सूतगीता - अथ चतुर्थोऽध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


विशेषसृष्टिकथनम् ।
सूत उवाच - ईश्वरो जगतः कर्ता मायया स्वीयया पुरा । अभेदेन स्थितः पूर्वकल्पवासनयान्वितः ॥१॥ कालकर्मानुगुण्येन स्वाभिन्नस्वीयमायया । अभिन्नोऽपि तया स्वस्य भेदं कल्पयति प्रभुः ॥२॥ कल्पितोऽयं द्विजा भेदो नाभेदं बाधते सदा । कल्पितानामवस्तुत्वादविरोधश्च सिध्यते ॥३॥ पुनः पूर्वक्षणोत्पन्नवासनाबलतोऽनघाः । ईक्षिता पूर्ववद्भूत्वा स्वशक्त्या परया युतः ॥४॥ मायाया गुणभेदेन रुद्रं विष्णुं पितामहम् । सृष्ट्वानुप्राविशत्तेषामन्तर्यामितया हरः ॥५॥ तेषां रुद्रः पराभेदात्परतत्त्ववदेव तु । करोति सर्गस्थित्यन्तं रुद्ररूपेण सत्तमाः ॥६॥ संहरत्यविशेषेण जगत्सर्वं चराचरम् । विष्णुरप्यास्तिकाः साक्षात्परभेदेन केवलम् ॥७॥ करोति सर्गस्थित्यन्तं विष्णुरूपेण हे द्विजाः । पालयत्यविशेषेण जगत्सर्वं चराचरम् ॥८॥ ब्रह्माऽपि मुनिशार्दूलाः पराभेदेन केवलम् । करोति सर्गस्थित्यन्तं ब्रह्मरूपेण सत्तमाः । करोति विविधं सर्वं जगत्पूर्वं यथा तथा ॥९॥ शब्दादिभूतसृष्टिस्तुपरस्यैव शिवस्य तु ॥१०॥ सर्वान्तःकरणानां तु समष्टेः सृष्टिरास्तिकाः । त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥११॥ प्राणानामपि सर्वेषां समष्टेः सृष्टिरास्तिकाः । अपि रुद्रस्य तस्यैव प्राधान्येन न संशयः ॥१२॥ सर्वज्ञानेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः । त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥१३॥ सर्वकर्मेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः । त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥१४॥ तथाऽपि परमं तत्त्वं त्रिमूर्तीनां तु कारणम् । ब्रह्मविष्णुमहेशानां सृष्टावुपकरोति च ॥१५॥ उपचारतया तेऽपि स्रष्टार इति शब्दिताः । तत्रापि तत्त्वतः स्रष्टृ ब्रह्मैवाद्वयमास्तिकाः ॥१६॥ व्यष्टयस्तु समष्टिभ्यो जायन्ते ब्रह्मणानघाः । समष्टिषु विजायन्ते देवताः पूर्वकल्पवत् ॥१७॥ समष्टिव्यष्टिरूपाणां सृष्टानां पालको हरिः । रुद्रस्तेषां तु संहर्ता द्विजा रूपान्तरेण च ॥१८॥ या देवताऽन्तःकरणसमष्टौ पूर्वकल्पवत् । विजाता स मुनिश्रेष्ठा रुक्मगर्भ इतीरितः ॥१९॥ जाता प्राणसमष्टौ या स सूत्रात्मसमाह्वयः । दिग्वाय्वर्कजलाध्यक्षपृथिव्याख्यास्तु देवताः । जायन्ते क्रमशः श्रोत्रप्रमुखेषु समष्टिषु ॥२०॥ पादपाण्यादिषु प्राज्ञाः कर्मेन्द्रिय समष्टिषु । त्रिविक्रमेन्द्रप्रमुखा जायन्ते देवताः क्रमात् ॥२१॥ समष्टिषु विजाता या देवतास्ता यथाक्रमम् । व्यष्टिभूतेन्द्रियाणां तु नियन्त्र्यो देवता द्विजाः ॥२२॥ मारुतस्त्वगधिष्ठाता दिग्देवी कर्णदेवता ॥२३॥ नेत्राभिमानी सूर्यः स्याज्जिह्वाया वरुणस्तथा । घ्राणाभिमानिनी देवी पृथिवीति प्रकीर्तिता ॥२४॥ पायोर्मित्रोऽभिमान्यात्मा पादस्यापि त्रिविक्रमः । इन्द्रो हस्तनियन्ता स्याच्छिवः सर्वनियामकः ॥२५॥ मनो बुद्धिरहङ्कारश्चित्तं चेति चतुर्विधम् । स्यादन्तःकरणं प्राज्ञाः क्रमात्तेषां हि देवताः ॥२६॥ चन्द्रो वाचस्पतिर्विप्राः साक्षात्कालाग्निरुद्रकः । शिवश्चेति मया प्रोक्ताः साक्षावेदान्तपारगाः ॥२७॥ आकाशादीनि भूतानि स्थूलानि पुनरास्तिकाः । जायन्ते सूक्ष्मभूतेभ्यः पूर्वकल्पे यथा तथा ॥२८॥ अण्डभेदस्तथा लोकभेदास्तेषु च चेतनाः । अचेतनानि चान्यानि भौतिकानि च पूर्ववत् ॥२९॥ विजायन्ते च भोगार्थं चेतनानां शरीरिणाम् । भोक्तारः पशवः सर्वे शिवो भोजयिता परः ॥३०॥ सुखदुःखादिसंसारो भोगः सर्वमिदं सुराः । स्वप्नवद्देवदेवस्य माययैव विनिर्मितम् ॥३१॥ मायया निर्मितं सर्वं मायैव हि निरूपणे । कारणव्यतिरेकेण कार्यं नेति हि दर्शितम् ॥३२॥ मायाऽपि कारणत्वेन कल्पिता मुनिपुङ्गवाः । अधिष्ठानातिरेकेण नास्ति तत्त्वनिरूपणे ॥३३॥ व्यवहारदृशा मायाकल्पना नैव वस्तुतः । वस्तुतः परमाद्वैतं ब्रह्मैवास्ति न चेतरत् ॥३४॥ मायारूपतया साक्षाद्ब्रह्मैव प्रतिभासते । जगज्जीवादिरूपेणाप्यहो देवस्य वैभवम् ॥३५॥ स्वस्वरूपातिरेकेण ब्रह्मणो नास्ति किंचन । तथाऽपि स्वातिरेकेण भाति हा दैववैभवम् ॥३६॥ जगदात्मतया पश्यन्बध्यते न विमुच्यते ॥३७॥ सर्वमेतत्परं ब्रह्म पश्यन्स्वानुभवेन तु । मुच्यते घोरसंसारात्सद्य एव न संशयः ॥३८॥ सर्वमेतत्परं ब्रह्म विदित्वा सुदृढं बुधाः । मानतर्कानुभूत्यैव गुरूक्त्या च प्रसादतः । ज्ञानप्राकट्यबाहुल्याज्ज्ञानं च स्वात्मनैव तु ॥३९॥ स्वात्मना केवलेनैव तिष्ठन्मुच्येत बन्धनात् । य एवं वेद वेदार्थं मुच्यते स तु बन्धनात् ॥४०॥ सोपानक्रमतश्चैवं पश्यन्नात्मानमद्वयम् । सर्वं जगदिदं विप्राः पश्यन्नपि न पश्यति ॥४१॥ भासमानमिदं सर्वं भानरूपं परं पदम् । पश्यन्वेदान्तमानेन सद्य एव विमुच्यते ॥४२॥ एवमात्मानमद्वैतमपश्यन्नेव पश्यतः । जगदात्मतया भानमपि स्वात्मैव केवलम् ॥४३॥ विदित्वैवं महायोगी जगद्भानेऽपि निश्चलः । यथाभातमिदं सर्वमनुजानाति चाऽऽत्मना ॥४४॥ निषेधति च तत्सिद्धिरनुज्ञातस्य केवलम् । तदसिद्धिर्निषेधोऽस्य सिद्ध्यसिद्धी च तस्य न ॥४५॥ प्रकाशात्मतया साक्षात्स्थितिरेवास्य केवलम् । विद्यते नैव विज्ञानं नाज्ञानं न जगत्सदा ॥४६॥ प्रकाशात्मतया साक्षात्स्थितिरत्यपि भाषणम् । अहं वदामि मोहेन तच्च तस्मिन्न विद्यते ॥४७॥ तस्य निष्ठा मया वक्तुं विज्ञातुं च न शक्यते । श्रद्धामात्रेण यत्किंचिज्जप्यते भ्रान्तचेतसा ॥४८॥ इति गुह्यमिदं कथितं मया निखिलोपनिषद्धृदयङ्गमम् । हरपङ्कजलोचनपालितं विदिअतं यदि वेदविदेव सः ॥४९॥ ॥इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभाभागे सूतगीतायां विशेषसृष्टिकथनंनाम चतुर्थोऽध्यायः ॥ ४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP