारिविरजीकृताः पुरो घनधूपधूम कृतरेणुविभ्रमाः ।प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणातिपेतिरे ॥१३.४९॥उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणं ।विदधेऽवधूतसुरसद्मसम्पदं समुपासदत्सपदि संसदं स तां ॥१३.५०॥अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलावेश्मनां रुचौ ।पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः ॥१३.५१॥लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः ।जमदग्निसूनुपितृतर्पणीरपोवहति स्म या विरलशैवला इव ॥१३.५२॥विशदाश्मकूटघटिताः क्षपाकृतः क्षणदासु यत्र च रुचेकतां गताः ।गृहपङ्क्तयश्चिरमतीयिरे जनैस्तमसीव हस्तपरिमर्शसूचिताः ॥१३.५३॥निलयेषुनक्तमसिताश्मनां चयैर्बिसिनीवधूपरिभवस्पुटागसः ।मुहरत्रसद्भिरपि यत्र गौरवाच्छशलाञ्छनांशव उपांशु जध्निरे ॥१३.५४॥सुखिनः पुरोऽभिमुखतामुपागतैः प्रतिमासु यत्र गृहरत्नभित्तिषु ।नवसङ्गमैरबिभरुः प्रियाजनैः प्रमदं त्रपाभरपराङ्मुखैरपि ॥१३.५५॥तृणवाञ्छया मुहुरवाञ्चिताननान्निचयेषु यत्र हरिताश्मवेश्मनां ।रसनाग्रलग्नकिरणाङ्कुराञ्जनो हरिणान्गृहीतकवलानिवैक्षत ॥१३.५६॥विपुलालवालभृतवारिदर्पणप्रतिमागतैरभिविरेजुरात्मभिः ।यदुपान्तिकेषु दधतो महीरुहः सपलाशराशिमिव मूलसंहतिं ॥१३.५७॥उरगेन्द्रमूर्धरुहरत्नसन्निधेर्मुहुरुन्नतस्य रसितैः पय्ॐउचः ।अभवन्यदङ्गणभुवः समुच्छ्वसन्नववालवायजमणिस्थलाङ्कुराः ॥१३.५८॥नलिनी निगूढसलिला च यत्र सा स्थलमित्यधः पतति या सुयोधने ।अनिलात्मजप्रहसनाकुलाखिलक्षितिपक्षयागमनिमित्ततां ययौ ॥१३.५९॥हसितुं परेण परितः परिस्फुरत्करवालक्ॐअलरुचावुपेक्षितैः ।उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरं ॥१३.६०॥अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू ।अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ॥१३.६१॥तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे ।धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः ॥१३.६२॥नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि ।गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदयस्मयत नाकिनामपि ॥१३.६३॥उदयाद्रिमूर्ध्नि युगपच्चकासतोर्दिननाथपूर्णशशिनोरसम्भवां ।रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ॥१३.६४॥सुतरां सुखेन सकलक्लमच्छिदा सनिदाधमङ्गमिव मातरिश्वना ।यदुनन्दनेन तदुदन्वतः पयः शसिनेव राजकुलमाप नन्दथुं ॥१३.६५॥अनवद्यवाद्यलयगामि क्ॐअलं नवगीतमप्यनवगीततां दधथ् ।स्फुटसात्विकाङ्गिकमनृत्यदुज्ज्वलं सविलासलासिकविलासनीजनः ॥१३.६६॥सकले च तत्र गृहमागते हरौ नगरेऽप्यकालमहमादिदेश सः ।सततोत्सवं तदिति नूनन्मुन्मुदो रभसेन विस्मृतमभून्महीभृतः ॥१३.६७॥हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमयमन्वयुङ्क्त च ।महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किञ्चन ॥१३.६८॥मर्त्यलोकदुरवापमवाप्तरसोदयं नूतनत्वमतिरिक्ततयानुपदं दधथ् ।श्रीपतिः पतिरसाववनेश्च परस्परं सङ्कथामृतमनेकमसिस्वदताममुभौ ॥१३.६९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP