सूतगीता - अथ सप्तमोऽध्यायः

गीता म्हणजे प्राचीन ऋषी मुनींनी रचलेली विश्व कल्याणकारी मार्गदर्शक तत्त्वे.
Gita has the essence of Hinduism, Hindu philosophy and a guide to peaceful life and ever lasting world peace.


रहस्यविचारः ।
सूत उवाच - रहस्यं संप्रवक्ष्यामि समासेन न विस्तरात् । श्रुणुत श्रद्धया विप्राः सर्वसिद्ध्यर्थमुत्तमम् ॥१॥ देवताः सर्वदेहेषु स्थिताः सत्यतपोधनाः । सर्वेषां कारणं साक्षात्परतत्त्वमपि स्थितम् ॥२॥ पञ्चभूतात्मके देहे स्थूले षाट्कौशिके सदा । पृथिव्यादिक्रमेणैव वर्तन्ते पञ्च देवताः ॥३॥ कार्यं ब्रह्मा महीभागे कार्यं विष्णुर्जलांशके । कार्यं रुद्रोऽग्निभागे च वाय्वंशे चेश्वरः परः । आकाशांशे शरीरस्य स्थितः साक्षात्सदाशिवः ॥४॥ शरीरस्य बहिर्भागे विराडात्मा स्थितः सदा ॥५॥ अन्तर्भागे स्वराडात्मा सम्राड्देहस्य मध्यमे । ज्ञानेन्द्रियसमाख्येषु श्रोत्रादिषु यथाक्रमात् ॥६॥ दिग्वाय्वर्कजलाध्यक्षभूमिसंज्ञाश्च देवताः । कर्मेन्द्रियसमाख्येषु पादपाण्यादिषु क्रमात् ॥७॥ त्रिविक्रमेन्द्रवह्न्याख्या देवताश्च प्रजापतिः । मित्रसंज्ञश्च वर्तन्ते प्राणे सूत्रात्मसंज्ञितः ॥८॥ हिरण्यगर्भो भगवानन्तःकरणसंज्ञिते । तदवस्थाप्रभेदेषु चन्द्रमा मनसि स्थितः ॥९॥ बुद्धौ बृहस्पतिर्विप्राः स्थितः कालाग्निरुद्रकः । अहङ्कारे शिवश्चित्ते रोमसु क्षुद्रदेवताः ॥१०॥ भूतप्रेतादयः सर्वे देहस्यास्थिषु संस्थिताः । पिशाचा राक्षसाः सर्वे स्थिताः स्नायुषु सर्वशः ॥११॥ मज्जाख्ये पितृगन्धर्वास्त्वङ्मांसरुधिरेषु च । वर्तन्ते तत्र संसिद्धा देवताः सकला द्विजाः ॥१२॥ त्रिमूर्तीनां तु यो ब्रह्मा तस्य घोरा तनुर्द्विजाः । दक्षिणाक्षिणि जन्तूनामन्तर्भागे रविर्बहिः ॥१३॥ त्रिमूर्तीनां तु यो ब्रह्मा तस्य शान्ता तनुर्द्विजाः । वर्तते वामनेत्रान्तर्भागे बाह्ये निशाकरः ॥१४॥ त्रिमूर्तीनां तु यो विष्णुः स कण्ठे वर्तते सदा । अन्तः शान्ततनुर्घोरा तनुर्बाह्ये द्विजर्षभाः ॥१५॥ त्रिमूर्तीनां तु यो रुद्रो हृदये वर्तते सदा । अन्तः शान्ततनुर्घोरा तनुर्बाह्ये द्विजर्षभाः ॥१६॥ सर्वेषां कारणं यत्तद्ब्रह्म सत्यादिलक्षणम् । ब्रह्मरन्ध्रे महास्थाने वर्तते सततं द्विजाः ॥१७॥ चिच्छक्तिः परमा देहमध्यमे सुप्रतिष्ठिता । मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजादधः ॥१८॥ नादरूपा परा शक्तिर्ललाटस्य तु मध्यमे । भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके ॥१९॥ बिन्दुमध्ये तु जीवात्मा सूक्ष्मरूपेण वर्तते । हृदये स्थूलरूपेण मध्यमेन तु मध्यमे ॥२०॥ देवी सरस्वती साक्षाद्ब्रह्मपत्नी सनातनी । जिह्वाग्रे वर्तते नित्यं सर्वविद्याप्रदायिनी ॥२१॥ विष्णुपत्नी महालक्ष्मीर्वर्ततेऽनाहते सदा । रुद्रपत्नी तु रुद्रेण पार्वती सह वर्तते ॥२२॥ सर्वत्र वर्तते साक्षाच्छिवः साम्बः सनातनः । सत्यादिलक्षणः शुद्धः सर्वदेवनमस्कृतः ॥२३॥ सम्यग्ज्ञानवतां देहे देवताः सकला अमूः । प्रत्यगात्मतया भान्ति देवतारूपतोऽपि च ॥२४॥ वेद मार्गैकनिष्ठानां विशुद्धानां तु विग्रहे । देवतारूपतो भान्ति द्विजा न प्रत्यगात्मना ॥२५॥ तान्त्रिकाणां शरीरे तु देवताः सकला अमूः । वर्तन्ते न प्रकाशन्ते द्विजेन्द्राः शुद्ध्यभावतः ॥२६॥ यथाजातजनानां तु शरीरे सर्वदेवताः । तिरोभूततया नित्यं वर्तन्ते मुनिसत्तमाः ॥२७॥ अतश्च भोगमोक्षार्थी शरीरं देवतामयम् । स्वकीयं परकीयं च पूजयेत्तु विशेषतः ॥२८॥ नावमानं सदा कुर्यान्मोहतो वाऽपि मानवः । यदि कुर्यात्प्रमादेन पतत्येव भवोदधौ ॥२९॥ दुर्वृत्तमपि मूर्खं च पूजयेद्देवतात्मना । देवतारूपतः पश्यन्मुच्यते भवबन्धनात् ॥३०॥ मोहेनापि सदा नैव कुर्यादप्रियभाषणम् । यदि कुर्यात्प्रमादेन हन्ति तं देवता परा ॥३१॥ न क्षतं विग्रहे कुर्यादस्त्रशस्त्रनखादिभिः । तथा न लोहितं कुर्याद्यदि कुर्यात्पतत्यधः ॥ ३२॥ स्वदेहे परदेहे वा न कुर्यादङ्कनं नरः । यदि कुर्याच्च चक्राद्यैः पतत्येव न संशयः ॥३३॥ रहस्यं सर्वशास्त्राणां मया प्रोक्तं समासतः । शरीरं देवतारूपं भजध्वं यूयमास्तिकः ॥३४॥ ॥इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां रहस्यविचारो नाम सप्तमोऽध्यायः ॥ ७॥ अथ अष्टमोऽध्यायः । ८. सर्ववेदान्तसङ्ग्रहः । सूत उवाच - अथ वक्ष्ये समासेन सर्ववेदान्तसङ्ग्रहम् । यं विदित्वा नरः साक्षान्निर्वाणमधिगच्छति ॥१॥ परात्परतरं तत्त्वं शिवः सत्यादिलक्षणः । तस्यासाधारणी मूर्तिरम्बिकासहिता सदा ॥२॥ स्वस्वरूपमहानन्दप्रमोदात्ताण्डवप्रिया । शिवादिनामान्येवास्य नामानि मुनिपुङ्गवाः ॥३॥ ब्रह्मा विष्णुश्च रुद्रश्च परतत्त्वविभूतयः । त्रिमूर्तीनां तु रुद्रस्तु वरिष्ठो ब्रह्मणो हरेः ॥४॥ संसारकारणं माया सा सदा सद्विलक्षणा । प्रतीत्यैव तु सद्भावस्तस्या नैव प्रमाणतः ॥५॥ साऽपि ब्रह्मातिरेकेण वस्तुतो नैव विद्यते । तत्त्वज्ञानेन मायाया बाधो नान्येन कर्मणा ॥६॥ ज्ञानं वेदान्तवाक्योत्थं ब्रह्मात्मैकत्वगोचरम् । तच्च देवप्रसादेन गुरोः साक्षान्निरीक्षणात् । जायते शक्तिपातेन वाक्यादेवाधिकारिणाम् ॥७॥ ज्ञानेच्छाकारणं दानं यज्ञाश्च विविधा अपि । तपांसि सर्ववेदानां वेदान्तानां तथैव च ॥८॥ पुराणानां समस्तानां स्मृतीनां भारतस्य च । वेदाङ्गानां च सर्वेषामपि वेदार्थपारगाः ॥९॥ अध्यापनं चाध्ययनं वेदार्थे त्वरमाणता । उपेक्षा वेदबाह्यार्थे लौकिकेष्वखिलेष्वपि ॥१०॥ शान्तिदान्त्यादयो धर्मा ज्ञानस्याङ्गानि सुव्रताः ॥११॥ ज्ञानाङ्गेषु समस्तेषु भक्त्या लिङ्गे शिवार्चनम् । प्रतिष्ठा देवदेवस्य शिवस्थाननिरीक्षणम् ॥१२॥ शिवभक्तस्य पूजा च शिवभक्तिस्तथैव च । रुद्राक्षधारणं भक्त्या कर्णे कण्ठे तथा करे ॥१३॥ अग्निरित्यादिभिर्मन्त्रैर्भस्मनैवावगुण्ठनम् । त्रिपुण्ड्रधारणं चापि ललाटादिस्थलेषु च ॥१४॥ वेदवेदान्तनिष्ठस्य महाकारुणिकस्य च । गुरोः शुश्रूषणं नित्यं वरिष्ठं परिकीर्तितम् ॥१५॥ चिन्मन्त्रस्य पदाख्यस्य हंसाख्यस्य मनोर्जपः । षडक्षरस्य तारस्य वरिष्ठः परिकीर्तितः ॥१६॥ अविमुख्यसमाख्यं च स्थानं व्याघ्रपुराभिधम् । श्रीमद्दक्षिणकैलाससमाख्यं च सुशोभनम् ॥१७॥ मार्गान्तरोदिताचारात्स्मार्तो धर्मः सुशोभनः । स्मार्ताच्छ्रौतः परो धर्मः श्रौताच्छ्रेष्ठो न विद्यते ॥१८॥ अतीन्द्रियार्थे धर्मादौ शिवे परमकारणे । श्रुतिरेव सदा मानं स्मृतिस्तदनुसारिणी ॥१९॥ आस्तिक्यं सर्वधर्मस्य कन्दभूतं प्रकीर्तितम् । प्रतिषिद्धक्रियात्यागः कन्दस्यापि च कारणम् ॥२०॥ शिवः सर्वमिति ज्ञानं सर्वज्ञानोत्तमोत्तमम् । तत्तुल्यं तत्परं चापि न किंचिदपि विद्यते ॥२१॥ वक्तव्यं सकलं प्रोक्तं मयाऽतिश्रद्धया सह । अतः परं तु वक्तव्यं न पश्यामि मुनीश्वराः ॥२२॥ इत्युक्त्वा भगवान्सूतो मुनीनां भावितात्मनाम् । साम्बं सर्वेश्वरं ध्यात्वा भक्त्या परवशोऽभवत् ॥२३॥ अथ परशिवभक्त्या सच्चिदानन्दपूर्णं परशिवमनुभूय त्वात्मरूपेण सूतः । मुनिगणमवलोक्य प्राह साक्षाद्घृणाब्धि- र्जनपदहितरूपं वेदितव्यं तु किंचित् ॥२४॥ श्रुतिपथगलितानां मानुषाणां तु तन्त्रं गुरुगुरुरखिलेशः सर्ववित्प्राह शम्भुः । श्रुतिपथनिरतानां तत्र नैवास्ति किंचि- द्धितकरमिह सर्वं पुष्कलं सत्यमुक्तम् ॥२५॥ श्रुतिरपि मनुजानां वर्णधर्मं बभाषे परगुरुरखिलेशः प्राह तन्त्रेषु तद्वत् । श्रुतिपथगलितानां वर्णधर्मं घृणाब्धिः श्रुतिपथनिरतानां नैव तत्सेवनीयम् ॥२६॥ श्रुतिपथनिरतानामाश्रमा यद्वदुक्ताः परगुरुरखिलेशस्तद्वदाहाऽऽश्रमांश्च । श्रुतिपथगलितानां मानुषाणां तु तन्त्रं हरिरपि मुनिमुख्याः प्राह तन्त्रे स्वकीये ॥२७॥ विधिरपि मनुजानामाह वर्णाश्रमांश्च श्रुतिपथगलितानामेव तन्त्रे स्वकीये । श्रुतिपथनिरतानां ते न संसेवनीयाः । श्रुतिपथसममार्गौ नैव सत्यं मयोतम् ॥२८॥ हरहरिविधिपूजा कीर्तिता सर्वतन्त्र श्रुतिपथनिरतानं यद्वदुक्तातु पूजा । श्रुतिपथगलितानांयद्वदुक्ता तु पूजा । श्रुतिपथगलितानामेव तन्त्रोक्तपूजा श्रुतिपथनिरतानां सर्ववेदोदितैव ॥२९॥ श्रुतिपथगलितानां सर्वतन्त्रेषु लिङ्गं कथितमखिलदुःखध्वंसध्वंसकं तत्र तत्र । श्रुतिपथनिरतानां तत्सदा नैव धार्यं श्रुतिरपिमनुजानामाह लिङ्गं विशुद्धम् ॥३०॥ शिवागमोक्ताश्रमनिष्ठमानव- स्त्रिपुण्ड्रलिङ्गं तु सदैव धारयेत् । तदुक्ततन्त्रेण ललाटमध्यमे महादरेणैव सितेन भस्मना ॥३१॥ विष्ण्वागमोक्ताश्रमनिष्ठमानव- स्तथैव पुण्ड्रान्तरमूर्ध्वरूपकम् । त्रिशूलरूपं चतुरश्रमेव वा मृदा ललाटे तु सदैव धारयेत् ॥३२॥ ब्रह्मागमोक्ताश्रमनिष्ठमानवो ललाटमध्येऽपि च वर्तुलाकृतिम् । तदुक्तमन्त्रेण सितेन भस्मना मृदाऽथवा चन्दनस्तु धारयेत् ॥३३॥ अश्वत्थपत्रसदृशं हरिचन्दनेन मध्येललाटमतिशोभनमादरेण । बुद्धागमे मुनिवरा यदि संस्कृतश्चे- न्मृद्वारिणा सततमेव तु धारयेच्च ॥३४॥ ऊर्ध्वपुण्ड्रत्रयं नित्यं धारयेद्भस्मना मृदा । ललाटे हृदये बाह्वोश्चन्दनेनाथवा नरः ॥३५॥ सितेन भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् । सर्वागमेषु निष्ठानां तत्तन्मन्त्रेण शोभनम् ॥३६॥ शिवागमेषु निष्ठानां धार्यं तिर्यक्त्रिपुण्ड्रकम् । एकमेव सदा भूत्या नैव पुण्ड्रान्तरं बुधाः ॥३७॥ वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना । ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि ॥३८॥ ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य तु धारणम् । विना पुण्ड्रान्तरं मोहाद्धारयन्पतति द्विजः ॥३९॥ विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते । शङ्खचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम् ॥४०॥ दीक्षितानां तु तन्त्रेषु नराणामङ्कन द्विजाः । उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः ॥४१॥ पुण्ड्रान्तरस्य तन्त्रेषु धारणं दीक्षितस्य तु । उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः ॥४२॥ वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि । पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥४३॥ नाङ्कनं विग्रहे कुर्याद्वेदपन्थानमाश्रितः । पुण्ड्रान्तरं भ्रमाद्वापि ललाटे न धारयेत् ॥४४॥ तन्त्रोक्तेन प्रकारेण देवता या प्रतिष्ठिता । साऽपि वन्द्या सुसेव्या च पूजनीया च वैदिकैः ॥४५॥ शुद्धमेव हि सर्वत्र देवतारूपमास्तिकाः । तत्तत्तन्त्रोक्तपूजा तु तन्त्रनिष्ठस्य केवलम् ॥४६॥ तन्त्रेषु दीक्षितो मर्त्यो वैदिकं न स्पृशेत्सदा । वैदिकश्चापि तन्त्रेषु दीक्षितं न स्पृशेत्सदा ॥४७॥ राजा तु वैदिकान्सर्वांस्तान्त्रिकानखिलानपि । असंकीर्णतया नित्यं स्थापयेन्मतिमत्तमाः ॥४८॥ अन्नपानादिभिर्वस्त्रैः सर्वान् राजाऽभिरक्षयेत् । वैदिकांस्तु विशेषेण ज्ञानिनं तु विशेषतः ॥४९॥ महादेवसमो देवो यथा नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥५०॥ शिवज्ञानसमं ज्ञानं यथा नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥५१॥ यथा वाराणसी तुल्या पुरी नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥५२॥ षडक्षरोसमो मन्त्रो यथा नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥५३॥ यथा भागीरथीतुल्या नदी नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥५४॥ ओदनेन समं भोज्यं यथा लोके न विद्यते । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥५५॥ देवदेवो महादेवो यथा सर्वैः प्रपूज्यते । तथैव वैदिको मर्त्यः पूज्यः सर्वजनैरपि ॥५६॥ आदित्येन विहीनं तु जगदन्धं यथा भवेत् । तथा वैदिकहीनं तु जगदन्धं न संशयः ॥५७॥ प्राणेन्द्रियादिहीनं तु शरीरं कुणपं यथा । तथा वैदिकहीनं तु जगद्व्यर्थं न संशयः ॥५८॥ अहो वैदिकमाहात्म्यं मया वक्तुं न शक्यते । वेद एव तु माहात्म्यं वैदिकस्याब्रवीन्मुदा ॥५९॥ स्मृतयश्च पुराणानि भारतादीनि सुव्रताः । वैदिकस्य तु माहात्म्यं प्रवदन्ति सदा मुदा ॥६०॥ वेदोक्तं तान्त्रिकाः सर्वे स्वीकुर्वन्ति द्विजर्षभाः । नोपजीवन्ति तन्त्रोक्तं वेद साक्षात्सनातनः ॥६१॥ इत्युक्त्वा भगवान्सूतः स्वगुरुं व्याससंज्ञितम् । स्मृत्वा भक्त्या वशो भूत्वा पपात भुवि दण्डवत् ॥६२॥ अस्मिन्नवसरे श्रीमान्मुनिः सत्यवतीसुतः । शिष्यस्मृत्यङ्कुशाकृष्टस्तत्रैवाऽऽविरभूत्स्वयम् ॥६३॥ तं दृष्ट्वा मुनयः सर्वे सन्तोषाद्गद्गदस्वराः । निश्चेष्टा नितरां भूमौ प्रणम्य करुणानिधिम् ॥६४॥ स्तोत्रैः स्तुत्वा महात्मानं व्यासं सत्यवतीसुतम् । पूजयामासुरत्यर्थं वन्यपुष्पफलादिभिः ॥६५॥ भगवानपि सर्वज्ञः करुणासागरः प्रभुः । उवाच मधुरं वाक्यं मुनीनालोक्य सुव्रतान् ॥६६॥ व्यास उवाच - शिवमस्तु मुनीन्द्राणां नाशिवं तु कदाचन । अहो भाग्यमहो भाग्यं मया वक्तुं न शक्यते ॥६७॥ श्रूयतां मुनयः सर्वे भाग्यवन्तः समाहिताः । प्रसादादेव रुद्रस्य प्रभोः कारुणिकस्य च ॥६८॥ पुराणानां समस्तानामहं कर्ता पुराऽभवम् । मत्प्रसादादयं सूतस्त्वभवद्रुद्रवल्लभः ॥६९॥ रुद्रस्याऽऽज्ञाबलादेव प्रभोः कारुणिकस्य च । पुराणसंहितकर्ता देशिकश्चाभवद्भृशम् ॥७०॥ पुरा कृतेन पुण्येन भवन्तोऽपीश्वराज्ञया । सूतादस्माच्छ्रुतेरर्थं श्रुतवन्तो यथातथम् ॥७१॥ कृतार्थाश्च प्रसादश्च रौद्रः किं न करिष्यति । आज्ञया केवलं शम्भोरहं वेदार्थवेदने ॥७२॥ सम्पूर्णः सर्ववेदान्तवाक्यानामर्थनिश्चये । समर्थश्च नियुक्तश्च सूत्रारम्भकृतेऽपि च ॥७३॥ आज्ञया देवदेवस्य भवतामपि योगिनाम् । ज्ञाने गुरुगुरुश्चाहमभवं मुनिपुङ्गवाः ॥७४॥ भवन्तोऽपि शिवज्ञाने वेदसिद्धे विशेषतः । भक्त्या परमया युक्ता निष्ठा भवत सर्वदा ॥७५॥ इत्युक्त्वा भगवान् व्यासः स्वशिष्यं सूतमुत्तमम् । उत्थाप्याऽऽलिङ्ग्य देवेशं स्मृत्वा नत्वाऽगमद्गुरुः ॥७६॥ पुनश्च सूतः सर्वज्ञः स्वशिष्यानवलोक्य च । प्राह गम्भीरया वाचा भवतां शिवमस्त्विति ॥७७॥ मयोक्ता परमा गीता पठिता येन तस्य तु । आयुरारोग्यमैश्वर्यं विज्ञानं च भविष्यति ॥७८॥ शिवप्रसादः सुलभो भविष्यति न संशयः । गुरुत्वं च मनुष्याणां भविष्यति न संशयः ॥७९॥ विद्यारूपा या शिवा वेदवेद्या सत्यानन्दानन्तसंवित्स्वरूपा । तस्या वाचः सर्वलोकैक मातु- र्भक्त्या नित्यं चम्बिकायाः प्रसादात् ॥८०॥ गुरुप्रसादादपि सुव्रता मया शिवप्रसादादपि चोत्तमोत्तमात् । विनायकस्यापि महाप्रसादात् षडाननस्यापि महाप्रसादात् ॥८१॥ यज्ञवैभवसमाह्वयः कृतः सर्ववेदमथनेन सत्तमाः । अत्र मुक्तिरपि शोभना परा सुस्थितैव न हि तत्र संशयः ॥८२॥ यज्ञवैभवसमाह्वयं परं खण्डमत्र विमलं पठेन्नरः । सत्यबोधसुखलक्षणं सत्यमेव झटिति प्रयाति हि ॥८३॥ मदुक्तसंहिता परा समस्तदुःखहारिणी नरस्य मुक्तिदायिनी शिवप्रसादकारिणी । समस्तवेदसारतः सुनिर्मिताऽतिशोभना महत्तरानुभूतिमद्भिरादृता न चापरैः ॥८४॥ मदुक्तसंहिता तु या तया विरुद्धमस्ति चे- दनर्थकं हि तद्बुधा वचः प्रयोजनाय न । श्रुतिप्रमाणरूपिणी सुसंहिता मयोदिता श्रुतिप्रमाणमेव सा महाजनस्य सन्ततम् ॥८५॥ मदुक्तसंहितामिमामतिप्रियेण मानवः पठन्न याति संसृतिं प्रयाति शङ्करं परम् । अतश्च शोभनामिमामहर्निशं समाहितः श्रुतिप्रमाणवत्पठेदतन्द्रितः स्वमुक्तये ॥८६॥ पुराणसंहितामिमामतिप्रियेण यः पुमान् श्रुणोति संसृतिं पुनर्न याति याति शङ्करम् । परानुभूतिरद्वया विजायते च तस्य सा शिवा च वाचि नृत्यति प्रियेण शङ्करोऽपि च ॥८७॥ सत्यपूर्णसुखबोधलक्षणं तत्त्वमर्थविभवं सनातनम् । सत्स्वरूपमशुभापहं शिवं भक्तिगम्यममलं सदा नुमः ॥८८॥ याऽनुभूतिरमला सदोदिता वेदमाननिरता शुभावहा । तामतीव सुखदामहं शिवां केशवादिजनसेवितां नुमः ॥८९॥ वेदपद्मनिकरस्य भास्करं देवदेवसदृशं घृणानिधिम् । व्यासमिष्टफलदं गुरुं नुमः शोकमोहविषरोगभेषजम् ॥९०॥ ये वेदवेदान्तधना महाजनाः शिवाभिमानैकनिरस्तकिल्बिषाः । नमामि वाचा शिरसा हृदा च तान् भवाहिवेगस्य निवारकानहम् ॥९१॥ ॥इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सर्ववेदान्तसङ्ग्रहो नामाष्टमोऽध्यायः ॥ ८॥
सूतगीता समाप्ता । ॐ तत्सत्

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP