ब्रह्मकाण्डः - अध्यायः २४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


जैगीषव्य उवाच ।
कन्ये शृणु त्वं वेङ्कटाख्याचलस्य स्मेराननां पुण्यमांरोहणेऽस्य ।
श्रीगीतायाः पठनं चैव कुर्वन्नारोहणं कुरुते सर्वलोकः ॥१॥

पदेपदे श्रीनिवासश्च देवस्त्वलं ह्यलं प्रीयते भक्तवर्गः ।
तं प्रीणयन्मोक्षमायान्ति सर्वे हरौ तुष्टे किमलभ्यं च कन्ये ॥२॥

सोपानदेशे यः पुराणं शृणोति तदा कृता सर्वतीर्थादियात्रा ।
तदा दिवा प्रस्तुवन्तीह मार्गे सदा हरिं श्रीनिवासं गुरुं च ॥३॥

सोपानानां महिमानं च श्रुत्वा शालग्रामं स्थापयित्वा च तत्र ।
नमस्कृत्वा पुनरेवापि सा तु सोपानानि त्वारुरोहाथ साध्वी ॥४॥

सोपानानां वीन्द्र चारोहणेन त्ववैष्णवानां हरितोषो न चैव ।
तेनैव तेषां साधनं भूय एव तमस्यन्धे पातयितुं खगेन्द्र ॥५॥

स्थलेस्थले एवमेवापि कार्यं जैगीषव्यं पुनरेवाह देवी ।
कन्योवाच ।
जैगीषव्यः श्रीनिवासो हरिस्तु ब्रह्मादीनां दृश्यते श्रीनिवासः ॥६॥

जैगीषव्य कृपया त्वं वदस्व जैगीषव्यो ह्येवमुक्तो हरिं तु ।
उवाच कन्यां सोमपुत्रीं सतीं च ब्रह्मादीनां दृश्यते श्रीनिवासः ॥७॥

अनन्तरूपोधिककान्तकान्तिमान्रूद्रादीनां दृश्यते वेङ्कटेशः ।
ससूर्यलक्षाधिककान्तकान्तितो रुद्रादीनां दृश्यते श्रीनिवासः ॥८॥

सहस्रसूर्याधिककान्तिकान्तः सविद्युत्त्वान्मानुषाणां रमेशः ।
ऋष्यादीनां दृश्यते चन्द्रवच्च सन्मानुषाणामपरोक्षो हरिस्तु ॥९॥

नक्षत्रवद्दृश्यते श्रीनिवासः सदा ऋषीणामपरोक्षो हरिस्तु ।
स सूर्यवद्दृश्यते श्रीनिवासः संसारिणां वेङ्कटेशः खगेन्द्र ॥१०॥

संदोहवद्दृश्यते वै प्रकाशो मिथ्यावतां दृश्यते श्रीनिवासः ।
पाषाणवन्नैल्यरूपप्रकाशः शिलामात्रे दृष्यते वै कलौ च ॥११॥

नृणां सर्वेषां श्रीनिवासो हरिस्तु कलौ स्वरूपं श्रीनिवासस्य देवी ।
न मानुषाः प्रविजानन्ति सर्वे यतः कलौ तामसा राजसास्तु ॥१२॥

तत्संगिनः सात्त्विकाः केचिदेव ह्यतो भक्ता दुर्लभा वै कलौ च ।
ये दृश्यन्ते भक्तवत्ते न भक्ताः शिश्रोदरयोर्भरणे चैव सक्ताः ॥१३॥

कुर्वन्ति यात्रां च तदर्थमेव भक्तिज्ञानं दुर्लभं वै कलौ च ।
भक्ता ये वै न विरक्ताः सदैव तेषां हरेर्दर्शनं दुर्लभं च ॥१४॥

भक्तस्वरूपं तव वक्ष्ये खगेन्द्र यो ज्ञानपूर्णः परमे स्निग्ध एव ।
न च द्वेषैर्बन्धुरो भक्तियुक्तस्तव द्वेषाञ्छृणु वक्ष्ये च सम्यक् ॥१५॥

जीवाभिदा हरिणाप्राकृतेन स्वतन्त्रेण ह्यस्वतन्त्रस्य नित्यम् ।
ज्ञानानन्दैः परिपूर्णे हरौ च गुणैरपूर्णो हरिरित्येव चिन्ता ॥१६॥

श्रीब्रह्मरुद्रादिदिवौकसां सदा तथा द्विजानां संमानायाश्च चिन्ता ।
विष्णोः सकाशाद्ब्रह्मरुद्रादिकानां सदाधिक्यालोचनं द्वेष एव ॥१७॥

विष्णोर्भद्रे हस्तपादादिकानां भेदज्ञानं द्वेषमाहुर्महान्तः ।
अवताराणा छेदभेदादिकं च तथोच्यते मरणस्यापि चिन्ता ॥१८॥

तद्भक्तानां द्वेषणं चाहुरार्यास्तद्वाक्यानां दूषणं द्वेष एव ।
नच द्वेषैः संयुता ये च लोके कन्ये दृश्यन्ते न तु भक्ताः कदाचित् ॥१९॥

कन्योवाच ।
जैगीषव्य ब्रूहि मे के च भक्ता भक्तिं कथं दर्शयामासुरेते ।
तेषां हरिः श्रीनिवासो महात्मा त्राता सदा भक्तवर्गे दयालुः ॥२०॥

जैगीषव्यस्त्वेवमुक्तो महात्मा उवाच कन्यां संस्मरन् भक्तवर्यः ।
जैगीषव्य उवाच ।
प्रहादाद्या श्रीनिवासस्य भक्ताः कृत्वा नृसिंहे चोत्तमां भक्तिमेव ॥२१॥

अवाप साम्राज्यमनुत्तमं च ज्ञानं नृसिंहात्समवाप पश्चात् ।
पराशरः श्रीनिबासस्य भक्तो भक्तिं कृत्वा व्यासरूपं हरिं च ॥२२॥

स्तुत्वा तेन ज्ञानतत्त्वं ह्यवाप्य जगाम मोक्षं भक्तिसंवर्धितात्मा ।
यो नारदः श्रीनिवासस्य भक्तो भक्तिं कृत्वा गर्भवासे हरौ च ॥२३॥

तया भक्त्या ब्रह्मपुत्रत्वमाप ज्ञानप्राप्त्या तेन मुक्तिं जगाम ।
यो ह्यंबरीषः श्रीनिवासस्य भक्तः कृत्वा भक्तिं परदेव हरौ च ॥२४॥

जप्त्वा ज्ञानं प्राप्य दुर्वासकश्चाप्यवाप मोक्षं तेन संवर्धितात्मा ।
मुचुकुन्दो वै श्रीनिवासस्य भक्तो वैराग्यतो भक्तिदार्ढ्यं च कृत्वा ॥२५॥

तत्त्वज्ञानं प्राप्य विष्णोर्महात्मा ह्यवाप मोक्षं तेन संवर्धितात्मा ।
स पुण्डरीकः श्रीनिवासस्य भक्तः पित्रादिष्टो विष्णुभक्तिं च कृत्वा ॥२६॥

हरिप्रासादाज्ज्ञानमनुत्तमं चाप्यवाप मोक्षं भक्तिसंवर्धितात्मा ।
ब्रह्मा च वायुश्च सरस्वती च ज्ञातव्याः सर्वे ऋजुयोगिनश्च ॥२७॥

अच्छिन्नभक्ताश्च सदा मुरारेर्न काम्यरक्ताः शुद्धरूपा हि ते च ।
गिरीशनागेशखगेशसंज्ञा देवाः शुक्रारौ गुरुचन्द्रेन्दुसूर्याः ॥२८॥

जलेशोग्निर्मनुधर्मौ कुबेरः विघ्नेशनासत्यमरुद्गणाश्च ।
पर्जन्यमित्रादय एव सर्वे सदा ह्येते श्रीनिवासस्य भक्ताः ॥२९॥

विश्वामित्रो भृगुरौर्वश्च कुत्सो मरीचिरत्रिः पुलहः क्रतुश्च ।
शक्तिर्वसिष्ठो सौतमीयो पुलस्त्यो भारद्वाजः श्रीनिवासस्य भक्ताः ॥३०॥

मान्धाता नहुषोंबरीषसगरौ राजा पृथुर्हैहयो इक्ष्वाकुर्भरतो ययातिसुतलौ धर्मो विकुक्षिस्तथा ।
उत्तानश्च बिभीषणो दशरथो ह्येते महाज्ञानिनः श्रीमद्वेङ्कटनायकस्य च गुरोर्भक्ताः सदा संस्मृताः ॥३१॥

भागीरथी समुद्रश्च यमुना च सरस्वती ।
गोदावरी नर्मदा च कृष्णा भीमरथी तथा ॥३२॥

सरयूफल्गुकावेरीगण्डकी कपिला स्तथा ।
इत्येताश्च हरेर्भक्ताः संति चात्रैव भामिनि ॥३३॥

अभिप्रायं तत्र वक्ष्ये शृणु कन्ये मया सति ।
यत्र प्रवर्तते मार्गे कथा विष्णोर्महात्मनः ॥३४॥

वर्तन्ते वैष्णवा यत्र हरितत्त्वार्थबोधकाः ।
तत्रैव भक्ताः सर्वेपि संति विष्णोस्तथैव च ॥३५॥

ये देवयात्रां परमात्मचिन्तया कुर्वन्ति ते हरिभक्ताश्च नान्ये ।
यतो हरौ परमे वैष्णवानां सर्वं निष्ठामेति कृत्यं खगेन्द्र ॥३६॥

शेषाचलं समासाद्य ह्यन्नवस्त्रादिभूषणम् ।
यो न दद्यादभक्तः स ततः को नु परः पशुः ॥३७॥

भक्ता हरेः श्रीनिवासाचले च गङ्गादिरूपेण च तत्रतत्र ।
तिष्ठन्ति सेवार्थमुरुक्रमस्य तेषां पूजा नैव कार्या च देवि ॥३८॥

अभिप्रायं तत्र वक्ष्ये शृणु त्वं तत्र स्थले वस्त्रगन्धादिधूपैः ।
पुराणोक्ता अपि भेदेन पूज्या दृष्ट्वा च तान्वन्दयेत्प्राज्ञ एव ॥३९॥

सद्ब्राह्मणान्वन्दयेत्पादमूले हस्तौ च द्वौ संपुटीकृत्य देवि ।
साष्टाङ्गरुपं वन्दनं चैव विष्णोः कुर्यात्तथा गुरवे विष्णुबुद्ध्या ॥४०॥

गङ्गादीनां वन्दनं कार्यमेव साष्टाङ्गं वै तुलसीनां तथैव ।
अश्वत्थानां नमनं कार्यमेव गवादीनां नमनं मानसेन ॥४१॥

पूजा सदा देवदेवस्य विष्णोः कार्या भक्त्या वैष्णवैरेव नान्यैः ।
ये नामका ज्ञानवन्तः सुभक्ताः सदैव कार्या विष्णुपूजा च कन्ये ॥४२॥

ये नामका ज्ञानवन्तः सुभक्ताः सदैवं कार्या विष्णुपूजा च कन्ये ।
येनामका विष्णुभक्ताः सदैव पूजा विष्णोर्नैव कार्यात्र देवि ॥४३॥

मोहाद्यो वै पूजयेद्देवदेवं महाधर्माद्याति चान्धं तमो वै ।
ब्रह्मादिनामानि हरेर्हि देवीं विष्णोः स्वनामानि ददौ दिवौकसाम् ॥४४॥

नादाद्धीरः केशवादीनि कन्ये स्वकं पुरं प्रविहायैव राजा ।
एवं मयोक्तं कन्यके सर्वमेतदेतत्परं सम्यगारोहणीयम् ॥४५॥

गोविन्द नारायण माधवेति यूयं मया सर्वमाराधितव्यम् ।
सर्वे मिलित्वा पुनरेवं खगेन्द्र समारुहन्वैङ्कटाद्रिं गृणन्तः ॥४६॥

हरेर्नामान्यत्र पूर्वं गृणन्तस्त्वास्वादयन्तः श्रीनिवासस्य नाम ।
द्रष्टुं सर्वे श्रीनिवासं तथैव कुर्वन्तस्ते तलशब्दं नदन्तः ॥४७॥

इति कृष्णवचः श्रुत्वा तार्क्ष्यः कृष्णमुवाचह कथमास्वादनं चक्रुरेतद्विस्तीर्यमे वद ।
श्रीकृष्ण उवाच ।
भो श्रीनिवास तव नामैव चैतन्नाम स्वामी ननु नामैव स्वामी ।
यां ब्रह्माद्या आश्रयन्तीत्ति यस्मात्तस्माद्रमा श्रीरिति नाम चाप ॥४८॥

रमाश्रयत्वान्नितरां सर्वदा चेत्यतो हरिः श्रीनिवासाभिधानः ।
भो श्रीनिवासेति तु नर्तयन्तो रोमाञ्चमात्रास्तलशब्दकारिणः ॥४९॥

अद्यैव पश्याम हरेस्तवास्यं कदा वयं कृत कृत्या भवामः ।
भोः केशवाद्यैव पदारविन्दं संदर्शयित्वा सुदयां कुरुष्व ॥५०॥

ब्रह्माणमाहुश्च पुराणमाहुः कशब्दवाच्यं सर्वलोकेशमाहुः ।
ईशं चार्हं रुद्रमित्येव चाहुस्तत्प्रेरकं सृष्टिसंहारकार्ये ॥५१॥

अतो हरिः केशवनामधेयो भोः केशवेति च नर्तयन्तः ।
आनन्दवापीं संस्त्रवन्तोभि जग्मुर्नारायणेति प्रवदन्तो हि जग्मुः ॥५२॥

अतो दोषास्तद्विरुद्धा गुणाश्च नाराश्च तेषामाश्रयत्वान्मुरारिः ।
नारायणेति प्रवदन्तीह लोके नारानुबन्धात्सर्वमुक्ताः खगेन्द्र ॥५३॥

नाराः प्रोक्ता आश्रयत्वाच्च तेषामतोपि नारायण एव वीन्द्र ।
मुक्ताश्च ये तु प्रपदंनु जग्मुरण्डोदकं यस्य कटाक्षमात्रात् ॥५४॥

यदुत्पन्नं तेन नाराः खगेन्द्र तेषां सदाप्याश्रयत्वाच्च वीन्द्र ।
नारायणेति प्रवदन्तीह लोके ह्यनन्तब्रह्माण्डविसर्जकत्वात् ॥५५॥

एवं ननृतुः परिशंसयन्तो गोविन्द नान्यो हि न चैव दर्शनम् ।
गोशब्दवाच्यास्तु समस्तवाचो गोभिश्च सर्वैः प्रतिपाद्यते यतः ॥५६॥

अतो हि गोविन्द इति स्मृतः सदा भो वेदवेद्येति तथा न ननृतुः ।
आनन्दबाष्पैश्च समन्विता हि हरे मुरारे तव दर्शनं हि ॥५७॥

देहि प्रभो वै तवदासदासाश्चतुर्दशे भुवने सर्वदापि ।
यतस्त्वमेवं वसतीति वासुश्चात्रैव नित्यं क्रीडते सर्वदैव ॥५८॥

यतो देवेत्येवमाहुर्महान्तस्त्वतो हरिं वासुदेवेति चाहुः ।
भो वासुदेवेति ननृतुः सर्वदैव भो माधवेति ननृतुश्चैव सर्वे ॥५९॥

लक्ष्मीपते चेति वदन्ति सर्वे धनीति शब्दः स्वाभिवाची यतो हि ।
अतोप्यार्या माधवेति ब्रुवन्ति लक्ष्मीपते पाहि तथैव भक्तान् ॥६०॥

ते वै ब्रुवन्तो ननृतुश्च जग्मुर्विष्णो सदास्मान्परिपाहि नित्यम् ।
सर्वत्र यस्माद्विततोसि तस्मादित्यादिनामानि गृणन्त एव ।
जग्मुश्च सर्वे ददृशुश्च तीर्थं भक्त्योपेताः श्रीनिवासं स्मरन्तः ॥६१॥

कन्योवाच ।
किं नामकं तीर्थमिदं मुनीन्द्र किं कार्यमत्र प्रवदास्मान्कृतीश ।
कस्मै प्रसन्नो भगवाञ्छ्रीनिवासस्त्वस्मिन्सुतीर्थं वद विस्तरेण ॥६२॥

जैगीषव्य उवाच ।
कन्ये शृणु त्वं ह्यभवत्सुबुद्धिमान्प्रह्रादसंज्ञो हरिभक्तवर्यः ।
निष्कामबुद्ध्या तु यदा जगाम शेषाचलस्थं श्रीनिवासं च द्रष्टुम् ॥६३॥

अस्मिंस्थले दैत्यकुमारकान्प्रति हरेश्च तत्त्वं परिपृष्टवान्प्रभुः ।
नृसिंहरूपं श्रीनिवासं भजस्व सुदुर्लभं मानुषं जन्म कन्ये ॥६४॥

तत्रापि विष्णोर्नृहरे सुतत्त्वं सुदुर्लभं सुष्ठु यात्रा तथैव ।
यस्यां यात्रायां यत्र कुत्रापि देशे हरेः कथा वर्तते दैत्यवर्याः ॥६५॥

तत्र स्थले हरिरास्ते सदैव यतो व्याप्तः सर्वतो वै नृसिंहः ।
एतच्छ्रुत्वा दैत्यकुमारकास्ते प्रह्लादमूचुर्भक्तवर्यं हरेश्च ॥६६॥

व्याप्तो हरिश्चेत्कथमत्र वै सखे न दृश्यते जलरूपी नृसिंहः ।
स एवमुक्तो दानवानां सुतैश्च तुष्टाव विष्णुं परमादरेण ॥६७॥

तव स्वरूपं मम दर्शयस्व स्वयोग्यरूपं दानवानां सुतानाम् ।
इति स्तुतः श्रीनिवासो हरिस्तु तस्मिन्नन्तर्जलरूपं समायात् ॥६८॥

अस्मिन्स्नानं ये प्रकुर्वन्ति तीर्थे तेषां ज्ञानं परमं दृढं स्यात् ।
अत्र स्नाने मानुषाणां च तात बुद्धिर्न हि स्यात्कलिकाले विशेषात् ॥६९॥

दत्त्वां वरं दैत्यवराय विष्णुरन्तर्दधे जलपूर्णे सुकुण्डे ।
अद्याप्यास्ते जलमध्ये नृसिंहः प्रह्लादोपि दैत्यकुमारकैः सह ॥७०॥

तस्मिन् सुतीर्थे परितस्तत्रतत्र जयेति शब्दः श्रूयते चापराह्ने ।
इदं तीर्थं नारसिंहाभिधं च कन्येस्नानं ह्यत्र कार्यं मनुष्यैः ॥७१॥

स्नानं कृत्वा तत्र तीर्थे च सम्यग्दीपं दत्त्वा द्विजवर्याय मुख्यम् ।
द्रष्टुं पुनः श्रीनिवासं प्रजग्मुर्गोविन्दगोविन्द इति ब्रुवन्तः ॥७२॥

मुख्यप्राणाधिष्ठितं स्थानमाप्य अपाविशत्तत्र देवी ह्युवाच ।
जैगीषव्यः श्रीनिवासस्य विष्णोः कथं कार्यं दर्शनं तद्वदस्व ॥७३॥

जैगीषव्यः प्राह संहृष्टचित्तो ब्रवीमि तन्त्रं शृणु कन्यके त्वम् ।
श्रुत्वा मत्तः कुरु सर्वं मयोक्तमाद्यं द्वारं श्रीनिवासस्य दृष्ट्वा ॥७४॥

अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम ॥७५॥

मानसान्वाचिकान्दोषान्कायि कानपि सर्वशः ।
वैष्णवद्वेषहेतून्मे भस्मसात्कुरु माधव ॥७६॥

आद्यद्वारं श्रीनिवासस्य देवि सम्यक्स्मरेद्विजयं वै जयं च ।
दक्षाध्वरे श्रीनिवासस्य देवि चण्डं प्रचण्डं संस्मरेत्सम्यगेव ॥७७॥

पाश्चात्यभागे श्रीनिवासस्य देवि नन्दं सुनन्दं संस्मरेदेव भक्त्या ।
सव्यद्वारे श्रीनिवासस्य कन्ये स्मरेत्कुमुदाक्षं कुमुदन्तमेव ॥७८॥

यश्चैव देहं प्रविशेद्भक्तिपूर्वं कदा द्रक्ष्ये सादरेणैव देवि ।
प्रदक्षिणद्वादशकं च कृत्वा पदे पदे संस्मरेच्छ्रीनिवासम् ॥७९॥

श्रीस्वामितीर्थे सम्यगाचम्य नत्वा स्नात्वा नत्वा भूवराहं च देवि ।
अयुद्वारं प्रिवशेद्भक्तिपृर्वं गोविन्दगोविन्द इतिब्रुवन्वै ॥८०॥

पश्चाद्धरेर्नमनं कार्यमेव साष्टाङ्गरूपं प्रविशेद्देवगेहम् ।
पुनर्विशेद्वारतः संस्थितः स पीठस्थदेवान्मानसा चिन्तयीत ॥८१॥

मध्ये पीठं श्रीनिवासं च देवी नारायणं प्रणमेत्पूर्णमेव ।
देवस्य सव्ये पीठभागाद्वहिश्च नमस्कार्यं गुरुदेवाय चैव ॥८२॥

पीठस्याग्राच्चाप्यधस्तात्प्रदेशे आग्नेयकोणे प्रणमेद्वै खगेन्द्र ।
नैरृत्यभागे व्यासदेवाय देवि नमस्कार्यो वैष्णवः सर्वदापि ॥८३॥

वायव्यकोणे भक्तिपूर्वं सुदुर्गां नमस्कुर्याद्भक्तिसंवर्धितात्मा ।
पीठस्योर्ध्वं ह्यग्निकोणेषु देवी धर्माधिभूताय नमो यमाय ॥८४॥

पीठस्योर्ध्वं नैरृतस्योर्ध्वकोणे ज्ञानाधिपं प्रणमेद्वायुदेवम् ।
पीठस्योर्ध्वं वायुकोणे च सुभ्रूर्वैराग्यानामधिपं चैव रुद्रम् ॥८५॥

पीठस्योर्ध्वं त्वीशकोणे च देवि ऐश्वर्याणामधिपं चेन्द्रदेवम् ।
पीठस्य पूर्वे प्रणमेन्नैरृतिं च अर्याम्णानामधिपं चात्र देवि ॥८६॥

देवस्य पीठस्य च दक्षिणे च दुर्गां नमेदुग्ररूपाभिधां च ।
पीठस्य कन्ये प्रणमेत्पश्चिमे वै आरोग्याणा मधिपं कामदेवम् ॥८७॥

देवस्य पीठस्योत्तरे रुद्रदेवमनैश्वर्याणामधिपं संस्मरेच्च ।
पीठस्य मध्ये प्रणमेद्वै वराहं सदा कन्ये परमं पूरुषाख्यम् ॥८८॥

तस्योपरिष्टाच्छक्तिसंज्ञां च लक्ष्मीमाधाररूपां प्रणमेच्चैव नित्यम् ।
तस्योपरिष्टाद्वायुकूर्मौ नमेच्च तस्योपरिष्टाच्छेषकूर्मौ नमेच्च ॥८९॥

तस्योपरिष्टादभिमानिनीं भुवो भूदेवतां प्रणमेच्चैव सुभ्रूः ।
तस्योपरिष्टाद्वरुणं संस्मरेच्च क्षीरोदधेरधिपं चैव देवम् ॥९०॥

तस्योपरिष्टात्प्रणमेच्चैव लक्ष्मीं श्वेतद्वीपाख्यं कन्यके पूजयेच्च ।
तस्योपरिष्टात्प्रणमेच्चैव लक्ष्मीं महादिव्यां मण्डपसंज्ञकां च ॥९१॥

पीठस्य मध्ये यमसंज्ञां च लक्ष्मीं समर्चयेद्यममध्ये च देवीम् ।
यमस्य देवस्य च दक्षिणे च सूर्यं नमेद्दीपरूपं च भद्रे ॥९२॥

यमस्य देवस्य च वामभागे श्रियं नमेद्दीपरूपां च देवीम् ।
यमस्य देवस्य तु चाग्रभागे हुताशनं दीपरूपं नमेच्च ॥९३॥

देवस्याग्रे भूमिनाम्नीं नमेच्च तत्त्वाभिमानां संस्मरेच्चैव नित्यम् ।
पर्यङ्करूपं श्रीनिवासस्य विष्णोस्तमोभिमानां सन्नमेच्चैव दुर्गाम् ॥९४॥

पूर्वादिगं पीठसोपानरूपमात्मानमेकं प्रणमेच्च देवि ।
दक्षस्थदिक्पीठसोपानरूपं ज्ञानात्मकं प्रणमेच्चैव कन्ये ॥९५॥

पद्मस्य पूर्वस्थदले च देवि स्त्रीरूपाख्यं विमलाख्यामिमां च ।
ब्रह्मादिदेवान्प्रणमेच्च देवि आग्नेयकोणस्थदले शृणुत्वम् ॥९६॥

उत्कर्षनाम्नीं परमां च देवीं नमेद्रमां ब्रह्मवायू च शेषम् ।
दक्षस्थपद्मस्य दलाष्टके च नारायणाकारशेषादिकानाम् ॥९७॥

स्त्रीरूपेभ्यो नमनं कार्यमेव कन्ये मया पश्चिमस्थे दले च ।
गोपाख्यनारायणब्रह्मवायुविप्रादिकानां शेषरूद्रादिकानाम् ॥९८॥

स्त्रीरूपेभ्यो नमनं कार्यमेव ईशान कोणस्थदलेषु चैव ।
ईशाननारायणमाविरिञ्चवायुर्वियच्छेषसुरादिकानाम् ॥९९॥

स्त्रीरूपेभ्यो नमनं कार्यमेव तथैव पद्मस्य च मध्यभागे ।
अनुग्रहाख्या विष्णुलक्ष्मीश्च देवी वायुर्वियच्छेषरुद्रादिकानाम् ॥१००॥

स्त्रीरूपाणां नमनं कार्यमेव सुयोगपीठस्य स्वरूप भूतम् ।
सदा नमेच्छ्रीमदनन्तसंज्ञमेवं न मेच्छ्रीनिवासं च देवम् ॥१०१॥

श्रीनिवासस्य वामे तु लक्ष्मीं च प्रणमेद्वुधः ।
श्रीनिवासस्य सव्ये तु धरायै प्रणमेच्छुभे ॥१०२॥

पीठाद्वहिः पूर्वभागे कृपोल्कं प्रणमेच्छुभम् ।
महोल्कं दक्षिणे चैव वीरोल्कं पश्चिमे नमेत् ॥१०३॥

उत्तरे च नमः कुर्याद्युल्काय च महात्मने ।
चतुर्ष्वपि च कोणेषु सहस्रोल्कं नमेत्सुधीः ॥१०४॥

पूर्वे तु वासुदेवाय नमस्कुर्याच्च दक्षिणे ।
संकर्षणाय देवाय प्रद्युम्नाय च पश्चिमे ॥१०५॥

उत्तरे ह्यनिरुद्ध्या नमस्कुर्यादतन्द्रितः ।
आग्नेये च नमस्कुर्यात्कन्ये मायां सदा शुभे ॥१०६॥

जयायै च नमस्कुर्यान्नैरृत्ये चापि वायवे ।
कृत्ये चैव नमस्कुर्यादीशान्ये शान्तिसंज्ञकाम् ॥१०७॥

केशवाय नमः पूर्वे तथा नारायणाय च ।
माधवाय नमस्कुर्यान्नैरृत्ये चापि वायवे ॥१०८॥

आग्नेये कन्यके नित्यं भक्त्या तु प्रयतः शुभे ।
गोविन्दाय नमस्कुर्याद्दक्षिणे विष्णवे तथा ॥१०९॥

मधुसूदनाय भोः कन्ये नमस्कुर्यात्तु नैरृतौ ।
पश्चिमे त्रिविक्रमाय वामनाय तथैव च ॥११०॥

विष्णवे श्रीधरायाथ नमस्कुर्याच्च भामिति ।
उत्तरे तु महाकन्ये हृषीकेशाय वै नमः ॥१११॥

तथा वै पद्मनाभाय नमस्कुर्यादतन्द्रितः ।
दामोदराय चैशान्ये नमस्कुर्याच्च भामिनि ॥११२॥

चतुर्थावरणे पूर्वे महाकूर्माय वै नमः ।
वराहाय नमस्कुर्यादाग्नेये कन्यके शुभे ॥११३॥

दक्षिणे नारसिंहाय वामनाय नमोनमः ।
भार्गवाय नमस्कुर्यान्नैरृत्ये शुद्धचेतसा ॥११४॥

पश्चिमे माधवायाथ तथा कृष्णाय वै नमः ।
बुद्धाय च नमस्कुर्याद्वायव्ये कन्यके शुभे ॥११५॥

उत्तरे ह्युल्करूपाय अनन्ताय नमोस्तु ते ।
ईशान्ये विश्वरूपाय नमस्कुर्यादतन्द्रितः ॥११६॥

आग्नेये वारुणीं चैव गायत्रीं चैव नैरृते ।
वायव्ये भारतीं चैव ईशान्ये गिरिजां नमेत् ॥११७॥

गिरिजां वामभागे तु सौपर्णै चैव संनमेत् ।
प्रागिन्द्राय नमस्कुर्यात्सायुधाय तथैव च ॥११८॥

स परिग्रहाय श्रीविष्णोः पार्षदाय नमोनमः ।
आग्नेयेत्यग्नये तुभ्यं सायुधायेति पूर्ववत् ॥११९॥

दक्षिणे तु यमायैव नैरृत्यां निरृतिं यजेत् ।
पश्चिमे वरुणायैव वायव्ये वायवे नमः ॥१२०॥

उत्तरे च कुबेराय ईशान्ये च शिवाय च ।
ईशानशक्रयोर्मध्ये ब्रह्मणे सायुधाय च ॥१२१॥

निरृत्यप्यतिमध्ये तु शेषाय च नमोनमः ।
एवं कृत्वा नमस्कारं प्रणमेच्च पुनः पुनः ॥१२२॥

इत्येतत्सर्वमाख्यातं विधिपूर्वं तु दर्शनम् ।
इतः परन्तु गन्तव्यं दर्शनार्थं रमापते ॥१२३॥

एवमुक्त्वा तु सा देवी तैः सार्धं तु ययौ मुदा ।
यदुक्तः श्रीनिवासस्य दर्शनस्य विधिः खग ।
कस्यचिन्नैव वक्तव्यो गोप्यत्वाच्च कदाचन ॥१२४॥

समागमो दुर्घट एव वीन्द्र सतां च सत्तत्त्वविबोधकानाम् ।
अनेकजन्मार्जितपुण्यसंचयादभूद्गुरोः संगम एव तस्य ॥१२५॥

पयो विकारं च निजं जहाति शेषस्य शेषं नलिनस्य षङ्कजम् ।
भावं चलं पङ्कजनाभयोगात्सत्संगयोगादशुभानि न स्युः ॥१२६॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे श्रीवेङ्कटेशगिर्यारोहणक्रमतद्भक्ततत्पर्वतनामादिनिरूपणं नाम चतुर्विशोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP