शिशुपालवधम् - प्रकरण ९
संस्कृत महाकवी माघ रचित शिशुपालवधम् काव्य वाचल्याने साक्षात् महाभारतातील प्रसंग डोळ्यासमोर उभा राहतो.
अभितापसंपदमथोष्णरुचिर्निजतेसामसहमान इव ।
पयसि प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतथ् ॥९.१॥
गतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकतां ।
मुहुरन्तारालभुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा ॥९.२॥
विरलात पच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्रशिरः ।
अभवद्गतः परिणतिं शिथिलः परमन्दसूर्यनयनो दिवसः ॥९.३॥
अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये ।
निलयाय शाखिन इवाह्रयते दुदुराकुलाः खगकुलानि गिरः ॥९.४॥
उपसंध्यमास्त तनु सानुमतः शिखरेषु तत्क्षणमशीतरुचः ।
करजालमस्तमयेऽपि सतामुतितं खलूच्चतरमेव पदं ॥९.५॥
प्रतिकूलमुपगते हि विधौ विफलत्वमेति बहुसाधनता ।
अवलम्बनाय दिनभर्तुरभून्न पतिष्यतः करसहस्रमपि ॥९.६॥
नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया ।
अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः ॥९.७॥
गतवत्यराजत जपाकुसुमस्तबकद्युतौ दिनकरेऽवनतिं ।
बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्वलयं ॥९.८॥
द्रुतशातकुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि ।
रुरुचे विरिञ्चिनखभिन्नबृहद्दणडकैकतरखण्डमिव ॥९.९॥
अनुरागवन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरं ।
निरकासयद्रविमपेतवसुं वियदालयादपरदिग्गणिका ॥९.१०॥
अभितिग्मरश्मि चिरमविरमादवधानखिन्नमनिमेषतया ।
विगलन्नमधुव्रतकुलाश्रुजलं न्ममीलदब्जनयनं नलिनी ॥९.११॥
अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः ।
अवसन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥९.१२॥
रुचिधाम्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विवशुः ।
ज्वलनं त्विषः कथमितरथा सुलभोऽन्यजन्मनि स एव पतिः ॥९.१३॥
विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणतां ।
चिरमुज्झितापि तनुरौज्झदसौ न पितृप्रसूः प्रकृतिमात्मभुवः ॥९.१४॥
अथ सान्द्रसान्ध्यकिरणारुणितं हरिहेतिहूति मिथुनं पततोः ।
पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलिप्तमिव ॥९.१५॥
निलयः श्रियः सततमेतदिति प्रथितं यदेव जलजन्म तया ।
दिवसात्ययात्तदपि मुक्तमहो चपलाजनं प्रति न चोद्यमदः ॥९.१६॥
दिवसोऽनुमित्रमगमद्वलयं किमिहास्यते बत मयाबलया ।
रुचिभर्तुरस्य विरहाधिगमादिति संध्ययापि सपदि व्यगमि ॥९.१७॥
पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ ।
अथ नागयूथमलिनानि जगत्परितस्तमांसि परितस्तरिरे ॥९.१८॥
व्यसरन्नु भूधरगुहान्तरतः पचलं बहिर्भहलपङ्करुचि ।
दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहाः ॥९.१९॥
किमलम्बताम्बरविलग्नमधः किमवर्धतोर्ध्वमवनीतलतः ।
विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तमः ॥९.२०॥
स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति ।
दधिरे रसाञ्जनमपूर्वतः प्रियवेश्मवर्त्म सुदृशो ददृशुः ॥९.२१॥
अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसं ।
सुतनोः स्तनौ च दयितोपगमे तनुर्ॐअराजिपथवेपथवे ॥९.२२॥
ददृशेऽपि भास्कररुचाह्नि न यः स तमीं तमोबिरभिगम्य ततां ।
द्युतिमग्रहीद्ग्रहगणो लघवः प्रकटीभवन्ति मलिनाश्रयतः ॥९.२३॥
अनुलेपनानि कुसुमान्यबलाः कृतमन्यवः पतिषु धीपशिखाः ।
समयेन तेन चिरसुप्तमनोभवबोधनं सममबोधिषत ॥९.२४॥
वसुधान्तनिःसृतमिवाहिपतेः पटलं फणामणिसहस्ररुचां ।
स्फुरदंशुजालमथ शीतरुचः ककुभं समस्कुरुत माधवनीं ॥९.२५॥
विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः ।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥९.२६॥
कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटं ।
क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणादिपतिमूर्तिरिति ॥९.२७॥
नवचन्द्रकाकुसुमकीर्णतमःकबरीभृतो मलयजार्द्रमिव ।
ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलं ॥९.२८॥
प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः ।
दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयं ॥९.२९॥
उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।
प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥९.३०॥
अथ लक्षमणागतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
परिवारितः परित ऋक्षगणैस्तिरौघराक्षसकुलं बिभिदे ॥९.३१॥
उपजीवति स्म सततं दधतः परिमुग्धतां वणिगिवोडुपतेः ।
घनवीथवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥९.३२॥
रजनीमवाप्य रुचमाप शशी सपदि व्यभूषयदसावपि तां ।
अविलम्बितक्रममहो महतामितरेतरकृतिमच्चरितं ॥९.३३॥
दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतलिरुतैः ।
मुहुरामृशन्मृगधरोऽग्रकरैरुदशिस्वसत्कुमुदिनीवनितां ॥९.३४॥
प्रतिकामिनीति ददृशुश्चकिताः स्मरजन्मघर्मपयसोपचितां ।
सुदृशोभिभर्तृशशैरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूं ॥९.३५॥
अमृतद्रवैर्विदधब्जदृशाममपमार्गमोषधिपतिः स्म करैः ।
परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषं ॥९.३६॥
अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ॥९.३७॥
उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुपदधीशमपि ।
रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुं ॥९.३८॥
भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः ।
अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥९.३९॥
अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा ।
उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ॥९.४०॥
युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत ।
द्रुतमेत्य पुष्पधनुषो धनुषः कुमुदेऽङ्गनामनसि चावसरं ॥९.४१॥
ककुभां मुखानि सहसोज्ज्वलयन्दधदाकुलत्वमधिकं रतये ।
अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥९.४२॥
इति निश्चितप्रियतमागतयः सितदीधितावदयवत्यबलाः ।
प्रतिकर्म कर्तुमुचक्रमिरे समये हि सर्वमुपकारि कृतं ॥९.४३॥
सममेकमेव दधतुः सुतनोरु हारभूषणमुरोजतटौ ।
घटते हि संहततया जनितामिदमेव निर्विरतां दधतोः ॥९.४४॥
कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयथ् ॥९.४५॥
अदरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।
नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ॥९.४६॥
स्फुरदुज्वलाधरदलैर्विसद्दशनांशुकेशकरैः परितः ।
धृतमुग्धगण्डफलकैर्विबभुविकसद्भिरास्यकमलैः प्रमदाः ॥९.४७॥
भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः ।
मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशथ् ॥९.४८॥
ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटेमहति ।
इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुतां ॥९.४९॥
न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमिति ।
गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमनःसु मनः ॥९.५०॥
वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।
क्षमस्य वाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ॥९.५१॥
निजपाणिपल्लवतलस्खलनादभिनासिकविवरमुत्पतितैः ।
अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥९.५२॥
विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।
हिमधाम्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ॥९.५३॥
अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलं ।
उदकण्ठि कण्ठपरिवर्तिकलस्वरसून्यगानपयापरया ॥९.५४॥
प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।
प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः ॥९.५५॥
न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ॥९.५६॥
दयितया मानपरयापरया त्वरितं ययावगदितापि सखी ।
किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदां ॥९.५७॥
प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।
क्रियतेऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि मां ॥९.५८॥
अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।
तव गोप्यते किमिव कर्तुमिदं न सहास्मि साहसमसाहसिकी ॥९.५९॥
तदुपेत्य मा स्म तमुपालभथाः क्ल दोषमस्य न हि विद्म वयं ।
इति सम्प्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीं ॥९.६०॥
ननु सन्दिशेति सुदृशोदितया त्रपया न किञ्चन किलाभिदधे ।
निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशीरशरैः ॥९.६१॥
ब्रुवते स्म दूत्य उपसृत्य नरान्तरवत्प्रगल्भमतिगर्भगिरः ।
सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ॥९.६२॥
मम रूपकीर्तिमहरद्भुवि यस्तदनु प्रविष्टहृदयेयमिति ।
त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः ॥९.६३॥
तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥९.६४॥
उपतप्यमानमलघूष्णिभिः श्वसितैः सितेतरसरोजदृशः ।
द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥९.६५॥
दधति स्फुटं रत्पतेरिषवः शिततां यदुत्पलपलाशदृशः ।
हृदयं निरन्तरबृहत्कठिनस्तनमणडलावरणमप्यभिदन् ॥९.६६॥
कुसुमादपि स्मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।
अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपाति यद्विशिखैः ॥९.६७॥
विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः ।
अमृतुतस्रुऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः ॥९.६८॥
उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः ।
विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः ॥९.६९॥
दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमं ।
उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ॥९.७०॥
निपपात सम्भ्रमभृतः श्रवणादसितभ्रुवः प्रणदितासिकुलं ।
दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहं ॥९.७१॥
उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलितां ।
रभसोत्थितामुपगतः सहसा परिरभ्य कञ्चन वधूमरुधथ् ॥९.७२॥
अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
मुकुरेण वेपथुभृतोऽतिभरात्कथमप्यपाति न वधूकरतः ॥९.७३॥
अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।
दयितेन तत्क्षणचलद्रशनाकलकिङ्किणीरवमुदासि वधूः ॥९.७४॥
कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ॥९.७५॥
पिदधानमन्वगुपगम्य दृशौ ब्रुवते जनाय वद कोऽयमिति ।
अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधून्यगदथ् ॥९.७६॥
उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभर्तृ विधुरं त्रपया ।
वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि वाढमभूथ् ॥९.७७॥
पिमन्धराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।
स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ॥९.७८॥
मधुरान्नतभ्रू ललितं च दृशोः सकरप्रयोगचतुरं च वचः ।
प्रकृति स्थमेव निपुणागमितं स्फुचनृत्तलीलमभवत्सुतनोः ॥९.७९॥
तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयं ।
प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताद्य मयि गोत्रभिदा ॥९.८०॥
न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।
हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतामां ॥९.८१॥
इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपातविकसद्वदनां ।
स्वकरावलम्बनविमुक्तगलत्कलकाञञ्चि काञ्चिदरुणत्तरुणः ॥९.८२॥
अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुषे मृगाक्ष्या ।
कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ॥९.८३॥
आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नामितमुखेन्दु मानवत्या ।
तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥९.८४॥
सुदृशः सरसव्यलीक तप्तस्तरसास्लष्टवतः सयौवनोष्मा ।
कथमप्यभवत्स्मरानलोष्मणः स्तनभारो न नखंपचः प्रियस्य ॥९.८५॥
दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलं ।
बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न ॥९.८६॥
इत्थं नारीर्घटयितुमलं कामिभिः काममासन्प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः ।
आचार्यत्वं रतिषु विलसन्मन्मथश्रीविलासा ह्रीप्रत्यूहप्रशमकुशलाः शीधवश्चक्रुरासां ॥९.८७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP