रसप्रकाशसुधाकर - अध्याय २
आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.
-पारदबन्ध-
अथेदानीं प्रवक्ष्यामि रसराजस्य बंधनम् ।
अनुभूतं मया किंचित्गुरूणां हि प्रसादतः ॥१॥
-बन्धनः-
बंधश्चतुर्विधः प्रोक्तो जलौका खोटपाटकौ ।
तथा भस्माभिधः साक्षात्कथितोऽपि रसागमे ॥२॥
पक्वबन्धो जलौका स्यात्पिष्टीस्तम्भस्तु खोटकः ।
पाटः पर्पटिकाबन्धो भस्म भूतिसमो भवेत् ॥३॥
-सुब्स्तन्चेसिन्दुचिन्ग्बन्धन-
मूलिकात्र मणिश्चैव स्वर्णकं नागवङ्गके ।
चत्वार एते सूतस्य बन्धनस्याथ कारणम् ॥४॥
उत्तमो मूलिकाबन्धो मणिबन्धस्तु मध्यमः ।
अधमो धातुबन्धस्तु पूतिबन्धोऽधमाधमः ॥५॥
द्रुतिबन्धः पञ्चमोऽसौ देहलोहकरः सदा ।
अभ्रद्रुतिविशेषेण विज्ञेयोऽसौ भिषग्वरैः ॥६॥
-मूलिकाबन्ध-
क्रमप्राप्तमिदं वक्ष्ये मूलिकाबन्धनं रसे ।
शुद्धो राक्षसवक्त्रश्च रसश्चाभ्रकजारितः ॥७॥
इङ्गुदीमूलनिर्यासे मर्दितः पारदस्त्र्यहम् ।
तत उद्धृत्य वस्त्रेण बंधनं कारयेद्भिषक् ॥८॥
कांजिके स्वेदनं कुर्यान्नियतं सप्तवासरम् ।
पाचितं चान्नमध्ये तु कर्तव्यं वत्सरावधि ॥९॥
ततो धूर्तफले न्यस्तं स्वेदयेच्छतसंख्यया ।
पाचितोऽसौ महातैले धूर्ततैलेऽन्नराशिके ॥१०॥
बद्धस्तु तेन विधिना कठिनत्वं प्रजायते ।
वंगस्य स्तम्भनं सम्यक्करोत्येव न संशयः ॥११॥
धारितोऽसौ मुखे साक्षाद्वीर्यस्तम्भकरः सदा ।
मूलिकाबंधनं ह्येकं कथितं पारदस्य वै ॥११*॥
-मूलिकाबन्ध (२)-
अथापरः प्रकारो हि बन्धनस्यापि पारदे ।
नागार्जुनीमूलरसैर्मर्दयेद्दिनसप्तकम् ॥१२॥
मुखचर्वणसम्भूतैर्निम्बकाष्ठेन पेषितः ।
नवनीतसमस्तेन जायते पारदस्ततः ॥१३॥
वस्त्रेण बंधनं कृत्वा फले धौर्ते निवेशयेत् ।
गोमयैर्वेष्टितं तच्च करीषाग्नौ विपाचयेत् ॥१४॥
लावकाख्ये पुटे सम्यक्क्रमवृद्ध्या शतं पुटेत् ।
मासत्रयप्रमाणेन पाचयेदन्नमध्यतः ॥१५॥
पश्चात्पुटशतं दद्याच्छगणेनाथ पूर्ववत् ।
अनेनैव प्रकारेण बध्यते सूतकः सदा ॥१६॥
दृष्टप्रत्यययोगोऽयं कथितः साधकाय वै ।
धारितोऽसौ मुखे सम्यक्वीर्यस्तंभकरः परम् ।
वंगस्तंभकरोऽप्येवं बद्धः सूतवरोऽप्यलम् ॥१७॥
-मूलिकाबन्ध-
शुद्धं सुजारिताभ्रं वै सूतकं च विमर्दयेत् ।
अर्कमूलरसेनैव वासरैकं प्रयत्नतः ॥१८॥
वज्रमूषा ततः कार्या सुदृढा मसृणीकृता ।
अर्कमूलभवेनैव कल्केन परिलेपिता ॥१९॥
मूषामध्ये रसं मुक्त्वा चान्धयेदन्यमूषया ।
यामार्धं ध्मापितः सम्यक्रसखोटः प्रजायते ॥२०॥
स्वांगशीतं परिज्ञाय रसखोटं समुद्धरेत् ।
वर्षमात्रं धृतो वक्त्रे वलीपलितनाशनः ॥२१॥
सर्वसिद्धिकरोऽप्येष मूलिकाबद्धपारदः ।
मूलिकाबंधनं सत्यं कृतं नागार्जुनादिभिः ॥२२॥
सर्वसिद्धिकरं श्रेष्ठं सर्वकार्यकरं सदा ॥२३॥
-मूलिकाबन्ध (४)-
शुद्धं रसवरं सम्यक्तथैवाम्बरभक्षितम् ।
जलकूम्भीरसैः पश्चान्मर्दयेद्दिनसप्तकम् ॥२४॥
तस्याः प्रकल्पयेन्मूषां सूतकं तत्र निक्षिपेत् ।
अन्यस्यामन्धमूषायां सूतमूषां निरुन्धयेत् ॥२५॥
पुटं तत्र प्रदातव्यं एकेनारण्यकेन च ।
पुटान्येवं प्रदेयानि एकैकोत्पलवृद्धितः ॥२६॥
अनेनैव प्रकारेण पुटानि त्रीणि दापयेत् ।
बन्धमाप्नोति सूतेन्द्रः सत्यं गुरुवचो यथा ॥२७॥
-मूलिकाबन्ध (५)-
चूर्णीकृतानि सततं धूर्तबीजानि यत्नतः ।
सूतराजसमान्येवं ऊर्ध्वयन्त्रेण पातयेत् ॥२८॥
एकविंशतिवाराणि ततः खल्वे निधापयेत् ।
इङ्गुदीपत्रनिर्यासे मर्दयेद्दिनसप्तकम् ॥२९॥
भृंगराजरसेनैव विषखर्परकेन च ।
पाठारसेन संमर्द्य लज्जालुस्वरसेन वै ॥३०॥
त्र्यहं त्र्यहं च संमर्द्य बन्धमायाति निश्चितम् ।
दोलायंत्रेण संस्वेद्य सप्ताहं धूर्तजे रसे ॥३१॥
विषमूषोदरे धृत्वा मांसे सूकरसंभवे ।
भर्जयेद्धूर्ततैलेन सप्ताहाज्जायते मुखम् ॥३२॥
कठिनो वज्रसदृशो जायते नात्र संशयः ।
क्षीरं शोषयते नित्यं कौतुकार्थे न संशयः ॥३३॥
वीर्यं वंगं स्तम्भयति सत्यं सत्यं न संशयः ।
प्रकाराः कथिताः पञ्च सूतराजस्य बंधने ॥३४॥
-वज्रसत्त्वेन शतवेधी रसबन्धः (१)-
वज्रबंधं द्वितीयं तु क्रमेणैव यथातथम् ।
रसशास्त्राणि बहुधा निरीक्ष्य प्रवदाम्यहम् ॥३५॥
वज्रसत्वं तथा सूतं समांशं कारयेद्बुधः ।
रसपादसमं हेम त्रयमेकत्र मर्दयेत् ॥३६॥
वंध्याकर्कोटिकामूल रसेनैवाथ भावयेत् ।
तथा धूर्तरसेनापि चित्रकस्य रसेन वै ॥३७॥
काम्बोजीरसकेनापि तथा नाडीरसेन वै ।
आसां नियामिकानां च रसं वस्त्रेण गालयेत् ॥३८॥
सूर्यातपे दिनैकैकं क्रमेणानेन मर्दयेत् ।
अंधमूषागतं गोलं मुद्रयेद्दृढमुद्रया ॥३९॥
लोहसंपुटके पश्चान्निक्षिप्तं मुद्रितं दृढम् ।
घटिकाद्वयमानेन ध्मापितं भस्त्रया खलु ॥४०॥
स्वांगशीतलकं ज्ञात्वा गृह्णीयातां च मूषिकाम् ।
उत्खन्योत्खन्य यत्नेन सूतभस्म समाहरेत् ॥४१॥
काचटंकणयोगेन ध्मापितं तं च गोलकम् ।
वेधते शतवेधेन सूतको नात्र संशयः ॥४२॥
वक्त्रस्थो निधनं हन्याद्देहलोहकरो भवेत् ॥४३॥
-वज्रभस्मयोगेन रसबन्धः (७)-
वज्रभस्म तथा सूतं समं कृत्वा तु मर्दयेत् ।
त्रिनेमिकावज्रवल्ली सहदेवीरसेन च ॥४४॥
स्नुहिक्षीरेण सप्ताहं सूर्यघर्मे सुतीव्रके ।
रसगोलं सुवृत्तं तु शुष्कं चैवाथ लेपयेत् ॥४५॥
काकमाचीरसेनैव लांगलीस्वरसेन हि ।
गोजिह्विकारसेनैव सप्तवारं प्रलेपयेत् ॥४६॥
वज्रमूषागतं गोलं मुद्रयेद्दृढमुद्रया ।
लोहसंपुटमूषायां अन्धितं मध्यसंस्थितम् ॥४७॥
सप्तमृत्कर्पटैः सम्यग्लेपितं सुदृढं कुरु ।
ध्मापितं दृढमंगारैस्तत्रस्थं शीतलीकृतम् ॥४८॥
भित्त्वा मूषागतं सूतं खोटं नक्षत्रसन्निभम् ।
सर्वकार्यकरं शुभ्रं रञ्जितं वेधकृद्भवेत् ॥४९॥
-अभ्रद्रुत्या रसबन्धः (८)-
अभ्रकद्रुतिभिः सार्धं सूतकं च विमर्दयेत् ।
समांशेन शिलापृष्ठे यामत्रयमनारतम् ॥५०॥
कस्तूरीधनसाराभ्यां कृष्णागरुसमन्वितम् ।
शर्करालशुनाभ्यां च रामठेन च संयुतम् ॥५१॥
पलाशबीजस्य तथा तत्प्रसूनरसेन हि ।
तीक्ष्णांशुनाथ मृदितं द्रुतिभिः सह सूतकम् ॥५२॥
मिलत्येव न संदेहः किमन्यैर्बहुभाषितैः ।
ततो गुञ्जारसेनैव श्वेतवृश्चीवकस्य च ॥५३॥
लांगल्याश्च रसैस्तावद्यावद्भवति बन्धनम् ॥५४॥
ततः प्रकाशमूषायां पञ्चांगारैर्धमेत्क्षणम् ।
बन्धमायाति वेगेन यथा सूर्योदयेऽम्बुजम् ॥५५॥
अभ्रद्रुतिसमायोगे रसेन्द्रो वध्यते खलु ।
शिवभक्तो भवेत्साक्षात्सत्यवाक्संयतेन्द्रियः ॥५६॥
शिवयोर्मेलनं सम्यक्तस्य हस्ते भविष्यति ।
रसागमेषु यत्प्रोक्तं बंधनं पारदस्य च ॥५७॥
कथितं तन्मया स्पष्टं नानुभूतं न चेष्टितम् ॥५८॥
-वज्रद्रुत्या रसबन्धः (९)-
वज्राणां ब्रह्मजातीनां द्रुतिर्वल्लप्रमाणिका ।
तोलकं शुद्धसूतं च मर्दयेत्कन्यकारसे ॥५९॥
तावत्तं मर्दयेत्सम्यग्यावत्पिष्टी प्रजायते ।
कृत्वा मूषां समां शुद्धां दहनोपलनिर्मिताम् ॥६०॥
तन्मध्ये पिष्टिकां मुक्त्वा पिष्टीमानं विषं त्वहेः ।
पिधानं तादृशं कुर्यान्मुखं तेनाथ रुन्धयेत् ॥६१॥
कांस्यभाजनमध्ये तु स्थापयेन्मूषिकां शुभाम् ।
भाजनानि च चत्वारि चतुर्दिक्षु गतानि च ॥६२॥
चित्रं घर्मप्रसंगेन बन्धमायाति पारदः ।
यामात्खरातपे नित्यं शिवेनोक्तं अतिस्फुटम् ॥६३॥
वज्रद्रुतिसमायोगात्सूतो बन्धनकं व्रजेत् ।
सर्वेषां सूतबन्धानां श्रेष्ठं सत्यमुदीरितम् ॥६४॥
-सुवर्णद्रुत्या रसबन्धः (१०)-
अथेदानीं प्रवक्ष्यामि सूतराजस्य बन्धनम् ।
हेमद्रुतिं रसेन्द्रेण मर्दयेत्सप्तवासरान् ॥६५॥
ज्वालामुखीरसेनैव धौतः पश्चाच्च कांजिकैः ।
प्रत्यहं क्षालयेद्रात्रौ रसेनोक्तेन वै दिवा ॥६६॥
अंधमूषागतं पश्चान्मृदा कर्पटयोगतः ।
लेपयेत्सप्तवाराणि भूगर्ते गोलकं न्यसेत् ॥६७॥
द्वादशांगुलविस्तीर्णं द्वादशांगुलनिम्नकम् ।
खातप्रमाणं कथितं गुरुमार्गेण च स्फुटम् ॥६८॥
तत्रोपरि पुटं देयं गजाह्वं छगणेन च ।
यामद्वादशकेनैव बध्यते पारदः स्वयम् ॥६९॥
हेमद्रुतौ बद्धरसो देहलोहप्रसाधकः ।
सर्वसिद्धिकरः श्रीमान्जरादारिद्र्यनाशनः ॥७०॥
-सुवर्णेन रसबन्धः-
धातुबन्धस्तृतीयोऽसौ स्वहस्तेन कृतो मया ।
तदहं कथयिष्यामि साधकार्थे यथातथम् ॥७१॥
भूर्जवत्सूक्ष्मपत्राणि कारयेत्कनकस्य च ।
तान्येव कोलमात्राणि पलमात्रं तु सूतकम् ॥७२॥
मर्दयेन्निम्बुकद्रावैर्दिनमेकमनारतम् ।
ततस्तद्गोलकं कृत्वा खर्परोपरि विन्यसेत् ॥७३॥
चुल्यामारोपणं कार्यं धान्याम्लेन निषिञ्चयेत् ।
पिष्टिस्तंभस्तु कर्तव्यो नियतं त्रिदिनावधि ॥७४॥
ततो धूर्तरसेनैव स्वेदयेत्सप्तवासरान् ।
श्वेता पुनर्नवा चिंचा सहदेवी च नीलिका ॥७५॥
तथा धूर्तवधूश्चैव लांगली सुरदालिका ।
सूतबन्धकरा श्रेष्ठा प्रोक्ता नागार्जुनादिभिः ॥७६॥
एतासां स्वरसैः पङ्कैर्लेपयेत्सूतगोलकम् ।
त्रिगुणैर्भूर्जपत्रैस्तु वेष्टयेत्तदनंतरम् ॥७७॥
वस्त्रेण पोटलीं बद्ध्वा स्वेदयेन्निंबुकद्रवैः ।
यामत्रयं प्रयत्नेन धौतः पश्चाद्गवां जलैः ॥७८॥
ततो धूर्तफलान्तस्थं पाचयेद्बहुभिः पुटैः ।
लावकाख्यैः सुमतिमान्शोभनः सूर्यकान्तिवत् ।
जायते नात्र संदेहो बद्धः शिवसमो भवेत् ॥७९॥
-रौप्येण रसबन्धः-
अष्टमांशेन रूप्येन सूतकं हि प्रमर्दयेत् ।
चांगेरीस्वरसेनैव पिष्टिकां कारयेद्बुधः ॥८०॥
खोटं बद्ध्वा तु विपचेत्धूर्ततैले त्रिवासरान् ।
तथा च कंगुणीतैले करवीरजटोद्भवे ॥८१॥
जातीफलोद्भवेनापि वत्सनागोद्भवेन च ।
भृंग्युद्भवेन च तथा समुद्रशोषकस्य वै ॥८२॥
देवदारुभवेनापि पाचयेन्मतिमान्भिषक् ।
पश्चात्सुतीक्ष्णमदिरा दातव्या तु तुषाग्निना ॥८३॥
दिनानि सप्तसंख्यानि मुखं उत्पद्यते ध्रुवम् ।
शुक्रस्तम्भकरः सम्यक्क्षीरं पिबति नान्यथा ॥८४॥
-तुत्थेन तुत्थोत्थताम्रेण रसबन्धः-
लोहपात्रे सुविस्तीर्णे तुत्थकस्यालवालकम् ।
अष्टसंस्कारितं सूतं तस्मिन्निक्षिप्य मात्रया ॥८५॥
तुत्थचूर्णेन संछाद्य पूरयेन्निम्बुकद्रवैः ।
पिधानेन मुखं रुद्ध्वा लोहपात्रस्य यत्नतः ॥८६॥
निर्वाते निर्जने देशे त्रिदिनं स्थापयेत्ततः ।
उष्णकांजिकयोगेन क्षालयेद्बहुशो भिषक् ॥८७॥
नवनीतसमो वर्णः सूतकस्यापि दृश्यते ।
रसखोटं ततो बद्ध्वा स्वेदयेत्कांजिकैस्त्र्यहम् ॥८८॥
अश्मचूर्णस्य कणिकाम् अध्ये खोटं निधाय च ।
जलसेकः प्रकर्तव्यः शीतीभूतं समुद्धरेत् ॥८९॥
अनेनैव प्रकारेण त्रिवारं पाचयेद्ध्रुवम् ।
कठिनत्वं प्रयात्येव सत्यं गुरुवचो यथा ॥९०॥
ततो धूर्तफलानां हि सहस्रेणापि पाचयेत् ।
मुखं उत्पद्यते सम्यक्वीर्यस्तंभकरोऽप्ययम् ॥९१॥
-धातुबीजेन रसबन्धः-
वंगतीक्ष्णे समे कृत्वा ध्मापयेद्वज्रमूषया ।
वङ्गं उत्तारयेत्सम्यक्तीव्राङ्गारैः प्रयत्नतः ॥९२॥
अनेनैव प्रकारेण त्रिगुणं वाहयेत्त्रपु ।
बीजं शाणप्रमाणं हि सूतं पलमितं भवेत् ॥९३॥
मर्दयेत्कन्यकाद्रावैर्दिनमेकं विशोषयेत् ।
गोलस्य स्वेदनं कार्यं अहोभिः सप्तभिस्तथा ॥९४॥
त्रिफलाक्वाथमध्ये तु त्रियामं स्वेदयेत्सुधीः ।
कुमार्याः स्वरसेनैव भृंगराजरसेन हि ॥९५॥
भृंगीरसेन च तथा त्रिदिनं स्वेद्यमेव हि ।
एकैकेनौषधेनैवं काचकूप्यां निवेशयेत् ॥९६॥
खटीपटुशिवाभक्तं पिष्ट्वा वक्त्रं निरुन्धयेत् ।
खातं त्रिहस्तमात्रं स्याल्लद्दीपूर्णं तु कारयेत् ॥९७॥
मध्ये तु काचघटिकां सुरापूर्णां निवेशयेत् ।
भूमिस्थां मासयुग्मेन पश्चादेनां समुद्धरेत् ॥९८॥
बद्धं सूतवरं ग्राह्यं शुभ्रं चंद्रप्रभानिभम् ।
मुखस्थं कुरुते सम्यक्दृढवज्रसमं वपुः ॥९९॥
कामिनीनां शतं गच्छेद्वलीपलितवर्जितः ।
देवीशास्त्रानुसारेण धातुबद्धरसोऽप्ययम् ॥१००॥
प्रकाशितो मया सम्यक्नात्र कार्या विचारणा ॥१०१॥
-कान्तलोहेन रसबन्धः-
रसेंद्रः कान्तलोहं च तीक्ष्णलोहं तथैव च ।
अभ्रसत्वं तथा ताप्य सत्वं हेमसमन्वितम् ॥१०२॥
समांशानि च सर्वाणि मर्दयेन्निम्बुकद्रवैः ।
निषेचयेदेकदिनं पश्चाद्गोलं तु कारयेत् ॥१०३॥
पक्वमूषा प्रकर्तव्या गोलं गर्भे निवेशयेत् ।
गोजिह्वा काकमाची च निर्गुंडी दुग्धिका तथा ॥१०४॥
कुमारी मेघनादा च मधुसैंधवसंयुता ।
एतासां स्वरसेनैव स्वेदयेद्बहुशो भिषक् ॥१०५॥
यावद्दृढत्वमायाति तावत्स्वेद्यं तु गोलकम् ।
वक्त्रे धृतं जरामृत्युं निहन्ति च न संशयः ॥१०६॥
सर्वरोगान्निहत्याशु वयः स्तम्भयते ध्रुवम् ।
कर्णे कण्ठे तथा हस्ते धारिता मस्तकेऽपि वा ।
अभिचारादिदोषाश्च न भवन्ति कदाचन ॥१०७॥
चतुर्विधान्येव तु बन्धनानि श्रीसूतराजस्य मयोदितानि ।
कुर्वन्ति ये तत्त्वविदो भिषग्वरा राज्ञां गृहे तेऽपि भवन्ति पूज्याः ॥१०८॥
इति परमरहस्यं सूतराजस्य चोक्तं रसनिगममहाब्धेर्लब्धं एतत्सुरत्नम् ।
सकलगुणवरिष्ठा वादिनः कौतुकज्ञा निजहृदि च सुकण्ठे धारयिष्यन्ति तज्ज्ञाः ॥१०९॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP