रसप्रकाशसुधाकर - अध्याय ११
आयुर्वेदाचार्य यशोधर यांचा जन्म गौड जातीत, तेराव्या शतकात सौराष्ट्र देशातील जुनागढ येथे झाला.
अथात सम्प्रवक्ष्यामि धातूनां कौतुकं परम् ।
स्वानुभूतं मया किंचित्श्रुतं वा शास्त्रत खलु ।
तदहं सम्प्रवक्ष्यामि यत्कृत्वा ना सुखी भवेत् ॥१॥
-हेमकरणविधि (१)-
रसकं दरदं ताप्यं गगनं कुनटी समम् ।
रक्तस्नुहीपयोभिश्च मर्दयेद्दिनसप्तकम् ॥२॥
जलयंत्रेण वै पाच्यं चतुर्विंशतियामकम् ।
तेन वेध्यं द्रुतं ताम्रं तारं वा नागमेव वा ॥३॥
सहस्रवेधी तत्कल्को जायते नात्र संशय ॥४॥
-हेमकरणविधि (२)-
एकभागस्तथा सूतो वज्रवल्ल्याथ मर्दित ।
खल्वे त्रिनेम्या स्वरसे पञ्चभागसमन्विते ॥५॥
वेत्रयष्ट्या च रागिण्या पीतकल्कं प्रजायते ।
षोडशांशेन दातव्यं द्रुते ताम्रं सुशोधिते ॥६॥
जायते प्रवरं हेम शुद्धं वर्णचतुर्दशम् ॥७॥
-हेमकरणविधि (३)-
सुवर्णमाक्षिकं स्वेद्यं कांजिके दिवसत्रयम् ।
चर्मरङ्ग्या रसेनैव मर्दयेद्दिनसप्तकम् ।
जलेन धौतं तावच्च यावद्धेमनिभं भवेत् ॥८॥
-हेमकरणविधि (४)-
दरदं रोमदेशीयं गोमूत्रेणैव स्वेदयेत् ।
दोलायंत्रे चतुर्यामं पश्चाच्छुद्धतमो भवेत् ॥९॥
मनशिला पद्मनिभा रक्ता चैव सुशोभना ।
स्वेदिता मुनिपुष्पस्य रसेनैव तु दोलया ॥१०॥
याममर्धमितं शुद्धा सर्वकार्येषु योजयेत् ।
नवसारस्तथा सूत शोधितोऽग्निसह खलु ॥११॥
समभागानि सर्वाणि मर्दयेन्निम्बुकै रसै ।
मातलुंगरसेनैव कुमारीस्वरसेन च ॥१२॥
सूर्यातपे विमर्द्योऽसौ पाचितो जलयन्त्रके ।
दिनानि त्रीणि तीव्राग्नौ ततस्तदवतारयेत् ॥१३॥
शतांशं वेधयेत्तारं शुद्धं हेम प्रजायते ।
जलभेदो यदा न स्यान्नात्र कार्या विचारणा ॥१४॥
-हेमकरणविधि (५)-
शिलया मारितं नागं कुमार्या स्वरसेन च ।
पुटद्वादशयोगेन नागभस्म प्रजायते ॥१५॥
शतसंख्यानि वै कुर्यात्पुटान्येवं शरावके ।
कुमार्या स्वरसेनैव भावयेद्दिनसप्तकम् ॥१६॥
पूर्ववत्पुटनं कार्यं शतसङ्ख्यामितं तथा ।
सूतभस्म शिला ताल समं चेन्नागभस्मकम् ॥१७॥
त्रिंशद्वनोपलैर्दद्यात्पुटं वाराहसंज्ञितम् ।
अनेन विधिना सम्यक्शतसंख्यानि दापयेत् ॥१८॥
पुटान्येवं कृते त्रीणि शतानि द्वादशाधिकम् ।
पश्चाद्दृढे काचमये कूपे द्वात्रिंशयामकम् ॥१९॥
वालुकाग्निं प्रदद्याच्च स्वांगशीतं समुद्धरेत् ।
तलभस्म गृहीतव्यं वेधयेच्छुल्बतारके ॥२०॥
शुद्धहेम भवेत्तेन नात्र कार्या विचारणा ।
दृष्टप्रत्यययोगोऽयं कथितो नात्र संशय ॥२१॥
-हेमकरणविधि (६)-
गोमूत्रे काञ्जिके चाथ कुलत्थे वासरत्रयम् ।
ताप्यकं स्वेदयेत्पश्चाल्लोहपात्रे प्रमर्दयेत् ॥२२॥
तप्तखल्वेन संमर्द्य सेचयेन्निम्बुजद्रवै ।
सैन्धवं दापयेत्पश्चाच्चतुर्थांशं विशेषत ॥२३॥
भागैकं ताप्यकं सूताद्भागांस्त्रीनेव कारयेत् ।
मर्दयेन्निम्बुनीरेण शुद्धवस्त्रेण गालयेत् ॥२४॥
वस्त्रे लग्ना तु या पिष्टी ग्राहयेत्तां भिषग्वर ।
एवं कृते द्विस्त्रिवारं ताप्यसत्वं ग्रसेद्रस ॥२५॥
पिष्ट्या गोलस्तु कर्तव्यो मूषायां ध्मापयेत्सुधी ।
इन्द्रगोपनिभं ग्राह्यं ताप्यसत्वं सुशोभनम् ॥२६॥
हीनवर्णसुवर्णेऽपि गद्याणे वल्लमात्रकम् ।
तुत्थकं वल्लमात्रं च दत्त्वा हेम प्रगालयेत् ॥२७॥
तत्सुवर्णस्य पत्राणि कार्याण्येवं प्रलेपयेत् ।
तुत्थकं बीजपूरस्य रसेनापि प्रमर्दयेत् ॥२८॥
गैरिकेण समं कृत्वा हेमपत्राणि लेपयेत् ।
मन्दवह्नौ च प्रपुटेत्द्वित्रिवारं प्रयत्नत ॥२९॥
कुङ्कुमाभं सुवर्णं हि जायते नात्र संशय ।
वार्तिकेन्द्रा कुरुध्वं हि सत्यं गुरुवचो यथा ॥३०॥
द्वौ वर्णौ वर्धते सम्यक्नात्र कार्या विचारणा ॥३१॥
-हेमकरणविधि (७)-
शुद्धं ताम्रं ताप्यचूर्णेन तुल्यं द्राव्यं पश्चाड्ढालयेल्लाकुचे हि ।
गन्धाच्चूर्णं ताप्यताम्रावशेषं कृत्वा दद्याद्वल्लकं हीनवये ।
वर्णोत्कर्षो जायते तेन सम्यक्सत्यं प्रोक्तं नन्दिना कौतुकाय ॥३२॥
-हेमकरणविधि (८)-
ताप्यं नागं गन्धकं सूतराजो हिंगूलं वै हेम शुद्धं शिला च ।
चूर्णं कृत्वा निक्षिपेत्काचकूप्यां आपूर्यान्ते स्वै रसै शाकजैर्वा ॥३३॥
अग्निं दद्याल्लावकाख्ये पुटे च शुद्ध कल्को जायते षष्टिसंख्यै ।
शुद्धं तारं वेधितं वल्लकेन गद्याणं वै जायते शुद्धहेम ॥३४॥
-हेमकरणविधि (९)-
अहिरिपुं अहितुल्यं सारितं सूतराजे बलिवसगिरिचूर्णै कान्तपात्रे सुदग्धम् ।
सुविहितफणिभागैर्हेमगर्भेण बद्धो भुजगजितरसेन्द्रो वेधयेल्लक्षवेधी ॥३५॥
-हेमकरणविधि (१०)-
द्वौ भागौ शुद्धताम्रस्य द्वौ भागौ शुद्धहेमजौ ।
चतुर एव भागांश्च शुद्धतारस्य कारयेत् ॥३६॥
अष्टौ भागा प्रकर्तव्या रसकस्य प्रयत्नत ।
अन्धमूषागतं ध्मातं द्रावितं हेम जायते ॥३७॥
-हेमकरणविधि (११)-
विदितागमवृद्धैर्हि पुटे पक्वं कनीयसि ।
त्रिगुणं चूर्णनिर्बद्धं तारमायाति काञ्चनम् ॥३८॥
-हेमकरणविधि (१२)-
पारदं पलमेकं तु प्रस्थार्धं शुद्धगन्धकम् ।
किंशुपत्ररसेनैव रसैर्वा पुष्पसंभवै ॥३९॥
सूर्यातपे मर्दयेद्धि षण्मासावधिमात्रकम् ।
षोडशांशेन रजतं विध्यते नात्र संशय ॥४०॥
सप्तवर्णं भवेद्धेम हट्टविक्रययोग्यकम् ॥४१॥
-हेमकरणविधि (१३)-
पारदं गंधकं शुल्वं माक्षिकं तुत्थकं तथा ।
रसकं दरदं स्वर्ण गैरिकं नवसादरम् ॥४२॥
सूरक्षारं शिलां चैव समभागानि मर्दयेत् ।
तदर्धं रसकं मुक्त्वा वज्रमूषे निरुन्धयेत् ॥४३॥
यथा धूमो न निर्गच्छेत्तथा मुद्रां प्रदापयेत् ।
तोलमेकं सुवर्णं हि जायते नात्र संशय ॥४४॥
घटिकातुर्यमात्रं हि ध्मापयेत्सततं भिषक् ॥४५॥
-हेमकरणविधि (१४)-
स्वल्पवर्णसुवर्णस्य गद्याणैकस्य मुद्रिका ।
माक्षिकं रसकं तुत्थं गैरिकं नवसादरम् ॥४६॥
सूरक्षारं सदरदं टङ्कणेन समन्वितम् ।
प्रतिवल्लद्वयं कुर्यात्कासमर्दप्रसूनकै ॥४७॥
स्त्रीदुग्धेन च संमर्द्य लेपयेत्तेन मुद्रिकाम् ।
सोरक्षारं सदरदं टंकणेन समन्वितम् ॥४८॥
सैंधवस्य च भागैकं इष्टिकाभागयुग्मकम् ।
स्थालिकायन्त्रमध्यस्थं मध्ये संस्थाप्य मुद्रिकाम् ॥४९॥
यामत्रितयपर्यन्तं वह्निं कुर्यात्प्रयत्नत ।
स्वांगशीतं तत कृत्वा मुद्रिकां तां समुद्धरेत् ।
वेदवर्णास्तु संघर्षाद्वर्धन्ते नात्र संशय ॥५०॥
-हेमकरणविधि (१५)-
घोषाकृष्टं तु यत्ताम्रं रजतेन समन्वितम् ।
तीक्ष्णचूर्णं सदरदं घृष्टं कन्यारसेन वै ॥५१॥
पश्चाद्विधेया गुटिका सूक्ष्माश्चैवाढकीसमा ।
वापिता द्राविते द्रव्ये सर्वं ताम्रं तु संक्षिपेत् ॥५२॥
रूप्यमानं समुत्तार्य समहेम्ना च गालयेत् ।
जायते दशवर्णं तु सत्यमेतदुदीरितम् ॥५३॥
-हेमकरणविधि (१६)-
ताम्रे सप्तगुणं नागं वाहितं पुनरेव हि ।
तेन ताम्रेण रसकं सप्तवारं च वाहयेत् ॥५४॥
स्वर्णवर्णं हि तत्ताम्रं जायते नात्र संशय ॥५५॥
-हेमकरणविधि (१७)-
भूनागसत्त्वमूषायां द्रावयेत्स्वर्णमुत्तमम् ।
ताप्यसत्वेन संयुक्तं शतवारं पुन पुन ।
जपापुष्पनिभं स्वर्णं जायते नात्र संशय ॥५६॥
-हेमकरणविधि (१८)-
दशवर्णस्य गद्याणे रक्तं तद्धेमवल्लकम् ।
द्वौ वर्णौ वर्धत सम्यखट्टविक्रययोग्यकम् ॥५७॥
-हेमकरणविधि (१९)-
पुष्पकासीसकं रम्यं मर्दयेदर्कपत्रजे ।
रसेऽथ च चक्रिकां कुर्याद्रसकस्य पलोन्मिताम् ॥५८॥
वेष्टितां पूर्वकल्केन रविघर्मेण शोषयेत् ।
त्रिंशद्वनोपलै सम्यक्पुटान्येवं हि विंशति ॥५९॥
षोडशांशेन रजतं विध्यते नात्र संशय ।
सप्तवर्णसवर्णं हि जायते नात्र संशय ॥६०॥
-हेमकरणविधि (२०)-
सूतको द्विपल कार्य सुम्बिलश्च चतुष्पल ।
चतुष्टंकमिता कार्या स्फटिकी निर्मला शुभा ॥६१॥
वृश्चिकालीरसे घृष्टा दिनं एकं तु वार्तिकै ।
पश्चाच्च शोषयेत्सर्वं यन्त्रे डमरुके न्यसेत् ॥६२॥
गैरिकं स्थापयेत्पूर्वं खटिकां च तथोपरि ।
तन्मध्ये गर्तकं कृत्वा गर्तके नवसादरम् ॥६३॥
टङ्कमानं प्रकर्तव्यं तस्योपरि च सूतकम् ।
सूतकोपरि सारं हि पूर्वोक्तं टंकमानकम् ॥६४॥
मुद्रां कृत्वा शोषयित्वा पश्चाच्चुल्ल्यां निवेशयेत् ।
अग्निं कुर्यात्प्रयत्नेन यामषोडशमात्रकम् ॥६५॥
स्वांगशीतं समुत्तार्य ऊर्ध्वलग्नं तु ग्राहयेत् ।
पश्चात्खल्वे निधायाथ वृश्चिकाल्या प्रमर्दयेत् ॥६६॥
काचकूप्यां क्षिपेत्सर्वं कूपीं वालुकायन्त्रके ।
वह्निं द्वादशभिर्यामै कुर्याच्छीतं समाहरेत् ॥६७॥
वल्लमात्रं ततो दद्यात्सार्धटङ्के सुताम्रके ।
दृष्टप्रत्यययोगोऽयं नाथसुन्दरभाषित ॥६८॥
-रौप्यकरणविधि (१)-
लोहचूर्णं पलमितं सुमलक्षारं अभ्रकम् ।
टंकणं शाणमानं हि तैलेनैरण्डजेन वै ॥६९॥
घर्षयेद्वटिकायुग्मं गोलं कृत्वा धमेत्तत ।
भस्त्रया ध्मापयेत्सम्यक्लोहं रसनिभं भवेत् ॥७०॥
तल्लोहं त्रिगुणं चैव रसकं कारयेत्सुधी ।
लोहं च रसकं पश्चाद्गालितं वज्रमूषया ॥७१॥
लोहशेषं समुत्तार्य ताम्रे दद्याच्च वल्लकम् ।
गद्याणके भवेत्तारं तत्तारं शुद्धतारके ॥७२॥
अर्धभागे भवेच्छुद्धं तारं दोषविवर्जितम् ॥७३॥
-रौप्यकरणविधि (२)-
खण्डं कर्षप्रमाणं हि सुमलक्षारकस्य हि ।
वेष्टितं नरकेशेन द्रुते नागे निमज्जितम् ॥७४॥
निर्वापितं निम्बुजले चैकविंशतिवारकम् ।
द्रुते शुल्वस्य गद्याणे रक्तिकापञ्चमात्रकम् ॥७५॥
कल्कं दद्यात्प्रयत्नेन तारवर्णं प्रजायते ।
गद्याणे चतुरो वल्लान्रूप्यं दत्त्वा प्रगालयेत् ।
जायते रुचिरं तारं सत्यं एतदुदीरितम् ॥७६॥
-रौप्यकरणविधि (३)-
शंखं सुम्बलनामानं पलान्यष्टौ प्रकल्पयेत् ।
गोजिह्वारससंमिश्रं दिनमेकं प्रमर्दयेत् ॥७७॥
निम्बूरसेन धूर्तेन काकमाचीरसेन वै ।
गृंजनस्य रसेनैव दिनमेकं प्रमर्दयेत् ॥७८॥
अर्कदुग्धेन वै भाव्यं तैलेनैरण्डजेन च ।
यवमात्रां गुटीं कृत्वा विशोष्य चातपे खरे ॥७९॥
काचकूप्यां विनिक्षिप्य मुद्रयेत्कूपिकामुखम् ।
संस्थाप्य वालुकायन्त्रे पचेत्षोडशयामकम् ॥८०॥
स्वांगशीतं समुत्तार्य ग्राह्यं सत्वं तदूर्ध्वगम् ।
सत्त्वं गद्याणमेकं तु तन्मात्रं तारसंपुटम् ॥८१॥
सूतं गद्याणकं स्वच्छं टंकणं वल्लपञ्चकम् ।
सूतमात्रं क्षारसत्त्वं सर्वं चैकत्र मर्दितम् ॥८२॥
स्वरसेन तु केतक्या गोलं कृत्वा विशोषितम् ।
तारसंपुटमध्ये तु धारितं तं च गोलकम् ॥८३॥
पश्चात्ताम्रकृतां मूषां अष्टवल्लमितां शुभाम् ।
शरावसंपुटस्यान्तर्धारयेत्तदनंतरम् ॥८४॥
धान्याभ्रं तुल्यं पंकेन कृत्वा श्रावं तु पूरयेत् ।
वाराहाख्यपुटैकेन जायते कल्क उत्तम ॥८५॥
ताम्रं द्वादशवल्लं हि रूप्यं वल्लद्वयं तथा ।
वंगं वल्लमितं शुद्धं सर्वमेकत्र गालयेत् ॥८६॥
चतुर्गुञ्जाप्रमाणं हि दापयेन्मतिमान्भिषक् ।
जायते प्रवरं तारं सत्यं एतदुदीरितम् ॥८७॥
-रौप्यकरणविधि (४)-
अस्थिभक्षमलबंगमारितं तालकाभ्रविषसूतटंकणम् ।
वज्रिभानुपयसा सुभावितं स्यान्नरेन्द्र शुभतारपर्वतम् ॥८८॥
-रौप्यकरणविधि (५)-
वंगं तालकमभ्रकं शशिरसं तीक्ष्णं विषं टंकणम् ।
त्रैवारेण च मूकमूषधमितं विन्दन्ति चन्द्रप्रभम् ॥८९॥
आरं द्वादशभागमष्टरविणो बीजं चतुर्थांशकम् ।
भूगण्डादिसमस्तदोषरहितं श्रीपूज्यपादोदितम् ॥९०॥
-रौप्यकरणविधि (६)-
पारदस्य त्रयो भागा भागैकं रजतस्य हि ।
निम्बूरसेन संमर्द्य पिष्टीं कृत्वा प्रयत्नत ॥९१॥
कांजिकेन तु तां पिष्टीं स्तम्भयेद्वासरत्रयम् ।
सारयेद्बंगमध्ये तु सूतकं तदनंतरम् ॥९२॥
सारितं सूतकं तेन तालसत्त्वेन साधयेत् ।
तेन वेध्यं द्रुतं ताम्रं षोडशांशेन यत्नत ॥९३॥
जायते प्रवरं तारं चंद्रनक्षत्रसन्निभम् ॥९४॥
-रौप्यकरणविधि (७)-
सूतकस्य त्रयो भागा बंगं भागद्वयं तथा ।
मर्दयेद्दिनमेकं तु कांजिकेन समन्वितम् ॥९५॥
सर्वेभ्यस्त्रिगुणेनाथ सुम्बलेन प्रमर्दयेत् ।
स्नुह्यर्कदुग्धेन समं भावयेद्वासरत्रयम् ॥९६॥
यवप्रमाणां गुटिकां रवितापेन शोषिताम् ।
काचकूप्यां निधायाथ वह्निं कुर्यात्प्रयत्नत ॥९७॥
यामषोडशपर्यंतं वालुकायंत्रके पचेत् ।
स्वांगशीतं समुद्धृत्य चोर्ध्वगं सत्वमाहरेत् ॥९८॥
षोडशांशेन शुल्बं हि कुन्तवेधेन वेधयेत् ।
जायते प्रवरं तारं हट्टविक्रययोग्यकम् ॥९९॥
-रौप्यकरणविधि (८)-
पलाष्टमात्रं तालं तु द्विकर्षप्रमितं रसम् ।
निम्बूरसेन संमर्द्यं वासरैकं प्रयत्नत ॥१००॥
पश्चात्तं मर्दयेद्धीमान्तैलेनैरण्डजेन वै ।
वालुकायन्त्रमध्यस्थं पचेद्यामांस्तु षोडश ॥१०१॥
पश्चात्सत्त्वं समुद्धृत्य मर्दयेदेकवासरम् ।
अतसीतिलतैलेन काचकूप्यां निधापयेत् ॥१०२॥
पूर्ववत्पाचयेद्वह्नौ स्वांगशीतं समुद्धरेत् ।
अनेनैव प्रकारेण पुनरेवं तु कारयेत् ॥१०३॥
कूपीतलस्थितं सत्त्वं ग्राह्यं चेत्प्रवरं सदा ।
षोडशांशेन शुल्बस्य वेधं कुर्यान्न संशय ॥१०४॥
-रौप्यकरणविधि (९)-
पारदं टंकमानं तु लवणं द्विगुणं तथा ।
खल्वे विमर्दयेत्तावद्यावन्नष्टो रसो भवेत् ॥१०५॥
ताम्रं गद्याणकं शुद्धं बंगं वल्लमितं कुरु ।
द्रुते ताम्रेऽथ लवणं सूतकेन समन्वितम् ॥१०६॥
माषमात्रं प्रदातव्यं चतुर्थांशेन रूप्यकम् ।
तद्रूप्ये मर्दितं सूतं क्षेप्तव्यं जलयन्त्रके ॥१०७॥
तत्त्रयोदशकं रूप्यं जायते नात्र संशय ॥१०८॥
-रौप्यकरणविधि (१०)-
तालेन निहतं बंगं तद्बंगेन तु रूप्यकम् ।
पचेद्यामाष्टकं सम्यक्कल्क एवं प्रजायते ।
वल्लं गद्याणके दद्याद्बंगं स्तम्भयते ध्रुवम् ॥१०९॥
-रौप्यकरणविधि (११)-
दरदं खण्डश कृत्वा टंकत्रयमितं पृथक् ।
वज्रीक्षीरेण तत्स्वेद्यं दोलायंत्रेण वार्तिकै ॥११०॥
तारचूर्णं समं लेप्यं लुङ्गतोयसमं तथा ।
गोवरै पाचयेत्स्वल्पं एव द्वादशयामकम् ॥१११॥
पिष्टिस्तम्भो भवेत्तेन पश्चात्ताररज पृथक् ।
कुर्याद्दरदखण्डेन समं सीसं च दापयेत् ॥११२॥
गालयेन्मूषिकामध्ये शीतं कृत्वा तु खोटकम् ।
भस्म मूषोपरि न्यस्य ध्मापयेच्च शनै शनै ॥११३॥
शुद्धशङ्खनिभं रूप्यं निष्कमात्रं हि निसरेत् ॥११४॥
-रौप्यकरणविधि (१२)-
द्विपलं शुद्धसूतं च द्विपलं रसकस्य च ।
तालकं च पलद्वंद्वं सुर्मिलं युग्ममात्रकम् ॥११५॥
कूप्यामारोपयेत्सर्वं मुखं ताम्रेण रुन्धयेत् ।
वालुकायन्त्रके सम्यक्पचेद्द्वादशयामकम् ॥११६॥
कूपीमुखे तु यल्लग्नं सत्त्वं ग्राह्यं प्रयत्नत ।
शुल्बे षोडशवेधेन कारयेद्रजतं वरम् ॥११७॥
-रौप्यकरणविधि (१३)-
सूतकं पलमेकं तु शंखाभं सुर्मिलं पलम् ।
एरण्डतैले घृष्टं तद्धारितं खर्परे वरे ॥११८॥
अन्धितं ताम्रपात्रेण मुद्रितं सुदृढं कृतम् ।
पश्चाच्चुल्ल्यां समारोप्य वह्निं कुर्याच्छनै शनै ॥११९॥
सार्धं यामं तत पाच्यं स्वांगशीतं समुद्धरेत् ।
ताम्रपात्रे तु यल्लग्नं सर्वं सत्त्वं समाहरेत् ॥१२०॥
घृताक्तं टंकणोपेतं गालितं मूषिकामुखे ।
देयं तद्वल्लमात्रं हि द्रुते ताम्रे तु सत्त्वकम् ॥१२१॥
शंखाभं जायते तारं नात्र कार्या विचारणा ॥१२२॥
-रौप्यकरणविधि (१४)-
तालं ताम्रं रीतिघोषं समांशं कुर्यादेवं गालितं ढालितं हि ।
अम्ले वर्गे सप्तवारं प्रढाल्य पश्चाद्योज्यं तुल्यभागे च रूप्ये ।
शुद्धं रूप्यं षोडशाख्यं हि सम्यक्जातं दृष्टं नानृतं सत्यमेतत् ॥१२३॥
-रौप्यकरणविधि (१५)-
श्वेतं सौवीरकं शुद्धं पाचितं विषमुष्टिना ।
स्वच्छे सूतवरे वल्लं निक्षिप्तं रूप्यकृद्भवेत् ॥१२४॥
-रौप्यकरणविधि (१६)-
शुद्धस्फटिकसंकाशं सुर्मिलं दृश्यते क्वचित् ।
मृत्खर्परे पाचितं हि निम्बूकद्रवसंयुतम् ॥१२५॥
घटिकाद्वयमानेन शुद्धकल्क प्रजायते ।
चतुषष्ट्यंशमानेन वेधयेच्छुल्बकं शुभम् ॥१२६॥
जायते प्रवरं तारं सर्वदोषविवर्जितम् ॥१२७॥
-रौप्यकरणविधि (१७)-
सप्तधातुमयी मूषा क्षारभस्मप्रपूरिता ।
कदल्या क्षारकेणैव तथापामार्गसंभवै ॥१२८॥
मध्ये पारदकं मुक्त्वा पुनरेवं प्रपूरयेत् ।
अनेन विधिना पूर्या द्वितीया मूषिका शुभा ॥१२९॥
मुद्रितव्या प्रयत्नेन गोवरे पुटके न्यसेत् ।
सूतकं बन्धं आयाति वङ्गाभं तु प्रजायते ।
द्रुतद्रावं घातसहं दृष्टमेवं मया खलु ॥१३०॥
-कृत्रिममौक्तिककरणम्-
नेत्राण्याहृत्य मत्स्यानां पक्त्वा दुग्धेन यामकम् ।
पश्चादाकृष्णकणकानाकृष्य किल कण्डयेत् ॥१३१॥
तानि शालिसमेतानि तावच्छुभ्राणि कारयेत् ।
पश्चादिष्टिकचूर्णेन हस्ते कृत्वा प्रमर्दयेत् ॥१३२॥
मौक्तिकानि हि जायन्ते कृतान्येवं मया खलु ॥१३३॥
-सूक्ष्ममौक्तिकेभ्यो बृहन्मौक्तिककरणम्-
मूषिकां कारयेच्छुद्धां स्फाटिकीं दहनोपलाम् ।
मौक्तिकानि तु सूक्ष्माणि निम्बूद्रावे निधापयेत् ॥१३४॥
अहोरात्रेण सर्वाणि नवनीतसमानि च ।
तस्य पंकस्य गुटिकां मसृणां तु प्रकारयेत् ॥१३५॥
पश्चात्तां मूषिकामध्ये चित्राघर्मे द्वियामकम् ।
चत्वारि कांस्यभाण्डानि चतुर्दिक्षु गतानि च ॥१३६॥
अर्भका पातयेत्सर्वा मध्यभाजनकोपरि ।
बध्यते मौक्तिकं श्रेष्ठ तरं सर्वगुणैर्युतम् ॥१३७॥
-कृत्रिमप्रवालकरणम्-
शुद्धशङ्खस्य चूर्णं हि सूक्ष्मं कृत्वा प्रयत्नत ।
अर्धभागं च दरदं चूर्णयेन्मतिमांस्तत ॥१३८॥
सद्य सूताविकक्षीरं तेन दुग्धेन मर्दयेत् ।
वर्तिं विधाय मतिमान्कार्पासास्थिषु स्वेदयेत् ॥१३९॥
स्वांगशीतं समुत्तार्य प्रवालं रुचिरं भवेत् ॥१४०॥
N/A
References : N/A
Last Updated : June 24, 2015
TOP