इन्द्राणीसप्तशती - द्वितीयमौष्णिहं शतकम्
‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते.
॥प्रथमः कुमारललितापादः ॥
सुरेश्वरमहिष्याः स्मितं शशिसितं मे ।
तनोतु मतिमच्छां करोतु बलमग्रय्म् ॥१०१॥
विधाय रिपुधूतिं निधाय सुदशायाम् ।
पुलोमतनुजाता धिनोतु भरतक्ष्माम् ॥१०२॥
पदप्रणतरक्षा विधानधृतदीक्षा ।
जगद्भरणदक्षा परा जयति शक्तिः ॥१०३॥
स्वरत्यविरतं सा शनैर्नभसि रङ्गे ।
ज्वलत्यधिकसूक्ष्मं जगत्प्रभवशक्तिः ॥१०४॥
महस्तव सुसूक्ष्मं निदानमखिलानाम् ।
भवत्यखिलमातर्जगत्यनुभवानाम् ॥१०५॥
जनन्यनुभवानां मतित्वपरिणामे ।
स्वरो भवति मूलं तवाभ्रहयरामे ॥१०६॥
य ईश्वरि निदानं समस्तमतिभाने ।
स्वरो गतिविशेषात्स एव खलु कालः ॥१०७॥
ज्वलन्त्यभिहिता त्वं विहायसि विशाले ।
प्रचण्डपदपूर्वा प्रपञ्चकरिचण्डी ॥१०८॥
स्वरन्त्यखिलबुद्धिप्रदा भवसि गौरी ।
त्रिकालतनुरम्ब स्मृता त्वमिह काली ॥१०९॥
महस्स्वर इतीदं द्वयं तदतिसूक्ष्मम् ।
महेश्वरि तवांशद्वयं परममुक्तम् ॥११०॥
महोऽतिशयमाप्तं त्वयि त्रिदिवगायाम् ।
स्वरोऽतिशयमाप्तः सिताद्रिनिलयायाम् ॥१११॥
दिवं नयति पूर्वा भुवं युवतिरन्या ।
द्वयोः प्रकृतिरभ्रं विशालमतिमान्या ॥११२॥
न ते दिवि लसन्त्याः पिता तनुभृदन्यः ।
स्वयं भुवमिमां त्वां सतामवनि विद्मः ॥११३॥
सुरारिकुलजन्मा तवेश्वरि पुलोमा ।
पितेति कविभाषा परोक्षगतिरेषा ॥११४॥
वदन्त्यसुरशब्दैर्घनं सजलमेतम् ।
पुलोमपदमेकं पुराणसतितेषु ॥११५॥
प्रकृष्टतरदीप्तिर्गभीरतरनादा ।
इतो हि भवसि त्वं तटित्तनुरमेये ॥११६॥
अरातिरसुरोऽयं विभोर्निगदितस्ते ।
हयश्च बतगीतः पिता तव पयोदः ॥११७॥
प्रियैः किल परे वां परोक्षवचनौघैः ।
प्रतारितमिवेला जगन्मुनिगणेन ॥११८॥
निकृष्टमपि रम्यं यदि त्रिदिवलोके ।
तवाम्ब किमु वाच्या रुचिस्त्रिदिवनाथे ॥११९॥
त्वमम्ब रमणीया वधूस्त्वमिव नाके ।
त्वया क इव तुल्यां मृदो वदतु लोके ॥१२०॥
विनीलमिव खांशं विदुस्त्रिदिवमेके ।
परस्तु वदसि स्वः कविः कमलबन्धुम् ॥१२१॥
अमुत्रगतशोके महामहसि नाके ।
नमाम्यधिकृतां तां पुराणकुलकान्ताम् ॥१२२॥
यदा ममुतपक्वं मदीयमघमुग्रम् ।
तदिन्द्रकुलकान्ते निवारय समग्रम् ॥१२३॥
ददातु भरतक्ष्माविषादहरणाय ।
अलं बलमुदारा जयन्तजननी मे ॥१२४॥
अतीव ललिताभिः कुमारललिताभिः ।
इमाभिरमरेशप्रिया भजतु मोदम् ॥१२५॥
॥द्वितीयो मदलेखापादः ॥
पौलोम्याः परिशुभ्रज्योत्स्नादृश्यरुचो मे ।
श्रीमन्तो दरहासाः कल्पन्तां कुशलाय ॥१२६॥
कारुण्यामृतसिक्ता शक्ता शक्रमहिष्याः ।
प्रेक्षा भारतभूमेर्दौर्बल्यं विधुनोतु ॥१२७॥
वन्दे निर्जरराज्ञीं सङ्क्ल्पे सति यस्याः ।
साध्यासाध्यविचारो नैव स्यादणुकोऽपि ॥१२८॥
सङ्क्ल्पस्तव कश्च्चिचत्ते चेद्दिव ईशे ।
स्यादुल्लङ्घ्य निसर्गं सिद्धिर्निष्फलता च ॥१२९॥
मूढोऽप्युत्तमरीत्या सिध्येदध्ययनेषु ।
मेधावी च नितान्तं नैव स्यात्कृतकृत्यः ॥१३०॥
उत्पद्येत महेश्वर्यप्राज्ञादपि शास्त्रम् ।
यायान्मातरकस्माद्विभ्रान्तिं विबुधोऽपि ॥१३१॥
अल्पानामबलानां सङ्ग्रामे विजयः स्यात् ।
शक्तानां बहुलानां घोरा स्यात्परिभूतिः ॥१३२॥
राजेरन्नृपपीठेष्वख्यातानि कुलानि ।
स्याद्दुर्धर्षबलानां पातो राजकुलानाम् ॥१३३॥
निर्यत्नोऽपि समाधेर्विन्देद्देवि समृद्धिम् ।
योगस्याम्ब न पश्येदभ्यस्यन्नपि सिद्धिम् ॥१३४॥
अत्यन्तं यदसाध्यं नेदिष्ठं भवतीदम् ।
साध्यं सर्वविधाभिः स्यादिन्द्राणि दविष्ठम् ॥१३५॥
गायामो मुनिसङ्घैर्गेयां कामपि मायाम् ।
इन्द्रस्यापि विनेत्रीं त्रैलोक्यस्य च धात्रीम् ॥१३६॥
विद्यानामधिनाथे कां विद्यां श्रयसे त्वम् ।
इन्द्रं कर्तुमधीनं विश्वस्मादधिकं तम् ॥१३७॥
नित्यालिर्मिनीषे स्त्रीमोहो न वितर्क्यः ।
भ्रूचेष्टानुचरत्वादन्या स्यादनुकम्पा ॥१३८॥
सौन्दर्यं परमन्यद्वजेरद्दर्यथवा ते ।
हर्तुं यत्सुखमीष्टे तादृक्तस्य च चित्तम् ॥१३९॥
चक्षुर्दर्शनमात्रन्निस्तेजो विदधानम् ।
चित्तं चोज्झितधैर्यं मत्तानां दनुजानाम् ॥१४०॥
गर्ते दुर्जनदेहे मग्नान् पङ्क्विलग्नान् ।
प्राणानात्मसजातीनुद्धर्तुं धृतदीक्षम् ॥१४१॥
वज्रं निर्जरराजो यद्धत्ते समरेषु ।
त्वच्छक्तेः कलयैतन्मन्मातर्निरमायि ॥१४२॥
राज्ञीत्वात्परमेते राजत्वं शतमन्योः ।
निश्शक्तिस्स विना त्वां कामाज्ञां कुरुतां नः ॥१४३॥
सर्वं शक्रनिशान्तस्येशाने तव हस्ते ।
अस्माकं तु धियेदं स्तोत्रं सङ्ग्रहतस्ते ॥१४४॥
गन्तव्यं स्वरधीशे निश्शेषार्पणशूरम् ।
बिभ्राणा नयसि त्वं मार्जालीव किशोरम् ॥१४५॥
गृह्ण्न्नम्बरनाथामम्बामश्लथमन्धः ।
कीशस्येव किशोरो योगी गच्छति गम्यम् ॥१४६॥
पूर्णात्मार्पणहीनोऽप्यज्ञाताऽपि समाधेः ।
नित्यं यो जगदम्ब त्वां सेवेत जपाद्यैः ॥१४७॥
तं चाचञ्चलभक्तिं कृत्वा पूरितकामम् ।
निष्ठां दास्यसि तस्मै पौलोमि क्रमशस्त्वम् ॥१४८॥
भिन्नां सङ्घसहस्त्रैः खिन्नां शत्रुभरेण ।
पातुं भारतभूमिं मातर्देहि बलं मे ॥१४९॥
त्र्यैलोक्यावनभारश्रान्तां वासवकान्ताम् ।
हैरम्ब्यो मदलेखाः सम्यक् सम्मदयन्तु ॥१५०॥
॥तृतीयो हंसमालापादः ॥
सुरुचिर्वज्रपाणेस्सुदृशो मन्दहासः ।
हरतान्मोहमूलं हृदयस्थं तमो मे ॥१५१॥
अमृतं सङ्किरन्त्या प्रसरन्त्येह दृष्ट्या ।
सुरराज्ञी बलाढ्यां भरतक्ष्मां करोतु ॥१५२॥
अमृताम्भः किरन्ती करुणाम्भो वहन्ती ।
नतरक्षात्तदीक्षा शचि मातस्तवेक्षा ॥१५३॥
कृतपीयूषवृष्टिस्ततकल्याणसृष्टिः ।
विहितैनोविनष्टिर्धृतविज्ञानपुष्टिः ॥१५४॥
भृतदेवेन्द्रतुष्टिर्यमिनां देवगृष्टिः ।
मम काम्यानि देयात्तव विश्वाम्ब दृष्टिः ॥१५५॥
जगतां चक्रवर्तिन्यसितस्ते कटाक्षः ।
जलदो भक्तिभाजां शिखिनां नर्तनाय ॥१५६॥
सुकृती कोऽपि नाट्ये बहुले तत्र मातः ।
जगते सारभूतानुपदेशान्करोति ॥१५७॥
अपरो नव्यकाव्यान्यनवद्यानि धन्यः ।
विदधात्यप्रयत्नाद्बुधभोगक्षमाणि ॥१५८॥
इतरो भाग्यशाली रमणीयैः प्रसङ्गैः ।
वितनोति स्वजातिं जगति श्रेष्ठनीतिम् ॥१५९॥
जगतां मातरेको महसा पुण्यशाली ।
विधुतारिः स्वदेशं कुरुते वीतपाशम् ॥१६०॥
पर इन्द्राणि साधुर्बत विस्मृत्य विश्वम् ।
रमते सिक्तगण्डः प्रमदाश्रुप्रदानैः ॥१६१॥
तव रागार्द्रदृष्ट्या दिवि शक्रस्य नाट्यम् ।
करुणासिक्तदृष्टया भुवि भक्त्स्य नाट्यम् ॥१६२॥
तव सप्रेमदृष्टिर्बलमिन्द्रे दधाति ।
तव कारुण्यदृष्टिर्बलमस्मासु धत्ताम् ॥१६३॥
तव वामाः कटाक्षाः प्रभुमानन्दयन्तु ।
उचितो दक्षिणानामयमस्त्वीक्षणानाम् ॥१६४॥
सुकृतानां प्रपोषं दुरितानां विशोषम् ।
करुणार्द्रा विभान्ती तव दृष्टिः क्रियान्नः ॥१६५॥
कुरु पादाब्जबन्धोः सरणिं निस्तमस्काम् ।
शचि विज्ञानतेजः किरतावीक्षितेन ॥१६६॥
क्रिययाराधयन्तो भुवने ते विभूतीः ।
इह केचिल्लभन्ते तव मातः कटाक्षान् ॥१६७॥
स्फुटविज्ञानपूर्वं प्रभजेरन् यदि त्वाम् ।
स्थिरया देवि भक्त्या किमु वक्तव्यमीशे ॥१६८॥
कुविधेर्विस्मरन्ती भरतक्ष्मा शचि त्वाम् ।
बहुकालादभाग्ये पतिता देव्ययोग्ये ॥१६९॥
अभिषिक्त्स्य माता तव तेजोंशभूता ।
सुदशां सेवमानामनयत्पश्चिमाशाम् ॥१७०॥
अयि कालं कियन्तं दयसे पश्चिमस्याम् ।
इत इन्द्राणि पूर्वामवलोकस्व दीनाम् ॥१७१ ॥
न वयं पश्चिमस्याश्शचि याचामनाशम् ।
कृपयैतां च पूर्वां निहताशामवाशाम् ॥१७२॥
सकलं व्यर्थमासीदयि दीनेषु दृष्टा ।
तव विश्वस्य मातः करुणैकावशिष्टा ॥१७३॥
सुरराजस्य कान्ते नरसिंहस्य सूनुम् ।
बलवन्तं कुरु त्वं भरतक्ष्मावनाय ॥१७४॥
रुचिराभिर्निजाभिर्गतिभिर्हर्षयन्तु ।
मरुतां भर्तुरेतास्तरुणीं हंसमालाः ॥१७५॥
॥चतुर्थो मधुमतीपादः ॥
दिशि दिशि प्रसरद्रुचितमोदमनम् ।
हरतु मे दुरितं हरिवधूहसितम् ॥१७६॥
हरतु दुःखभरप्रसृतमश्रुजलम् ।
भरतभूसुदृशो बलजितो रमणी ॥१७७॥
अतितरां महिता सुरपतेर्वनिता ।
करुणया कलिता मम शची शरणम् ॥१७८॥
त्रिभुवनक्षितिराड्भुवनभूषणभा ।
अखिलभासकभा मम शची शरणम् ॥१७९॥
सततयुक्तसुधीहृदयदीपकभा ।
निखिलपाचकभा मम शची शरणम् ॥१८०॥
रविविरोचकभा शशिविराजकभा ।
भगणशोभकभा मम शची शरणम् ॥१८१॥
गगनखेलकभा सकलचालकभा ।
अभयदाऽतिशुभा मम शची शरणम् ॥१८२॥
रुचिलवङ्गतया यदनघांशुनिधेः ।
हृततमोभवनं भवति दीपिकया ॥१८३॥
स्फुरति चारु यतः किरणमेकमिता ।
जलदसौधतले मुहुरियं चपला ॥१८४॥
भवति यद्द्युतितः कमपि भागमितः ।
पविररातिहरः प्रहरणेशपदम् ॥१८५॥
भवति यत्सुरुचेरणुतमांशमिता ।
युवमनोमदनी सुवदनास्मितभा ॥१८६॥
विततसूक्ष्मतनुर्महति सा गगने ।
परमपूरुषभा मम शची शरणम् ॥१८७॥
अमरनाथसखी रुचिनिधानमुखी ।
अमृतवर्षकदृङ् मम शची शरणम् ॥१८८॥
अविधवा सततं युवतिरेव सदा ।
अनघवीरसुता मम शची शरणम् ॥१८९॥
अमृतवत्यधरे सुरधरापतये ।
चरणयोर्भजते मम शची शरणम् ॥१९०॥
स्मितलवेषु सिता शिरसिजेष्वसिता ।
चरणयोररुणा बहिरपि त्रिगुणा ॥१९१ ॥
कपटचन्द्रमुखी प्रकृतिरिन्द्रसखी ।
मृतिजरारहिता मम शची शरणम् ॥१९२ ॥
कृशतमेप्युदरे त्रिभुवनं दधती ।
जनिमतां जननी मम शची शरणम् ॥१९३ ॥
स्थिरतरा मनसि स्थिरतमा वचसि ।
नयनयोस्तरला मम शची शरणम् ॥१९४॥
मृदुतरा करयोर्मृदुतमा वचसि ।
भुजबले कठिना मम शची शरणम् ॥१९५॥
मृदुलबाहुलताऽप्यमितभीमबला ।
असुरदर्पहरी मम शची शरणम् ॥१९६॥
अबलयाऽपि यया न सदृशोऽस्ति बले ।
जगति कश्चिदसौ मम शची शरणम् ॥१९७॥
अतितरां सदया पदरते मनुजे ।
खलजने परुषा मम शची शरणम् ॥१९८॥
गणपतिं कुरुताद्भरतभूम्यवने ।
अमरभूमिपतेः प्रियतमा सबलम् ॥१९९॥
मधुरशब्दततीर्मधुमतीरजरा ।
गणपतेश्शृणुयात्सुरपतेस्तरुणी ॥२००॥
॥द्वितीयमौष्णिहं शतकं समाप्तम् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP