इन्द्राणीसप्तशती - तृतीयमानुष्टुभं शतकम्
‘ इन्द्राणीसप्तशती ’ गाथेचा पाठ केल्याने इंद्राची स्तुती केल्याचे पुण्य मिळते.
॥प्रथमः पथ्यावक्त्रपादः ॥
हसितं तन्महाशक्तेरस्माकं हरतु भ्रमम् ।
यत एव महच्चित्रं विश्वमेतद्विजृम्भते ॥२०१॥
राजन्ती सर्वभूतेषु सर्वावस्थासु सर्वदा ।
माता सर्गस्य चित्पायात् पौलोमी भारतक्षितिम् ॥२०२॥
धर्मिज्ञानं विभोस्तत्त्वं धर्मो ज्ञानं सवित्रि ते ।
व्यवहृत्यै विभागोऽयं वस्त्वेकं तत्त्वतो युवाम् ॥२०३॥
इन्द्रेशवासुदेवाद्यैः पदैः सङ्कीत्र्यते विभुः ।
शची शिवा महालक्ष्मीप्रमुखैर्भवती पदैः ॥२०४॥
अन्तरं वस्तुनो ज्ञातृ तच्छक्तं परिचक्षते ।
शाखाः समन्ततो ज्ञानं शक्तिं सङ्कीर्तयन्ति ताम् ॥२०५॥
अन्तरस्य च शाखानामैक्यं निर्विषयस्थितौ ।
विषयग्रहणेष्वेव सविभागः प्रदृश्यते ॥२०६॥
स्यादेवं विषयापेक्षी शाखानामन्तरस्य च ।
अविभक्तैकरूपाणां विभागो हरितामिव ॥२०७॥
लक्ष्यमन्तर्वयं चक्रे ध्यायामो यत्र निष्ठिताः ।
अन्तरीभावतस्तस्य नान्तरं तु विलक्षणम् ॥२०८॥
अहङ्कृतेर्वयं नान्ये यत्राहङ्कृतिसम्भवः ।
सम्पद्येतान्तरं तत्र ज्ञानस्य ज्ञातृतावहम् ॥२०९॥
अन्तरावर्तभूयस्त्वादेकस्मिन् बोधसागरे ।
बोद्धारो बहवोऽभूवन् वस्तु नैव तु भिद्यते ॥२१०॥
चिद्रूपे मातरेवं त्वं परस्माद्ब्रह्मणो यथा ।
न देवि देवतात्मभ्यो जीवात्मभ्यश्च भिद्यसे ॥२११॥
समस्तभूतबीजानां गूढानामन्तरात्मनि ।
तवोद्गारोऽयमाकाशो मातस्सूक्ष्मरजोमयः ॥२१२॥
न सर्वभूतबीजानि वस्तूनि स्युः पृथक् पृथक् ।
त्वयि प्रागविभक्तानि बभूवुरिति विश्रुतिः ॥२१३॥
यथाम्बस्मृतिबीजानां प्रज्ञायामविशेषतः ।
तथा स्याद्भूतबीजानामविभक्त्स्थितिस्त्वयि ॥२१४॥
नाणूनि भूतबीजानि प्राक्सर्गात्त्वयि संस्थितौ ।
चितिशक्त्यात्मकान्येव निराकाराणि सर्वथा ॥२१५॥
अनादि चेदिदं विश्वं स्मरण्णात्तव सर्जनम् ।
सादि चेदादिमः सर्गो वक्त्व्यस्तव कल्पनात् ॥२१६॥
विधातुं शक्नुयात्संविदभूतस्यापि कल्पनम् ।
कल्पितस्यैकदा भूयः सर्जनावसरे स्मृतिः ॥२१७॥
चितेरस्मादृशां वीर्यं स्वप्ने चेद्विश्वकारणम् ।
चितेस्समष्टिभूतायाः प्रभावे संशयः कुतः ॥२१८॥
मातस्समष्टिचिद्रूपे विभूतिर्भुवनं तव ।
इह व्यष्टि शरीरेषु भान्ती तदनुपश्यसि ॥२१९॥
त्वं बह्म त्वं पराशक्तिस्त्वं सर्वा अपि देवताः ।
त्वं जीवास्त्वं जगत्सर्वं त्वदन्यन्नास्ति किञ्चन ॥२२०॥
सती चिदम्ब नैव त्वं भावाभावविलक्षणा ।
शक्तिशक्तिमतोर्भेददर्शनादेष विभ्रमः ॥२२१॥
तवाम्ब जगतधास्य मृत्तिकाघटयोरेव ।
सम्बन्धो वेदितव्यः स्यान्न रज्जौफणिनोरिव ॥२२२॥
त्वं शक्तिरस्यविच्छिन्ना भावैरात्मविभूतिभिः ।
अन्तरास्तु महेन्द्रस्य शक्त्स्य प्रतिबिम्बवत् ॥२२३॥
शक्तिर्गणपतेः काये प्रवहन्ती सनातनी ।
भारतस्य क्रियादस्य बाध्यमानस्य रक्षणम् ॥२२४॥
इमानि तत्त्ववादीनि वासिष्ठस्य महामुनेः ।
पथ्यावक्त्रणि सेवन्तामनन्तामभवां चितिम् ॥२२५॥
॥द्वितीयो माणवकपादः ॥
शक्त्तमा शक्रवधू हासविभा मे हरतु ।
मानसमार्गावरकं जेतुमशक्यं तिमिरम् ॥२२६॥
भारतभूपद्मदृशो दुर्दशया क्षीणतनोः ।
बाष्पमजस्रं विगलद्वासवभामा हरतु ॥२२७॥
दण्डितरक्षोजनता पण्डितगीतावनिता ।
मण्डितमाहेन्द्रगृहा खण्डितपापा जयति ॥२२८॥
सद्गुणसम्पत्कलितं सर्वशरीरे ललितम् ।
देवपतेः पुण्यफलं पुष्यतु मे बुद्धिबलम् ॥२२९॥
हासविशेषैरलसैर्दिक्षु किरन्त्यच्छसुधाम् ।
इन्द्रदृगानन्दकरी चन्द्रमुखी मामवतु ॥२३०॥
प्रेमतरङ्गप्रतिमैः शीतलदृष्टिप्रकरैः ।
शक्रमनोमोहकरी वक्रकचा मामवतु ॥२३१॥
गाढरसैश्चारुपदैर्गूढतरार्थैर्वचनैः ।
कामकरी वृत्रजितो हेमतनुर्मामवतु ॥२३२॥
मृत्युतनुः कालतनोर्विश्वपतेः पार्श्वचरी ।
प्रेतजगद्रक्षति या सा तरुणी मामवतु ॥२३३॥
प्रेतजगत्केचिदधो लोकमपुण्यं ब्रुवते ।
शीतरुचेर्देवि परो नेतरदेतद् वदति ॥२३४॥
भूरियमुर्वी वसुधा वारिजवैर्येषभुवः ।
स्वर्महसां राशिरसौ येषु नरप्रेतसुराः ॥२३५॥
राजतशैलं शशिनः केचिदभिन्नं ब्रुवते ।
मृत्युयमावेव शिवावीश्वरि तेषां तु मते ॥२३६॥
राजतशैलः पितृभूरोषधिराडेष यदि ।
काञ्चनशैलः सुरभूर्बन्धुरसौ वारिरुहाम् ॥२३७॥
पावय भूमिं दधतः पावककायस्य विभोः ।
भामिनि भावानुगुणे सेवकमग्नायि तव ॥२३८॥
यस्य यमो भूतपतिर्बुद्धिमतस्तस्य मते ।
आग्निरुपेन्द्रो मघवा काञ्चनगर्भो भगवान् ॥२३९॥
यस्य महाकालवधूर्मृत्युरपि द्वे न विदः ।
त्वं शचि मेधाऽस्यमते पावकशक्तिः कमला ॥२४०॥
नामसु भेदोऽस्तु धियामीश्वरि निष्कृष्टमिदम् ।
सूर्यधरेन्दुष्वजरे त्वं त्रितनुर्भासि परे ॥२४१॥
सात्त्विकशक्तिः सवितर्यादिमरामे भवसि ।
राजसशक्तिर्भुवि नस्तामसशक्तिः शशिनि ॥२४२॥
सर्वगुणा सर्वविभा सर्वबला सर्वरसा ।
सर्वमिदं व्याप्य जगत्कापि विभान्ती परमा ॥२४३॥
व्योमतनुर्निर्वपुषो देवि सतस्त्वं दयिता ।
अस्यभियुक्तैर्विबुधैरम्ब महेश्वर्युदिता ॥२४४॥
सा खलु माया परमा कारणमीशं वदताम् ।
सा प्रकृतिः साङ्ख्यविदां सा यमिनां कुण्डलिनी ॥२४५॥
सा ललिता पञ्चदशीमुत्तमविद्यां जपताम् ।
सा खलु चण्डी जननी साधुनवार्णं भजताम् ॥२४६॥
सा मम शच्याः परमं कारणरूपं भवति ।
कार्यतनुर्दिवि शक्रं सम्मदयन्ती लसति ॥२४७॥
व्योमतनोः सर्वजगच्चालनसूत्रं तु वशे ।
निर्वहणे तस्य पुनर्दिव्यतनुस्त्रीत्रितयम् ॥२४८॥
पातुमिमं स्वं विषयं हन्त चिरान्निर्विजयम् ।
किङ्क्रमीशे विभयं मां कुरु पर्यार्शियम् ॥२४९॥
चारुपदक्रीडनकैर्मातरिमैर्माणवकैः ।
चेतसि ते देवनुते प्रीतिरमोघा भवतु ॥२५०॥
॥तृतीयश्चित्रपदापादः ॥
अप्यलसो हरिदन्तध्वान्तततेरपि हर्ता ।
अस्तु ममेन्द्रपुरन्ध्री हासलवः शुभकर्ता ॥२५१॥
पाहि परैर्हृतसारां नेत्रगलज्जलधाराम् ।
भारतभूमिमनाथां देवि विधाय सनाथाम् ॥२५२॥
चालयता सुरराजं पालयता भुवनानि ।
शीलयता नतरक्षां कालयता वृजिनानि ॥२५३॥
लालयता मुनिसङ्घं कीलयता दिवि भद्रम् ।
पावय मां सकृदीशे भासुरदृक्प्रसरेण ॥२५४॥
सर्वरुचामापि शालां त्वां शचि मङ्गललीलाम् ।
कालकचामुत कालीं पद्ममुखीमुत पद्माम् ॥२५५॥
यः स्मरति प्रतिकल्यं भक्तिभरेण परेण ।
तस्य सुरेश्वरि साधोरस्मि पदाब्जभुजिष्यः ॥२५६॥
यस्तव नामपवित्रं कीर्तयते सुकृती ना ।
वासवसुन्दरि दासस्तच्चरणस्य सदाऽहम् ॥२५७॥
पावकसागरकोणं यस्तव पावनयन्त्रम् ।
पूजयति प्रतिघस्रं देवि भजामि तदङ्ध्रिम् ॥२५८॥
यस्तव मन्त्रमुदारप्राभवमागमसारम् ।
पावनि कूर्चमुपास्ते तस्य नमध्रणाय ॥२५९॥
शान्तधियेतरचिन्तासन्ततिमम्ब विधूय ।
चिन्तयतां तव पादावस्मि सतामनुयायी ॥२६०॥
शोधयतां निजतत्त्वं साधयतां महिमानम् ।
भावयतां चरणं ते देवि पदानुचरोऽहम् ॥२६१॥
योऽनुभवेन्निजदेहे त्वामजरे प्रवहन्तीम् ।
सन्ततचिन्तनयोगात्तस्य नमामि पदाब्जम् ॥२६२॥
बोधयते भवतीं यः प्राणगतागतदर्शी ।
कुण्डलिनीं कुलकुण्डात्तं त्रिदिवेश्वरि वन्दे ॥२६३॥
लोचनमण्डलसौधां लोकनमूलविचारी ।
विन्दति यः परमे त्वां वन्दनमस्य करोमि ॥२६४॥
मानिनि जम्भजितस्त्वां मानसमूलवितर्की ।
वेदहृदम्बुरुहे यः पादममुष्य नमामि ॥२६५॥
अन्तरनादविमर्शी पश्यति यः सुकृती ते ।
वैभवमम्ब विशुद्धे तेन वयं परवन्तः ॥२६६॥
इन्द्रपदस्थितचित्तश्शीर्षसुधारसमत्तः ।
यो भजते जननि त्वां तच्चरणं प्रणमामि ॥२६७॥
रासनवारिणि लग्नः सम्मदवीचिषु मग्नः ।
ध्यायति यः परमे त्वां तस्य पदं मम वन्द्यम् ॥२६८॥
त्वां सदहञङ्कृतिरूपां योगिनुते हतपापाम् ।
धारयते हृदये यस्तस्य सदाऽस्मि विधेयः ॥२६९॥
धूतसमस्तविकल्पो यस्तव पावनलीलाम् ।
शोधयति स्वगुहायां तस्य भवाम्यनुजीवी ॥२७०॥
यो भजते निजदृटिं रूपपरिग्रहणेषु ।
कामपि देवि कलां ते तस्य पदे निपतेयम् ॥२७१॥
कर्मणि कर्मणि चेष्टामम्ब तवैव विभूतिम् ।
यः शितबुद्धिरुपास्ते तत्पदमेष उपास्ते ॥२७२॥
वस्तुनि वस्तुनि सत्तां यो भवतीं समुपास्ते ।
मातरमुष्य वहेयं पादयुगं शिरसाऽहम् ॥२७३॥
पातुमिमं निजदेशं सर्वदिशासु सपाशम् ।
अम्ब विधाय समर्थं मां कुरु देवि कृतार्थम् ॥२७४॥
चित्रपदाभिरिमाभिश्चित्रविचित्रचरित्रा ।
सम्मदमेतु मघोनः प्राणसखी मृगनेत्र ॥२७५॥
॥चतुर्थो नाराचिकापादः ॥
अन्तर्विधुन्वता तमः प्राणस्य तन्वता बलम् ।
मन्दस्मितेन देवताराज्ञी करोतु मे शिवम् ॥२७६॥
उत्थाप्य पुण्यसञ्चयं सम्मद्र्य पापसंहतिम् ।
सा भारतस्य सम्पदे भूयाद्बलारिभामिनी ॥२७७॥
लीलासखी बिडौजसस्स्वर्वाटिकासु खेलने ।
पीयुषभानुजिन्मुखी देवी शची विराजते ॥२७८॥
पक्षः परो मरुत्वतो रक्षः प्रवीरमर्दने ।
भामालि भासुरानना देवी शची विराजते ॥२७९॥
भीतिं निशाटसंहतेः प्रीतिं सुपर्वणां ततेः ।
ज्याटङ्कृतैर्वितन्वती देवी शची विराजते ॥२८०॥
देवेन्द्रशक्तिधारिणी शत्रुप्रसक्तिवारिणी ।
मौनीन्द्रमुक्तिकारिणी देवी शची गतिर्मम ॥२८१॥
सन्नस्वदेशदर्शनाद्भिन्नस्वजातिवीक्षणात् ।
खिन्नस्य संश्रितावनी देवी शची गतिर्मम ॥२८२॥
सङ्घे सहस्रधाकृते देशे निकृष्टतां गते ।
शोकाकुलस्य लोकभृद्देवी शची गतिर्मम ॥२८३॥
सा संविदोऽधिदेवता तस्यास्स्वरः परो वशे ।
सर्वं विधीयते तया तस्मात्परा मता शची ॥२८४॥
सा याति सूक्ष्ममप्यलं सा भाति सर्ववस्तुषु ।
सा माति खं च निस्तुलं तस्मात्परा मता शची ॥२८५॥
सा सर्वलोकनायिका सा सर्वगोलपालिका ।
सा सर्वदेहचालिका तस्मात्परा मता शची ॥२८६॥
यस्याः कृतिर्जगत्त्रयं या तद्बिभर्ति लीलया ।
यस्यां प्रयाति तल्लयं सा विश्वनायिका शची ॥२८७॥
धर्मे परिक्षयं गते याऽविश्य निर्मलं जनम् ।
तद्रक्षणाय जायते सा विश्वनायिका शची ॥२८८॥
वेधा ऋतस्य योदिता मन्त्रेण सत्यवादिना ।
बाधानिवारिणी सतां सा विश्वनायिका शची ॥२८९॥
यज्ञो यया विनीयते युद्धं तथा पृथग्विधभ् ।
तां देवराजमोहिनीं नारीं नुमः पुरातनीम् ॥२९०॥
यस्यास्सुतो वृषाकपिर्देवोऽसतां प्रशासिता ।
तां सर्वदा सुवासिनीं नारीं नुमः पुरातनीम् ॥२९१॥
यस्यास्समा नितम्बिनी काचिन्न विष्टपत्रये ।
तां नित्यचारु यौवनां नारीं नुमः पुरातनीम् ॥२९२॥
यच्चारुता न दृश्यते मन्दारपल्लवेष्वपि ।
तत्सुन्दराच्चसुन्दरं शच्याः पदाम्बुजं श्रये ॥२९३॥
यस्य प्रभा न विद्यते माणिक्यतल्ल्जेष्वपि ।
तद्भासुराच्च भासुरं शच्याः पदाम्बुजं श्रये ॥२९४॥
न स्यादघैस्तिरस्कृतो यच्चिन्तको नरः कृती ।
तत्पावनाच्च पावनं शच्याः पदाम्बुजं श्रये ॥२९५॥
राजन्नखेन्दुभानुभिस्सर्वं तमो विधुन्वते ।
बृन्दारकेन्द्रसुन्दरीपादाम्बुजाय मङ्गलम् ॥२९६॥
गीर्वाणमौलिरीभा सङ्क्षालिताय दीप्यते ।
स्वर्गाधिनाथभामिनिपादाम्बुजाय मङ्गलम् ॥२९७॥
बालार्कबिम्बरोचिषे योगीन्द्र हृद्गुहाजुषे ।
पाकारिजीवितेश्वरीपादाम्बुजाय मङ्गलम् ॥२९८॥
आत्मीयदेशरक्षणे शक्तं करोतु सर्वथा ।
पापद्विषां प्रियङ्करी वासिष्ठमिन्द्रसुन्दरी ॥२९९॥
वासिष्ठवाक्प्रदीप्तिर्भिनाराचिकाभिरीश्वरी ।
गीर्वाणचक्रवर्तिनस्सम्मोदमेतु सुन्दरी ॥३००॥
॥तृतीयमानुष्टुभं शतकं समाप्तम् ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP