ब्रह्मकाण्डः - अध्यायः २२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


श्रीकृष्ण उवाच ।
या लक्ष्मणा पूर्वसर्गे खगेन्द्र पुत्री ह्यभूद्वह्निवेदस्य वेत्तुः ।
सुलक्षणैः संयुतत्वाद्यतः सा सुलक्ष्मणेति प्रथिता खगेन्द्र ॥१॥

यथा लक्ष्मीर्लक्षणैः सा सुपूर्णा यथा हरिर्लक्षणैर्वै सुपूर्णः ।
यथा वायुर्लक्षणैः पूर्ण एव यथा गायत्री लक्षणैः सा सुपूर्णा ॥२॥

यथा रुद्राद्या लक्षणैर्वै प्रपूर्णा रुद्रादिल्लक्ष्मणा चैव पूर्णा ।
गुणेनैवं धर्मतः किञ्चिदेव तथानुसंधानाद्व्रियते नाम चापि ॥३॥

तस्मा दाहुर्लक्ष्मणेत्येव सर्वे तल्लक्षणं शृणु चादौ खगेन्द्र ।
नारायणे पूर्णगुणे रमेशे द्वात्रिंशत्संख्यानि सुलक्षणानि ॥४॥

संत्येव पक्षीन्द्र वदाम्यनु क्रमान्मत्तः श्रुत्वा मोक्षमाप्नोति नित्यम् ।
यः सप्तपादः षण्णवत्यङ्गुलोङ्गश्चतुर्हस्तः पुरुषस्तीक्ष्णदन्तः ॥५॥

य एतत्सर्वं मिलितं चैकमेव हरेर्विष्णोर्लक्षणं चाहुरार्याः ।
मुखं स्त्रिग्धं वर्तुलं पुष्टिरूपं द्वितीयं तल्लक्षणं चाहुरार्याः ॥६॥

हनुर्यस्यानुन्नतं चास्ति वीन्द्र तल्लक्षणं प्राहुरार्यास्तृतीयम् ।
यद्दन्ता वै तीक्ष्णसूक्ष्माश्च संति तल्लक्षणं चाहुरार्याश्चतुर्थम् ॥७॥

यस्याधरे रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं पञ्चमं चाहुरार्याः ।
यस्य हस्ता अतिरक्ताः खगेन्द्र तल्लक्षणं प्राहुरार्याश्च पष्ठम् ॥८॥

यस्मिन्नखाः संति रक्ताः सुशोभास्तल्लक्षणं सप्तमं चाहुरार्याः ।
यस्मिन्कपोले रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं ह्यष्टमं प्राहुरार्या ॥९॥

यस्मिन्करे शङ्खचक्रादिरेखा वर्तन्ते तन्नवमं प्राहुरार्याः ।
यस्यो दरं तन्तुरूपं सुपुष्टं वलित्रयैरङ्कितं सुंदरं च ॥१०॥

तल्लक्षणं दशमं प्राहुरार्या एकादशं निम्ननाभिं तदाहुः ।
ऊरुद्वयं यस्य च मांसलं वै तल्लक्षणं द्वादशं प्राहुरार्याः ॥११॥

कटिर्हि दीर्घा पृथुलास्ति यस्य त्रयोदशं लक्ष्म तदाहुरार्याः ।
यस्यास्ति मुष्को सुपरिष्ठितो वै चतुर्दशं लक्ष्म तदाहुरार्याः ॥१२॥

समुन्नतं शिश्रमथो हि लक्ष्म यस्यास्ति तत्पञ्चदशं वदन्ति ।
सुताम्रकं पादतलं खगेन्द्र तल्लक्षणं षोडशं प्राहुरार्याः ॥१३॥

निम्नौ च गुल्फौ सप्तदशं तदाहुर्ग्री वारूपं प्राहुरष्टादशं च ।
एकोनविंशं त्वक्षिपद्मं सुरक्तं प्राहुर्बाहुं जानु विंशं तथैव ॥१४॥

विस्तीर्णोरश्चैकविंशं तदाहुः सिंहास्कन्धं द्व्युत्तरं विंशमाहुः ।
त्रयोविंशं सूक्ष्ममास्यं तदाहुश्चतुर्विशं सुप्रसन्ने च दृष्टी ॥१५॥

ह्रस्वं लिङ्गं मार्दवं चापि वीन्द्र तल्लक्षणं पञ्चविंशं वदन्ति ।
समौ च पादौ कटिजानु चोरू षड्विंशमाहुश्च समे च जङ्घे ॥१६॥

समानहस्तौ समकर्णौ मिलित्वा द्वात्रिंशत्कं लक्षणं प्राहुरार्याः ।
द्वात्रिंशत्कं लक्षणं वै मुकुन्दे द्वात्रिंशत्कं लक्षणं वै रमायाम् ॥१७॥

द्वात्रिंशत्कं लक्षणं ब्रह्मणोपि तद्भारत्याः प्रवदन्त्येव सत्यम् ।
तथा च शङ्का सममेव चक्रिणेत्येवं सदामा कुरु निर्णयं ब्रुवे ॥१८॥

एकस्य वै लक्षणस्यापि विष्णोर्लक्ष्मीरन्तं नैव सम्यक्प्रपेदे ।
अतोनन्तैर्लक्षणैः संयुतं च हरिं चाहुर्लक्षणज्ञाः सदैव ॥१९॥

जानाति लक्ष्मीर्लक्षणं वायुरूपे स्वापेक्षया ह्यतिरिक्तं खगेन्द्र ।
स्वलक्षणापेक्षया भारती तु शतैर्गुणैरधिका वेधसोपि ॥२०॥

खगेन्द्र तस्माल्लक्षणे साम्यचित्तं विश्वादीनां सर्वदा मा कुरुष्व ।
अष्टाविंशतिं प्राहू रुद्रादिकानां भ्रूनेत्रयोर्लक्षणेनैव हीनाः ॥२१॥

अलक्षणं मन्यते यद्धि तस्य दुर्लक्षणं नैव तच्चिन्तनीयम् ।
अष्टाविंशतिं लक्षणं वै हरस्य न भारतीवच्चिन्तनीयं खगेन्द्र ॥२२॥

अतो हरः क्रोधरूपी सदैव तयोरभावात्सत्यमुक्तं तथैतत् ।
अतो द्वयं नास्ति रुद्रे खगेन्द्र शिश्रोदरे किञ्चिदाधिक्यमस्ति ॥२३॥

सप्ताधिकैर्विशतिलक्षणैस्तु समायुताः स्वस्त्रियो लक्ष्मणाद्याः ।
षड्वविंशत्या लक्षणैश्चापि युक्ता वारुण्याद्या पञ्चविंशैश्च चन्द्रः ॥२४॥

अर्थश्चतुर्विंशतिभिश्चैव युक्तो नासावायोर्द्व्यधिका विंशतिश्च लक्षणैश्चैकविंशत्या शची युक्ता न संशयः ॥२५॥

प्रवाहा विंशकैर्युक्ता यम एकोनविंशकैः ।
पाश्यष्टादशभिर्युक्तो दशसप्तयुतोऽनलः ॥२६॥

वैवस्वतः षोडशभिमित्रः पञ्चदशैर्युतः ।
चत्रुर्विंशैस्तु धनपः पावकस्तु त्रयोदशैः ॥२७॥

गङ्गा द्वादशभिर्युक्ता बुध एकादशैर्युतः ।
शनिस्तु दशसंख्याकैः पुष्करो नवभिर्युतः ॥२८॥

अथ षोडशसाहस्रं भार्यारतु मम वल्लभाः ।
अष्टभिश्चैव संयुक्ताः सप्तभिः पितरस्तथा ॥२९॥

षड्भिश्च देवगन्धर्वाः पञ्चभिस्तदनन्तराः ।
चतुर्भैः क्षितिपाः प्रोक्तास्त्रिभिरन्ये च संयुताः ॥३०॥

उदरे किञ्चिदाधिक्ये ह्रस्वे पादे च कर्णयोः ।
शिखाधिक्यं विना विप्र भार्यायां च शिवस्य च ॥३१॥

लक्ष्मणायां पञ्च दोषाः शिरोगुल्फादिकं विना ।
नाभ्याधिक्ये सहैवाष्टौ दोषाः संत्यतिवाहिके ॥३२॥

जङ्घाधिक्ये सहैवाष्टौ दोषाः शच्याः सदा स्मृताः ।
एवमेव हि दोषाश्चाप्यूहनीयाः खगेश्वर ॥३३॥

दुर्लक्षणैः सदा वीन्द्र संश्रुतैस्तत्त्वविद्भवेत् ।
महोदरो लंबनाभिरीषामात्रोग्रदंष्ट्रकः ॥३४॥

अन्धकूपगभीराक्षो लंबकर्णौष्ठनासिकः ।
लंबगुल्फो वक्रपादः कुनखी श्यावदन्तकः ॥३५॥

दीर्घजङ्घो दीर्घशिश्रस्त्वेकाण्डश्चैकनासिकः ।
रक्तश्मश्रू रक्तरोमा वक्रास्यः संप्रकीर्तितः ॥३६॥

दग्धपर्व तसंकाशो रक्तपृष्ठः कलिः स्मृतः ।
अलोमांसोऽलोमशिरा रक्तगण्डकपोलकः ॥३७॥

ललाटे पाण्डुता नित्यं वामस्कन्धे करे खग ।
क्रूरदृष्टिर्दृष्टिपादस्तथा वै घर्घरस्वरः ॥३८॥

अत्याशी चातिपानश्च स्तनौ शुष्कफलोपमौ ।
ऊरौ नवाञ्जिकारोमः तथा पृष्ठे च मस्तके ॥३९॥

ललाटे त्रीणि दीर्घे तु समे द्वौ संप्रकीर्तितौ ।
सर्पाकारस्तु यो मत्स्यस्तस्य शिश्रे प्रकीर्तितः ॥४०॥

पादत्राणोपमो मत्स्यो रसनाग्रे प्रकीर्तितः ।
शिश्राकारश्च यो मत्स्यो गुदे तस्य प्रशस्यते ॥४१॥

वृश्चिकाकारमत्स्यस्तु पदोस्तस्य प्रशस्यते ।
श्वाकारश्चापि मत्स्यो वै मुखे तस्य प्रकीर्तितः ॥४२॥

हस्ते तु बहुरेखाः स्युर्लोम नासापुटे स्मृतम् ।
अतिदीर्घं तु चाङ्गुष्ठं कनिष्ठं चातिदीर्घकम् ॥४३॥

दुर्लक्षणं त्वे वमादि कलावस्ति ह्यनेकशः ।
सुलक्षणान्यनेकानि मयि संति खगेश्वर ॥४४॥

द्वात्रिंशल्लक्षणं विष्णोर्ब्रह्माद्यापेक्षयैव तत् ।
सहाभिप्राय गर्भेण ब्रह्मणोक्तं तव प्रभो ॥४५॥

ब्रह्मोक्तस्य मयोक्तस्य विरोधो नास्ति सत्तम ।
मयोक्तस्यैव स व्यासः कंबुग्रीवः प्रदर्श्यते ॥४६॥

रक्ताधरं रक्त तालु चैकीकृत्य मयोदितम् ।
अतो विरोधो नास्त्येव तथा ज्ञानात्प्रतीयते ॥४७॥

सप्ताधिकैर्विंशतिलक्षणैस्तु समायुता याः स्त्रियो लक्ष्मणाद्याः ॥४८॥

भगे नेत्रे च हस्ते च स्तने कुक्षौ तथैव च ।
भारत्यपेक्षया पञ्चभिर्न्यूना त्वस्ति लक्षणैः ॥४९॥

न रुद्रवन्न चान्यानि लक्षणानि खगेश्वर ।
षड्विंशत्या लक्षणैश्चापि युक्ता वारुण्याः षड्लक्षणैश्चैव हीना ॥५०॥

कर्णे कुक्षौ नासिकाकेशपाशे गुल्फे भगे किञ्चिदाधिक्यमस्ति ।
इन्द्रो युक्तः पञ्चविंशत्या खगेन्द्र सदा हीनो लक्षणैः सप्तसंख्यैः ॥५१॥

हस्ते पादे उदरे कर्णयोश्च शिश्रे गुल्फे त्वधरोष्ठेधिकं च ।
चतुर्विंशत्या लक्षणैश्चापि युक्तो नास्तिक्यवायुस्तद्वदेवाष्टभिश्च ॥५२॥

नाभ्यां गुल्फे हनुरर्ङ्घ्योश्च स्कन्धे द्विजे नेत्रे त्वधरोष्ठेधिकं च ।
त्रयोविंशत्या लक्षणैश्चापि युक्ता शची तथा नवदोषैश्च युक्ता ॥५३॥

भगे केशे ह्यधरोष्ठे च कर्णे जङ्घे गण्डे वक्षसि गुल्फयोश्च ।
तथोत्तरोष्ठे किञ्चिदाधिक्यमस्ति एवं विजानीहि खगेन्द्रसत्तम ॥५४॥

द्वाविंशत्या लक्षणैः संयुतस्तु दशभिर्देषैः प्रवहो नाम वायुः ।
तथाङ्गुष्ठे किञ्चिदाधिक्यमस्ति विंशत्येकादशभिर्देषतोर्कः ॥५५॥

तद्विंशत्या लक्षणैः संयुतस्तु तदा दोषेर्द्वादशभिश्च युक्तः ।
एकोनविंशत्या लक्षणैश्चापि युक्तस्त्रयोदशभिस्तदभावैर्युतोग्निः ॥५६॥

अष्टादशभिर्लक्षणैः संयुतस्तु वैवस्वतस्तदभावैश्चतुर्दशभिः ।
मित्रस्तु सप्तदशभिर्लक्षणैः संयुतः खग ॥५७॥

सदोषैः पञ्चदशभिः संयुक्तो नात्र संशयः ।
तैश्च षोडशभिर्युक्तो धनपो नात्र संशयः ॥५८॥

तदभावैः षोडशभिः संयुक्तः संप्रकीर्तितः ।
तैः पञ्चदशभिश्चैव युक्तोग्रेज्यष्ठपुत्रकः ॥५९॥

तैः सप्तदशभिर्देषैः संयुक्तो नात्र संशयः ।
तैश्चतुर्दशभिश्चैव गङ्गा संपरिकीर्तिता ॥६०॥

तथाष्टादशभिर्देषैः संयुता नात्र संशयः ।
तैस्त्रयोदशभिश्चैव संयुतो बुध एव तु ॥६१॥

दोषैरेकोनविंशत्या संयुतो नात्र संशयः ।
शनिर्विंशतिदोषेण युतो द्वादशलक्षणैः ॥६२॥

लक्षणैश्चैकादशभिः पुष्करः परिकीर्तितः ।
एकविंशतिसंख्याकैरसद्भावैः प्रकीर्तितः ॥६३॥

दशभिर्लक्षणैर्युक्ताः पितरो ये चिराः खग ।
त्रयोविंशतिदोषैश्च संयुता नात्र संशयः ॥६४॥

अष्टभिर्लक्षणैर्युक्ता देवगन्धर्वसत्तमाः ।
दोषैश्चतुर्विंशतिभिः संयुक्ताः परिकीर्तिताः ॥६५॥

सप्तलक्षणसंयुक्ता गन्धर्वा मानुषातमकाः ।
यैस्तु पञ्चविंशतिभिर्देषैः संयुक्ताः प्रकीर्तिताः ॥६६॥

षद्गुणैः क्षितिपा युक्ता षड्विंशत्या च दोषतः ।
तदन्ये पञ्चभिर्युक्ताश्चतुर्भिः केचिदेव च ॥६७॥

त्रिभिः केच्चित्ततो हीना न संति खगसत्तम ।
यस्मिन्नरे क्षितिपे वा खगेन्द्र आधिक्यं यद्दृश्यते लक्षणस्य ॥६८॥

न ते नरा नैव ते वै क्षितीशाः सर्वे नैव ह्युत्तमाः सर्वदैव ।
ये देवा ये च दैत्याश्च सर्वेप्येवं खगाधिप ॥६९॥

लक्षणालक्षणैश्चैव क्रमेणोक्ता न संशयः ।
लक्षणैः सप्तविंशत्यालक्षणैः संयुताः खग ॥७०॥

अतः सलक्षणा ज्ञेया द्वात्रिंशल्लक्षणैर्न हि ।
पितुर्गृहे वर्धमाना सदापि स्वकुटुंबं श्रेष्ठयितुं खगेन्द्र ॥७१॥

उवाच सा पितरं दीयमानमन्नादिकं त्रमित्रादिकेषु ।
सदापि ये त्वनुसंधानेन युक्ता अन्तर्गते तत्रतत्र स्थिते च ॥७२॥

अज्ञातत्वे चान्नपानादिकं च दत्तं संतो व्यर्थमेवं वदन्ति ।
हरिं वक्ष्ये तत्रतत्र स्थितं चं तं वै शृणु त्वादरेणाद्य नित्यम् ॥७३॥

बालो हरिर्बालरूपेण कृष्णः क्षीरादिकं नवनीतं घृतं च ।
गृह्णाति नित्यं भूषणं वस्त्रजातमेवं दद्यात्सर्वदा विष्णुतुष्ट्यै ॥७४॥

मित्रैर्हरिः केशवाख्यो मुकुन्दो भुङ्क्ते दत्तं त्वन्नप्रानादिकं च ।
पूर्वं दद्यात्सर्वदा वै गृहस्थो धन्यो भवेदन्यथा व्यर्थमेव ॥७५॥

गृह्णाति नित्यं माधवाख्यो हरिश्चेत्येवं ज्ञात्वा देयमन्नादिकं च ।
एवं ज्ञात्वा दीयमानेन नित्यं प्रीणाति विष्णुर्नान्यथा व्यर्थमेव ॥७६॥

गृहे नित्यं वासुदेवो हरिस्तु प्रीणाति नित्यं तत्र तिष्ठन्सुपर्ण ।
एवं ज्ञात्वा स्वगृहं सर्वदैव अलङ्कुर्याद्धातुरूपैः सदैव ॥७७॥

गोविन्दाख्यस्तिष्ठति वष्णवानां पुत्रैर्युतस्तिष्ठति वासुदेवः ।
मित्रे मुकुन्दः शालके चानिरूद्धो नारायणो द्विजवर्ये सदास्ति ॥७८॥

गोष्ठे च नित्यं विष्णुरूपी हरिस्तु अश्वे सदा तिष्ठति वामनाख्यः ।
संकर्षणः शूद्रवर्णे सदास्ति वैश्ये प्रद्युम्नस्तिष्ठति सर्वदैव ॥७९॥

जनार्दनः क्षत्त्रजातौ सदास्ति दाशेषु नित्यं महिदासो हरिस्तु ।
मह्यां नित्यं तिष्ठति सर्वदैव ह्युपेन्द्राख्यो हरिरेकः सुपर्ण ॥८०॥

गजे सदा तिष्ठति चक्रपाणिः सदान्तरे तिष्ठति विश्वरूपः ।
नित्यं शुनि तिष्ठति भूतभावनः पिपीलकायामपि सर्वदैव ॥८१॥

त्रिविक्रमो हरिरूप्यन्तरिक्षे सर्वजातावनन्तरूपी हरिश्च ।
हरेर्न वर्णोस्ति न गोत्रमस्ति न जातिरीशे सर्वरूपे विचित्रे ॥८२॥

एवं ज्ञात्वा सर्वदा लक्ष्मणा तु हरिं सदा प्रीणयामास देवी ।
सपर्यया वै क्रियमाणया हरिः पतिर्ममस्य दिति चिन्तयाना ॥८३॥

तत्याज देहं विष्णुपतित्वकामा मद्रेषु वै वीन्द्र पुत्री प्रजाता ।
स्वयंवरे लक्ष्मणाया अहं च भित्त्वा लक्ष्यं भूपतीन्द्रावयित्वा ॥८४॥

पाणिग्रहं लक्ष्मणायाश्च कृत्वा गत्वा पुरीं रमयामास देवी ।
तथैवाहं जांबवत्या विवाहं मत्पत्नीत्वे कारणं त्वां ब्रवीमि ॥८५॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे लक्ष्मणाविवाहहेतुनिरूपणं नाम द्वाविंशोध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP