रसप्रकाशसुधाकर - अध्याय ७

आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.


-नव रत्नानि-
माणिक्यं मौक्तिकं चैव विद्रुमं तार्क्ष्यं पुष्पकम् ।
वज्रं नीलं च गोमेदं वैडूर्यं च क्रमेण हि ॥१॥
सुजातिगुणसम्पन्नं रत्नं सर्वार्थसिद्धिदम् ।
दाने रसायने चैव धारणे देवतार्चने ॥२॥
-रुब्य सुब्त्य्पेस्-
पद्मरागाभिधं श्रेष्ठं प्रथमं तदुदीरितम् ।
-रुब्य नीलगन्धि-
द्वितीयं नीलगन्धि स्याद्घनं रक्तं सुशोभनम् ॥३॥
-रुब्य परीक्षा-
महच्च कमलच्छायं स्निग्धं स्वच्छं गुरु स्फुटम् ।
समं वृत्तायतं गात्रे माणिक्यं चोत्तमं मतम् ॥४॥
-नीलगन्धि फ्य्स्- प्रोपेर्तिएस्-
गंगोदकसमुद्भूतं नीलगर्भारुणच्छवि ।
माणिक्यं पूर्ववच्छायं नीलगन्धि तदुच्यते ॥५॥
-रुब्य परीक्षा बद्क़ुअलित्य्-
माणिक्यं चाष्टधा नेष्टं सच्छिद्रं मलिनं लघु ।
कर्कशं चिपिटं वक्रं सूक्ष्मं चाविशदं तथा ॥६॥
-रुब्य मेदिच्- प्रोपेर्तिएस्-
संदीपनं वृष्यतमं हि रूक्षं वातापहं कर्मरुजापहं च ।
भूतादिदोषत्रयनाशनं परं राज्ञां सदा योग्यतमं प्रशस्तम् ॥७॥
-पेअर्ल परीक्षा गूद्क़ुअलित्य्-
ह्लादि श्वेतं रश्मिमन्निर्मलं च वृत्तं ख्यातं मौक्तिकं तोयभासम् ।
स्निग्धं तौल्ये गौरवं चेन्महत्तल्लिंगैरेतैर्लक्षितं तच्च शुद्धम् ॥८॥
-पेअर्ल परीक्षा बद्क़ुअलित्य्-
रूक्षाङ्गं चेन्निष्प्रभं श्यावताम्रं चार्धं शुभ्रं ग्रंथिलं मौक्तिकं च ।
क्षाराभासं वैकटं युग्मकं च दोषैर्युक्तं सर्वथा त्याज्यमेभि ॥९॥
-पेअर्ल मेदिच्- प्रोपेर्तिएस्-
कासं श्वासं वह्निमांद्यं क्षयं च हन्याद्वृष्यं बृंहणं पित्तहारि ।
दाहश्लेष्मोन्मादवातादिरोगान्हन्यादेवं सेवितं सर्वकाले ॥१०॥
-चोरल परीक्षा गूद्क़ुअलित्य्-
स्निग्धं स्थूलं पक्वबिम्बीफलाभं वृत्तं दीर्घं निर्व्रणं चाप्यदीर्घम् ।
ख्यातं सद्भि सप्तधा विद्रुमं च दोषैर्मुक्तं सर्वकार्येषु शस्तम् ॥११॥
-चोरल परीक्षा बद्क़ुअलित्य्-
रूक्षं श्वेतं सव्रणं धूसरं च निर्भारं चेच्छुल्बवर्णं प्रवालम् ।
दोषैर्युक्तं कोटरैरावृतं च नेष्टं सद्भिर्भक्षणे धारणे च ॥१२॥
-चोरल मेदिच्- प्रोपेर्तिएस्-
पित्तास्रघ्नं श्वासकासादिरोगान्हन्यादेवं दुर्निवारं विषं च ।
भूतोन्मादान्नेत्ररोगान्निहन्यात्सद्य कुर्याद्दीपनं पाचनं च ॥१३॥
-एमेरल्द परीक्षा गूद्क़ुअलित्य्-
तार्क्ष्यं स्निग्धं भासुरं शष्पवर्णं गात्रै शुद्धं भारवद्रश्मियुक्तम् ।
एते प्रोक्ता सप्तसंख्या गुणा वै दाने शस्तं भक्षणे धारणे च ॥१४॥
-एमेरल्द परीक्षा बद्क़ुअलित्य्-
नीलं श्वेतं कर्कशं श्यावरूक्षं वक्रं कृष्णं चिप्पटं भारहीनम् ।
-एमेरल्द मेदिच्- प्रोपेर्तिएस्-
दुष्टं तार्क्ष्यं चौषधेनोपयोज्यं कासं श्वासं सन्निपाताग्निमांद्यम् ॥१५॥
शोफं शूलं जूर्तिरोगं विषं च दुर्नामानं पाण्डुरोगं निहन्यात् ॥१६॥
-पुष्पराग परीक्षा गूद्क़ुअलित्य्-
स्वच्छं स्थूलं पुष्परागं गुरु स्यात्स्निग्धं वर्णे कर्णिकारप्रसूनम् ।
तच्चावक्रं मसृणं कोमलं च लिंगैरेतै शोभनं पुष्परागम् ॥१७॥
-पुष्पराग परीक्षा बद्क़ुअलित्य्-
रूक्षं पीतं कर्कशं श्यामलं च पाण्डु स्याद्वा कापिलं तोयहीनम् ।
दोषैर्युक्तं निष्प्रभं पुष्परागं नो सेव्यं तन्नैव देयं द्विजेभ्य ॥१८॥
-पुष्पराग मेदिच्- प्रोपेर्तिएस्-
कुष्ठं छर्दिं श्लेष्मवातौ निहन्ति मंदाग्नीनामेतदेव प्रशस्तम् ।
दाहे कृच्छ्रे दीपनं पाचनं च तस्मात्सेव्यं सर्वकालं मनुष्यै ॥१९॥
-वज्र सुब्त्य्पेस गेन्देर्-
सर्वेषु रत्नेषु सदा वरिष्ठं मूल्यैर्गरिष्ठं विविधं हि वज्रम् ।
नरश्च नारी च तथा तृतीयं तेषां गुणान्वच्मि समासतो हि ॥२०॥
पूर्वं पूर्वं श्रेष्ठमेतत्प्रदिष्टं द्रव्याद्वीर्यात्पाकतश्च प्रभावात् ।
तेषां वर्णा जातयश्च प्रभेदा कथ्यन्तेऽष्टौ शास्त्रतश्चापकर्षात् ॥२१॥
श्वेतादिकं वर्णचतुष्टयं हि सर्वेषु रत्नेषु च कथ्यते बुधै ।
स्युर्ब्राह्मणक्षत्रियवैश्यशूद्रास्ते जातयो वै क्रमशश्च वर्णा ॥२२॥
-पुंवज्र फ्य्स्- प्रोपेर्तिएस्-
पुंवज्रं यत्प्रोच्यते चाष्टधारं षट्कोणं चेदिन्द्रचापेन तुल्यम् ।
अष्टौ चेत्स्यु फालका भासुरं वै पूर्वं श्रेष्ठं सर्वदोषापहं स्यात् ॥२३॥
-स्त्रीवज्र फ्य्स्- प्रोपेर्तिएस्-
स्त्रीवज्रं चेत्तादृशं वर्तुलं हि किंचिच्चैवं चिप्पटं कर्कशं च ।
-नपुंसक फ्य्स्- प्रोपेर्तिएस्-
कोणाग्रं वै कुण्ठितं वर्तुलं च किंचिद्धीनं प्रोच्यते तत्तृतीयम् ॥२४॥
स्त्री पुमान्नो स्त्री पुमान्यच्च वज्रं योज्यं तच्च स्त्रीषु पुंस्वेव षण्ढे ।
व्यत्यासाद्वै नैव दत्तं फलं तद्दद्याद्वज्रं वा विना तत्पुमांसम् ॥२५॥
वर्णेऽप्येवं यस्य वर्णस्य वज्रं तत्तद्वर्णे शोभनीयं प्रदिष्टम् ।
न्यायश्चायं भैरवेण प्रदिष्ट सर्वेष्वेव रत्नवर्गेषु सम्यक् ॥२६॥
-वज्र शोधन-
यामावधि स्वेदितमेव वज्रं शुद्धिं प्रयातीह कुलत्थतोये ।
सिद्धं तथा कोद्रवजे शृते वा वज्रं विशुध्येद्धि विनिश्चितेन ॥२७॥
-वज्र मारण वारितर-
सुभावितं मत्कुणशोणितेन वज्रं चतुर्वारविशोषितं च ।
छुच्छुंदरीस्थं हि विपाचितं पुटे पुटेद्वराहेण च त्रिंशदेवम् ॥२८॥
ध्मातं पुनर्ध्माय शतं हि वारान्क्वाथे कुलत्थस्य हि निक्षिपेच्च ।
संपेषयेत्तं हि शिलातलेन मनशिलाभि सह कारयेद्वटीम् ॥२९॥
क्षिप्त्वा निरुन्ध्यापि च मूषिकायां पुटान्यथाष्टौ च वनोपलैर्ददेत् ।
वारान्शतं चापि ततो धमेत्तं संमर्दितं शोधितपारदेन ॥३०॥
वज्राणि सर्वाणि मृतीभवन्ति तद्भस्मकं वारितरं भवेच्च ।
श्रीसोमदेवेन च सत्यवाचा वज्रस्य मृत्यु कथितो हि सम्यक् ॥३१॥
-वज्र मारण-
कासमर्दरसपूर्णलोहजे मत्कुणस्य रुधिरैर्विलेपितम् ।
स्वेदितं च भिदुरं हि सप्तभिर्वासरै परिनिषेच्य मूत्रके ॥३२॥
ध्मापितं हि खलु वज्रसंज्ञकं मारयेदिति वदन्ति तद्विद ।
-वज्र मारण-
नीलज्वालावीरुध कन्दकेषु घृष्टं घर्मे शोषितं भस्मभावम् ॥३३॥
वज्रं याति स्वैरवह्निप्रदानात्पिष्टैश्चापि क्षोणिनागै प्रलिप्तम् ।
विंशद्वारान्संपुटेच्च प्रयत्नादारण्यैर्वा गोमयैस्तद्धठाग्नौ ।
वज्रं चैवं भस्मसाद्वीर्ययुक्तं सर्वस्मिन्वै योजनीयं रसादौ ॥३४॥
-वज्र मृत मेदिच्- प्रोपेर्तिएस्-
आयुप्रदं वृष्यतमं प्रदिष्टं दोषत्रयोन्मूलनकं तथैव ।
रसेन्द्रकस्यापि हि बंधकृत्सदा सुधासमं चापमृतिं च हन्यात् ॥३५॥
-वज्र मेदिच्- उसे-
भूनागसत्वेन समं विमर्द्य वज्रस्य भूतिं च समानहेम्ना ।
ध्मातं रसादावपि योजनीयं रसायनं तद्भवतीह सम्यक् ॥३६॥
भागास्त्रयश्चैव हि सूतकस्य भागं विमर्द्याथ मृतं हि वज्रम् ।
वज्रस्य भूति किल पोटलीकृता मुखे धृता दार्ढ्यकरी द्विजानाम् ॥३७॥
-वज्ररसायनं षाड्गुण्यसिद्धिदम्-
वज्रभस्म किल भागत्रिंशकं स्वर्णमेव कथितं कलांशकम् ।
अष्टभागमिह तारकं कुरु सूतमत्र समभागकं सदा ॥३८॥
अभ्रसत्वभसितं समांशकं तुर्यभागमिह ताप्यकं भवेत् ।
वैक्रांतभस्मात्र तथाष्टभागकं षडेव भागा हि बलेर्विधेया ॥३९॥
षाड्गुण्यसंसिद्धिं उपैति सर्वदा सर्वार्थसंसिद्धिमुपैति सेविते ॥४०॥
-सप्फिरे सुब्त्य्पेस्-
इन्द्रनीलमथ वारिनीलकं श्वैत्यगर्भितमथापि नीलकम् ।
कथ्यते हि लघु वारिनीलकं तुच्छमेव कथितं भिषग्वरै ।
-इन्द्रनील परीक्षा-
कान्त्या युक्तं कार्ष्ण्यगर्भं च नीलं तच्चाप्युक्तं शक्रनीलाभिधानम् ॥४१॥
-सप्फिरे परीक्षा गूद्क़ुअलित्य्-
एकच्छायं स्निग्धवर्णं गुरु स्यात्स्वच्छं मध्ये चोल्लसत्कांतियुक्तम् ।
नीलं प्रोक्तं पिण्डितं सप्तसंज्ञैरेतैर्लिङ्गैर्लक्षितं चोत्तमं हि ॥४२॥
-सप्फिरे परीक्षा बद्क़ुअलित्य्= जलनील-
निर्भारं चेत्कोमलं चास्रगन्धि रूक्षं वर्णे सूक्ष्मकं चिप्पिटं च ।
प्रोक्तं वै तद्वारिनीलं भिषग्भिरेतैर्लिंगै सप्तभि क्षेपणीयम् ॥४३॥
-सप्फिरे मेदिच्- प्रोपेर्तिएस्-
संदीपनं श्वासहरं च वृष्यं दोषत्रयोन्मूलनकं विषघ्नम् ।
दुर्नामपांडुघ्नमतीव बल्यं जूर्तिं जयेन्नीलमिदं प्रशस्तम् ॥४४॥
-गोमेद परीक्षा गूद्क़ुअलित्य्-
गोमेदकं रत्नवरं प्रशस्तं गोमेदवद्रागयुतं प्रचक्षते ।
सुस्वच्छगोमूत्रसमानवर्णं गोमेदकं शुद्धमिहोच्यते खलु ॥४५॥
दीप्तं स्निग्धं निर्दलं मसृणं वै मूत्रच्छायं स्वच्छमेतत्समं च ।
एभिर्लिङ्गैर्लक्षितं वै गरीय सर्वास्वेतद्योजनीयं क्रियासु ॥४६॥
-गोमेद परीक्षा बद्क़ुअलित्य्-
विच्छायं वा चिप्पिटं निष्प्रभं च रूक्षं चाल्पं चावृतं पाटलेन ।
निर्भारं वा पीतकाचाभयुक्तं गोमेदं चेदीदृशं नो वरिष्ठम् ॥४७॥
-गोमेद मेदिच्- प्रोपेर्तिएस्-
गोमेदकं पित्तहरं प्रदिष्टं पाण्डुक्षयघ्नं कफनाशनं च ।
संदीपनं पाचनमेव रुच्यं अत्यंतबुद्धिप्रविबोधनं च ॥४८॥
-वैडूर्य परीक्षा गूद्क़ुअलित्य्-
स्वच्छं समं चापि विडूर्यकं हि श्यामाभशुभ्रं च गुरु स्फुटं वा ।
यज्ञोपवीतोपमशुद्धरेषास्तिस्रश्च संदर्शयतीह शुभ्रा ॥४९॥
-वैडूर्य परीक्षा बद्क़ुअलित्य्-
कर्कशं च लघु चिप्पटं सदा श्यामतोयमिव दृश्यते छवि ।
रक्तगर्भसममुत्तरीयकं नैव शोभनमिदं विडूर्यकम् ॥५०॥
-वैडूर्य मेदिच्- प्रोपेर्तिएस्-
रक्तपित्तशमनं विडूर्यकं बुद्धिवर्धनकरं च दीपनम् ।
पित्तरोगमलमोचनं सदा धारयेच्च मतिमान्सुखावहम् ॥५१॥
-सर्वरत्नेषु दोषा-
घर्षश्च बिंदुश्च तथैव रेषा त्रासश्च पानीयकृता सगर्भता ।
सर्वेषु रत्नेषु च पञ्चदोषा साधारणास्ते कथिता मुनीन्द्रै ॥५२॥
ये क्षेत्रतोयप्रभवाश्च दोषा सर्वेषु रत्नेषु गलन्ति सम्यक् ॥५३॥
तेषां च शुद्धिं शृणु भैरवोक्तां यथा हि दोषस्य विनाशनं स्यात् ।
-जेwएल शोधन-
अम्लेन वै शुध्यति माणिक्याख्यं जयन्तिकाया स्वरसेन मौक्तिकम् ॥५४॥
क्षारेण सर्वेण हि विद्रुमं च गोदुग्धतस्तार्क्ष्यमुपैति शुद्धिम् ।
धान्यस्याम्लै पुष्परागस्य शुद्धिं कौलत्थे वै क्वाथ्यमानं हि वज्रम् ॥५५॥
नीलं नीलीपत्रजातै रसैश्च गोमेदं वै रोचनाया रसेन ।
वैडूर्यं चेदुत्तमाक्वाथयुक्तं यामैकैकं स्वेदितं शुद्धिमेति ॥५६॥
-रत्नमारणम्-
तालगंधकशिलासमन्वितं मर्दयेल्लकुचवारिणा खलु ।
वज्रवर्ज्यमपि चाष्टभि पुटै रत्नभस्म भवतीति निश्चितम् ॥५७॥
-जेwएल द्रावण-
रामठं लवणपंचकं सदा क्षारयुग्ममपि चेत्सुपेषितम् ।
चूलिकालवणमम्लवेतसं पक्वकुम्भिकफलं तथैव च ॥५८॥
चित्रमूलकरुदन्तिके शुभा जम्बुकी जलयुता द्रवन्तिका ।
अर्कदुग्धसमसौधदुग्धकं सर्वमेव मृदितं शिलातले ॥५९॥
गोलमस्य च विधाय निक्षिपेद्रत्नजातिषु वराणि पेषयेत् ।
भूर्जपत्रमभिवेष्ट्य गोलके गोलकोपरि निवेष्ट्य मूत्रत ॥६०॥
वस्त्रेण संवेष्ट्य तत प्रयत्नाद्दोलाख्ययंत्रेऽथ निवेश्य गोलकम् ।
सर्वाम्लयुक्ते तुषवारिपूरिते पात्रं दृढे मृण्मयसंज्ञके हि ॥६१॥
दिनत्रयं स्वेदनकं विधेयं आहृत्य तस्माद्वरगोलकं हि ।
संक्षालयेच्चाम्लजलेन चापि संजायते रत्नभवा द्रुतिश्च ॥६२॥
-द्रुतिलक्षणानि-
वर्णेन सा रत्ननिभा च कान्त्या लघ्वी भवेद्देहकरी च सम्यक् ।
लोहस्य वेधं प्रकरोति सम्यक्सूतेन सम्यङ्मिलनं प्रयाति ॥६३॥
तदा भवेयु खलु सिद्धता यदा हिंग्वादिवर्गेण मिलन्ति सम्यक् ।
यामद्वयं कांस्यविमर्दिता वै चातिप्रयत्नेन तु वैद्यवर्यै ॥६४॥
कस्यापि नु सिध्यति वै द्रुतिश्च यदा प्रसन्न खलु पार्वतीश ।
न स्याद्यावद्भैरवस्य प्रसादस्तावत्सूते बन्धनं दुर्लभं हि ।
तासां मध्ये दुर्लभाभ्रद्रुतिश्च स्वल्पं भाग्यं भूरिदौर्भाग्यभाजाम् ॥६५॥
रत्नानां क्रमतो गुणाश्च कथितास्तच्छोधनं मारणं तेभ्यश्चैव हि सत्वपातनमथो सम्यग्द्रुते पातनं ।
सर्वेषां हि परीक्षणं च द्रुतय सम्मेलनं वै रसे अध्यायेऽत्र निदर्शितानि सकलान्येवं हि कर्माणि वै ॥६६॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP