सूतगीता - अथ प्रथमोऽध्यायः
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
सूतगीतिः ।
ऐश्वरं परमानन्दमनन्तं सत्यचिद्घनम् । आत्मत्वेनैव पश्यन्तं निस्तरङ्गसमुद्रवत् ॥१॥ निर्विकल्पं सुसम्पूर्णं सुप्रसन्नं शुचिस्मितम् । भासयन्तं जगद्भासा भानुमन्तमिवापरम् ॥२॥ प्रणम्य मुनयः सूतं दण्डवत्पृथिवीतले । कृतञ्जलिपुटा भूत्वा तुष्टुवुः परया मुदा ॥३॥ नमस्ते भगवन् शम्भुप्रसादावाप्तवेदन । नमस्ते भगवन् शम्भुचरणाम्भोजवल्लभ ॥४॥ नमस्ते शम्भुभक्तानामग्रगण्य समाहित । नमस्ते शम्भुभक्तानामतीव हितबोधक ॥५॥ नमस्ते वेदवेदान्तपद्मखण्डदिवाकर । व्यासविज्ञानदीपस्य वर्तिभूताय ते नमः ॥६॥ पुराणमुक्तामालायाः सूत्रभूताय ते नमः । अस्माकं भववृक्षस्य कुठाराय नमोऽस्तु ते ॥७॥ कृपासागर सर्वेषां हितप्रद नमोऽस्तु ते । नमोऽविज्ञातदोषाय नमो ज्ञानगुणाय ते ॥८॥ मातृभूताय मर्त्यानां व्यासशिष्याय ते नमः । धर्मिष्ठाय नमस्तुभ्यं ब्रह्मनिष्ठाय ते नमः ॥९॥ समाय सर्वजन्तूनां सारभूताय ते नमः । साक्षात्सत्यपराणां तु सत्यभूताय ते नमः ॥१०॥ नमो नमो नमस्तुभ्यं पुनर्भूयो नमो नमः । अस्माकं गुरवे साक्षान्नमः स्वात्मप्रदायिने ॥११॥ एवं गोत्रर्षयः स्तुत्वा सूतं सर्वहितप्रदम् । प्रश्नं प्रचक्रिरे सर्वे सर्वलोकहितैषिणः ॥१२॥ सोऽपि सूतः स्वतः सिद्धः स्वरूपानुभवात्परात् । उत्थाय स्वगुरुं व्यासं दध्यौ सर्वहिते रतम् ॥१३॥ अस्मिन्नवसरे व्यासः साक्षात्सत्यवतीसुतः । भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्राङ्कितमस्तकः ॥१४॥ कृष्णाजिनी सोत्तरीय आषाढेन विराजितः । रुद्राक्षमालाभरणस्तत्रैवाविरभूत्स्वयम् ॥१५॥ तं दृष्ट्वा देशिकेन्द्राणां देशिकं करुणाकरम् । सूतः सत्यवतीसूनुं स्वशिष्यैः सह सत्तमैः ॥१६॥ प्रणम्य दण्डवद्भूमौ प्रसन्नेन्द्रियमानसः । यथार्हं पूजयामास दत्त्वा चाऽऽसनमुत्तमम् ॥१७॥ भद्रमस्तु सुसम्पूर्णं सूत शिष्य ममाऽऽस्तिक । तवैषामपि किं कार्यं मया तद्ब्रूहि मेऽनघ ॥१९॥ एवं व्यासवचः श्रुत्वा सूतः पौराणिकोत्तमः । उवाच मधुरं वाक्यं लोकानां हितमुत्तमम् ॥२०॥ सूत उवाच - इमे हि मुनयः शुद्धाः सत्यधर्मपरायणाः । मद्गीताश्रवणे चैषामस्ति श्रद्धा महत्तरा ॥२१॥ भवत्प्रसादे सत्येव शक्यते सा विभाषितुम् । यदि प्रसन्नो भगवन् वदेत्याज्ञापयाद्य माम् ॥२२॥ इति सूतवचः श्रुत्वा भगवान् करुणानिधिः । त्वदीयामद्य तां गीतां वदैषामर्थिनां शुभाम् ॥२३॥ इत्युक्त्वा शिष्यमालिङ्ग्य हृदयं तस्य संस्पृशन् । साम्बं सर्वेश्वरं ध्यात्वा निरीक्ष्यैनं कृपाबलात् ॥२४॥ स्थापयित्वा महादेवं हृदये तस्य सुस्थिरम् । तस्य मूर्धानमाघ्राय भगवानगमद्गुरुः ॥२५॥ सोऽपि सूतः पुनः साम्बं ध्यात्वा देवं त्र्यम्बकम् । प्रणम्य दण्डवद्भूमौ स्मृत्वा व्यासं च सद्गुरुम् ॥२६॥ कृताञ्जलिपुटो भूत्वा मन्त्रमाद्यं षडक्षरम् । जपित्वा श्रद्धया सार्धं निरीक्ष्य मुनिपुङ्गवन् ॥२७॥ कृतप्रणामो मुनिभिः स्वगीतामतिनिर्मलाम् । वक्तुमारभते सूत सर्वलोकहिते रतः ॥२८॥ ॥इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सूतगीतिर्नाम प्रथमोऽध्यायः ॥ १ ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP