ब्रह्मकाण्डः - अध्यायः ५
विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.
एतादृशे महत्तत्त्वे लक्ष्म्या सह हरिः स्वयम् ।
प्रविवेश महाभाग क्षोभयामास वै हरिः ॥१॥
अहन्तत्त्वमभूत्तस्माज्ज्ञानद्रव्यक्रियात्मकम् ।
अहङ्कारसमुत्पत्तावेकांशस्तमसि स्मृतः ॥२॥
तद्दशांशाधिकरजस्तद्दशांशाधिकं प्रभो ।
सत्त्वमित्युच्यते सद्भिर्ह्येतदात्मा त्वहं स्मृतम् ॥३॥
अहन्तत्त्वाभिमानी तु आदौ शेषो बभूवह ।
सहस्राब्दाच्च पश्चात्तौ जातौ खगहरौ द्विज ॥४॥
अहन्तत्त्वे खग ह्येषु प्रविष्टो हरिरव्ययः ।
क्षोभयामास भगवाल्लङ्क्ष्म्या सह हरिः स्वयम् ॥५॥
वैकारिकस्तामसश्च तैजसश्चेत्यहं त्रिधा ।
त्रिधा बभूव रुद्रोपि यतस्तेषां नियामकः ॥६॥
वैकारिकस्थितो रुद्रो वैकारिक इति स्मृतः ।
तामसे तु स्थितो रुद्रस्तामसो ह्यभिधीयते ॥७॥
तैजसे तु स्थितो रुद्रो लोके वै तैजसः स्मृतः ।
तैजसे तु ह्यहन्तत्त्वे लक्ष्म्या सह हरिः स्वयम् ॥८॥
विशित्वा क्षोभयामास तदासौ दशधा त्वभूत् ।
श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ॥९॥
वाक्पाणिपादं पायुश्च उपस्थेति दश स्मृताः ।
वैकारिके ह्यहन्तत्त्वे प्रविश्य क्षोभयद्धरिः ॥१०॥
महत्तत्त्वादिमा अदाविन्द्रियाणां च देवताः ।
एकादशविधा आसन्क्रमेण तु खगेश्वर ॥११॥
मनोभिमानि नी ह्यादौ वारुणी त्वभवत्तदा ।
अनन्तरं च सौपर्णी गौरोजापि तथैव च ॥१२॥
शेषादनन्तरास्तासां दशवर्षादनंरम् ।
उत्पत्तिरिति विज्ञेयं क्रमेण तु खगेश्वर ॥१३॥
मनोभिमानिनावन्याविन्द्रकामौ प्रजज्ञतुः ।
तार्क्ष्य ह्यनन्तरौ ज्ञेयौ मुक्तौ संसार एव च ॥१४॥
ततस्त्वगात्मा ह्यभवत्सोहं कारिक ईरितः ।
ततः पाण्यात्मकाश्चैव जज्ञिरे पक्षिसत्तम ॥१५॥
शची रतिश्चानिरुद्धस्तथा स्वायंभुवो मनुः ।
बृहस्पतिस्तथा दक्ष एते पाण्यात्मकाः स्मृताः ॥१६॥
दक्षस्यानन्तरं जज्ञे प्रवाहो नाम चाण्डज ।
स एवोक्तश्चातिंवाहो यापयत्यात्मचोदितः ॥१७॥
हस्तादनन्तरं ज्ञेयो न तु शच्यादिवत्स्मृतः ।
ततोभवन्महाभाग चक्षुरिद्रियमात्मनः ॥१८॥
स्वायंभुवमनोर्भार्या शतरूपा यमस्तथा ।
चन्द्रसूर्यौ तु चत्त्वारश्चक्षुरिन्द्रियमानिनः ॥१९॥
चन्द्रः श्रोत्राभिमानीति तथा ज्ञेयः खगेश्वर ।
जिह्वेन्द्रियात्मा वरुणः सूर्यस्यानन्तरोभवत् ॥२०॥
वागिन्द्रियाभिमानिन्यो ह्यभवन्वरुणादनु ।
दक्षपत्नी प्रसूतिश्च भृगुरग्निस्तर्थव च ॥२१॥
तत्र वैते महात्मानो वागिन्द्रियनियामकाः ।
ये क्रव्यादादयश्चोक्तास्तेनन्तत्त्वनियामकाः ॥२२॥
साम्यत्वाच्च तथैवोक्तिर्न तु तत्त्वाभिमानितः ।
उपस्थमानिनो वीन्द्र बभूवुस्तदनन्तरम् ॥२३॥
विश्वामित्रो वसिष्टोत्रिर्मरीचिः पुलहः क्रतुः ।
पुलस्त्योङ्गिरसश्चैव तथा वैवस्वतो मनुः ॥२४॥
मन्वादयोनन्तसंख्या उपस्थात्मान ईरिताः ।
पायोश्च मानिनो वीन्द्र जज्ञिरे तदनन्तरम् ॥२५॥
सूर्येषु द्वादशस्वेको मित्रस्तारा गुरोः प्रिया ।
कोणाधिपो निरृतिश्च प्रवहप्रिया ॥२६॥
चत्त्वार एते पक्षीन्द्र वायुतत्त्वाभिमानिनः ।
घ्राणाभिमानिनः सर्वे जज्ञिरे द्विजसत्तम ॥२७॥
विष्ववसेनो वायुपुत्रौ ह्यश्विनौ गणपस्तथा ।
वित्तपः सप्त वसव उक्तो ह्याग्निस्तथाष्टमः ॥२८॥
सत्यानां शृणु नामानि द्रोणः प्राणो ध्रुवस्तथा ।
अर्के दोषस्तथा वस्कः सप्तमस्तु विभावसुः ॥२९॥
दशरुद्रास्तथा ज्ञेया मूलरुद्रो भवः स्मृतः ।
दश रुद्रस्य नामानि शृणुष्व द्विजसत्तम ॥३०॥
रैवन्तेयस्तथा भीमो वामदेवो वृषाकपिः ।
अजैकपादहिर्वुध्न्यो बहुरूपो महानिति ॥३१॥
दश रुद्रा इति प्रोक्ताः षडादित्याञ्छृणु द्विज ।
उरुक्रमस्तथा शक्रो विवस्वान्वरुणस्तथा ॥३२॥
पर्जन्योतिबाहुरेत उक्ताः पूर्वं द्विजोत्तम ।
पर्जन्यव्यतिरिक्तास्तु पञ्चैवोक्ता न संशयः ॥३३॥
गङ्गासमस्तु पर्जन्य इति चोक्तः खगेश्वर ।
सविता ह्यर्यमा धाता पूषा त्वष्टा तथा भगः ॥३४॥
चत्वारिंशत्तथा सप्त महतः परिकीर्तिताः ।
द्वावुक्ताविति विज्ञेयो प्रवहोतिवहस्तथा ॥३५॥
तथा दशविधा ज्ञेया विश्वेदेवाः खगेश्वर ।
शृणु नामानि तेषां तु पुरूरवार्द्रवसंज्ञकौ ॥३६॥
धूरिलोचनसंज्ञौ द्वौ क्रतुदक्षेतिसंज्ञकौ ।
द्वौ सत्यवसुसंज्ञौ च कामकालकसंज्ञकौ ॥३७॥
एवं दशविधा ज्ञेया विश्वेदेवाः प्रकीर्तिताः ।
तथा ऋभुगणश्चोक्तस्तथा च पितरस्त्रयः ॥३८॥
द्यावा पृथिव्यौ विज्ञेयौ एते च षडशीतयः ।
देवाः प्रजज्ञिरे सर्वे नासिकद्रियमानिनः ॥३९॥
आकाशस्याभिमानी तु गणपः सुदाहृतः ।
उभयत्राभि मानीति ज्ञेयं तत्त्वार्थवेदिभिः ॥४०॥
विष्वक्सेनं विना सर्वे जयाद्या विष्णुपार्षदाः ।
अभवन्समहीनाश्च विष्वक्सेनादनन्तरम् ॥४१॥
एतेपि नासिकायाश्च अवान्तरनियामकाः ।
अतस्ते तत्त्वमानिभ्यो ह्यवरास्ते प्रकीर्तिताः ॥४२॥
स्पर्शतत्त्वाभिमानी तु अपानश्चेत्युदाहृतः ।
रूपाभिमानी संजज्ञे व्यानो नाम महान्प्रभो ॥४३॥
रसात्मक उदानश्च समानो गन्धनामकः ।
अपां नाथाश्च चत्वारो मरुतः परिकीर्तिताः ॥४४॥
जयाद्यनन्तरान्वक्ष्ये समुत्पन्नान्खगेश्वर ।
प्रधानाग्रे प्रथमजः पावकः समुदाहृतः ॥४५॥
भृगोर्महर्षेः पुत्रश्च च्यवनः समुदाहृतः ।
बृहस्पतेश्च पुत्रस्तु उतथ्यः परिकीर्तितः ॥४६॥
रैवतश्चाक्षुषश्चैव तथा स्वारोचिषः स्मृतः ।
उत्तमो ब्रह्मसावर्णी रुद्रसावर्णिरेव च ॥४७॥
देवसावर्णिसावर्णिरिन्द्रसावर्णिरेवच ।
तथैव दक्षसावर्णिर्धर्मभावर्णिरेव च ॥४८॥
एकादशविधा ह्येवं मनवः परिकीर्तिताः ।
पितॄणां सप्तकं चैवेत्याद्याः संजज्ञिरे खग ॥४९॥
तदनन्तरमुत्पन्नास्तेभ्यो नीचाः शृणु द्विज ।
वरुणस्य पत्नी गङ्गा पर्जन्याख्यो विभावसुः ॥५०॥
यमभार्या श्यामला तु ह्यनिरुद्धप्रिया विराट् ।
ब्रह्माण्डमानिनी सैव ह्युषानाम्ना सुशब्दिता ॥५१॥
रोहिणी चन्द्रभार्योक्ता सूर्यभार्या तु संज्ञका ।
एता गङ्गादिषटूसंख्या जज्ञिरे विनतासुत ॥५२॥
गङ्गाद्यनन्तरं जज्ञे स्वाहा वै मन्त्रदेवता ।
स्वाहानामाग्निभार्योक्ता गङ्गादिभ्योधमा श्रुता ॥५३॥
स्वाहानन्तरजो ज्ञेयो ज्ञानात्मा बुधनामकः ।
बुधस्तु चन्द्रपुत्रो यः स्वाहाया अधमः स्मृतः ॥५४॥
उषा नाम तथा जज्ञे बुधस्यानन्तरं खग ।
उषानामा भिमानी तु ह्यश्विभार्या प्रकीर्तिता ॥५५॥
बुधाधमा सा विज्ञेया नात्र कार्या विचारणा ।
ततः शनैश्चरो जज्ञे पृथिव्यात्मेति विश्रुतः ॥५६॥
उषाधमस्तु विज्ञेयस्ततो जज्ञेथ पुष्करः ।
कर्माभिमानी विज्ञेयः शनैश्चर इतीरितः ॥५७॥
तत्त्वाभिमानिनो देवानेवं सृष्ट्वा हरिः स्वयम् ।
प्रविवेश स देवेशस्तत्त्वेषु रमया सहा ॥५८॥
इति श्रीगारुडे महापुराणे तृतीयांशे ब्रह्मकाण्डे तत्त्वाभिमानि देवतोत्पत्तितत्तारतम्यनिरूपणं नाम पञ्चमोऽध्यायः
N/A
References : N/A
Last Updated : November 11, 2016
TOP