सूतगीता - अथ पञ्चमोऽध्यायः
गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.
आत्मस्वरूपकथनम् ।
सूत उवाच - वक्ष्यामि परमं गुह्यं युष्माकं मुनिपुङ्गवाः । विज्ञानं वेदसम्भूतं भक्तानामुत्तमोत्तमम् ॥१॥ रुद्र विष्णुप्रजानाथप्रमुखाः सर्वचेतनाः । स्वरसेनाहमित्याहुरिदमित्यपि च स्वतः ॥२॥ इदंबुद्धिश्च बाह्यार्थे त्वहंबुद्धिस्तथाऽऽत्मनि । प्रसिद्धा सर्वजन्तूनां विवादोऽत्र न कश्चन ॥३॥ इदमर्थे घटाद्यर्थेऽनात्मत्वं सर्वदेहिनाम् । अहमर्थे तथाऽऽत्मत्वमपि सिद्धं स्वभावतः ॥४॥ एवं समस्तजन्तूनामनुभूतिर्व्यवस्थिता । भ्रान्ता अपि न कुर्वन्ति विवादं चात्र सत्तमाः ॥५॥ एवं व्यवस्थिते ह्यर्थे सति बुद्धिमतां वराः । संसारविषवृक्षस्य मूलच्छेदनकाङ्क्षिभिः ॥६॥ यत्र यत्रेदमित्येषा बुद्धिर्दृष्टा स्वभावतः । तत्र तत्र त्वनात्मत्वं विज्ञातव्यं विचक्षणैः ॥७॥ यत्र यत्राहमित्येषा बुद्धिर्दृष्टा स्वभावतः । तत्र तत्र तथात्मत्वं विज्ञातव्यं मनीषिभिः ॥८॥ शरीरे दृश्यते सर्वैरिदंबुद्धिस्तथैव च । अहंबुद्धिश्च विप्रेन्द्रास्ततस्ते भिन्नगोचरे ॥९॥ शरीरालम्बना बुद्धिरिदमित्यास्तिकोत्तमाः । चिदात्मलम्बना साक्षादहंबुद्धिर्न संशयः ॥१०॥ इदमर्थे शरीरे तु याऽहमित्युदिता मतिः । सा महाभ्रान्तिरेव स्यादतस्मिंस्तद्ग्रहत्वतः ॥११॥ अचिद्रूपमहंबुद्धेएः पिण्डं नाऽलम्बनं भवेत् । मृत्पिण्डादिष्वदृष्टत्वात्ततोऽनात्मैव विग्रहः ॥१२॥ अचित्त्वादिन्द्रियाणां च प्राणस्य मनसस्तथा । आलम्बनत्वं नास्त्येव बुद्धेश्चाहंमतिं प्रति ॥१३॥ बुद्धेरचित्त्वं सङ्ग्राह्यं दृष्टत्वाज्जन्मनाशयोः । अचिद्रूपस्य कुड्यादेः खलु जन्मावनाशनम् ॥१४॥ अहङ्कारस्य चाचित्त्वाच्चित्तस्य च तथैव च । आलम्बनत्वं नास्त्येव सदाऽहंप्रत्ययं प्रति ॥१५॥ सर्वप्रत्ययरूपेण सदाऽहङ्कार एव हि । निवर्ततेऽतोहङ्कारस्त्वनात्मैव शरीरवत् ॥१६॥ परिणामस्वभावस्य क्षीरादेर्द्विजपुङ्गवाः । अचेतनत्वं लोकेऽस्मिन्प्रसिद्धं खलु सन्ततम् ॥१७॥ तस्माच्चिद्रूप एवाऽऽत्माऽहंबुद्धेरर्थ आस्तिकाः । अचिद्रूपमिदंबुद्धेरनात्मैवार्तह् ईरुतः ॥१८॥ सत्यपि प्रत्ययार्थत्वे प्रत्यगात्मा स्वयंप्रभः । वृत्त्यधीनतया नैव विभाति घटकुड्यवत् ॥१९॥ स्वच्छवृत्तिमनुप्राप्य वृत्तेः साक्षितया स्थितः । वृत्त्या निवर्त्यमज्ञानं ग्रसते तेन तेजसा ॥२०॥ अनुप्रविष्टचैतन्यसम्बन्धात् वृत्तिरास्तिकाः । जडरूपं घटाद्यर्थं भासयत्यात्मरूपवत् ॥२१॥ अतोऽहंप्रत्ययार्थेऽपि नाअनात्मा स्याद्घटादिवत् । स्वयंप्रकाशरूपेण साक्षादात्मैव केवलम् ॥२२॥ यत्सम्बन्धादहंवृत्तिः प्रत्ययत्वेन भासते । स कथं प्रत्ययाधीनप्रकाशः स्यात्स्वयंप्रभः ॥२३॥ अहंवृत्तिः स्वतःसिद्धचैतन्येद्भाऽवभासते । तत्सम्बन्धादहङ्कारः प्रत्ययीव प्रकाशते ॥२४॥ आत्माऽहंप्रत्ययाकारसम्बन्धभ्रान्तिमात्रतः । कर्ता भोक्ता सुखी दुःखी ज्ञातेति प्रतिभासते ॥२५॥ वस्तुतस्तस्य नास्त्येव चिन्मात्रादपरं वपुः । चिद्रूपमेव स्वाज्ञानादन्यथा प्रतिभासते ॥२६॥ सर्वदेहेष्वहंरूपः प्रत्ययो यः प्रकाशते । तस्य चिद्रूप एवाऽऽत्मा साक्षादर्थो न चापरः ॥२७॥ गौरिति प्रत्ययस्यार्थो यथा गोत्वं तु केवलम् । तथाऽहंप्रत्ययस्यार्थश्चिद्रूपाअत्मैव केवलम् ॥२८॥ व्यक्तिसम्बन्धरूपेण गोत्वं भिन्नं प्रतीयते । चिदहङ्कारसम्बन्धाद्भेदेन प्रतिभाति च ॥२९॥ यथैवैकोऽपि गोशब्दो भिन्नार्थो व्यक्तिभेदतः । तथैवैकोऽप्यहंशब्दो भिन्नार्थो व्यक्तिभेदतः ॥३०॥ यथा प्रतीत्या गोव्यक्तिर्गोशब्दार्थो न तत्त्वतः । तत्त्वतो गोत्वमेवार्थः साक्षाद्वेदविदां वराः ॥३१॥ तथा प्रतीत्याऽहंकारोऽहंशब्दार्थो न तत्त्वतः । तत्त्वतः प्रत्यगात्मैव स एवाखिलसाधकः ॥३२॥ एकत्वेऽपि पृथक्त्वेन व्यपदेशोऽपि युज्यते । अन्तःकरणभेदेन साक्षिणः प्रत्यगात्मनः ॥३३॥ रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः । चिन्मात्रात्मन्यहंशब्दं प्रयुञ्जन्ते हि तत्त्वतः ॥३४॥ सुषुप्तोऽस्मीति सर्वोऽयं सुषुप्तादुत्थितो जनः । सुषुप्तिकालीनस्वात्मन्यहंशब्दं द्विजोत्तमाः ॥३५॥ प्रयुङ्क्ते तत्र देहादिविशेषाकारभासनम् । न हि केवलचैतन्यं सुषुप्तेः साधकं स्वतः ॥३६॥ प्रतिभाति ततस्तस्मिंश्चिन्मात्रे प्रत्यगात्मनि । अहंशब्दप्रवृत्तिः स्यान्न तु सोपाधिकात्मनि ॥३७॥ यथाऽयो दहतीत्युक्ते वह्निर्दहति केवलम् । नायस्तद्वदहंशब्दश्चैतन्यस्यैव वाचकः ॥३८॥ प्रतीत्या वह्निसम्बन्धाद्यथाऽयो दाहकं तथा । चित्सम्बन्धादहङ्कारोऽहंशब्दार्थः प्रकीर्तितः ॥३९॥ चैतन्येद्धाहम स्पर्शाद्देहादौ भ्रान्तचेतसाम् । अहंशब्दप्रयोगः स्यात्तथाऽहंप्रत्ययोऽपि च ॥४०॥ इत्थं विवेकतः साक्ष्यं देहादिप्राणपूर्वकम् । अन्तःकरणमात्मानं विभज्य स्वात्मनः पृथक् ॥४१॥ सर्वसाक्षिणमात्मानं स्वयंज्योतिःस्वलक्षणम् । सत्यमानन्दमद्वैतमहमर्थं विचिन्तयेत् ॥४२॥ रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः । अहमेव परं ब्रह्मेत्याहुरात्मानमेव हि ॥४३॥ ते तु चिन्मात्रमद्वैतमहमर्थतया भृशम् । अङ्गीकृत्याहमद्वैतं ब्रह्मेत्याहुर्न देहतः ॥४४॥ चिन्मात्रं सर्वगं सत्यं सम्पूर्णसुखमद्वयम् । साक्षाद्ब्रह्मैव नैवान्यदिति तत्त्वविदां स्थितिः ॥४५॥ शास्त्रं सत्यचिदानन्दमनन्तं वस्तु केवलम् । शुद्धं ब्रह्मेति सश्रद्धं प्राह वेदविदां वराः ॥४६॥ प्रत्यगात्माऽयमद्वन्द्वः साक्षी सर्वस्य सर्वदा । सत्यज्ञानसुखानन्तलक्षणः सर्वदाऽनघाः ॥४७॥ अतोऽयं प्रत्यगात्मैव स्वानुभूत्येकगोचरः । शास्त्रसिद्धं परं ब्रह्म नापरं परमार्थतः ॥४८॥ एवं तर्कप्रमाणाभ्यामाचार्योक्त्या च मानवः । अविज्ञाय शिवात्मैक्यं संसारे पतति भ्रमात् ॥४९॥ शास्त्राचार्योपदेशेन तर्कैः शास्त्रानुसारिभिः । सर्वसाक्षितयाऽऽत्मानं सम्यङ् निश्चित्य सुस्थिरः ॥५०॥ स्वात्मनोऽन्यतया भातं समस्तमविशेषतः । स्वात्ममात्रतया बुद्ध्वा पुनः स्वात्मानमद्वयम् ॥५१॥ शुद्धं ब्रह्मेति निश्चित्य स्वयं स्वानुभवेन च । निश्चयं च स्वचिन्मात्रे विलाप्याविक्रियेऽद्वये ॥५२॥ विलापनं च चिद्रूपं बुद्ध्वा केवलरूपतः । स्वयं तिष्ठेदयं साक्षाद्ब्रह्मवित्प्रवरो मुनिः ॥५३॥ ईदृशी परमा निष्ठा श्रौती स्वानुभवात्मिका । देशिकालोकनेनैव केवलेन हि सिध्यति ॥५४॥ देशिकालोकनं चापि प्रसादात्पारमेश्वरात् । सिध्यत्ययत्नतः प्राज्ञाः सत्यमेव मयोदितम् ॥५५॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । प्रसादादेव सर्वेषां सर्वसिद्धिर्महेशितुः ॥५६॥ प्रसादे शाम्भवे सिद्धे सर्वं शम्भुतया स्वतः । विभाति नान्यथा विप्राः सत्यमेव मयोदितम् ॥५७॥ यदा शम्भुतया सर्वं विभाति स्वत एव तु । तदा हि शाम्भवः साक्षात्प्रसादः सत्यमीरितम् ॥५८॥ शिवादन्यतया किंचिदपि भाति यदा द्विजाः । तदा न शाङ्करो बोधः संजात इति मे मतिः ॥५९॥ शिवादन्यतया सर्वं प्रतीतमपि पण्डितः । तत्त्वदृष्ट्या शिवं सर्वं सुस्थिरं परिपश्यति ॥६०॥ शिवाकारेण वा नित्यं प्रपञ्चाकारतोऽपि वा । जीवाकारेण वा भातं यत्तद्ब्रह्म विचिन्तयेत् ॥६१॥ शम्भुरेव सदा भाति सर्वाकारेण नापरः । इति विज्ञानसम्पन्नः शाङ्करज्ञानिनां वरः ॥६२॥ शम्भुरूपतया सर्वं यस्य भाति स्वभावतः । न तस्य वैदिकं किंचित्तान्त्रिकं चास्ति लौकिकम् ॥६३॥ यथाभातस्वरूपेण शिवं सर्वं विचिन्तयन् । योगी चरति लोकानामुपकाराय नान्यथा ॥६४॥ स्वस्वरूपातिरेकेण निषिद्धं विहितं तु वा । न पश्यति महायोगी भाति स्वात्मतयाऽखिलम् ॥६५॥ चण्डालगेहे विप्राणां गृहे वा परमार्थवित् । भक्ष्यभोज्यादिवैषम्यं न किंचिदपि पश्यति ॥६६॥ यथेष्टं वर्तते योगी शिवं सर्वं विचिन्तयन् । तादृशो हि महायोगी को वा तस्य निवारकः ॥६७॥ बहुनोक्तेन किं साक्षाद्देशिकस्य निरीक्षणात् । प्रसादादेव रुद्रस्य परशक्तेस्तथैव च ॥६८॥ श्रुतिभक्तिबलात्पुण्यपरिपाकबलादपि । शिवरूपतया सर्वं स्वभावादेव पश्यति ॥६९॥ शिवः सर्वमिति ज्ञानं शाङ्करं शोकमोहनुत् । अयमेव हि वेदार्थो नापरः सत्यमीरितम् ॥७०॥ श्रुतौ भक्तिर्गुरौ भक्तिः शिवे भक्तिश्च देहिनाम् । साधनं सत्यविद्यायाः सत्यमेव मयोदितम् ॥७१॥ सोपानक्रमतो लब्धं विज्ञानं यस्य सुस्थिरम् । तस्य मुक्तिः परा सिद्धा सत्यमेव मयोदितम् ॥७२॥ नित्यमुक्तस्य संसारो भ्रान्तिसिद्धः सदा खलु । तस्माज्ज्ञानेन नाशः स्यात्संसारस्य न कर्मणा ॥७३॥ ज्ञानलाभाय वेदोक्तप्रकारेण समाहितः । महाकारुणिकं साक्षाद्गुरुमेव समाश्रयेत् ॥७४॥ ॥इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां आत्मस्वरूपकथनं नाम पञ्चमोऽध्यायः ॥ ५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP