हिंदी सूची|पूजा एवं विधी|नित्यकर्म-विधि:| प्रात:स्मरण नित्यकर्म-विधि: कर दर्शन प्रात:स्मरण वेदोक्त प्रातःस्मरण सूक्त स्नान की विधि सन्ध्योपासन विधि: तर्पण विधि: सूर्योपस्थान समर्पण नित्य होम विधि: बलिवैश्वदेव विधि: ब्रह्मयज्ञ विधि: संक्षिप्त भोजन विधि: शिवपूजनविधि: विष्णु पूजन विधि: राम पूजनविधि: हनुमत्पूजनविधि: दुर्गापूजनविधि: श्रीविष्णुसहस्रनामस्तोत्रम् शिवमहिम्न: स्तोत्रम् आदित्यहृदयस्तोत्रम् रामरक्षास्तोत्रम् महामृत्युञ्जयस्तोत्रम् अन्नपूर्णास्तोत्रम् चाक्षुषोपनिषद् सप्तश्लोकी दुर्गा सप्तश्लोकी गीता चतु:श्लोकीभागवतम् विधीः - प्रात:स्मरण जो मनुष्य प्राणी श्रद्धा भक्तिसे जीवनके अंतपर्यंत प्रतिदिन स्नान, पूजा, संध्या, देवपूजन आदि नित्यकर्म करता है वह निःसंदेह स्वर्गलोक प्राप्त करता है । Tags : karmapoojavidhiकर्मपूजाविधीहिन्दी प्रात:स्मरण Translation - भाषांतर (१) गणेशजी की स्तुतिप्रात: स्मरामि गणनाथमनाथबन्धुं सिन्दूरपूरपरिशोभितगण्डयुग्मम् ।उद्दण्डविघ्नपरिखण्डनचण्डदण्ड-माखण्डलादिसुरनायकवृन्दवन्द्यम् ॥१॥प्रातर्नमामि चतुराननवन्द्यमान-मिच्छानुकूलमखिलं च वरं ददानम् ।तं तुन्दिलं द्विरसनाधिपयज्ञसूत्रं पुत्रं विलासचतुरं शिवयो: शिवाय ॥२॥प्रातर्भजाम्यभयदं खलु भक्तशोक-दावानलं गणविभुं वरकुञ्जरास्यम् ।अज्ञानकाननविनाशनहव्यवाह-मुत्साहवर्द्धनमहं सुतमीश्वरस्य ॥३॥श्लोकत्रयमिदं पुण्यं सदा साम्राज्यदायकम् ।प्रातरुत्थाय सततं य: पठेत्प्रयत: पुमान् ॥(सद्धर्मचिन्तामणि) (२) शिवजी की स्तुतिप्रात: स्मरामि भवभीतिहरं सुरेशंगङ्गाधरं वृषभवाहनमम्विकेशम् ।खट्वाङ्गशूलवरदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् ॥१॥प्रातनमामि गिरिशं गिरिजार्धदेहंसर्गस्थितिप्रलयकारणमादिदेवम् ।विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयम् ॥१॥प्रातनमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् ।विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयम् ॥२॥प्रातर्भजामि शिवमेकमनन्तमाद्यंवेदान्तवेद्यमनघं पुरुषं महान्तम् ।नामादिभेदरहितं च विकारशून्यंसंसाररोगहरमौषधमद्वितीयम् ॥३॥प्रात: समुत्थाय शिवं विचिन्त्य श्लोकत्रयं येऽनुदिनं पठन्ति ।ते दुःखजातं बहुजन्मजातं हित्वा पदं यान्ति तदेव शम्भो: ॥४॥(सद्धर्मचिन्तामणि)(३) नारायण की स्तुतिप्रात: स्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमञ्जनाभम् ।ग्राहाभिमूतवरवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥१॥प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंस: ।नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ॥२॥प्रातर्भजामि भजतामभयङ्करं तं प्राक्सर्वजन्मकृतपापभयापहत्यै ।यो ग्राहवक्त्रपतिताङघ्रिगजेन्द्रधोर-शोकप्रणाशनकरो धृतशङखचक्र: ॥३॥श्लोकत्रयमिदं पुण्यं प्रात: प्रात: पठेन्नर: ।लोकत्रयगुरुस्तस्मै दद्यादात्मपदं हरि: ॥४॥(आचारमयूख) (४) सूर्य की स्तुति प्रात: स्मरामि खलु तत्सवितुर्व रेण्यं रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि ।सामानि यस्य किरणा: प्रभवादिहेतुंब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥प्रातर्नमामि तरणिं तनुवाङञनोभि-र्ब्रह्मेन्द्रपूर्वकसुरैविवुधैर्नुतमचिंतं च ।वृष्टिप्रमोचनविनिग्रहहेतुभूतं त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥प्रातर्भजामि सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं च ।तं सर्वलोककलनात्मककालमूर्त्तिं गोकण्ठबन्धनविमोचनमादिदेवम् ॥३॥श्लोकत्रयमिदं भानो: प्रात: प्रात: पठेत्तु य: ।स सर्वव्याधिविनिर्मुक्त: परं सुखमवाप्नुयात् ॥४॥(सद्धर्मचिन्तामणि)(५) दुर्गा की स्तुति प्रात: स्मरामि शरदिन्दुकरोज्ज्वलाभांसद्रत्नवन्मकरकुण्डलहारभूषाम् ।दिव्यायुधोर्जितसुनीलसहस्त्रहस्तां रक्तोत्पलाभचरणां भवतीं परेशाम् ॥१॥प्रातर्नमामि महिषासुरचण्डमुण्ड-शुम्भासुरप्रमुखदैत्यविनाशदक्षाम् ।ब्रह्मेन्द्ररुद्रमुनिमोहनशीललीलां चण्डीं समस्तसुरमूर्तिमनेकरूपाम् ॥२॥प्रातर्भजामि भजतामभिलापदात्रींधात्रीं समस्तजगतां दुरितापहन्त्रीम् ।संसारवन्धनविमोचनहेतुभूतां मायां परां समधिगम्य परस्य विष्णो: ॥३॥श्लोकत्रयमिदं देव्याश्चण्डिकाया: पठेन्नर: ।सर्वान् कामानवाप्नोति विष्णुलोके महीयते ॥४॥(सद्धर्मचिन्तामणि)(६) राम की स्तुतिप्रात: स्मरामि रघुनाथमुखारविन्दं मन्दस्मितं मधुरभाषि विशालभालम् ।कर्णावलम्बिचलकुण्डलशोभिगण्डंकर्णान्तदीर्घनयनं नयनाभिरामम् ॥१॥प्रातर्भजामि रघुनाथकरारविन्दंरक्षोगणाय भयदं वरदं निजेभ्य: ।यद्राजसंसदि विभज्य महेशचापंसीताकरग्रहणमङ्गलमाप सद्य: ॥२॥प्रातर्नमामि रघुनाथपदारविन्दं वज्राङ्कशादिशुभरेखि सुखावहं मे ।योगीन्द्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्मपत्न्या: ॥३॥प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं शमलं निहन्ति ।यत्पार्वती स्वपतिना सह मोक्षकामा प्रीत्या सहस्त्रहरिनामसमं जजाप ॥४॥प्रात: श्रये श्रुतिनुतां रघुनाथमूर्तिं नीलाम्बुदोत्पलसितेतररत्ननीलाम् ।आमुक्तमौक्तिकविशेषविभूषणाढयां ध्येवां समस्तमुनिभिर्जनमुक्तिहेतुम् ॥५॥य: श्लोकपञ्चकमिदं प्रयत: पठेद्धिनित्यं प्रभातसमये पुरुष प्रबुद्ध: ।श्रीरामकिङ्करजनेषु स एव मुख्यो भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥६॥(आह्विककर्मप्रकाश) (७) ऋषियों की स्तुतिभृगुर्वसिष्ठ: क्रतुरङ्गिराश्च मनु: पुलस्त्य: पुलहश्च गौतम: ।रेभ्यो मरीचिश्च्यवनश्च दक्ष: कुर्वन्तु सर्वे मम सुप्रभातम् ॥१॥सनत्कुमार: सनक: सनन्दन: सनातनोऽप्यासुरिपिङ्गलौ च ।सप्त स्वरा: सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम् ॥२॥सप्तार्णवा: सप्त कुलाचलाश्च सप्तर्षयो द्वीपवनानि सप्त ।भूरादिकृत्वा भुवनानि सप्त कुर्वन्तु सर्वे मम सुप्रभातम् ॥३॥पृथ्वी सगन्धा सरसास्तथाप: स्पर्शी च वायुर्ज्वलितं च तेज: ।नभ: सशब्दं महता सहैव कुर्वन्तु सर्वे मम सुप्र भातम् ॥४॥इत्थं प्रभाते परमं पवित्रं पठेत्स्मरेद्वा श्रृणुयाच्च तद्वत् ।दुःस्वप्ननाशस्त्विह सुप्रभातं भवेच्च नित्यं भगवत्प्रसादात् ॥५॥(८) पुण्यश्लोकजनों की स्तुति पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिर: ।पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दन: ॥१॥अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषण: ।कृप: परशुरामश्च सप्तैते चिरजीविन: ॥२॥सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।जीवेद्वर्षशतं सोऽदी सर्वव्याधिविवजित: ॥३॥अहल्या द्रौपदी सीता तारा मन्दोदरी तथा ।पञ्चकं ना-(नर:) स्मरेन्नित्यं महापातकनाशनम् ॥४॥उमा उषा च वैदेही रमा गङगेति पञ्चकम् ।प्रातरेव पठेन्नित्यं सौभाग्यं वर्धते सदा ॥५॥सोमनाथो वैजनाथो धन्वन्तरिरथाश्विनौ ।पञ्चैतान्य: स्मरेन्नित्यं व्याधिस्तस्य न जायते ॥६॥हरं हरिं हरिश्चन्द्रं हनूमन्तं हलायुधम् ।पञ्चकं वै स्मरेन्नित्यं घोरसङकटनाशनम् ॥७॥रामं स्कन्दं हनूमन्तं वैनतेयं वृकोदरम् ।पञ्चैतान् संस्मरेन्नित्यं भवबाधा विनश्यति ॥८॥रामलक्ष्मणौ सीता च सुग्रीवो हनुमान् कपि: ।पञ्चैतान् स्मरतो नित्यं महाबाधा प्रमुच्यते ॥९॥(पद्मपुराण)(९) नवप्रहों की स्तुति ब्रह्मा मुरारिस्रिपुरान्तकारी भानु: शशी भूमिसुतो बुधश्च ।गुरुश्च शुक्र: शनिराहुकेतव: कुर्वन्तु सर्वे मम सुप्रभातम् ॥(वामनपुराण) N/A References : N/A Last Updated : May 24, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP